अथ प्रमेय-प्रकरणम्
[१]
अथ नमस्कुर्वन्न्**1 एव तथाभूतस्य श्रीमद्-भागवतस्यतात्पर्य-तद्-वक्तुर् हृदय-निष्ठा-पर्यालोचनया सङ्क्षेपतस् तावन् निर्धारयति—**
स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावोऽप्य्
अजित-रुचिर-लीलाकृष्ट-सारस् तदीयम् ।
व्यतनुत कृपया यस् तत्त्व-दीपं पुराणं
तम् अखिल-वृजिन-घ्नं व्यास-सूनुं नतोऽस्मि ॥ [भा।पु। १२.१२.६८]
टीका च श्रीधर-स्वामि-विरचिता—श्री-गुरुं नमस्करोति । स्व-सुखेनैव निभृतं पूर्णं चेतो यस्य सः । तेनैव व्युदस्तोऽन्यस्मिन् भावो भावना यस्य तथाभूतोऽप्य् अजितस्य रुचिराभिर् लीलाभिर् आकृष्टः सारः स्व-सुख-गतं धैर्यं यस्य सः । तत्त्व-दीपं परमार्थ-प्रकाशकं श्री-भागवतं यो व्यतनुत तं नतोऽस्मि इत्य् एषा ।
एवम् एव द्वितीये तद्-वाक्यम् एव प्रायेण मुनयो राजन् [भा।पु। २.१.७] इत्य्-आदि-पद्य-त्रयम् अनुसन्धेयम् । अत्र “अखिल-वृजिनं” तादृश-भावस्य प्रतिकूलम् उदासीनं च ज्ञेयम् । तद् एवम् इह सम्बन्धि-तत्त्वं ब्रह्मानन्दाद् अपि प्रकृष्टो रुचिर-लीला-विशिष्टः श्रीमान् अजित एव । स च पूर्णत्वेन मुख्यतया श्री-कृष्ण-संज्ञ एवेति श्री-बादरायण-समाधौ व्यक्तीभविष्यति । तथा प्रयोजनाख्यः पुरुषार्थश् च तादृश-तद्-आसक्ति-जनकं तल्-लीला-श्रवणादि-लक्षणं तद्-भजनम् एवेत्य् आयातम् । अत्र “व्यास-सूनुम्” इति ब्रह्म-वैवर्तानुसारेण श्री-कृष्ण-वराज् जन्मत एव मायया तस्यास्पृष्टत्वं सूचितम् ॥
॥ १२.१२ ॥ श्री-सूतः श्री-शौनकम् ॥१॥
सर्व-संवादिनी : अथ [मूले] _प्रमेय-_प्रकरणारम्भेऽथ नमस्कुर्वन्न् एवेति सूत्र-स्थानीयस्याभास-वाक्यस्य विषय-स्थानीय-श्री-भागवत-वाक्य-समाप्ताव् अङ्क-विन्यासस् तद्-वाक्य-सङ्गति-गणना-परः । स च श्री-क्रम-सन्दर्भानुकुलो भविष्यति । तत्र तत्र व्याख्या-समाप्तौ त्व् अङ्क-विन्यास-विशेषस्यायम् अर्थः । [“स्व-सुख-निभृत-” इति पद्यस्य वक्ता] द्वादश-स्कन्धे द्वादशाध्याये श्री-सूतः ॥२९॥
बलदेवः : अथ यस्य ब्रह्मेति [अत्र मङ्गलाचरणे ८] पद्योक्तं सम्बन्धि-कृष्ण-तत्त्वम्, तद्-भक्ति-लक्षणम् अभिधेयम्, तत्-प्रेम-लक्षणं पुमर्थं च निरूपतया पद्येन तावद्ग्रन्थं प्रवर्तयन् ग्रन्थ-कृद् अवतारयति । अथेति मङ्गलार्थम् । यस्मिन् शास्त्र-वक्तुर् हृदय-निष्ठा प्रतीयते तद् एव शास्त्र-प्रतिपाद्य-वस्तु, न त्व् अन्यद् इत्य् अर्थः । स्वेति तदीयम् अजित-निरूपकं पुराणम् इत्य् अर्थः ।
टीका चेति—स्व-सुखेनेति । स्वम् असाधारणं जीवानान्दाद् उत्कृष्टम् । गुडाद् इव मधु, यद्-अनभिव्यक्त-संस्थान-गुण-विभूति-लीलम् आनन्द-रूपं स्व-प्रकाशं ब्रह्म-शब्द-व्यपदेश्यं वस्तु, तेनेत्य् अर्थः । रुचिराभिर् इति पारमैश्वर्य-समवेत-माधुर्य-सम्भिन्नत्वान् मनोज्ञाभिर् आनन्दैक-रूपाभिः पानक-रस-न्यायेन स्फुरद्-अजित-तत्-परिकरादिभिर् लीलाभिर् इत्य् अर्थः । अत्राखिलेति । प्रतिकूलं प्रत्याख्यायकम् । उदासीनं त्याजकम् इत्य् अर्थः । अङ्क-युग्मं स्कन्धाध्याययोर् ज्ञापकम् । श्री-सूतः श्री-शौनकं प्रति निर्धारयतीत्य् अवतारिक-वाक्येन सम्बन्धः । एवम् उत्तरत्र सर्वत्र बोध्यम् ॥२९॥
—ओ)०(ओ—
[२]
तादृशम् एव तात्पर्यं करिस्यमाण-तद्-ग्रन्थ-प्रतिपाद्य-तत्त्व-निर्णय-कृते तत्-प्रवक्तृ-श्री-बादरायण-कृते समाधाव् अपि सङ्क्षेपत एव निर्धारयति—
भक्ति-योगेन मनसि सम्यक् प्रणिहितेऽमले ।
अपश्यत् पुरुषं पूर्णं मायां च तद्-अपाश्रयम् ॥
यया सम्मोहितो जीव आत्मानं त्रि-गुणात्मकम् ।
परोऽपि मनुतेऽनर्थं तत्-कृतं चाभिपद्यते ॥
अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे ।
लोकस्याजानतो विद्वांश् चक्रे सात्वत-संहिताम् ॥
यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे ।
भक्तिर् उत्पद्यते पुंसः शोक-मोह-भयापहा ॥
स संहितां भागवतीं कृत्वानुक्रम्य चात्म-जम् ।
शुकम् अध्यापयाम् आस निवृत्ति-निरतं मुनिः ॥ [भा।पु। १.७.४-८]
तत्र—
स वै निवृत्ति-निरतः सर्वत्रोपेक्षको मुनिः ।
कस्य वा बृहतीम् एताम् आत्मारामः समभ्यसत् ॥ [भा।पु। १.७.९]
इति शौनक-प्रश्नानन्तरं च—
आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः ॥
हरेर् गुणाक्षिप्त-मतिर् भगवान् बादरायणिः ।
अध्यगान् महद् आख्यानं नित्यं विष्णु-जन-प्रियः ॥[भा।पु। १.७.१०-११]
भक्ति-योगेन प्रेम्णा ।
अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ [भा।पु। ५.६.१८]
इत्य् अत्र प्रसिद्धेः । प्रणिहिते समाहिते समाधिनानुस्मर तद्-विचेष्टितं [भा।पु। १.५.१३] इति तं प्रति श्री-नारदोपदेशात् । पूर्ण-पदस्य मुक्त-प्रग्रहया वृत्त्या—
भगवान् इति शब्दोऽयं तथा पुरुष इत्य् अपि ।
वर्तते निरुपाधिश् च वासुदेवेऽखिलात्मनि ॥
इति पाद्मोत्तर-खण्ड**-वचनावष्टम्भेन, तथा—**
काम-कामो यजेत् सोमम् अकामः पुरुषं परम् ॥
अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा।पु। २.३.९-१०]
इत्य् अस्य वाक्य-द्वयस्य पूर्व-वाक्ये पुरुषं परमात्मानं प्रकृत्य्-एकोपाधिम् उत्तर-वाक्ये पुरुषं पूर्णं निरुपाधिम् इति टीकानुसारेण च पूर्णः पुरुषोऽत्र स्वयं भगवान् उच्यते ॥२अ॥2
सर्व-संवादिनी : “भक्ति-योगेन” [भा।पु। १.७.४] इत्य्-आदि शौनकं प्रति निर्धारयतीति चूर्णिका-वाक्यस्यान्वयात् । एवम् उत्तरत्रापि ज्ञेयम् ॥२अ॥ (३०)
बलदेवः : ग्रन्थ-वक्तुः शुकस्य यत्र निष्ठावधारिता । तत्रैव ग्रन्थ-कर्तुर् व्यासस्यापि निष्ठाम् अवधारयितुम् अवतारयति तादृशम् एवेति । निवृत्ति-निरतं ब्रह्मानन्दाद् अन्यस्मिन् स्पृहा-विरहितम् । कस्येति संहिताभ्यासस्य किं फलम् इत्य् अर्थः । अध्यगाद् अधीतवान् । मुक्त-प्रग्रहयेति यथाश्वः प्रग्रहे मुक्ते बलावधि धावत्य् एवं पूर्ण-शब्दः प्रवृत्तः पूर्णत्वावधि प्रवर्तेतेति वक्तुं तद्-अवधिश् च स्वयं-भगवत्य् एवेति तथोच्यत इत्य् अर्थः ॥२अ॥ (३०)
—ओ)०(ओ—
[२ब्]
पूर्वम् इति पाठे पूर्वम् एवाहम् इहासम्, इति तत्-पुरुषस्य पुरुषत्वम् इति श्रौत-निर्वचन-विशेष-पुरस्कारेण च स एवोच्यते । तम् अपश्यत् श्री-वेद-व्यास इति स्वरूप-शक्तिमन्तम् एवेत्य् एतत् स्वयम् एव लब्धं पूर्णं चन्द्रम् अपश्यद् इत्य् उक्ते कान्तिमन्तम् अपश्यद् इति लभ्यते। अत एव—
त्वम् आद्यः पुरुषः साक्षाद्
