०२ सर्व-संवादिनी

भगवत्-सन्दर्भानुव्याख्या

[४५] सर्व-संवादिनी: अथ पञ्च-चत्वारिंशस्य वाक्यस्य व्याख्यान्ते इदं विचार्यम्—यत् यस्य तस्य श्री-विग्रहस्य परिच्छिन्नत्वेऽप्य् अपरिच्छिन्नत्वं श्रूयते, तच् च युक्तम्, अचिन्त्य-शक्तित्वात्, सर्वेषां विभुत्वादि-परम-शक्तीनाम् एकाश्रयत्वाच् च । यथैव हि श्री-कृष्ण-विग्रहम् अधिकृत्योज्जगौ मूलेऽपि, यथा च दहराकाश-संज्ञस्य परमेश्वरस्य, तथा हि, दहरं पुण्डरीकं वेश्म दहरेऽस्मिन्न् अन्तराकाशः [छा।उ। ८.१.१] इत्य् उक्त्वोच्यते, यावान् वा अयम् आकाशस् तावान् एषोऽन्तर्-हृदय अकाशः [छा।उ। ८.१.३] इति । दृष्टान्तश् चायम् इषुवद् गच्छति सवितेतिवद् अत्यन्तं महत्त्वम् एव निर्दिशति ।

वाक्यान्तराणि च—ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षात् [छा।उ। ३.१४.३] इति, उभे अस्मिन् द्याव्-आपृथिवी अन्तर् एव समाहिते उभाव् अग्निश् च वायुश् च सूर्याचन्द्रमसाव् उभौ विद्युन् नक्षत्राणि यच् चास्येहास्ति यच् च नास्ति सर्वं तद् अस्मिन् समाहितम् इति [छा।उ। ८.१.३] इति च ।

अत्र यावता हृदय-पुण्डरीकान्तर्वर्तित्वं भावता एव सर्व-व्यापकत्वम् अचिन्त्यां शक्तिं विना न सम्भवति । नहि घट-वर्त्य्-आकाशो यावान् तावत्य् एव चन्द्र-सूर्याद्य्-आधारत्वं युज्यते इति । न च हृत्-पुण्डरीके ब्रह्मणः प्रतिबिम्बत्वात् सर्व-समावेशः सम्भावीति । विभोः परिच्छिन्नोपाधौ सामस्त्येन प्रतिबिम्बत्वम् अदृष्ट-चरम् ।

न हि घटादाव् आकाशं सामस्त्येन प्रतिबिम्बत्वम् आपद्येतेति । तस्माद् अचिन्त्यैव शक्तिर् योगमायाख्या तत्राभ्युपगमनीया । एवम् एवैकैर् ब्रह्म-सूत्रेषु वैश्वानराख्यस्य प्रादेश-मात्रत्वेन श्रुतस्य परम-पुरुषस्य विचारे सिद्धान्तितम् । सम्पत्तेर् इति1 जैमिनिस् तथा हि दर्शयति [वे।सू। १.२.३२], यथा सम्पत्तिर् अचिन्त्यैश्वर्यं श्रुतिश् च तथा2 दर्शयति—यस् त्व् एतम् एवं प्रादेश-मात्रम् अभिविमानम् आत्मानं वैश्वानरम् उपास्ते [छा।उ। ५.१८.१] इति । मितत्वेन सर्वतो विगतमानत्वेन च दर्शनात् । तत्रैव, प्रादेश-मात्रे तस्या ह वा एतसात्मनो वैश्वानरस्य मूर्धैव सुतेजाश् चक्षुर् विश्व-रूपः [छा।उ। ५.१८.२] इत्य्-आदिना त्रैलोक्य-समावेशनाच् चेति ।

अथ श्री-विग्रह-प्रसङ्गे सूत्र-चतुष्टयस्य माध्व-भाष्ये, यथा—अरूपवद् एव हि तत्-प्रधानत्वात् [वे।सू। ३.२.१४], इति । अस्य सूत्रस्य भाष्यं, यथा—प्रकृत्य्-आदि-प्रवर्तकत्वेन तद्-उत्तमत्वान् नैव रूपवद् ब्रह्म हि, शब्दाद् अस्थूलम् अनणु [बृ।आ।उ। ३.८.८] इत्य्-आदि-श्रुतेश् च ।

भौतिकानीह रूपाणि भूतेभ्योऽसौ परो यतः ।
अरूपवान् अतः प्रोक्तः क्व तद् अव्यक्ततः परः ॥ इति च मात्स्ये ।

प्रकाशवच् चावैयर्थ्यात् [वे।सू। ३.२.१५] इति । भाष्यं—

यदा पश्यः पश्यते रुक्म-वर्णं [मु।उ। १.३], श्यामाच् छबलं प्रपद्ये [छा।उ। ८.१३.१] सुवर्ण-ज्योतिः [तै।उ। ३.१०.६] इत्य्-आदि-श्रुतिनां च न वैयर्थ्यं विलक्षण-रूपत्वात्, यथा चक्षुर्-आदि-प्रकाशे विद्यमानेऽपि वैलक्षण्याद् अप्रकाशत्वादि-व्यवहारः॥

आह च तन्-मात्रं [वे।सू। ३.२.१६] इति । भाष्यम्—वैलक्षण्यं चोच्यते—

आनन्द-मात्रम् अजरं पुराणं
एकं सन्तं बहुधा दृश्यमानम् ।
तम् आत्म-स्थं ये तु पश्यन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥ [श्वे।उ। ६.१२] इति चतुर्वेद-शिखायाम् ॥

दर्शयति चाथो अपि स्मर्यते [वे।सू। ३.२.१७] इति । भाष्यम्—दर्शयति चानन्द-स्वरूपम्—तद्-विज्ञानेन परिपश्यन्ति धीरा आनन्द-रूपम् अजरं यद् विभाति [मु।उ। २.२.७] इति श्रुतिः ।

शुद्ध-स्फटिक-सङ्काशं वासुदेवं निरञ्जनः ।
चिन्तयीत यतिर् नान्यं ज्ञान-रूपाद् ऋते हरेः ॥ इति मात्स्य इति ।

अत्र, आनन्दं ब्रह्मणो रूपं भेद-निर्देशश् च श्रूयते । तथा माध्व-भाष्य एवोदाहृतं श्रुत्य्-अन्तरं च—

सद्-देहः सुख-गन्धश् च ज्ञानभाः सत्-पराक्रमः ।
ज्ञान-ज्ञानः सुखी मुख्यः स विष्णुः परमाक्षरः ॥ इति ।

श्री-रामानुज-चरणाश् चैवं वदन्ति—अन्तस् तद्-धर्मोपदेशात् [वे।सू। १.१.२०] इत्य् अत्र भाष्यम्—

