०१ सार-निष्कर्षः

श्री-सर्व-संवादिन्याः श्री-जीव-गोस्वामि-पाद-विरचितायाः सार-निष्कर्षः

सर्व-संवादिन्य्-आख्यायां स्व-रचित-भगवत्-सन्दर्भानुव्याख्यायां वैष्णव-कुल-चूडामणि-श्री-जीव-गोस्वामि-पादा भागवतोक्त-दिशा भगवत्-स्वरूपं निर्णयामासुः । अद्वय-ज्ञानात्मक-पर-तत्त्व-रूपं पर-ब्रह्म एव भगवान् । न खलु तस्य शक्तिमत्त्वेन स्व-गत-भेद-शङ्कयाद्वयत्वं व्याहन्यते । शक्तेस् तत्-स्वरूपानतिरिक्तत्वेन तद्-अभिन्नत्वात् । शक्तिर् नाम कार्यान्यथानुपपत्ति-सिद्धौ वस्तुतो धर्म-विशेषः । सा तु सर्वस्मिन्न् उपादाने निमित्ते च कारणे स्वरूप-भूतैव मन्तव्या, कार्य-विशेषोत्पत्तौ तत्-कारणत्वेन वस्तु-विशेष-स्वीकारानर्थक्य-प्रसङ्गात् । ब्रह्मण एव जगद्-आदि-कार्य-दर्शनेन स्वरूप-शक्तिस् तावद् अवश्यम् एवाङ्गीकार्या । बृहत्त्वाद् बृंहणत्वाच् च यद् ब्रह्म परमं विदुः इति विष्णु-पुराणं च बृहत्त्वेन तस्य शक्तिमत्त्वं दर्शयति । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.४] इति श्रुतौ च-कारेण त्व् अज्ञानादिकं प्रतिषिध्य स्वरूप-ज्ञानादि-शक्तित्वम् एव स्थाप्यते । शक्तेः शक्तिमत्-स्वरूपाद् अभिन्नत्वेन चिन्तयितुम् अशक्यत्वाद् भेदो भिन्नत्वेन चिन्तयितुम् अशक्यत्वाद् अभेदश् च प्रतीयेते । अतः शक्ति-शक्तिमतोर् भेदाभेदाव् अङ्गीक्रियेते, तौ चाचिन्याव् इति ।

पर-ब्रह्मणः शक्तिर् हि त्रिविधः—अन्तरङ्गा तटस्था बहिरङ्गा चेति । तस्य स्वरूप-भूता चिच्-छक्तिर् एवान्तरङ्गा, उत्तरयोर् अनन्तरङ्गत्वं ताभ्यां परमेश्वरस्यालिप्ततया, शक्तित्वं नित्य-तद्-आश्रिततया तद्-व्यतिरेकेण स्वतोऽसिद्धतया तत्-कार्योपयोगितया च । अनयोर् बहिरङ्गा हि चिच्-छक्तेर् अन्तरा मायाख्या । तटस्था जीव-शक्तिः । एवं परस्पर-विरोधि-शक्ति-गणाश्रयत्वं पर-ब्रह्मणो जगति दृष्ट-श्रुतानां परस्पर-विरोधिनां सर्वेषाम् एव धर्माणां युगपद् एकाश्रयत्वात् सङ्गतं भवति । तासां च शक्तिनां तस्मिन्न् अभिव्यक्त्य्-उपलब्धौ प्राचुर्येण भगवत्-संज्ञा तद्-अनुपलब्धौ प्राचुर्येण ब्रह्म-संज्ञेति विशेषोऽवगन्तव्यः ।

स-विशेष-ब्रह्म-वादो वैष्णव-शास्त्रेषु वरीवर्तते । तत्र उपाधि-संयोगे ब्रह्मणः स-विशेषत्वं तद्-अभावे च निर्विशेषत्वम् इति प्रायश आचार्याणाम् अभिप्रायः । श्री-जीव-गोस्वामि-पादानां मते सर्वत्रैवोपाधि-सम्बन्धे तद्-असम्बन्धे च तस्य स-विशेषत्वम् एवोपलभ्यते । उपाधि-सम्बन्धे स-विशेषत्वं स्पष्टम् एव । तद्-असम्बन्धेऽपि स-विशेषत्वे, सद् एव सौम्येदम् अग्र आसीत् [छा।उ। ६.४.२] इति श्रुति-वचनं प्रमाणम् । अत्रेदं-शब्देन सत्ता गम्यते, तादात्म्येनाम्नातत्वात् । न च तद्-उपाधि-दोषेण ब्रह्मणो लिप्तत्वं शङ्क्यम् । तस्मिन् सतापि तेन तद्-अस्पर्शात् । अपहत-पाप्मा [छा।उ। ८.१.५] इत्य्-आदि-श्रुतेः । सद्-इदमोर् अविरोधस् तयोस् तादात्म्येनैव सामानाधिकरण्याद् भवति । तच् च सामानाधिकरणं स-विशेषत्व-कल्पनया सुबोधम् एव जायते । स-विशेष-ब्रह्म-ज्ञानस्याविद्या-निवृत्तिर् एव कार्यम् ।