ईश्वरः प्रकृतेः परः ।
मायां व्युदस्य चिच्-छक्त्या
कैवल्ये स्थित आत्मनि ॥ [भा।पु। १.७.२३] इत्य् उक्तम् ।
अत एव मायां च तद्-अपाश्रयाम् इत्य् अनेन तस्मिन् अप अपकृष्ट आश्रयो यस्याः । निलीय स्थितत्वाद् इति मायाया न तत्-स्वरूप-भूतत्वम् इत्य् अपि लभ्यते । वक्ष्यते च—माया परैत्य् अभिमुखे च विलज्जमाना [भा।पु। २.७.४७] इति । स्वरूप-शक्तिर् इयम् अत्रैव व्यक्तीभविष्यति अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे [भा।पु। १.७.६] इत्य् अनेन, आत्मारामाश् च [भा।पु। १.७.१०] इत्य् अनेन च । पूर्वत्र हि भक्ति-योग-प्रभावः खल्व् असौ मायाभिभावकतया स्वरूप-शक्ति-वृत्तित्वेनैव गम्यते । परत्र च ते गुणा ब्रह्मानन्दस्याप्य् उपरिचरतया स्वरूप-शक्तेः परम-वृत्तिताम् एवार्हन्तीति । मायाधिष्ठातृ-पुरुषस् तु तद्-अंशत्वेन, ब्रह्म च तदीय-निर्विशेषाविर्भावत्वेन, तद्-अन्तर्भाव-विवक्षया पृथङ् नोक्ते इति ज्ञेयम् । अतोऽत्र पूर्ववद् एव सम्बन्धि-तत्त्वं निर्धारितम् ॥२ब्॥ (३१)
सर्व-संवादिनी : न व्याख्यातम्।
बलदेवः : पाठान्तरेणापि स एवार्थ इति व्याख्यातुम् आह पूर्वम् इति । ईश्वरस्यैव पूर्व-वर्तित्वात् पुरुषत्वम् इत्य् अर्थः । स एवेति स्वयं भगवान् एव । स्वरूप-शक्तिमत्त्वे प्रमाणम् आह त्वम् इति । श्रुतिश् चात्रास्ति । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इति । एषैव ह्लादिनी सन्धिनीत्य् आदिना स्मर्यते। इत्य् उक्तम् इति कण्ठतः पाठितम् अर्जुनेनेत्य् अर्थः । मायातोऽन्येयं बोध्येत्य् आह अतएवेत्य् आदिना । मूल-वाक्येन स्वरूप-भूता चिच्-छक्तिर् इयं बोधितास्तीय् आह अतएवेत्य् आदिना । पट्ट-महिषीव स्वरूप-शक्तिः, बहिर् द्वार-सेविकेव माया-शक्तिर् इत्य् उभयोर् महद्-अन्तरं बोध्यम् । भगवद्-भक्तेर् भगवद्-गुणानां च स्वरूप-शक्ति-सारांशत्वं सयुक्तिकम् आह पूर्वत्र हीत्यादिना । ब्रह्मानन्दस्येति अनभिव्यक्त-संस्थानादि-विशेषस्येति बोध्यम् । ननु परमात्म-रूपस् तादृश-ब्रह्म-रूपश् चाविर्भावः कुतो व्यासेन न दृष्ट इति चेत् तत्राह मायाधिष्ठात्र् इति ॥२ब्॥ (३१)
[२च्]
अथ प्राक्-प्रतिपादितस्यैवाभेध्यस्य प्रयोजनस्य च स्थापकं जीवस्य स्वरूपत एव परमेश्वराद् वैलक्षण्यम् अपश्यद् इत्य् आह—यया मायया सम्मोहितो जीवः स्वयं चिद्-रूपत्वेन त्रिगुणात्मकाज् जडात् परोऽप्य् आत्मानं त्रिगुणात्मकं जडं देहादि-सङ्घातं मनुते । तन्-मनन-कृतम् अनर्थं संसार-व्यसनं चाभिपद्यते । तद् एवं जीवस्य चिद्-रूपत्वेऽपि यया सम्मोहित इति मनुते इति च स्वरूप-भूत-ज्ञान-शालित्वं व्यनक्ति प्रकाशैक-रूपस्य तेजसः स्वपर-प्रकाशन-शक्तिवत् । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्तिजन्तवः [गीता ५.२५] इति श्री-गीताभ्यः । तद् एवम् उपाधेर् एव जीवत्वं तन्-नाशस्यैव मोक्षत्वम् इति मतान्तरं परिहृतवान् । अत्र यया सम्मोहितः इत्य् अनेन तस्या एव तत्र कर्तृत्वं भगवतस् तत्रोदासीनत्वं मतम् । वक्ष्यते च—
विलज्जमानया यस्य स्थातुम् ईक्षा-पथेऽमुया
विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः ॥ [भा।पु। २.५.१३] इति ।
अत्र विलज्जमानया इत्य् अनेनेदम् आयाति, तस्या जीव-सम्म्होहनं कर्म श्री-भगवते न रोचत इति यद्यपि सा स्वयं जानाति, तथापि भयं द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य [भा।पु। ११.२.३७] इति दिशा जीवानाम् अनादि-भगवद्-अज्ञान-मय-वैमुख्यम् असहमाना स्वरूपावरणम् अस्वरूपावेशं च करोति ॥२च्॥ (३२)
सर्व-संवादिनी : न व्याख्यातम्।
बलदेवः : जीवो येन्श्वरं भजेत् भक्त्या च तस्मिन् प्रेमाणं विन्देत् ततो मायया विमुक्तः स्यात् तम् ईश्वराज् जीवस्य वास्तवं भेदम् अपश्यद् इति व्याचष्टे, अथ प्राग् इत्य्-आदिना । जीवस्येति वैलक्षण्यम् इति सेवकत्व-सेव्यत्वाणुत्व-विभुत्व-रूप-नित्य-धर्म-हेतुकं भेदम् इत्य् अर्थः । ननु चिन्-मात्रो जीवः यो विज्ञाने तिष्ठन् [बृ।आ।उ। ३.७.२२], विज्ञानं यज्ञं तनुते [तै।उ।२.५.१] इत्य् आदौ चिद्-धातुत्व-श्रवणात्, न तस्य धर्म-भूतं नित्यं ज्ञानम् अस्ति येन मोह-मनने वर्णनीये । तस्मात् सत्त्वा सञ्जायते ज्ञानं [गीता १४.१७] इत्य्-आदि-वाक्यात्, सत्त्वे या चैतन्यस्य च्छाया, तद् एव सत्त्वोपहितस्य तस्य ज्ञानं येन मोह-मनने व्यासेन दृष्टे स्याताम् इति चेत् तत्राह तद् एवम् इत्य्-आदिना । छायाभावाच् च न तत्-कल्पनं युक्तम् इति भावः । ननु स्वरूप-भूतं ज्ञानं कथम् इति चेत् तत्राह पर्काशैकेति । अहि-कुण्डलाधिकरणे [ब्र।सू। ३.२.२८] भाषितम् एतद् द्रष्टव्यम् । तृतीय-सन्दर्भे विस्तरीष्याम एतत् । तद् एवम् उपाधेर् इति अन्तःकरणं जीवः अन्तः-करण-नाशो जीवस्य मोक्ष इति शङ्कर-मतं दूसितम् । तथा सति परोऽपीत्य् आदि-व्याकोपाद् इति भावः । अत्रेति तत्र जीव-मोहने कर्मणि । तस्या मायायाः। विलज्जेति ब्रह्म-वाक्यम् । अमुया मायया । असहमानेति दास्या उचितम् एतत् कर्म यत् स्वामि-विमुखान् दुःखाकरोतीति । ईश-वैमुख्येन पिहितं जीवं माया पिधत्ते, घटेनावृतं दीपं यथा तम आवृणोतीति ॥२च्॥ (३२)
—ओ)०(ओ—
[२द्]
*श्री-भगवांश् चानादित एव भक्तायां प्रपञ्चाधिकारिण्यां तस्यां दाक्षिण्यं लङ्घितुं न शक्नोति । तथा तद्-भयेनापि जीवानां स्व-साम्मुख्यं वाञ्छन्न् उपदिशति— *
दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ [गीता ७.१४] इति,
सतां प्रसङ्गान् मम वीर्य-संविदो
भवन्ति हृत्-कर्ण-रसायनाः कथाः ।
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि
श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ [भा।पु। ३.२५.२५] इति च ।
लीलया श्रीमद्-व्यास-रूपेण तु विशिष्टया तद्-उपदिष्टवान् इत्य् अनन्तरम् एवायास्यति । “अनर्थोपशमं साक्षाद्” इति । तस्माद् द्वयोर् अपि तत् तत् समञ्जसं ज्ञेयम् ।
ननु माया खलु शक्तिः । शक्तिश् च कार्य-क्षमत्वम् । तच् च धर्म-विशेषः । तस्याः कथं लज्जादिकम् ? उच्यते—एवं सत्य् अपि भगवति तासां शक्तीनाम् अधिष्ठातृ-देव्यः श्रूयन्ते, यथा केनोपनिषदि महेन्द्र-माययोः संवादः ॥२द्॥ (३३)