परस्येव ब्रह्मणो निखिल-हेय प्रत्यनीकानन्त-ज्ञानानन्दैक-स्वरूपतया सकलेतर-विलक्षणस्य स्वाभाविकानतिशयासङ्ख्येय-कल्याण-गुण-गणाश् च सन्ति । तद्वद् एव स्वाभिमतानुरूपैक-रूपाचिन्त्य-दिव्याद्भुत-नित्य-निरवद्य-निरतिशयौज्ज्वल्य-सौन्दर्य-सौगन्ध-सौकुमार्य-लावण्य-यौवनाद्य्-अनन्त-गुण-निधि दिव्य-रूपम् अपि स्वाभाविकम् अस्ति । तद् एवोपासकानुग्रहेण तत्-तत्-प्रतिपत्त्यानुरूप-संस्थानं करोत्य् अपार-कारुण्य-सौशील्य-वात्सल्यौदार्य-जलनिधि-निरस्ताखिल-हेय-गन्धोपहत-पाप्मा परं ब्रह्म पुरुषोत्तमो नारायण इति ।
यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१], सद् एव सोम्येदम् अग्र आसीत् [छा।उ। ६.२.१], आत्मा वा इदम् एक एवाग्र आसीत् [ऐ।उ। १.१.१], एको हि वै नारायण आसीत्, न ब्रह्मा नेशानः [महा।उ। १.१] इत्य्-आदिषु निखिल-जगद्-एक-कारणतयावगतस्य परस्य ब्रह्मणः, सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।आ। १], विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ५.९.१८] इत्य्-आदिष्व् एवम्भूतं स्वरूपम् इत्य् अवगम्यते । निर्गुणं [आत्मोपनिषत्], निरञ्जनं [श्वे।उ। ६.१९], अपहत-पाप्मा विजरो विमृत्युर् विशोको विज्घंसोऽपिपासः सत्य-कामः सत्य-सङ्कल्पः [छा।उ। ८.५.१] ॥
न तस्य कार्यं करणं च विद्यते
न तत्-समश् चाभ्यधिकश् च दृश्यते ।
परास्य शक्तिर् विविधैव श्रूयते
स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे।उ। ६.८]
तम् ईश्वराणां परमं महेश्वरं
तं देवतानां परमं च दैवतम् ।
पतिं पतीनां परमं परस्ताद्
विदाम देवं भुवनेशम् ईड्यम् ॥ [श्वे।उ। ६.७],
सर्वाणि रूपाणि विचिन्त्य धीरो
नामानि कृत्वाभिवदन् यदास्ते ।
वेदाहम् एतं पुरुषं महान्तम्
आदित्य-वर्णं तमसः परस्तात् ॥ [यजुः ३.१२]
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि [तै।नारा। १] इत्य्-आदिषु परस्य ब्रह्मणः प्राकृत-हेय-गुणान् प्राकृत-हेय-देह-सम्बन्धं तन्-मूल-कर्म-वश्यता-सम्बन्धं च प्रतिषिध्य कल्याण-गुणान् कल्याण-रूपं च वदन्ति ।
तद् इदं स्वाभाविकम् एव रूपम् उपासकानुग्रहेण तत्-प्रतिपत्त्य्-अनुगुणाकारं देव-मनुष्यादि-संस्थानं करोति स्वेच्छयेव परम-कारुणिको भगवान् । तद् इदम् आह श्रुतिः—अजायमानो बहुधा विजायते इति । स्मृतिश् च—अजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन् [गीता ४.६] इति । न परित्राणाय साधूनाम् इत्य्-आदि, साधवो ह्य् उपासकाः । तत्-परित्राणम् एवोद्देश्यम् आनुषङ्गिकस् तु दुष्कृतां विनाशः । सङ्कल्प-मात्रेण तद्-उत्पत्तेः । प्रकृतिं स्वाम् अधिष्ठाय इत्य्-आदि । प्रकृतिं स्वाम् इति प्रकृतिः स्वभावः । स्वम् एव स्वभावम् आस्थाय न संसारिणं स्वभावम् इत्य् अर्थः ।
आत्मना ययेति स्व-सङ्कल्प-रूपेण ज्ञानेनेत्य् अर्थः । माया वयूनं ज्ञानं [वेद-निर्घण्टौ धर्म-वर्गे २२] इति ज्ञान-पर्यायम् अपि माया-शब्दं निर्घण्टुका अधीयते । आह च भगवान् पराशरः—
समस्ताः शकयश् चैतान् आपुर् यत्र प्रतिष्ठिताः ।
तद् विश्व-रूप-वैरूप्यं रूपम् अन्यद् धरेर् महत् ॥
समस्त-शक्ति-रूपाणि तत् करोति जनेश्वर ।
देव-तिर्यङ्-मनुष्याख्या चेष्टावन्ति स्व-लीलया ।
जगताम् उपकाराय न सा कर्म-निमित्तजा ॥ [वि।पु। ६.९.९०] इति ।
महाभारते चावतार-रूपस्याप्य् अप्राकृतत्वम् उच्यते—न भूत-सर्व्गात्म-संस्थानो देहोऽस्य परमात्मनः इति महाभारते उद्योग-पर्वणि । अतः परस्यैव ब्रह्मण एवं-रूप-रूपवत्त्वाद् अयम् अपि तस्यैव धर्मः [श्री-भाष्य २.१.२०] इति ॥

तत्र तैर् अपि विश्वरूपाद् वैलक्षण्यवत्त्वेन स्वरूपान्तरङ्ग-धर्मत्वेन स्वरूपान्तरङ्ग-धर्माणां तत्-तद्-अव्यव-सन्निवेशानां स्वरूपम् एव धर्मि भवेद् इत्य् एवं तद् एवायवी-देह इत्य् आगतत्वेन, युगपद् अपि समस्त-शक्ति-प्रादुर्भाव-कर्तृत्वेन च स्वरूपत्वम् एवाङ्गीकृतं, पूर्णत्वं च ।

ताश् च शक्तयो निजेच्छात्मक-स्वाभाविक-शक्तिमय्य इति तासाम् अपि तद्-रूपत्वं ध्वनितम् । अतः कर्तृत्वम् अप्य् अत्र प्रादुर्भावयितृत्वम् एव, न तु कल्पयितृत्वम् इति । तथा, मनो-मयः प्राण-शरीरो भा-रूपः सत्य-कामः सत्य-सङ्कल्पः आकाशात्मा सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रसः सर्वम् इदम् अभ्यात्तोऽवाक्यनादरः [छा।उ। ३.१४.२] इत्य् अपि ।