पर-ब्रह्मणो भग-संज्ञितैर् ऐश्वर्यादिभिर् उपेतत्वेऽपि नाद्वयत्व-हानिः, तेषां तत्-स्वरूप-भूतत्वात् । अरूपत्वेन प्रसिद्धे च तस्मिन् रूपवत्त्वं न विरुध्यते । विज्ञानानन्दात्मकस्य तद्-रूपस्याप्राकृतत्वेन तत्-स्वरूपानतिरिक्तत्वात् । एवं, विज्ञानानन्दं ब्रह्म [बृ।आ।उ। ३.९.२८] इति भिन्नत्वेनोपलभ्यमानाभ्याम् अपि विज्ञानानन्दाभ्यां न तस्य द्व्य्-आत्मकत्वं गम्यते, किन्त्व् एकम् एव वस्तु स्वरूप-प्रकाश-वैशिष्ट्येन भिन्नतया निरूप्यते—केनापि ज्ञानम् इति केनापि आनन्दम् इति च । सत्यत्वानन्दत्वयोर् अपि न तद्-भेद-बोधकत्वं तयोस् तद्-धर्मत्वेन निरूपणात् ।

पर-ब्रह्मण आनन्द-रूपत्वं श्रुति-स्मृति-सुप्रसिद्धम् एव । आनन्दो ह्य् अयं लौकिकानन्द-विलक्षणो दुःखातियोगित्वात् जीवानां पुरुषार्थत्वाच् च । न खलु अन्न-मयं प्राण-मयं [तै। २.५] इत्य्-आदि-श्रुतिषु आनन्द-मय-शब्देन परं ब्रह्म उच्यते, न वा किं वान्नमयादिवद् ब्रह्मणोऽर्थान्तरं गम्यत इति संशयः कार्यः । अन्न-मयादि-प्रवाह-पतित्वेऽपि आनन्द-मयस्य सर्वान्तरत्वात् अरुन्धती-दर्शनवत् पर-ब्रह्म-रूपत्वम् एव प्रसज्यते । आनन्द-मय-पर-ब्रह्मण आनन्द-मयम् एव शरीरम् । अन्येषाम् अन्न-मयस्य प्रसिद्ध-शारीरत्वं, नेतरोऽनुपपत्तेः [वे।सू। १.१.१७] इत्य् आदौ स्वयं सूत्र-कृता निषिद्धम् एव । आनन्द-मय-शब्दे मयटः प्रयोगो विकार-शब्दान् नेति चेन्, न प्राचुर्यात् [वे।सू। १.१.१३] इति सूत्र-वचनात् प्राचुर्यार्थे एव, तत्र, स एको मानुष आनन्दः [तै।आ। ८] इति श्रुति-चोदितं जीवानन्दापेक्षया ब्रह्मानन्दस्य निरतिशयत्वम् एव प्रमाणम् । मयटो विकारार्थ-परत्वं शुद्ध-ब्रह्मणः सर्व-विकारातीतत्वेनैव निरस्यते । अपि च प्रचुरानन्दस्यैव ब्रह्मणो लोकानन्द-हेतुत्वं सङ्गच्छते । यथा प्रचुर-प्रकाशस्यैव सूर्यस्य सर्व-प्रकाशकत्वं सम्भवति, न तुच्छ-प्रकाशस्य तारकादेः । आनन्दस्य ज्ञानाकारत्वात् तस्य चानन्तत्वादिभिर् मिश्रत्वेऽपि तद्-रूपत्वान् नार्थ-भेदः स्यात् ।

एवं पर-ब्रह्मणः स्वरूपं निर्णीय तत्रैव भगवच्-छब्दः प्रवर्तते, नान्यत्र इत्य् उद्घोषितं वैष्णव-मुख्येन । तन्-मते आविष्कृत-षाड्गुण्य एव भगवच्-छब्द-प्रयोगात् पर-ब्रह्मणस् तद्-उपेतत्वेन तत्र मुख्य एव भगवच्-छब्दोऽन्यत्र तु पूज्यत्व-प्रतिपादने निमित्ते औपचारिकः । अक्षरार्थ-निरुक्त्यापि भगवच्-छब्दस्य पर-ब्रह्म-वाचकत्वं विष्णु-पुराणादौ दृश्यते । तद् यथा—

सम्भर्तेति तथा भर्ता भ-कारार्थ-द्वयान्वितः ।
नेता गमयिता स्रष्टा ग-कारार्थस् तथा मुने ॥ [वि।पु। ६.५.७३]

एवं-भूते श्री-भगवत्य् एव सर्व-शास्त्र-समन्वयो विवेचनीयः । यथा मन्त्र-ब्राह्मणात्मकस्य द्वि-विध-वेदस्य भगवत्-परत्वं, तथा वेदानुगानां मीमांसादि-शास्त्राणां काव्यालङ्कार-काम-तन्त्र-गान्धर्व-कलानां नीयायुर्वेद-धनुर्विद्यानाम् अपि । अन्यथा तेषां वैयर्थ्य-प्रसङ्ग आपद्यते ॥