बलदेवः : नन्व् ईश्वरः कथं तन् मोहनं सहते । तत्राह भगवांश् चेति । तर्हि कृपालुता-क्सिः । तत्राह तथेति । तद्-भयेनापीति मायातो यज्-जीवानां भयं तेनापि हेतुनेत्य् अर्थः । ततश् च न तत्-क्सतिर् इत्य् अर्थः । दैवीति प्रपत्तिश् चेयं सत्-प्रसङ्ग-हेतुकैव तद्-उपदिष्टा यया साम्मुख्यं स्यात् तद् विद्धि प्रणिपातेन [गीता ४.३४] इत्य्-आदि तद्-वाक्यात् । सतां प्रसङ्गात् इत्य् आद्य्-अग्रिम-वाक्याच् च । लीलयेति लीलावतारेण । विशिष्टतयेति आचार्य-रूपेणेत्य् अर्थः । तस्माद् इति द्वयोर् माया-भगवतोर् अपि । तत् तद् इति । मोहनं साम्मुख्य-वाञ्छा चेत्य् अर्थः । ननु मायाया मोहन-लज्जन-कर्तृत्वम् उक्तं तत् कथं जडायास् तस्याः सम्भवेद् इति शङ्कते—ननु मायेति । धर्म-विशेष उत्साहादिवद् इत्य् अर्थः । सिद्धान्तयति उच्यत इति । अधिष्ठातृ-देव्य इति । विन्ध्यादि-गिरीणां यथाधिष्ठातृ-मूर्तयस् तद्वत् । केनेति तस्यां ब्रह्म ह देवेभ्यो विजिग्ये [केन।उ। ३.१] इत्य्-आदि-वाक्यम् अस्ति । तत्राग्नि-वायु-मघोनः स-गर्वान् वीक्ष्य तद्-गर्वम् अपनेतुं परमात्माविरभूत् । तम् अजानन्तस् ते जिज्ञासयामासुः । तेषां वीर्यं परीक्षमाणः स तृणं निदधौ । सर्वं दहेयम् इत्य् अग्निः । सर्वम् आददीयेति वायुश् च ब्रुवंस् तन्-निर्दग्धुम् आदयेतुं च नाशकत् । ज्ञातुं प्रवृत्तान् मधोनस् तु स तिरोऽधत्त । तद्-आकाशे मघवा हैमवतीम् उमाम् आजगाम । किम् एतद् इति पप्रच्छ । सा च ब्रह्मैतद् इत्य् उवाचेतिनिष्कृष्टम् ॥३३॥
—ओ)०(ओ—
[२ए]
तद् आस्ताम्, प्रस्तुतं प्रस्तूयते । तत्र जीवस्य तादृश-चिद्-रूपत्वेऽपि परमेश्वरतो वैलक्षण्यं “तद्-अपाश्रयम्” इति, “यया सम्मोहित” इति च दर्शयति ॥२ए॥ (३४)
बलदेवः : तत्र जीवस्येति मायां च तद्-अपाश्रयाम् इतीश्वरस्य माया-नियन्तृत्वं यया सम्मोहितो जीव इति जीवस्य माया-नियम्यत्वं च । तेन स्वरूपत ईशाज् जीवस्य भेद-पर्यायं वैलक्षण्यं दृष्टवान् इति प्रस्फुटम् । अपश्यत् इत्य् अनेन कालोऽप्य् आनीतः । तद् एवम् ईश्वर-जीव-माया-कालाख्यानि चत्वारि तत्त्वानि समाधौ श्री-व्यासेन दृष्टानि । तानि नित्यान्य् एव । अथ ह वाव नित्यानि पुरुषः प्रकृतिर् आत्मा कालः इत्य् एवं भाल्लवेय-श्रुतेः । नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [क।उ। २.२.१३] इति काठकात् ।
अजाम् एकां लोहित-शुक्ल-कृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्य् एको जुषमाणोऽनुशेते
जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ इति श्वेताश्वतराणां [४.५] मन्त्राच् च ।
अविकाराय शुद्धाय नित्याय पर्मात्मने ।
सदैक-रूप-रूपाय विष्णवे सर्व-जिष्णवे ॥ [वि।पु। १.२.१]
प्रधानं पुरुषं चापि प्रविश्यात्मेच्छया हरिः ।
क्षोभयामास सम्प्राप्ते सर्ग-काले व्ययाव्ययौ ॥ [वि।पु। १.२.२९]
अव्यक्तं कारणं यत् तत् प्रधान ऋषि-सत्तमैः ।
प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सद्-असद्-आत्मकम् ॥ [वि।पु। १.२.१९]
अनादिर् भगवान् कालो नान्तोऽस्य द्विज विद्यते ।
अव्युच्छिन्नास् ततस् त्व् एते सर्ग-स्थित्य्-अन्त-संयमाः ॥ [वि।पु। १.२.२६]
इति श्री-वैष्णवाच् च । तेष्व् ईश्वरः शक्तिमान् स्वतन्त्रः जीवादयस् तु तच्-छक्तयोऽस्वतन्त्राः ।
विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।
अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ [वि।पु। ६.७.६१]
इति श्री-वैष्णवात् । स यावद् उर्व्या भरम् ईश्वरेश्वरः स्वकाल-शक्त्या क्षपयंश् चरेद् भुवि [भा।पु। १०.१.२२] इति श्री-भागवताच् च । तत्र विभुविज्ञानम् ईश्वरः, अणु-विज्ञानं जीवः । उभयं नित्य-ज्ञान-गुणकम् । सत्त्वादि-गुण-त्रय-विशिष्टं जडं द्रव्यं माया । गुण-त्रय-शून्यं भूत-वर्तमानादि-व्यवहार-कारणं जडं द्रव्यं तु कालः । कर्माप्य् अनादि विनाशि चास्ति न कर्माविभागाद् इति चेन् नानादित्वात् [वे।सू। २.१.३५] इति सूत्राद् इति वस्तु-स्थितिः श्रुति-स्मृति-सिद्धा वेदितव्या ॥३४॥
[२फ़्]
यर्ह्य् एव यद् एकं चिद्-रूपं ब्रह्म मायाश्रयता-वलितं विद्या-मयं, तर्ह्य् एव तन्-माया-विषयतापन्नम् अविद्या-परिभूतं चेत्य् उक्तम् इति जीवेश्वर-विभागोऽवगतः । ततश् च स्वरूप-सामर्थ्य-वैलक्षण्येन तद् द्वितयं मिथो विलक्षण-स्वरूपम् एवेत्य् आगतम् ॥२फ़्॥ (३५)
सर्व-संवादिनी : एतद्-व्याख्यान्ते [मू। २] यर्ह्य् एव यद् एकम् इत्य्-आदिकं श्री-परमात्म-सन्दर्भे [§७१] विवरणीयम् ॥२फ़्॥ (३५)
बलदेवः : यत् तु एकम् एवाद्वितीयं [छा।उ। ६.२.१], विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ। ३.९.२८], नेह नानास्ति किञ्चन [बृ।आ।उ। ४.४.१९] इत्य्-आदि-श्रुतिभ्यो निर्विशेष-चिन्-मात्राद्वैतं ब्रह्म वास्तव्यम् । अथ सद्-असद्-विलक्षणत्वाद् अनिर्वचनीयेन विद्याविद्या-वृत्तिकेनाज्ञानेन सम्बन्धात् तस्माद् विद्योपहितम् ईश्वर-चैतन्यम् अविद्योपहितं जीव-चैतन्यं चाभूत् । स्वरूप-ज्ञानेन निवृत्ते त्व् अज्ञाने न तत्रेश्वर-जीव-भावः, किन्तु निर्विशेषाद्वितीय-चिन्मात्र-रूपावस्थितिर् भवेद् इत्य् आह—मायी शङ्करः । तत्राह—यर्ह्य् एव यद् एकम् इति विस्फुटार्थम् । इत्य् उक्तम् इति—युगपद् एवाकस्माद् एवाज्ञान-योगाद् एकस्य भागस्य विद्याश्रयत्वम् अन्यस्याविद्या-पराभूतिर् इति ।
किम् अपराद्धं तेन ब्रह्मणा, येन विविध-विक्षेप-क्लेशानुभवभाजनताभूत्? पुनर् अप्य् आकस्मिकाज्ञान-सम्बन्धस्याशक्यत्वाद् वक्तुम् इति न तद् उक्त-रीत्या तद्-विभागो वाच्यः किन्तु श्री-व्यास-दृष्ट-रीत्यैव सोऽस्माभिर् अवगत इत्य् अर्थः ॥२फ़्॥ (३५)
[२ग्]
न चोपाधि-तारतम्यमय-परिच्छेद-प्रतिबिम्बत्वादि-व्यवस्थया तयोर् विभागः स्यात् ॥२ग्॥ (३६)
बलदेवः : यत् तु इन्द्रो मायाभिः पुरु-रूप ईयते [ऋ।वे। ६.४७.१८, बृ।आ।उ। २.५.१९] इत्य्-आदि-श्रुतेस् तस्याद्वितीयस्य ब्रह्मणो मायया परिच्छेदाद् ईश्वर-जीव-विभागः स्यात् । तत्र विद्यया परिच्छिन्नो महान् खण्ड ईश्वरः । अविद्यया परिच्छिन्नः कनीयान् खण्डस् तु जीवः । यथा घटेनावच्छिन्नः शरावेणावच्छिन्नश् चाकाश-खण्डो महद्-अल्पता-व्यपदेशं भजति ।
यथा ह्य् अयं ज्योतिर् आत्मा विवस्वान्
अपो भित्त्वा बहुधैकोऽनुगच्छन् ।
उपाधिना क्रियते भेद-रूपो
देवः क्षेत्रेष्व् एवम् अजोऽयम् आत्मा ॥ [श्रुति?]