त इदम् आहुः—मनो-मयः परिशुद्धेन मनसैक्येन ग्राह्यः । प्राण-शरीरः इति जगति सर्वेषां प्राणानां धारकः । भा-रूपः भा-स्वरूपः । अप्राकृत-स्वासाधरण-निरतिशय-कल्याण-दिवा-रूपत्वेन निरतिशय-दीप्ति-युक्त इत्य् अर्थः । आकाशात्मा आकाशवत् सूक्ष्म-स्वच्छ-रूपं सकलेतर-कारणस्यात्म-भूत इति । आकाशात्मा स्वयं च प्रकाशतेऽस्यांश् च प्रकाशयतीति वाकाशात्मा । एवं सर्व-कर्मा क्रियते इति कर्म । सर्वं जगद् अस्य कर्म सर्वा वा क्रिया यस्यासौ सर्व-कर्मा । सर्व-कामः कामन्त्य इति कामा भोग्य-भोगोपकरणादयस् ते परि सर्व-विधास् तस्य सन्तीत्य् अर्थः । सर्व-गन्धः सर्व-रसः अशब्दम् अस्पर्शं [क।उ। १.३.१५] इत्य्-आदिना प्राकृत-गन्धादि-निषेधाद् अप्राकृतस्यासाधारणा निरवद्या निरतिशयाः कल्याणाः स्व-भोग्य-भूताः सर्व-विधा गन्ध-रसास् तस्य सन्तीत्य् अर्थः । सर्वम् इदम् अभ्यात्त उक्तम् इदं पर्यन्तं सर्वम् इदं कल्याण-गुण-जातं स्वीकृतवान् । अभ्यात्तः इति भुक्ता ब्राह्मणाः इतिवत् कर्तरि क्तः प्रतिपत्तव्यः । अवाकी वाग् उक्तिः सास्य नास्तीत्य् अवाकी । कुतः ? इत्य् आह—अनादरः । अवाप्त-समस्त-कामत्वेनादर्तव्याभावाद् आदर-रहितः । अत एवावाकी अजल्पाक इति ।

अत्र प्राण-शरीर इति प्राणवद् उपासकानां परम-प्रेष्ठ-शरीर इत्य् अर्थः इत्य् अपि । तथा प्राणयति सर्वम् इति प्राणं परं ब्रह्मैव शरीरं यस्य स इत्य् अर्थः । इत्य् अपि च व्याख्यानं घटते ॥

[९६] सर्व-संवादिनी: पृथिव्य्-आदि3 । अत्र यद् अण्डम् अण्डान्तर-गोचरं च इत्य्-आदि-पद्य एवं विवेचनीयम् । यद्यपि श्री-रामानुजीयैर् निर्विशेषं ब्रह्म न मन्यते, तथापि स-विशेषं मन्यमानैर् विशेषातिरिक्तं मन्तव्यम् एव । तच् च ब्रह्म-शब्देनोक्तं विशिष्ट-ब्रह्मणो गुण-भूतम् इति, सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता [तै।उ। २.१.१] इत्य् अत्र सह-शब्द-बलेन तैर् एव व्याख्यातम् । तच् चाग्रे मूल एव विवेचनीयम् ।

[९८] सर्व-संवादिनी: अथाष्टनवतितम-वाक्य-व्याख्यान्ते, स वा एष पुरुषोऽन्न-रस-मयः इत्य् आदिका श्रुतिर् विवृत्य व्याख्यायते, यथा—

स वा एष पुरुषोऽन्न-रस-मयः । तस्येदम् एव शिरः, अयं दक्षिणः पक्षः, अयम् उत्तर-पक्षः, अयम् आत्मा, इदं पुच्छं प्रतिष्ठा । [तै।उ। २.१]
तस्माद् वा एतस्माद् अन्न-रस-मयात् । अन्योऽन्तर आत्मा प्राण-मयः । तेनैष पूर्णः । स वा एष पुरुष-विध एव । तस्य पुरुष-विधताम् । अन्वयं पुरुष-विधः । तस्य प्राणम् एव शिरः, व्यानो दक्षिणः पक्षः, अपान उत्तरः पक्षः, आकाश आत्मा, पृथिवी पुच्छं प्रतिष्ठा । [तै।उ। २.२]
तस्यैष एव शारीर आत्मा । यः पूर्वस्य, तस्माद् वा एतस्मात् प्राण-मयाद् अन्योऽन्तर आत्मा मनो-मयः, तेनैष पूर्णः । स वा एष पुरुष-विध एव, तस्य पुरुष-विधताम् अन्वयं पुरुष-विधः, तस्य यजुर् एव शिरः, ऋग् दक्षिणः पक्षः, सामोत्तरः पक्षः, आदेश आत्मा, अथ सर्वाङ्गिरसः पुच्छं प्रतिष्ठा । [तै।उ। २.३]
तस्यैष एव शारीर आत्मा । यः पूर्वस्य, तस्माद् वा एतस्मान् मनो-मयाद् अन्योऽन्तर आत्मा विज्ञानमयः, तेनैष पूर्णः । स वा एष पुरुष-विध एव । तस्य श्रद्धैव शिरः, ऋतं दक्षिणः पक्षः, सत्यम् उत्तरः पक्षः, योग आत्मा, महः पुच्छं प्रतिष्ठा । [तै।उ। २.४]
तस्यैष एव शारीर आत्मा । यः पूर्वस्य, तस्माद् वा एतस्माद् विज्ञान-मयाद् अन्योऽन्तर आत्मा आनन्द-मयः, तेनैष पूर्णः । स वा एष पुरुष-विधताम् अन्वयं, पुरुष-विधः । तस्य प्रियम् एव शिरः, मोदो दक्षिणः पक्षः, प्रमोद उत्तरः पक्षः, आनन्द आत्मा, ब्रह्म पुच्छं प्रतिष्ठा । [तै।उ। २.५] इति ।

अयम् अर्थः—स वा-शब्दः प्रसिद्धौ निश्चये वा । एष मृज्-जलाग्नि-पिण्ड-लक्षणः पुरुषः अन्न-रस-मयः अन्न-रस-प्राचुर्यवान् । यद् वा, अन्न-रसो नामान्न-विकारः, तेन त्वग्-आदि-रूपः सर्वोऽपि तद्-विकारो गृह्यते । ततश् च जल-विकारादिभिर् ईषन्-मिश्रत्वात् तत्-प्रचुरः कैवल्याभावेनांशस्यैवान्न-रस-विकारत्वे सति संशिनस् तद्-विकारत्व-विवक्षानर्हत्वात् प्राण-मयादाव् अपि शुद्ध-वायु-विग्रहादीनां रूपान्तर-प्राप्तादर्शनात् पृथिव्य्-अभिमानि-देवतादि-लक्षणः पुच्छादीनां तद्-विकारत्वाभावात् । विकार-शब्दात् [वे।सू। १.१.१३] इत्य्-आदौ सूत्र-काराणाम् अस्वारस्यात् । नद्व्यचाश् इति निषेधाच् च, न तु तद्-विकार इति । इदं प्रसिद्धं शिर एव शिरः, न तूत्तरोत्तरत्रेवात्रापि कल्पना-मयम् ।

एवं पक्षादिष्व् अपि व्याख्येयम् । पक्षो बाहुः । उत्तरो वामः । मध्यम-देह-भाग आत्माङ्गानाम् । मध्यं ह्य् एषाम् आत्मा इति श्रुतेः । इदम् अपि नाभेर् अधस्तात् यद् अङ्गं तं पुच्छम् इव पुच्छम् अधो-लम्बन-साम्यात् । तद् एव च प्रकर्षेण तिष्ठत्य् अस्याम् इति प्रतिष्ठा आश्रयः । शाखा-चन्द्र-दर्शनवद् अन्तरतमत्व-ज्ञानार्थं लोक-प्रसिद्धम् आत्मानम् अनूद्य तस्यान्तरम् अन्तरात्मानं शास्त्र-प्रसिद्ध-साधनादि-क्रमेण प्रवेशयन् प्राण-मयादीन् अप्य् आह तत्र मनसो धारणार्थं तद्-आधारः प्राणो धार्य इति ।

प्रथमं प्राणमयम् आह—तस्माद् इति । अन्तरस् तद्-अपगमाद् अन्न-रस-मयस्य दृतेः एषोऽन्न-रस-मयस् तेन पूर्णो वायुनेव दृतिः, स च पुरुष-विधः पुरुषाकारः । कथं तस्य पूर्वस्यान्न-रसमयस्य पुरुष-विधताम् एव लक्षीकृत्य विशेषं बोधयितुम् अयम् अपि रूपक-कल्पितैः शिर-पक्षादिभिः पुरुषाकार एव वर्ण्यते इति ।

तद् एव रूपकं दर्शयति—तस्य प्राण-मयस्य प्राणं हृदि-स्थो वायुर् एव प्रथम-धार्यत्वेन शिरः कल्प्यते । एवं साधन-क्रमेणैव दक्षिण-पक्षत्वादि-क्रमो ज्ञेयः । आकाशः आकाश-स्थ-वृत्ति-विशेषः समानाख्यः, प्राण-वृत्त्य्-अधिकारात् । मध्य-स्थत्वादितरा पर्यन्त-वृत्तीर् अपेक्ष्यात्मा पृथिवी तद्-अभिमानिनी देवता आध्यात्मिकस्य प्राणस्य धारयित्री स्थिति-हेतुत्वात्, सैषां पुरुषस्यापानम् अवष्टभ्य [प्रश्न।उ। ३.८] श्रुत्य्-अन्तरात् ।

तस्य प्राण-मयस्य एष तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः इत्य् अत्रोपक्रान्त एवात्मा शारीर आत्मा तद्-रूप-शरीरान्तर्यामी । कथम्-भूतः ? यः पूर्वस्य अन्न-मयस्यापि शारीर आत्मा । एवं यः पूर्वस्य प्राण-मयस्य इत्य्-आदिकम् उत्तरत्रापि योज्यम् । यस्य पृथिवी शरीरं, यस्यापः शरीरं, यस्य तेजः शरीरं, यस्य वायुः शरीरं [बृ।आ।उ। ३.७.९] इत्य्-आद्य्-अन्तर्यामि-श्रुतेः ।

यत् त्व् आनन्द-मयास् तेऽपि तस्यैष एव शारीर आत्मेति श्रूयते तत् तु तस्यौपचारिक-भेद-निर्देशेनानन्यत्वम् एव बोधयति । नात्मान्तरं विज्ञान-मयाद् अन्योऽन्तर आत्मेतिवद् अन्या—प्रस्तावात् । प्राण-मयान्तोक्ते यः पूर्वस्येत्य् अत्रान्यैर् अपि तथाभ्युपगमात् । ततश् च एष पूर्वोक्त आनन्द-मय-तात्पर्यावसान-विवेक आत्मैव तस्य, शारीर आत्मा इति योज्यम् । एवं प्राण-धारणया मनो-वशं कृत्य तच् च मनो-वैदिक-निष्काम-कर्मात्मकतया धारणीयम् इत्य् आशयेन मनोमयम् आह—मनः सङ्कल्पाद्य्-आत्मकम् अन्तःकरणम् । यजुर् इति, अनियताक्षर-पाद-विशेषो मन्त्र-विशेषः । तज्-जाति-वचनोऽपि यजुः-शब्दः । तस्य शिरस्त्वं प्राथम्यात् यजुषा हि हविर् दीयते । एवम् ऋक्-सामयोर् अपि वैशिष्ट्यं4 ज्ञेयम् । आदेशोऽत्र ब्राह्मणः, आदेष्टव्य-विशेषान् निर्दिशति अस्यात्मत्वं प्रवर्तकत्वात् ।

अथर्वणा अङ्गिरसा दृष्टा मन्त्रा ब्राह्मणं च शान्त्य्-आदि-प्रतिष्ठा-हेतु-कर्म-प्राधानत्वात् पुच्छं प्रतिष्ठा । मनो-मयत्वं चैषां मनो-वृत्त्या वाविर्भावत्वेन तत्-प्राचुर्यात् । तद्-विकारत्वे तु पौरुषेयत्वापातः स्यात् ।

अत्र पारमार्थिक-पथस्यैव प्रकृतत्वात् व्यावहारिक-सङ्कल्पाद्य्-आत्मक-मनोमयत्वं न प्रयुज्यते । प्राण-धारणायाः पूर्वम् एव हि त्यक्तं तत् । एवम् उत्तरत्रापि ।

तथैव विज्ञानमयम् आह—श्रद्धा, अध्यात्म-शास्त्रे याथार्थ्य-प्रतीतिः । ऋतं शास्त्रार्थ-निश्चिता बुद्धिः । सत्यं तद्-अर्थानुभव-प्रयत्नः । योगो युक्तिः । समाधानं—आत्मा श्रद्धादीनाम् एतत् साक्षात्काराङ्गत्वात् । महः—तत्-तत्-सर्व-प्रकाश-हेतुत्वेनोत्तमतरं शुद्ध-जीव-रूपं यस्यैव प्रसिद्धेन विज्ञानात्मत्वेनास्य विज्ञान आत्मत्वेनास्य विज्ञान-मयत्वम् उच्यते । यो विज्ञाने तिष्ठन्, विज्ञानाद् अन्तरो यं विज्ञानं न वेद, यस्य विज्ञानं शरीरं [बृ।आ।उ। ३.७.२२] इति जीवान्तर्यामि-प्रतिपादक-श्रुतेः । अत्र स्थान एव—य आत्मनि तिष्ठन् [श।ब्रा। १४.६.७.३०] इत्य्-आदि-श्रुत्य्-अन्तरात् । प्रतिष्ठा तेषां सर्वेषाम् आश्रयः ।