इत्य्-आदिषु ब्रह्मणस् तस्य प्रतिबिम्ब-श्रवणात् तद्-विभागः स्यात् । विद्यायां प्रतिबिम्ब ईश्वरः । अविद्यायां प्रतिबिम्बस् तु जीवः । यथा सरसि रवेः प्रतिबिम्बः यथा च घटे प्रतिबिम्बो महद्-अल्पत्व-व्यपदेशं भजते तद्वद् इत्य् आह शङ्करः । तद् इदं निरसनाय दर्शयति न चेति । अनया रीत्या तयोर् विभागो न च स्याद् इत्य् अन्वयः ॥३६॥
[२ह्]
तत्र यद्य् उपाधेर् अनाविद्यकत्वेन वास्तवत्वं तर्ह्य् अविषयस्य तस्य परिच्छेद-विषयत्वासम्भवः । निर्धर्मकस्य व्यापकस्य निरवयवस्य च प्रतिबिम्बत्वायोगोऽपि, उपाधि-सम्बन्धाभावात् बिम्ब-प्रतिबिम्ब-भेदाभावात्, दृश्यत्वाभावाच् च । उपाधि-परिच्छिन्नाकाशस्थ-ज्योतिर्-अंशस्यैव प्रतिबिम्बो दृश्यते, न त्व् आकाशस्य दृश्यत्वाभावाद् एव ॥२ह्॥ (३७)
बलदेवः : कुतो न वाच्य इति तद्-अनुपपत्तेर् एवेत्य् आह तत्र यद्य् उपाधेर् इति । परिच्छेद-पक्षं निराकरोति अनाविद्यकत्वेन रज्जु-भुजङ्गवद्-अज्ञान-रचितत्वाभावेन वस्तु-भूतत्वे सतीत्य् अर्थः । अविषयस्येति अगृह्यो न हि गृह्यते इति [बृ।आ।उ। ३.९.२६] श्रुतेः सर्वास्पृश्यस्य तस्य ब्रह्मण इत्य् अर्थः । इदम् अत्र बोध्यम्—न च टङ्क-च्छिन्न-पाषाण-खण्डवद्-वास्तवोपाधि-च्छिन्नो ब्रह्म-खण्ड-विशेष ईश्वरो जीवश् च । ब्रह्मणोऽच्छेद्यत्वाद् अखण्डत्वाभ्युपगमाच् च । आदिमत्त्वापत्तैश् चेश्वर-जीवयोः । यत एकस्य द्विधा त्रिधा विधानं छेदः । नाप्य् अच्छिन्न एवोपाधि-संयुक्तो ब्रह्म-प्रदेश-विशेष एव स सः । उपाधौ चलत्य् उपाधि-संयुक्ति-ब्रह्म-प्रदेश-चलनायोगात् प्रतिक्षणम् उपाधि-संयुक्त-ब्रह्म-प्रदेश-भेदाद् अनुक्षणम् उपहितत्वानुपहितत्वापत्तेः । न च कृत्स्नं ब्रह्मैवोपहितं स सः । अनुपहित-ब्रह्म-व्यपदेशासिद्धेः । नापि ब्रह्माधिष्ठानम् । उपाधिर् एव स सः ।मुक्तावीश-जीवाभावापत्तेर् इति तुच्छः परिच्छेद-वादः ।
अथ प्रतिबिम्ब-पक्षं निराकरोति निर्धर्मकस्येत्य् आदिना । निर्धर्मकस्योपादि-सम्बन्धाभावात् । व्यापकस्य बिम्ब-प्रतिबिम्ब-भेदाभावात् । निरवयवस्य दृश्यत्वाभावाच् च ब्रह्मणङ् प्रतिबिम्ब ईश्वरो जीवश् च नेत्य् अर्थः । रूपादि-धर्म-विशिष्टस्य परिच्छिन्नस्य सावयवस्य च सूर्यादेस् तद्-विदूरे जलाद्य्-उपाधौ प्रतिबिम्बो दृष्टः तद्-विलक्षणस्य ब्रह्मणः स न शक्यो वक्तुम् इत्य् अर्थः । नन्व् आकाशस्य तादृशस्यापि प्रतिबिम्ब-दर्शनाद् ब्रह्मणः स भविष्यतीति चेत् तत्राह उपाधीति ग्रह-नक्षत्र-प्रभा-मण्डलस्येत्य् अर्थः । अन्यथा वायुकाल-दिशाम् अपि स दर्शनीयः । यत् तु ध्वनेः पर्तिध्वनिर् इव ब्रह्मणः प्रतिबिम्बः स्याद् इत्य् आह तन् न चारु । अर्थान्तरत्वाद् इति प्रतिबिम्ब-वादोऽप्य् अतितुच्छः ॥३७॥
—ओ)०(ओ—
[२इ]
तथा वास्तव-परिच्छेदादौ सति सामानाधिकरण्य-ज्ञान-मात्रेण न तत्-त्यागश् च भवेत्। तत्-पदार्थ-प्रभावस् तत्र कारणम् इति चेद् अस्माकम् एव मतं सम्मतम् ॥३८॥
बलदेवः : ब्रह्मैवाहम् इति ज्ञान-मात्रेण तद्-रूपावस्थितिः स्याद् इति यद्-अभिमतं तत् खलूपाधेर् वास्तवत्व-पक्षे न सम्भवतीत्य् आह तथा वास्तवेति । आदिना प्रतिबिम्बो ग्राह्यः । न खलु निगडितः कश्चिद् दीनो राजैवाहम् इति ज्ञान-मात्राद् राजा भवन् दृष्ट इति भावः । ननु ब्रह्मानुसन्धि-सामर्थ्याद् भवेद् इति चेत् तत्राह तत्-पदार्थेति । तथा च त्वन्-मत-क्षतिर् इति ॥३८॥
—ओ)०(ओ—
[२ज्]
उपाधेर् आविद्यकत्वे तु तत्र तत्-परिच्छिन्नत्वादेर् अप्य् अघटमानत्वाद् आविद्यकत्वम् एवेति घटाकाशादिषु वास्तवोपाधिमय-तद्-दर्शनया न तेषाम् अवास्तव-स्वप्न-दृष्टान्तोपजीविनां सिद्धान्तः सिध्यति, घटमानाघटमानयोः सङ्गतेः कर्तुम् अशक्यत्वात् । ततश् च तेषां तत् तत् सर्वम् अविद्याविलसितम् एवेति स्वरूपम् अप्राप्तेन तेन तेन तत् तद् व्यवस्थापयितुम् अशक्यम् ॥२ज्॥ (३९)
बलदेवः : अथोपाधेर् आविद्यकत्व-पक्षे परिच्छेदादि-वाद-द्वयं निराकरोति उपाधेर् इति । आविद्यकत्वे रज्जु-भुजङ्गादिवन् मिथ्यात्वे सतीत्य् अर्थः । तत्रोपाधि-परिच्छिन्नत्व-तत्-प्रतिबिम्बत्वयोर् अप्य् अनुपपद्यमानत्वान् मिथ्यात्वम् एवेति हेतोः । घटाकाशादिष् घट-परिच्छिन्नाकाशे घटाम्बु-प्रतिबिम्बाकाशे च वास्तवोओपाधिमय-तद्-उभय-दृष्टान्त-दर्शनया तेषां चिन्मात्राद्वैत्नाम् एकजीववाद-परिनिष्ठत्वाद् अवास्तव-स्वप्न-दृष्टान्तोपजीविनां सिद्धान्तो न सिध्यति ।
उपाधेर् मिथ्यात्वे तेन परिच्छेदःप्रतिबिम्बश् च ब्रह्मणो मिथैव स्यात् । अतो मिथ्योपाधि-दृष्टान्तत्वेन सत्य-घट-घटाम्बुनोः प्रदर्शनम् असमञ्जसम् एव । घट-घटाम्बु-दृष्टान्त-प्रदर्शनं घटमानम्, विद्याविधा-वृत्ति-रूप-दार्ष्टान्तिक-प्रदर्शनं स्व-घट-मानम् । तयोः सङ्गतिः सादृश्य-विलक्षणा कर्तुम् अशक्यैव सादृश्याभावात् । ततश् चेति तत् तत् सर्वं परिच्छेद-प्रतिबिम्ब-कल्पनम् अविद्याविलसितम् अज्ञान-विजृम्भितम् एव । इति एवम्-उक्त-रीत्या । स्वरूपम् अप्राप्तेन असिद्धेन । तेन परिच्छेदवादेन । तेन प्रतिबिम्बवादेन च । तत्-तद्-व्यवस्थापयितुं प्रतिपादयितुम् अशक्यम् । ततश् च हन्तृ-हत-न्यायेन व्यास-दृष्ट-प्रकारकस् तद्-विभागो ध्रुवः ॥३९॥
—ओ)०(ओ—
[२क्]
इति ब्रह्माविद्ययोः पर्यवसाने सति यद् एव ब्रह्म चिन्-मात्रत्वेनाविद्या-योगस्य अत्यन्ताभावास्पदत्वाच् छुद्धं, तद् एव तद्-योगाद् अशुद्ध्या जीवः । पुनस् तद् एव जीवाविद्या-कल्पित-मायाश्रयत्वाद् ईश्वरः, तद् एव च तन्-माया-विषयत्वाज् जीव इति विरोधस् तद्-अवस्थ एव स्यात् । तत्र च शुद्धायां चित्य् अविद्या । तदविद्या-कल्पितोपाधौ तस्याम् ईश्वराख्यायां विद्येति, तथा विद्यावत्त्वेऽपि मायिकत्वम् इत्य् असमञ्जसा च कल्पना स्याद् इत्य्-आद्य् अनुसन्धेयम् ॥२क्॥ (४०)
बलदेवः : ननु परिच्छेदादि-वाद-द्वये नास्माकं तात्पर्यं तस्याज्ञ-बोधनाय कल्पितत्वात् । किन्त्व् एक-जीव-वाद एव तद् अस्ति ।
स एव माया परिमोहितात्मा
शरीरम् आस्थाय करोति सर्वम् ।
स्त्रियन्न-पानादि-विचित्र-भोगैः
स एव जाग्रत् परितुष्टिम् एति ॥ [कैवल्य।उ। १२]
इत्य्-आदि-कैवल्योपनिषदि तस्यैवोपपादितत्वात् । तद्-वादश् चेत्थम् एकम् एवाद्वितीयम् इत्य् आद्य् उक्त-श्रुतिभ्योऽद्वितीय-चिन्-मात्रो ह्य् आत्मा । स चात्मन्य् अविद्यया गुणमयीं मायां तद्-वैषम्यजां कार्य-संहितं च कल्पन्यन्न् अस्मद्-अर्थम् एकं युष्मद्-अर्थांश् च बहून् कल्पयति । तत्रास्मद्-अर्थः स्व-स्वरूपः पुरुषः । युष्मद्-अर्थश् च महद्-आदीनि भूम्य्-अन्तानि जडानि । स्व-तुल्यानि पुरुषान्तराणि, सवश्वराख्यः पुरुष-विशेषश् चेत्य् एवं त्रिविधः । जीवेशाव् आभासेन करोति माया चाविद्या च स्वयम् एव भवति [नृ।ता।उ। २.९] इति श्रुत्य्-अन्तराच् च । गुण-योगाद् एव कर्तृत्व-भोक्तृत्वे तत्रात्मन्य् अध्यस्ते । यथा स्वप्ने कश्चिद् राजधानीं राजानं तत्-प्रजाश् च कल्पयति, तन्-नियम्यम् आत्मानं च मन्यते, तद्वत् । जाते च ज्ञाने, जागरे च सति, ततोऽन्यन् न किञ्चिद् अस्तीति चिन्मात्रम् एकम् आत्म-स्वस्त्व् इति ।