तद् एवं शुद्ध-जीव-पर्यन्तम् उक्त्वा तथा तथा लब्धान्तराणां पुनः सर्वान्तरतमत्वेन तत्रैव पूर्वोपक्रान्त-मुख्यात्मत्वं पर्यवसाययन्—आनन्द-मयम् उपदिशति । एवं पूर्व-पूर्वं शास्त्रीय-परमार्थ-प्रक्रियैव लब्धा, न तु व्यवहारिकी । ततो नेष्ट-पुत्र-दर्शनजानन्दादिकं प्रियादिब्दैर् व्याख्येयं, किन्त्व् एकस्यैव परमानन्दस्य ब्रह्मण उत्तरोत्तरो दयोत्कर्ष-तारतम्यं, तत्-तन्-नाम-भेदः । आनन्दस्य सामान्यत्वेन प्रियादिषु व्याप्त्य्-अपेक्षया आत्मत्व-रूपकं ब्रह्मणस् तु सर्वोत्तरोदितत्वेन पुच्छत्व-रूपकम् इति ।

तद् एव च सर्वोत्कृष्टत्वात् प्रियादि-लक्षण-स्व-प्रकाश-विशेषाणाम् अन्न-मयादीनाम् अप्य् आश्रयः । एतद् एव प्रियादि-स्व-प्रकाश-विशेषवच् चेति । एतद् अप्य् उपलक्षणम्—तत्-तद्-अशेष-शक्ति-विशेषवच् चेत् तर्ह्य् आनन्द-मय आत्मेत्य् उच्यते । सोऽखण्डोऽपि पर-ब्रह्मैव तद् उक्तम् आनन्द-मयोऽभ्यासात् इति ।

ततस् तस्य तु तत्-तद्-विशेषवत्त्वे परमाखण्डत्वम् इति, ब्रह्मणो हि प्रतिष्ठाहं [गीता १४.२७] इत्य् एतद् गीतार्थोऽपि श्रुति-हृदय-गत एव बोद्धव्यः ।

[९९] सर्व-संवादिनी: अथ श्री-भगवतः पूर्ण-तत्त्वाकारत्व-निर्धारण-प्रकरणे एकोनशततमाद् वाक्यात् पूर्वत्र मोक्ष-धर्म-वचनानन्तरं श्री-मध्व-भाष्याद् एव तद्-आहार्याणि, यथा प्रथम-सूत्रे—

यम् अन्तः-समुद्रे कवयोऽवयन्ति
यद्-अक्षरे परमे प्रजाः ।
यतः प्रसूता जगतः प्रसूती

तोयेन जीवान् व्यससर्ज भूम्याम् ॥

इत्य् आरभ्य, तद् एव ब्रह्म परमं कवीनाम् इत्य्-अन्ता श्रुतिः, तथा—

यं कामये त्वं तम् उग्रं कृणोमि
तं ब्रह्माणं तम् ऋषिस् तं सुमेधाम् ॥ [ऋ।वे। १०.१२५.५]

इत्य् उक्त्वा, मम योनिर् अप्स्व् अन्तः इति शक्ति-वचनात्मक-श्रुतिः । अन्तस् तद्-धर्मोपदेशात् [वे।सू। १.१.२०] इत्य् अत्र च तद्-भाष्यम्—अन्तः श्रयमाणो विष्णुर् एव ।

अन्तः समुद्रे मनसा चरन्तं
ब्रह्मान्वविन्दद् दश-होतारम् अर्णे ।
समुद्रेऽन्तः कवयो विचक्षते
मरीचीनां पदम् इच्छन्ति वेधसः ॥ [तै।आ। ३.११.१]

यस्याण्ड-कोशं सूक्ष्मम् आहुः इत्य्-आदि-तद्-धर्मोपदेशात् । स हि प्रलय-समुद्र-शायी तस्य च विश्वम् अण्डा-कोशः ॥

सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यम् अवासृजत् ॥
तद् अण्डम् अभवद्द् हैमं सहस्रांशुसम-प्रभम् ।
तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥
आपो नरा इति प्रोक्ता आपो वै नरसूनवः ।
ता यद् अस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ [मनु १.८-१०] इति ।

—ओ)०(ओ—

[१०९] सर्व-संवादिनी: अथ नवोत्तर-शततमाङ्कम् आरभ्य ब्रह्मन् इत्य्-आदि-प्रकरणे विशेषः कश्चिद् दर्श्यते—ब्रह्म चेद् अवचनीयं भवति, तर्ह्य् अवचनीय-पदेनोच्यते इति वाच्यत्वम् एवायाति । तेनापि लक्ष्यते चेद् वस्तुतस् तद्वल् लक्ष्यं, लक्ष्य-गङ्गा-शब्दवत् तस्याप्य् अवचनीयत्वाभावे वचनीयत्वम् एव सिद्ध्यति ।

वचनीयत्वावचनीयत्वाभावे तु अनिर्वचनीयत्वापातः । स च मिथ्या इति “घट्ट-कुट्यां प्रभातं”+++([ ])+++5 एवं लक्ष्य-शब्देनोच्यते चेद् वचनीयत्व-सिद्धिः । लक्ष्यते चेल् लक्ष्यत्व-च्युतिः गङ्गा-शब्द-लक्ष्यस्यालक्ष्यत्ववल् लक्ष्य-शब्द-लक्ष्यस्यालक्ष्यत्वात् । द्वितीय-लक्ष्य-शब्देन तस्य लक्षत्वम् इति चेद् अनवस्थायाम् अपि लक्ष्य-पद-वाच्यत्वानतिक्रम एव स्यात् । एवं निर्विशेष-स्व-प्रकाश-परमार्थ-सद् इत्य्-आदि-शब्दैर् ब्रह्मोच्यते चेद् वाच्यत्व-सिद्धिः । न च तैर् अपि लक्ष्यते—तत्-तच्-छब्द-मुख्यार्थस्यान्यस्याभावात् । नित्विशेषादि-शब्दानां विशेषाभाव-विशिष्टं वा तद्-उपलक्षितं वा ब्रह्म चेत् तत्-तच्-छब्द-वाच्यत्वं दुर्निवारम् ।

किं च, निर्गुण-स्व-प्रकाशाद् एव ब्रह्मत्वे यद् यद् ब्रह्मतयेष्टं तत्-तद्-अर्था ब्रह्मेति साधु-समर्थितो ब्रह्म-वादः । तथा तन्-मते स्फुटम् अशब्दम् इत्य्-आदि-शब्द-वाच्यत्वस्य, यतो वाचो [तै।उ। २.४.१] इत्य् अत्रापि यच्-छब्द-वाच्यत्वस्य निषेधने स्व-व्याघात-पातः स्यात् । अथ कस्माद् उच्यते ब्रह्म इति, तस्माद् उच्यते परं ब्रह्म [अथर्व-शिरः ४४] इति श्रुत्या, परमात्मेति चाप्य् उक्तेः [गीता १३.२२] इति वचसां वाच्यम् उत्तमम् इति श्री-गीतादिना च, वाच्यत्वं साक्षाद् एवोच्यते ।

अत्रानुमानानि च, वेदान्त-तात्पर्य-विषयो ब्रह्म वाच्यम् । वस्तुत्वाल् लक्ष्यत्वाच् च घटवत् । परमार्थ-सद्-आदि-पदं कस्यचिद् वाचकं पदत्वात् घट-पदवत् । सत्य-ज्ञानादि-वाक्यं वाच्यार्थवत् वाक्यत्वाद् अग्निहोत्रादि-वाक्यवद् इति ।

विपक्ष-लक्ष्यत्वं न स्यात्, तथा हि—लाक्षणिक-शब्दो न स्वत एवार्थ-गोचर-धी-हेतुः, तत्रागृहीत-शक्तित्वात् । किन्तु पूर्व-धीस्थे वाच्यार्थेऽनुपपत्ति-दर्शने सति तत्-त्यागेन स्वरूपतो वाच्यार्थ-सम्बन्धित्वेन चावगतस्यार्थान्तरस्य बोधकः । गङ्गा-शब्दादौ तथादर्शनात् अन्यथातिप्रसङ्गात् ।

तथा च—ब्रह्मणो लक्ष्यता-वाच्यार्थ-सम्बन्धित्वेन ज्ञेयत्वादौ प्रतिषेध-श्रुत्या वेदैक-गम्यस्य शब्देनाज्ञेयत्वात्, स्व-प्रकाशतया नित्य-सिद्धौ च शब्द-वैयर्थ्याद् अवाच्यत्वेन शब्दस्य लक्षकस्यैव वक्तव्यत्वात् । तथापि वाच्य-सम्बन्धित्वेन ज्ञेयत्वे चानवस्थेति कथम् अवचनीये लक्षणा इति ॥

इति श्री-जीव-कृत-श्री-भगवत्-सन्दर्भस्यानुव्याख्यायां

सर्व-संवादिन्यां द्वितीयः सन्दर्भः ॥

अनुबन्धः

उक्तं च तस्य सत्त्वस्य प्राकृताद् अन्यतरत्वं द्वादशे श्री-नारायणर्षिं प्रति मार्कण्डेयेन ।

सत्त्वं रजस् तम इतीश तवात्म-बन्धो
माया-मयाः स्थिति-लयोद्भव-हेतवोऽस्य ।
लीला-धृता यद् अपि सत्त्व-मयी प्रशान्त्यै
नान्ये नॄणां व्यसन-मोह-भियश् च याभ्याम् ॥ [भा।पु। १२.८.४५]
तस्मात् तवेह भगवन्न् अथ तावकानां
शुक्लां तनुं स्व-दयितां कुशला भजन्ति ।
यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं
लोको यतोऽभयम् उतात्म-सुखं न चान्यद् ॥ [भा।पु। १२.८.४६]

अनयोर् अर्थः । हे ईश ! यद् अपि सत्त्वं रजस् तम इति तवैव माया-कृता लीलाः । कथम्भूताः ? अस्य विश्वस्य स्थित्य्-आदि-हेतवः तथापि या सत्त्वमयी सैव प्रशान्त्यै प्रकृष्ट-सुखाय भवति । नान्ये रजस् तमो-मय्यौ । न केवलं प्रशान्त्यभाव-मात्रम् अनयोः । भजने6 किन्त्व् अनिष्टं चेत्य् आह—व्यसनेति ।

हे भगवन् ! तस्मात् तव शुक्लां सत्त्व-मय-लीलाधिष्ठात्रीं तनुं श्री-विष्णु-रूपां ते कुशला निपुणा भजन्ति सेवन्ते । न त्व् अन्यां ब्रह्म-रुद्र-रूपान् । तथा तावकानां जीवानां मध्ये शुक्लां सत्त्वैक-निष्ठां+++([अ])+++ तनुं भगवद्-भक्त-लक्षण-स्वायम्भुव-मन्वादि-रूपां+++([अ])+++7 ये भजन्ति अनुसरन्ति । न तु दक्ष-भैरवादि-रूपाम् । कथम्भूतां स्वस्य तवापि दयितां लोक-शान्ति-करत्वात् ।

ननु मम स्वरूपम् अपि सत्त्वात्मकम् इति प्रसिद्धं । तर्हि कथं तस्यापि मायामयत्वम् एव । नहि नहीत्य् आह सात्वताः श्री-भागवता यत् सत्त्वं पुरुषस्य तव रूपं प्रकाशम् उशन्ति मन्यन्ते । यतश् च सत्त्वात् लोको वैकुण्ठाख्यः प्रकाशते । तद् अभयम् आत्म-सुखं पर-ब्रह्मानन्द-स्वरूपम् एव+++([ब्])+++ न त्व् अन्यत् प्रकृतिजं सत्त्वं तद् इति । अत्र सत्त्व-शब्देन स्व-प्रकाशता+++([ब्])+++-लक्षण-स्वरूप-शक्ति-वृत्ति-विशेष उच्यते ।

सत्त्वं विशुद्धं वसुदेव-शब्दितं
यद् ईयते तत्र पुमान् अपावृतः । [भा।पु। ४.३.२३]