तम् इमं वादं निराकर्तुम् आह इति ब्रह्मेति । इति एवं पूर्वोक्त-रीत्या परिच्छेदादि-वाद-द्वयस्य प्रत्याख्याने जाते, ब्रह्म चाविद्या चेति द्वयोः पर्यवसाने सतीत्य् अर्थः । अत्यन्ताभावास्पदत्वाद् इति अगृह्यो न हि गृह्यते [बृ।आ।उ। ३.९.२६] इत्य्-आदि श्रुतेर् एवेत्य् अर्थः । विरोधस् तद्-अवस्थ इति वोरोधत्वाद् एवाशक्य-व्यवस्थापन इत्य् अर्थः । तव च शुद्धायाम् इति शुद्धे ब्रह्मण्य् अकस्माद् अविद्या-सम्बन्धस् तत्-सम्बन्धात् तस्य जीवत्वम् । तेन जीवेन कल्पिताया मायाया आश्रयो भूत्वा तद् ब्रह्मैवेश्वरः । तस्येश्वरस्य मायया परिभूतं ब्रह्मैव तज्-जीवः । इत्य्-आदि विप्रलापोऽयम् अविदुषाम् एव, न तु विदुषाम् इति भावः । मायिकत्वं प्रतारकत्वम् इत्य् अर्थः । स एव माया इति श्रुतिस् तु ब्रह्मायत्त-वृत्तिकत्व-ब्रह्म-व्याप्यत्वाभ्यां ब्रह्मणोऽनतिरिक्तो जीव इत्य् एव निवेदयन्ती गतार्था । जीवेशौ इति श्रुतिस् तु माया-विमोहित-तार्किकादि-परिकल्पित-जीवेश-परतया गत्âर्थेति न किञ्चिद् अनुपपन्नम् ॥२क्॥(४०)
—ओ)०(ओ—
[२ल्]
किं च, यद्य् अत्राभेद एव तात्पर्यम् अभविष्यत्, तर्ह्य् एकम् एव ब्रह्माज्ञानेन भिन्नम्, ज्ञानेन तु तस्य भेद-मयं दुःखं विलीयत इत्य् “अपश्यद्” इत्य् एवावक्ष्यत् । तथा श्री-भगवल्-लीलादीनां वास्तवत्वाभावे सति श्री-शुक-हृदय-विरोधश् च जायते ॥२ल्॥ (४१)
सर्व-संवादिनी : अत्र श्री-शुक-हृदय-विरोधश् चैवम्—यदि भगवतोऽप्य् अविद्या-मयम् एव वैभवं स्यात् तदा श्री-शुकस्य तल्-लीलाकृष्टत्वं न स्याद् इति मूले चैवम् अग्रतो श्री-भगवत्-सन्दर्भे [८४] सुष्ठु विचारयिष्यति ॥२ल्॥ (४१)
बलदेवः : अनुपपत्त्य्-अन्तरम् आह किं चेति । अत्र श्री-भागवते शास्त्रे । इत्य् एवेति पूर्णः पुरुषः कश्चिद् अस्ति तद्-आश्रितया मायया जीवो विमोहितोऽनर्थं भजति । तद्-अनर्थोपशमनी च पूर्णस्य तस्य भक्तिः इत्य् अपश्यत् । इत्य् एवं नावक्ष्यद् इत्य् अर्थः ॥४१॥
—ओ)०(ओ—
[२म्]
तस्मात् परिच्छेद-प्रतिबिम्बत्वादि-प्रतिपादक-शास्त्राण्य् अपि कथञ्चित् तत्-सादृश्येन गौण्यैव वृत्त्या प्रवर्तेरन् । अम्बुवद् अग्रहणात् तु न तथात्वं [वे।सू। ३.२.१९], वृद्धि-ह्रास-भाक्त्वम् अन्तर्-भावाद् उभय-सामञ्जस्योदेवं [वे।सू। ३.२.२०] इति पूर्वोत्तर-पक्ष-मय-न्यायाभ्याम् ॥२म्॥ (४२)
बलदेवः : तस्माद् इति । तत्-सादृश्येन परिच्छिन्न-प्रतिबिम्ब-तुल्यत्वेनेत्य् अर्थः । सिंहो देवदत्तः इत्य् अत्र यथा गौण्या वृत्त्या सिंह-तुल्यत्वं देवदत्तस्योच्यते, न तु सिंहत्वं तद्वद् इत्य् अर्थः । नन्व् एवं केन निर्णीतम् इति चेत् । सूत्रकृता श्री-व्यासेनैवेति तत् सूत्र-द्वयं दर्शयति ।
तत्रैकेन तद्वाद-द्वयम् असम्भवान् निरस्यति अम्बुवद् इति । यथाम्बुना भू-खण्डस्य परिच्छेदः, एवम् उपाधिना ब्रह्म-प्रदेशस्य स स्यात् । न, अम्बुना भूखण्डस्येवोपाधिना ब्रह्म-प्रदेशस्य ग्रहणाभावात् । अगृह्यो न हि गृह्यते [बृ।आ।उ। ३.९.२६] इति हि श्रुतिः । अतो न तथात्वं ब्रह्मण उपाधि-परिच्छिन्नत्वं नेत्य् अर्थः ।
यद् वा, अम्बुनि यथा रवेः पर्तिबिम्बः परिच्छिन्नस्य गृह्यते, एवम् उपाधौ ब्रह्मणः प्रतिबिम्बो व्यापकस्य न गृह्यते । अतो न तथात्वं तस्य प्रतिबिम्बो नेत्य् अर्थः । तर्हि शास्त्र-द्वयं कथं सङ्गच्छते । तत्राह, वृद्धीति द्वितीयेन । तद् द्वयं न मुख्य-वृत्त्या प्रवर्तते । किन्तु वृद्धि-ह्रास-भाक्त्वं गुणांशम् आदायैव । यथा महद्-अल्पौ भू-खण्डौ, यथा च रवि-तत्-प्रतिबिम्बौ वृद्धि-ह्रास-भाजौ, तथा परेश-जीवौ स्याताम् । कुतः? अन्तर्भावात् । एतस्मिन्न् अंशे शास्त्र-तात्पर्य-पूर्तेः । एवं सत्य् उभयोर् दृष्टान्तान्तिकयोः सामञ्जस्यात् सङ्गतेर् इत्य् अर्थः । पूर्व-न्यायेन परिच्छेदादि-वाद-द्वयस्य खण्डनम्, उत्तर-न्यायेन तु गौण-वृत्त्या तस्य व्यवस्थापनम् इति । ब्रह्मणः खण्डःय् प्रतिबिम्बो वा जीव एवेति सूत्र-कृतां मतम् । ईशोऽपि ब्रह्मणः खण्डः प्रतिबिम्बो वेति मायिनाम् ईश-विमुखानां मतम् इति बोधव्यम् ॥४२॥
—ओ)०(ओ—
[२न्]
तत एवाभेद-शास्त्राण्य् उभयोश् चिद्-रूपत्वे जीव-समूहस्य दुर्घट-घटना-पटीयस्या स्वाभाविक-तद्-अचिन्त्य-शक्त्या स्वभावत एव तद्-रश्मि-परमाणु-गुण-स्थानीयत्वात् तद्-व्यतिरेकेणाव्यतिरेकेण च विरोधं परिहृत्याग्रे मुहुर् अपि तद् एतद्-व्यास-समाधि-लब्ध-सिद्धान्त-योजनाय योजनीयानि ॥२न्॥ (४३)
बलदेवः : तत इति परिच्छेदादि-शास्त्र-द्वयस्य तत्-सादृश्यार्थकत्वेन नीतत्वाद् एव हेतोः । त्वं वा अहम् अस्मि भगवो देव, अहं वै त्वम् असि तत्त्वम् असि इत्य् आदीन्य् अभेद-शास्त्राणि । तद् एतद् व्यास-समाधि-सिद्धान्त-योजनाय मुहुर् अप्य् अग्रे योजनीयानीति सम्बन्धः । केन हेतुनेत्य् आह उभयोर् ईश-जीवयोश् चिद्-रूपत्वेन हेतुना । यथा गौर-श्यामयोस् तरुण-कुमारयोर् वा विप्रयोर् विप्रत्वेनैक्यम् । ततश् च जात्यैवाभेदो, नतु व्यक्तोर् इत्य् अर्थः । तथा जीव-समूहस्य दुर्घट-घटना-पटीयस्या तद्-अचिन्त्य-शक्त्या स्वभावत एव तद्-रश्मि-परमाणु-गुण-स्थानीयत्वात् तद्-व्यतिरेकेण, अव्यतिरेकेण च हेतुना विरोधं परिहृत्येति । परेशस्य खलु स्वरूपानुबन्धिनी पराख्या शक्तिर् उष्णतेव रवेर् अस्ति । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकीज्ञान-बल-क्रिया च [श्वे।उ। ६.८] इति मन्त्र-वर्णात् । विष्णु-शक्तिः परा प्रोक्ता [वि।पु। ६.७.६१] इति स्मरणाच् च । सा हि तद्-इतरान् निखिलान् नियमयति । यस्मात् तद् अन्ये सर्वेऽर्थाः स्वस्वभावम् अत्यजन्तो वर्तन्ते । प्रकृतिः कालः कर्म च स्वान्तः-स्थितम् अपीश्वरं स्पर्ष्टुं न शक्नोति । किन्तु ततो बिभ्येद् एव स्वस्वभावे तिष्ठति । जीव-गणाश् च तत्-सजातीयोऽपि न तेन सम्पर्चितुं शक्नोति किन्तु तमाश्रयन्न् एव वृत्तिं लभते । मुख्य-प्राणम् इव श्रोत्रादिर् इन्द्रिय-गण इति । तथा यद्-अत्तिर् यद्-अधीना स तद्-रूपः इत्य् अभेद-शास्त्रस्यापि भेद-शास्त्रेण सार्धम् अविरोधोऽयं श्री-व्यास-समाधि-लब्ध-सिद्धान्त-सव्यपेक्ष इति । तथा चात्रेश-जीवयोः स्वरुऊपाभेदो नास्तीति सिद्धम् ॥४३॥
—ओ)०(ओ—
[२ओ]
तद् एवं मायाश्रयत्व-माया-मोहितत्वाभ्यां स्थिते द्वयोर् भेदे तद्-भजनस्यैव अभिधेयत्वम् आयातम् ॥४४॥
तद् एवम् इति स्फुटार्थम् । तद्-भजनस्य माया-निवारकस्येत्य् अर्थः ॥४४॥
—ओ)०(ओ—
[२प्]
अतः श्री-भगवत एव सर्व-हितोपदेष्टृत्वात्, सर्व-दुःख-हरत्वात्, रश्मीनां सूर्यवत् सर्वेषां परम-स्वरूपत्वात्, सर्वाधिक-गुण-शालित्वात्परम-प्रेम-योगत्वम् इति प्रयोजनं च स्थापितम् ॥४५॥
बलदेवः : माया-मोह-निवारकत्वाद् यस्य भजनम् अभिधेयम्, स भगवान् एव भजतां प्रेम-योग्य इत्य् अर्थाद् आगतम् इत्य् आह अत इति । अतो मायामोह-निवारक-भजनत्वाद् भगवत एव परम-प्रेम-योग्यत्वम् इति सम्बन्धः । जीवात्मा प्रेम-योग्यः, परमात्मा भगवांस् तु परम-प्रेम-योग्य इत्य् अर्थः । कुत इत्य् अपेक्षायां हेतु-चतुष्टयम् आह सर्वेति । रश्मीनाम् इत्य्-आदि—सूर्यो यथा रश्मीनां स्वरूपं न, किन्तु परम-स्वरूपम् एव भवत्य् एवं जीवानां भगवान् इति स्वरूपैक्यं निरस्तम् । अन्तर्यामि-ब्राह्मणात् सौबाल-ब्राहमणाच् च जीवात्मनः परमात्मनः शरीराणि भवन्ति, स तु तेषां शरीरी इति भेदः प्रस्फुटो ज्ञातः । अतः सर्वाधिकेति ॥४५॥
—ओ)०(ओ—
[२क़्]
तत्राभिधेयं च तादृशत्वेन दृष्टवान् अपि, यतस् तत्-प्रवृत्त्य्-अर्थं श्री-भागवताख्याम् इमां सात्वत-संहितां प्रवर्तितवान् इत्य् आह—अनर्थेति । भक्ति-योगः श्रवण-कीर्तनादि-लक्षणः साधन-भक्तिः, न तु प्रेम-लक्षणः । अनुष्ठानं ह्य् उपदेशापेक्षं, प्रेम तु तत्-प्रसादापेक्षम् इति । तथापि तस्य तत्-प्रसाद-हेतोस् तत्-प्रेम-फल-गर्भत्वात् साक्षाद् एवानर्थोपशमनत्वम्, न त्व् अन्य-सापेक्षत्वेन । यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् [भा।पु। ११.२०.३२] इत्य् आदौ, सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं [भा।पु। ११.२०.३३] इत्य् आदेः । ज्ञानादेस् तु भक्ति-सापेक्षत्वम् एव,श्रेयः-सृतिं भक्तिं [भा।पु। १०.१४.४] इत्य् आदेः ।
अथवा, अनर्थस्य संसार-व्यसनस्य तावत् साक्षाद्-अव्यवधानेनोपशमनं सम्मोहादि-द्वयस्य तु प्रेमाख्य-स्वीय-फल-द्वारेत्य् अर्थः । अतः पूर्ववद् एवात्राभिधेयं दर्शितम् ॥४६॥
बलदेवः : तत्राभीति । तादृशत्वेन मायानिवारकत्वेन । दृष्टवान् अपि श्री-व्यासः । अनुष्ठानं कृति-साध्यम् । तत्-प्रसादेति भगवद्-अनुग्रहेत्य् अर्थः । तस्य श्रवणादि-लक्षणस्य । अन्य-सापेक्षत्वेन कर्मादि-परिकरत्वेन । ज्ञानादेस् त्व् इति ज्ञानम् अत्र यस्य ब्रह्म [पगे ६] इत्य् उक्त-ब्रह्म-विषयकम् । सम्मोहादीयादि-पदाद् आत्मनो जड-देहादि-रूपता-मननं ग्राह्यम् । अत इति । अत्र अनर्थेति वाक्ये ॥४६॥
—ओ)०(ओ—
[२र्]
अथ पूर्ववद् एव प्रयोजनं च स्पष्टयितुं पूर्वोक्तस्य पूर्ण-पुरुषस्य च श्री-कृष्ण-स्वरूपत्वं व्यञ्जयितुं ग्रन्थ-फल-निर्देश-द्वारा तत्र तद्-अनुभवान्तरं प्रतिपादयन्न् आह—“यस्याम्” इति । भक्तिः प्रेमा, श्रवण-रूपया साधन-भक्त्या साध्यत्वात्। “उत्पद्यते” आविर्भवति ।
तस्यानुषङ्गिकं गुणम् आह—“शोक-” इति । अत्रैषां संस्कारोऽपि नश्यतीति भावः,प्रीतिर् न यावन् मयि वासुदेवे न मुच्यते देह-योगेन तावत् [भा।पु। ५.५.६] इति श्री-ऋषभ-देव-वाक्यात् । “परम-पुरुषे” पूर्वोक्त-पूर्ण-पुरुषे ।
किम्-आकारः ? इत्य् अपेक्षायाम् आह—“कृष्णे” । कृष्णस् तु भगवान् स्वयम् [भा।पु।१.३.२८] इत्य्-आदि शास्त्र-सहस्र-भावितान्तः-करणानां परम्परया तत्-प्रसिद्धि-मध्य-पातिनां चासाङ्ख्य-लोकानां तन्-नाम-श्रवण-मात्रेण यः प्रथम-प्रतीति-विषयः स्यात्, तथा तन्-नाम्नः प्रथमाक्षर-मात्रं मन्त्राय कल्पमानं यस्याभिमुख्याय स्यात्, तद्-आकार इत्य् अर्थः । आहुश् च नाम-कौमुदी-काराः—कृष्ण-शब्दस्य तमाल-श्यामल-त्विषि यशोदायाः स्तनन्धये पर-ब्रह्मणि रूढिः इति ॥२र्॥ (४७)
बलदेवः : अथेति । प्रयोजनं भगवत्-प्रेम-लक्षणम् । तत्रेति तत्र समाधौ श्री-व्यासस्यान्यम् अनुभवम् इत्य् अर्थः । आविर्भवतीति प्रेम्णः परासारांशत्वेनोत्पत्त्य्-असम्भवाद् इत्य् अर्थः । तस्येति प्रेम्णः । अत्र प्रेम्णि सति । कृष्णस् तु भगवान् स्वयम् इति श्री-सूतादीनां श्री-जयदेवादीनां चासङ्ख्य-लोकानाम् इत्य् अर्थः । तन्-नाम इति तन्-नाम्नः इति चोभयत्र कृष्णेति नाम बोध्यम् । रूढिर् इति प्रकृति-प्रत्यय-सम्बन्धं विनैव यशोदा-सुते प्रसिद्धिर् मण्डप-शब्दस्येव गृह-विशेष इत्य् अर्थः ॥४७॥
[२स्]
अथ तस्यैव प्रयोजनस्य ब्रह्मानन्दानुभवाद् अपि परमत्वम् अनुभूतवान् । यतस् तादृशं शुकम् अपि तद्-आनन्द-वैशिष्ट्य-लम्भनाय ताम् अध्यापयामासेत्य् आह—“स संहिताम्” इति । “कृत्वानुक्रम्य च” इति प्रथमतः स्वयं सङ्क्षेपेण कृत्वा, पश्चात् तु श्री-नारदोपदेशाद् अनुक्रमेण विवृत्येत्य् अर्थः ।
अतएव श्रीमद्-भागवतं भारतानन्तरं यद् अत्र श्रूयते, यच् चान्यत्राष्टादश-पुराणानन्तरं भारतम् इति तद्-द्वयम् अपि समाहितं स्यात् । ब्रह्मानन्दानुभव-निमग्नत्वात् “निवृत्ति-निरतं” सर्वतो निवृत्तौ निरतम्, तत्राव्यभिचारिणम् अपीत्य् अर्थः ॥२स्॥ (४८)
बलदेवः : अथेति ब्रह्मानन्दाद् यस्य ब्रह्मेत्य् उक्त-वस्तु-सुखाद् अपि । परमत्वम् उत्कृष्टत्वम् अनुभूतवान् श्री-व्यासः । तादृशं तद्-आनन्दानुभवैनम् अपि । तद्-आनन्देति कृष्ण-प्रेमानन्द-प्रापणायेत्य् अर्थः । अत एवेति । यद् अत्रेति अत्र श्री-भागवते । अन्यत्र मात्स्यादौ—अष्टादश-पुराणानि कृत्वा सत्यवती-सुतः । चक्रे भारतम् आख्यानं वेदार्थैर् उपबृंहितम् इत्य् अनेनेत्य् अर्थः । तत्रेति निवृत्ताव् इत्य् अर्थः ॥४८॥
—ओ)०(ओ—
[२त्]
तम् एतं श्री-वेद-व्यासस्य समाधि-जातानुभवं श्री-शौनक-प्रश्नोत्तरत्वेन विशदयन् सर्वात्मारामानुभवेन स-हेतुकं संवादयति—“आत्मारामाश् च” [१.७.१०] इति । “निर्ग्रन्था” विधि-निषेधातीता निर्गताहङ्कार-ग्रन्थयो वा । “अहैतुकीं” फलानुसन्धि-रहिताम् । अत्र सर्वाक्षेप-परिहारार्थम् आह—“इत्थम्भूत” आत्मारामाणाम् अप्य् आकर्षण-स्वभावो “गुणो” यस्य स इति ।
तम् एवार्थं श्री-शुकस्याप्य् अनुभवेन संवादयति—“हरेर् गुण-” [१.७.११] इति । श्री-व्यासदेवाद् यत्-किञ्चिच्-छ्रुतेन गुणेन पूर्वम् “आक्षिप्ता मतिर्” यस्य सः । पश्चाद् “अध्यगात्”“महद्” विस्तीर्णम् अपि । ततश् च तत्-सङ्कथा-सौहार्देन “नित्यं”“विष्णु-जनाः प्रिया” यस्य तथा-भूतो वा, तेषां प्रियो वा स्वयम् अभवद् इत्य् अर्थः ।
अयं भावः—ब्रह्म-वैवर्तानुसारेण पूर्वं तावद् अयं गर्भम् आरभ्य श्री-कृष्णस्य स्वैरितया माया-निवारकत्वं ज्ञातवान् । तत्र श्री-वेद-व्यासस् तु तं वशीकर्तुं तद्-अनन्य-साधनं श्री-भागवतम् एव ज्ञात्वा, तद्-गुणातिशय-प्रकाश-मयांस् तदीय-पद्य-विशेषान् कथञ्चिच् छ्रावयित्वा, तेनाक्षिप्त-मतिं कृत्वा, तद् एव पूर्णं तम् अध्यापयामास इति श्री-भागवत-महिमातिशयः प्रोक्तः ।
तद् एवं दर्शितं वक्तुः श्री-शुकस्य वेदव्यासस्य च समान-हृदयम् । तस्माद् वक्तुर् हृदयानुरूपम् एव सर्वत्र तात्पर्यं पर्यालोचनीयं, नान्यथा । यद् यत् तद् अन्यथा पर्यालोचनम्, तत्र तत्र कुपथ-गामितैवेति निष्टङ्कितम् ॥२त्॥ (४९)