इति श्री-शिव-वाक्यानुसारात्च् । अगोचरस्य गोचरत्वे हेतुः प्रकृति-गुणः । सत्त्वम् इत्य् अशुद्ध-सत्त्व-लक्षण-प्रसिद्ध्य्-अनुसारेण तथाभूतश् चिच्-छक्ति-विशेषः सत्त्वम् इति सङ्गति-लाभाच् च । ततश् च तस्य स्वरूप-शक्ति-वृत्तित्वेन स्वरूपात्मतैवेत्य् उक्तम् । तद् अभयम् आत्म-सुखम् इति द्शक्ति-प्राधान्य-विवक्षयोक्तं लोको यत इतिद् । अर्थान्तरे भगवद्-विग्रहं प्रति रूपं यद् एतद् [भा।पु। २.८.२] इत्य् आदौ शुद्ध-स्वरूप-मात्रत्व-प्रतिज्ञा-भङ्गः । अभयम् इत्य् आदौ प्राञ्जलता-हानिश् च भवति । अन्यत् पदस्यैकस्यैव रजस् तमश् चेति द्विर्-आवृत्तौ प्रतिपत्ति-गौरव उत्पद्यते । पूर्वम् अपि नान्य इति द्वि-वचनेनैव हे परामृष्टे । तस्माद् अस्ति प्रसिद्धाद् अन्यत् स्वरूप-भूतं सत्त्वम् ।

यद् एवैकादशे यत् काय एष भुवन-त्रय-सन्निवेश [भा।पु। ११.४.४] इत्य् आदौ ज्ञानं स्वत इत्य् अत्र टीका-कृन्-मतं यस्य स्वरूप-भूतात् सत्त्वात् तनु-भृतां ज्ञानम् इत्य् अनेन यथा ब्रह्मणः स्तवान्ते एतत् सुहृद्भिश् चरितम् इत्य् अत्र व्यक्तेतरं व्यक्ताज् जड-प्रपञ्चाद् इतरत् शुद्ध-सत्त्वात्मकम् इत्य् आदिना, तथा परो-रजः सवितुर् जात-वेदा देवस्य भर्ग [भा।पु। ५.७.१४] इत्य् आदौ श्री-भरत-जाप्ये तन्-मतम्, परो-रजः रजसः प्रकृतेः परं शुद्ध-सत्त्वात्मकम् इत्य् आदिना । अत एव प्राकृताः सत्त्वादयो गुणा जीवस्यैव न त्व् ईशस्येति श्रूयते ।

यथैकादशे सत्त्वं रजस् तम इति गुणा जिवस्य नैव मे [११.२५.१२] इति । श्री-भगवद्-उपनिषत्सु च—

ये चैव सात्त्विका भावा राजसास् तामसाश् च ये ।
मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥
त्रिभिर् गुणमयैर् भावैर् एभिः सर्वम् इदं जगत् ।
मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥
दैवी ह्य् एषा गुणमयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ [गीता ७.१२-१४]

यथा दशमे—

हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ [भा।पु। १०.८८.४]

श्री-विष्णु-पुराणे च—

सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥ [वि।पु। १.९.४४] इति ।

तथा च दशमे देवेन्द्रेणोक्तम्—

विशुद्ध-सत्त्वं तव धाम शान्तं
तपोमयं ध्वस्त-रजस्-तमस्कम् ।
मायामयोऽयं गुण-संप्रवाहो
न विद्यते तेऽग्रणानुबन्धः ॥ [भा।पु। १०.२७.४] इति ।

अयम् अर्थः । धाम स्वरूप-भूत-प्रकाश-शक्तिः । विशुद्धत्वम् आह विशेषण-द्वयेन । ध्वस्त-रजस्-तमस्कं तपो-मयम् इति च । तपोऽत्र ज्ञानं स तपोऽतप्यत इति श्रुतेः । तपोमयं प्रचुर-ज्ञान-स्वरूपम् जाड्यांशेनापि रहितम् इत्य् अर्थः । आत्मा ज्ञान-मयः शुद्ध इतिवत् । धृतः8 प्राकृत-सत्त्वम् अपि व्यावृत्तम् । अत एव मायामयोऽयं सत्त्वादि-गुण-प्रवाहस् ते तव न विद्यते । यतोऽसाव् अज्ञानेनैवानुबन्ध इति ।

अत एव श्री-भगवन्तं प्रति ब्रह्मादीनां स-युक्तिकं वाक्यम् ।

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ
शरीरिणां श्रेय-उपायनं वपुः ।
वेद-क्रिया-योग-तपः-समाधिभिस्
तवार्हणं येन जनः समीहते ॥ [भा।पु। १०.२.३४]
सत्त्वं न चेद् धातर् इदं निजं भवेद्
विज्ञानम् अज्ञान-भिदापमार्जनम् ।
गुण-प्रकाशैर् अनुमीयते भवान्
प्रकाशते यस्य च येन वा गुणः ॥ [भा।पु। १०.२.३५]

अयम् अर्थः । सत्त्वं तेन प्रकाशमानत्वात् तद्-अभिन्नतया रूपितं वपुर् भवान् श्रयते प्रकटयति । कथम्भूतं सत्त्वं विशुद्धम् । अन्यस्य रजस्-तमोभ्याम् अमिश्रस्यापि9 प्राकृतत्वेन जाड्यांश-संवलितत्वान् न विशेषेण शुद्धत्वम् । एतत् तु स्वरूप-शक्त्य्-आत्म[क]त्वेन तद्-अंशस्याप्य् अस्पर्शाद् अतीव शुद्ध[त्व]म् इत्य् अर्थः ।

किम् अर्थं श्रयते । शरीरिणां स्थितौ निज-चरणारविन्दे मनःस्थैर्याय सर्वत्र [भक्तेषु] भक्ति-सुख-दानस्यैव त्वदीय-मुख्य-प्रयोजनत्वाद् इति भावः । भक्ति-योग-विधानार्थम् [भा।पु। १.८.१९] इति श्री-कुन्ती-वाक्यात् ।

कथम्भूतं वपुः श्रेयसां सर्वेषां पुरुषार्थानाम् उपायनम् आश्रयम् । नित्यानन्त-परमानन्द-रूपम् इत्य् अर्थः । अतो वपुषस् तव च भेद-निर्देशोऽयम्10 औपचारिक एवेति भावः । अत एव येन वपुषा यद् वपुर् आलम्बनेनैव जनस् तवार्हणं पूजां करोति । कैः साधनैः वेदादिभिस् त्वद्-आलम्बनकैर् इत्य् अर्थः । साधारणैस् त्व् अर्पितैर् एव त्वद्-अर्हण-प्रायता-सिद्धाव् अपि । वपुषोऽनपेक्षत्वात् । तादृश+++([ए])+++-वपुषोऽनपेक्ष्यत्वात् तादृश+++([ए])+++-वपुः-प्रकाश-हेतुत्वेन11 स्वरूपात्मकत्वं स्पष्टयन्ति ।

हे धातश् चेद् यदि इदं सत्त्वं यत् तव निजं विज्ञानम् अनुभवं[ः] तदात्मिका स्व-प्रकाशता-शक्तिर् इत्य् अर्थः । तन् न भवेत् । तर्हि त्व् अज्ञान-भिदा स्व-प्रकाशस्य तवानुभव+++([फ़्])+++-प्रकार एव मार्जनं शुद्धिम् अवाप । सैव जगति पर्यवसीयते न तु तवानुभव+++([फ़्])+++-लेशोऽपीत्य्12 अर्थः ।

ननु प्राकृत-सत्त्व-गुणेनैव +++([ग्])+++ममानुभवो+++([ग्])+++13 भवतु किं निज-+++([ह्])+++ग्रहण्+++([ह्])+++एन14 तत्राह । प्राकृत-गुण-प्रकाशैर् भवान् केवलम् अनुमीयते न तु साक्षात्क्रियत इत्य् अर्थः । अथवा तव विज्ञान-रूपम् अज्ञान-भिदाया अपमर्जनं च यन् निजं सत्त्वं तद् यदि न भवेन् नाविर्भवति तदैव प्राकृत-सत्त्वादि-गुण-प्रकाशैर् भवान् अनुमीयते । त्[व्]अन्-निज-सत्ताविर्भावेण तु साक्षात्-क्रियत एवेत्य् अर्थः । तद् एव स्पष्टयितुं तत्रानुमाने द्वैविध्यम् आहुर् यस्य गुणः प्रकाशत +++([इ])+++येन वा गुणः प्रकाशत+++([इ])+++15 इति । अस्वरूप-भूतस्यैव [प्राकृत-]सत्त्वादि-गुणस्य त्वद्-अव्यभिचारि-सम्बन्धित्व-मात्रेण वा त्वद्-एक-प्रकाश्यमानता-मात्रेण वा त्वल्-लिङ्गत्वम् इत्य् अर्थः । यथा अरुणोदयस्य सूर्योदय-सान्निध्य-लिङ्गत्वं यथा वा धूमस्याग्नि-लिङ्गत्वम् इति । तत उभयथापि तव साक्षात्कारे तस्य साधकतमत्वाभावो युक्त इति भावः ।

तद् एवम् अप्राकृत-सत्त्वस्य तदीय-स्व-प्रकाशता-रूपत्वं येन स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् । अत्र ये विशुद्ध-सत्त्वं नाम प्राकृतम् एव रजस्-तमः-शून्यं मत्वा तत्-कार्यं भगवद्-विग्रहादिकं मन्यन्ते ते तु न केनाप्य् अनुगृहीताः । रजः-सम्बन्धाभावेन स्वतः प्रशान्त-स्वभावस्य सर्वत्रोदासीनताकृति-हेतोस् तस्य क्षोभासम्भवात् विद्यामयत्वेन यथावस्थित-वस्तु-प्रकाशितामात्र-धर्मत्वात्, तस्य कल्पनान्तरायोग्यत्वाच् च । तद् उक्तम् अप्य् अगोचरस्य गोचरत्वे हेतुः प्रकृति-गुणः सत्त्वम् । गोचरस्य बहु-रूपत्वे रजः, बहु-रूपस्य तिरोहितत्वे तमः16 । तथा परस्परोदासीनत्वे सत्त्वम्, उपकारित्वे रजः, अपकारित्वे तमः । गोचरत्वादीनि स्थिति-सृष्टि-संहाराः उदासीनत्वादीनि चेति ।

अथ रजो-लेशे तत्र मन्तव्ये विशुद्ध-पद-वैयर्थ्यम् इत्य् अलं तन्-मत-रजो-घट-प्रघट्टनयेति ।17


  1. सम्पत्तेर् इति । आराधना-रूपे प्राणाहुतेः सम्पादनाय उरः-प्रभृतीनां वेदित्वाद्य्-उपदेश इति जैमिनिर् आचार्यो मन्यते । परमातोपासनोचित-फलं श्रुतिर् दर्शयति ॥ ↩︎

  2. यथा श्री-भगवत्-सन्दर्भे पञ्च-चत्वारिंश-वाक्य-व्याख्यान्ते—रूपं यत् तद् इत्य् आदौ । ↩︎

  3. श्री-भगवत्-सन्दर्भे षण्णवतितम-सङ्ख्यायां श्री-भागवतैकादश-स्कन्दीय-षोडशाध्याय-स्थ-सप्तत्रिंशत्तमः श्लोकः । तद् यथा—पृथिवी वायुर् आकाश आपो-ज्योतिर् अहं महान् । विकार-पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ॥ [भा।पु। ११.१६.३७] इति । ↩︎

  4. ऋक्-साम-समास्ट-निपात-नाद-दन्तयोर् अपि वैशिष्ट्यं ज्ञेयम् इति पाठो दृश्यते । ↩︎

  5. द्रष्टव्योऽत्र पूर्वतो विवृतः घट्ट-कुटी-न्यायः । ↩︎

  6. थिस् wओर्द् इस् नोत् इन् थे व्याख्या गिवेन् इन् सेच्तिओन् ७, wहिछ् ओथेर्wइसे फ़ोल्लोwस् wओर्द्-फ़ोर्-wओर्द् उन्तिल् ??। थिस् इस् प्रोबब्ल्य् अन् एर्रोर्, सुर्प्रिसिन्ग्ल्य् नोत् चल्लेद् इन्तो क़ुएस्तिओन् ब्य् थे जदव्पुर् एदितोर्। अनोथेर् म्स् इस् नेएदेद् फ़ोर् चोम्परिसोन्। ↩︎

  7. थे सेच्तिओन् बेत्wएएन् सुपेर्स्च्रिप्त् अऽस् इस् नोत् इन् थे एअर्लिएर् व्याख्या ओफ़् थेसे वेर्सेस्, बुत् ओब्विओउस्ल्य् बेलोन्ग्स् अन्द् इस् लिकेल्य् इन् थे ओरिगिनल् वेर्सिओन्। थे समे गोएस् फ़ोर् ओथेर् फ्रसेस् इन् बेत्wएएन् सुपेर्स्च्रिप्तेद् लेत्तेर्स् इन् थे पस्सगे बेलोw। ↩︎

  8. अतः ↩︎

  9. मिश्रस्यापि ↩︎

  10. निर्देशोभयम् ↩︎

  11. ए। नोत् इन् थे सेच्तिओन् ११७ वेर्सिओन्। ↩︎

  12. फ़्। नोत् इन् थे सेच्तिओन् ११७ वेर्सिओन्। ↩︎

  13. नोत् इन् थे सेच्तिओन् ८ वेर्सिओन्। ↩︎

  14. नोत् इन् थे सेच्तिओन् ८ वेर्सिओन्। ↩︎

  15. नोत् इन् ११७। ↩︎

  16. इन् सेच्तिओन् ११७ तमः ↩︎

  17. थिस् सेएम्स् तो बे थे एन्द् ओफ़् थे चोम्मोन् मतेरिअल्। ↩︎