॥ १.७ ॥ श्री-सूतः ॥ २ ॥
बलदेवः : समाधि-दृष्टस्यार्थस्य सर्व-तत्त्वज्ञ-सम्मतत्वम् आह—तम् इत्य्-आदिना । निर्गताहङ्कारेति । महत्-तत्त्वाज् जातोऽयम् अहङ्कारः, न तु स्वरूपानुबन्धीति बोध्यम्, द्वितीये सन्दर्भे एवम् एव निर्णेष्यमाणत्वात् । तदीय-पद्य-विशेषान् इति पूतना-धात्री-गति-दान-पाण्डव-सारथ्य-प्रतीहारत्वादि-प्रदर्शकान् कतिचिच् छ्लोकान् इत्य् अर्थः । ब्रह्म-वैवर्ते शुको योनि-जातः, भारते त्व् अयोनि-जातः कथ्यते । दार-ग्रहणं कन्या-सन्ततिश् चेति । तद् एतत् सर्वं कल्प-भेदेन सङ्गमनीयम् ॥४९॥
—ओ)०(ओ—
[३]
अथ क्रमेण विस्तरतस् तथैव तात्पर्यं निर्णेतुं सम्बन्धाभिधेय-प्रयोजनेषु षड्भिः सन्दर्भैर् निर्णेष्यमाणेषु प्रथमं यस्य वाच्य-वाचकता-सम्बन्धीदं शास्त्रं, तद् एव धर्मः प्रोज्झित-कैतवः इत्य्-आदि-पद्ये सामान्याकारतस् तावद् आह—
वेद्यं वास्तवम् अत्र वस्तु [भा।पु।१.१.२] इति ॥
टीका च—अत्र श्रीमति सुन्दरे भागवते वास्तवं परमार्थ-भूतं वस्तु वेद्यम्, न तु वैशेषिकादिवद् द्रव्य-गुणादि-रूपम् इत्य् एषा ॥३॥ (५०)
॥१.१॥ वेद-व्यासः ॥ ३ ॥
बलदेवः : सङ्क्षेपेणोक्तं सम्बन्धादिकं विस्तरेण दर्शयितुम् उपक्रमते अथेत्यादि । तथैवेति श्री-शुकादि-हृदयानुसारेणेत्य् अर्थः । सामान्यत इति अनिर्दिष्ट-स्वरूप-गुण-विभूति-कथनायेत्य् अर्थः । वैशेषिकादिवद् इति कणाद-गौतमोक्त-शास्त्रवद् इत्य् अर्थः ॥५०॥
[४]
अथ किं-रूपं तद्वस्तु-तत्त्वम् ? इत्य् अत्राह—
वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयं [भा।पु। १.२.११] इति ।
“ज्ञानं” चिद्-एक-रूपम् । “अद्वयत्वं” चास्य स्वयं-सिद्ध-तादृशातादृश-तत्त्वान्तराभावात् स्व-शक्त्य्-एक-सहायत्वात्, परमाश्रयं तं विना तासाम् असिद्धत्वाच् च । “तत्त्वम्” इति परम-पुरुषार्थता-द्योतनया परम-सुख-रूपत्वं तस्य बोध्यते । अत एव तस्य नित्यत्वं च दर्शितम् ॥
॥ १.२ ॥ श्री-सुतः ॥ ४ ॥
बलदेवः : स्वरूप-निदेश-पूर्वकं तत्त्वं वक्तुम् अवतारयति अथ किम् इति । स्वयं सिद्धेति आत्मनैव सिद्धं खलु स्वयं सिद्धम् उच्यते । स्वयं दासास् तपस्विनः इत्य् अत्र तपस्व्-दास्यम् आत्मना तपस्विनैव सिद्धं प्रतीयते तद्वत् । तादृशं च परेश-वस्त्व् एव, न तु तादृशम् अपि जीव-चैतन्यम्, न त्व् अतादृशं प्रकृति-काल-लक्षणं जड-वस्तु । तद्-अभावाद् अद्वयत्वम् । तयोः स्वयंसिद्धत्वाभावः कुतः । इत्य् अत्राह परमाश्रयं तं विनेति । स्व-शक्त्येक-सहायेऽप्य् अद्वय-पदं प्रयुज्यते धनुर् द्वितीयः पाण्डुर् इति ।
ननु वेदान्ते व्ज्ञानम् आनन्दं ब्रह्म इति । विज्ञानानद-स्वरूपं ब्रह्म पठ्यते, इह ज्ञानम् इति कथम् । तत्राह तत्त्वम् इति । इदम् अत्र तत्त्वम् इत्य् उक्ते सारे वस्तुनि तत्त्व-शब्दो नीयते । सारं च सुखम् एव सर्वेषाम् उपायानां तद्-अर्थत्वात् । तथा च सुख-रूपत्वम् अपि तस्यागतम् । ननु ज्ञानं सुखं चानित्यं दृष्टं तत्राह अतएवेति । स्वयंसिद्धत्वेन व्याख्यानान् नित्यं तद् इत्य् अर्थः । सद्-अकारणं यत् तन् नित्यम् इति हि तीर्थकाराः । एवं च तादृश-ब्रह्म-सम्बन्धीदं शास्त्रम् इत्य् उक्तम् ॥४॥ (५१)
—ओ)०(ओ—
[५]
ननु नील-पीताद्य्-आकारं क्षणिकम् एव ज्ञानं दृष्टम्, तत् पुनर् अद्वयं नित्यं ज्ञानं कथं लक्ष्यते, यन्-निष्ठम् इदं शास्त्रम् ? इत्यत्राह—
सर्व-वेदान्त-सारं यद् ब्रह्मात्मैकत्व-लक्षणम् ।
वस्त्व् अद्वितीयं तन्-निष्ठं कैवल्यैक-प्रयोजनम् ॥ [भा। १२.१३.१२] इति ।
सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.१] इति यस्य स्वरूपम् उक्तम्, येनाश्रुतं श्रुतं भवति [छा।उ।६.१.३] इति यद्-विज्ञानेन सर्व-विज्ञानं प्रतिज्ञातम्,सद् एव सौम्येदम् अग्र आसीत् [छा।उ। ६.२.१] इत्य्-आदिना निखिल-जगद्-एक-कारणता,तद् ऐक्षत बहु स्यां [छा।उ। ६.२.३] इत्य् अनेन सत्य-सङ्कल्पता च यस्य प्रतिपादिता, तेन ब्रह्मणा स्वरूप-शक्तिभ्यां सर्व-बृहत्तमेन सार्धम्,अनेन जीवेनात्मना [छा।उ। ६.३.२] इति तदीयोक्ताविदन्ता-निर्देशेन ततो भिन्नत्वेऽप्य् आत्मता-निर्देशेन तद्-आत्मांश-विशेषत्वेन लब्धस्य बादरायण-समाधि-दृष्ट-युक्तेर् अत्यभिन्नता-रहितस्य जीवात्मनो यद् एकत्वं तत्त्वम् असि [छा।उ। ६.८.७] इत्य् आदौ ज्ञाता,तद्-अंश-भूत-चिद्-रूपत्वेन समानाकारता । तद् एव लक्षणं प्रथमतो ज्ञाने साधकतमं यस्यतथाभूतम्, यत् सर्व-वेदान्त-सारम् अद्वितीयं वस्तु तन्-निष्ठं तद्-एक-विषयम् इदं श्री-भागवतम् इति प्राक्तन-पद्य-स्थेनानुषङ्गः ।
यथा जन्म-प्रभृति कश्चिद् गृह-गुहावरुद्धः सूर्यं विविदिषुः कथञ्चिद् गवाक्ष-पतितं सूर्यांशु-कणं दर्शयित्वा केनचिद् उपदिश्यते “एष सः” इति । “एतत् तद्-अंश-ज्योतिः-समानाकारतया तन्-महा-ज्योतिर्-मण्डलम् अनुसन्धीयताम्” इत्य् अर्थः । तद्वज् जीवस्य तथा तद्-अंशत्वं च तच्-छक्ति-विशेष-सिद्धत्वेनैव परमात्म-सन्दर्भे[§§१९-४७]स्थापयिष्यामः । तद् एतज्जीवादि-लक्षणांश-विशिष्टतयैवोपनिषदस् तस्य सांशत्वम् अपि क्वचिद् उपदिशन्ति, निरंशत्वोपदेशिका श्रुतिस् तु केवल-तन्-निष्ठा ।
अत्र “कैवल्यैक-प्रयोजनम्” इति चतुर्थ-पादश् च कैवल्य-पदस्य शुद्धत्व-मात्र-वचनत्वेन । शुद्धत्वस्य च शुद्ध-भक्तित्वेन पर्यवसानेन प्रीति-सन्दर्भे [§१] व्याख्यास्यते ॥
॥१२.१३॥ श्री-सूतः ॥ ५ ॥
बलदेवः : आर्थिकं नित्यत्वं स्थिरं कुर्वन्, शास्त्रस्य विशिष्ट-ब्रह्म-सम्बन्धित्वम् आह—ननु नीलेत्य् आदिना । अनेन जीवेनेत्य् आदि । तदीयोक्तौ परदेवता-वाक्ये । तद्-आत्मांश-विशेषत्वेन तद्-विभिन्नांशत्वेन, न तु मत्स्यादिवत्स्वांशत्वेनेत्य् अर्थः । जीवात्मनो यद् एकत्वम् इति जीवस्य चिद्-रूपत्वेन जात्या यद्-ब्रह्म-समानाकारत्वं तद् एव तस्य ब्रह्मणा सहैक्यम् इति व्यक्ति-भेदः प्रस्फुटः । एवम् एव यथेत्यादि-दृष्टान्तेनापि दर्शितः । तद् एतद् इति उपनिषदः सोऽकामयत बहु स्याम् इत्य् आद्याः । निरंशत्वोपदेशिकेति सत्यं ज्ञानम् अनन्तं [तै।उ।२.१], निष्कलं निष्रियं शान्तं निरवद्यं निरञ्जनं [श्वे।उ। ६.१९] इत्य् आद्या श्रुतिस् तु केवल-तन्-निष्ठा विशेष्य-मात्र-परेत्य् अर्थः । अनभिव्यक्त-संस्थान-गुणकं ब्रह्म वदतीति यावत् ॥५२॥
—ओ)०(ओ—
[६]
तत्र यदि त्वम्-पदार्थस्य जीवात्मनो ज्ञानत्वं नित्यत्वं च प्रथमतो विचार-गोचरः स्यात्, तदैव तत्-पदार्थस्य तादृशत्वं सुबोधं स्याद् इति । तद् बोधयितुम् अन्यार्थश् च परामर्शः [वे।सू। १.३.२०] इति न्यायेन जीवात्मनस् तद्-रूपत्वम् आह—
नात्मा जजान न मरिष्यति नैधतेऽसौ
न क्षीयते सवन-विद्व्यभिचारिणां हि ।
सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं
प्राणो यथेन्द्रिय-बलेन विकल्पितं सत् ॥ [भा।पु। ११.३.३८]
“आत्मा”3 शुद्धो जीवः । “न जजान” न जातः, जन्माभावाद् एव तद्-अनन्तरास्तिता-लक्षणो विकारोऽपि नास्ति । “नैधते” न वर्धते, वृद्ध्य्-अभावाद् एव विपरिणामोऽपि निरस्तः । “हि” यस्मात् । “व्यभिचारिणाम्” आगमापायिनां बाल-युवादि-देहानां देव-मनुष्याद्य्-आकार-देहानां वा । “सवन-वित्” तत्-तत्-काल-द्रष्टा, नह्य् अवस्थावतां द्रष्टा तद्-अवस्थो भवतीत्य् अर्थः ।
निरवस्थः कोऽसाव् आत्मा ? अत आह—“उपलब्धि-मात्रं” ज्ञानैक-रूपम् । कथम्-भूतम् ?“सर्वत्र” देहे, “शश्वत्” सर्वदा अनुवर्तमानम् इति ।
ननु, नील-ज्ञानं नष्टं पीत-ज्ञानं जातम् इति प्रतीतेर् न ज्ञानस्यानपायित्वम् ? तत्राह—“इन्द्रिय-बलेन” इति । सद् एव ज्ञानम् एकम् इन्द्रिय-बलेन विविधं कल्पितम् । नीलाद्य्-आकारा वृत्तय एव जायन्ते नश्यन्ति च, न ज्ञानम् इति भावः । अयम् आगमापायितद्-अवधि-भेदेन प्रथमस् तर्कः । द्रष्टृ-दृश्य-भेदेन द्वितीयोऽपि तर्को ज्ञेयः । व्यभिचारिष्व् अवस्था-व्यभिचारे दृष्टान्तः—“प्राणो यथा” इति ॥६॥ (५४)
बलदेवः : जीवात्मनि ज्ञाते परमात्मा सुज्ञातः स्याद् इत्य् उक्तम् । तद् अर्थं जीवात्मानं निरूपयिष्यन्न् अवतारयति तत्र यदीत्य् आदिना । अन्यार्थश् चेति ब्रह्म-सूत्रम् । दहर-विद्या छान्दोग्ये पठ्यते यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्न् अन्तर्-आकाशस् तस्मिन् यद्-अन्तस् तद् अन्वेष्टव्यं[छा।उ। ८.१.१] इति । अत्रोपासकस्य शरीरं ब्रह्म-पुरम्, तत्र हृत्-पुण्डरीक-स्थो दहरः परमात्मा ध्येयः कथ्यते। तत्रापहत-पाप्मत्वादि-गुणाष्टकम् [छा।उ। ८.७.१]अन्वेष्टव्यम् उपदिश्यत इति सिद्धान्तितम् । तद्-वाक्य-मध्ये,स एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः [छा।उ।८.१२.३] इति वाक्यं पठितम् । अत्र सम्प्रसादो लब्ध-विज्ञानो जीवस् तेन यत् परं ज्योतिर् उपपन्नं स एव पुरुषोत्तम इत्य् अर्थः । दहर-वाक्यान्तराले जीव-परामर्शः किम् अर्थम् इति चेत् तत्राह अन्यार्थ इति । तत्र जीव-परामर्शोऽन्यार्थः । यं प्राप्य जीवः स्व-स्वरूपेणाभिनिष्पद्यते स परमात्मेति परमात्म-ज्ञानार्थ इत्य् अर्थः । न जजानेति जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते नश्यति च इति भाव-विकाराः षट् पठिताः । ते जीवस्य न सन्ति इति समुदायार्थः । ननु नील-ज्ञानम् इत्य्-आदि ज्ञान-रूपम् आत्मवस्तु ज्ञातृ भवति । प्रकाश-वस्तु सूर्यः प्रकाशयिता यथा । ततश् च स्वरूपानुबन्धित्वाज् ज्ञानं तस्य नित्यम्, तस्येन्द्रिय-प्रणाल्या नीलादि-निष्ठा या विषयता वृत्ति-पद-वाच्या सैव नीलाद्यपगमे नश्यतीति ॥५३॥
[७]
दृष्टान्तं4 विवृण्वन्न् इन्द्रियादि-लयेन निर्विकारात्मोपलब्धिं दर्शयति—
अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु
प्राणो हि जीवम् उपधावति तत्र तत्र ।
सन्ने यद् इन्द्रिय-गणेऽहमि च प्रसुप्ते
कूटस्थ आशयम् ऋते तद् अनुस्मृतिर् नः ॥[भा।पु। ११.३.३९]
अण्डेषु अण्डजेषु । _पेशिषु_जरायुजेषु । _तरुषु_उद्भिज्जेषु । _अविनिश्चितेषु_स्वेदजेषु । उपधावति अनुवर्तते । एवं दृष्टान्ते निर्विकारत्वं प्रदर्श्य, दार्ष्टान्तिकेऽपि दर्शयति । कथम् ? तदैवात्मा स-विकार इव प्रतीयते यदा जागरे इन्द्रिय-गणः, यदा च स्वप्ने तत्-संस्कारवान् अहङ्कारः, यदा तु प्रसुप्तं, तदा तस्मिन् प्रसुप्तैन्द्रिय-गणे सन्ने लीने,अहमि अहङ्कारे च सन्ने लीने। कूटस्थो निर्विकार एवात्मा । कुतः ? आशयम् ऋते लिङ्ग-शरीरम् उपाधिं विना, विकार-हेतोर् उपाधेर् अभावात् इत्य् अर्थः ।
नन्व् अहङ्कार-पर्यन्तस्य सर्वस्य लये शून्यम् एवावशिष्यते । क्व तदा कूटस्थ आत्मा ? अत आह—तद्-अनुस्मृतिर् नः । तस्याखण्डात्मनः सुष्प्ति-साक्षिणः स्मृतिः नः अस्माकं जाग्रद्-द्रष्टॄणां जायते,“एतावन्तं कालं सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषम्” इति। अतोऽननुभूतस्य तस्यास्मरणाद् अस्त्य् एव सुष्प्तौ ताद्र्ग्-आत्मानुभवः । विषय-सम्बन्धाभावाच् च न स्पष्ट इति भावः । अतः स्व-प्रकाश-मात्र-वस्तुनः सूर्यादेः प्रकाशवद् उपलब्धि-मात्रस्याप्य् आत्मन उपलब्धिः स्वाश्रयेऽस्त्य् एवेत्य् आयातम् ।
तथा च श्रुतिः—यद् वै तन् न पश्यति पश्यन् वै द्रष्टव्यान् न पश्यति, न हि द्रष्टुर् दृष्टोर्विपरि-लोपो विद्यते [बृ।आ।उ। ४.३.२३] इत्य् एषा ।
अयं साक्षि-साक्ष्य-विभागेन तृतीयस् तर्कः । दुःखि-प्रेमास्पदत्व-विभागेन चतुर्थोऽपि तर्कोऽवगन्तव्यः ॥७॥ (५४)
बलदेवः : दृष्टान्तम् इति प्राणस्य नाना-देहेष्व् ऐकरूप्यान् निर्विकारत्वम् इत्य् अर्थः । तस्मिन्न् आत्मनि । उपाधेर् लिङ्ग-शरीरस्य । अभावाद् विश्लेषाद् इत्य् अर्थः । तदाप्य् अतिसूक्ष्माया वासनायाः सत्त्वान् मुक्तेर् अभाव इति ज्ञेयम् । प्राकृताहङ्कारे लीनेऽपि स्वरूपानुबन्धिनोऽहम् अर्थस्य सत्त्वात् तेन सुखम् अहम् अस्वाप्सम् इति विमर्शो भवतीति प्रतिपादयितुम् आह नन्व् इत्य्-आदि । शून्यम् एवेति अहं-प्रत्यय्ं विनात्मनोऽप्रतीतेर् इति भावः । अखण्डात्मन इति । अणु-रूपत्वाद् विभागानर्हस्येत्य् अर्थः ।
ननु स्वापाद् उत्थितस्यात्मनो,हङ्कारेण योगात् सुखम् अहम् अस्वाप्सम् इति विमर्शो जागरे सिध्यति । सुषुप्तौ तु चिन्-मात्रः स इति चेत् तत्राह अतोऽननुभूतस्येति। अनुभव-स्मरणयोः सामानाधिकरण्याद् इत्य् अर्थः । तस्मात् तस्याम् अप्य् अनुभवितैवात्मेति सिद्धम् । ननूपलब्धि-मात्रम् इत्य् उक्तम् । तस्योपलब्धृत्वं कथम् । तत्राह अत इत्य्-आदि । यद् वै इति । तद्-आत्म-चैतन्यं कर्तृ । सुषुप्तौ न पश्यतीति यद् उच्यते तत् खलु द्रष्टव्य-विषयाभावाद् एव, न तु द्रष्टृत्वाभावाद् इत्य् अर्थः । स्फुटम् अन्यत् ॥५४॥
—ओ)०(ओ—
[७ब्]
तद् उक्तं—
अन्वय-व्यतिरेकाख्यस् तर्कः स्याच् चतुरात्मकः ।
आगमापायितदवधि-भेदेन प्रथमो मतः ॥
द्रष्टृ-दृश्य-विभागेन द्वितीयोऽपि मतस् तथा ।
साक्षि-साक्ष्य-विभागेन तृतीयः सम्मतः सताम् ॥
दुःखि-प्रेमास्पदत्वेन चतुर्थः सुख-बोधकः ॥ इति ॥७ब्॥ (५५)
॥११.३॥ इति श्री-पिप्पलायनो निमिम् ॥६-७॥
बलदेवः : पद्ययोर् व्याख्याने चत्वारस् तर्का योजितास् तान् अभियुक्तोक्ताभ्यां सार्धकारिकाभ्यां निर्दिशति अन्वयेति । तर्क-शब्देन तर्काङ्गकम् अनुमानं बोध्यम् । आगमापायिनो दृश्यात् साक्ष्याद् दुःखास्पदाच् च देहादेर् आत्मा भिद्यते । तद्-अवधित्वात्, तद्-द्रष्टृत्वात्, तत्-साक्षित्वात्, प्रेमास्पदत्वाच् चेति क्रमेण हेतवो नेयाः । व्यतिरेकश् चोह्यः॥५५॥
—ओ)०(ओ—
[८]
एवम्-भूतानां जीवानां चिन्-मात्रं यत् स्वरूपं, तयैवाकृत्या तद्-अंशित्वेन च तद्-अभिन्नं यत् तत्त्वं तद् अत्र वाच्यम् इति व्यष्टि-निर्देश-द्वारा प्रोक्तम् । तद् एव ह्य् आश्रय-संज्ञकं महापुराण-लक्षण-रूपैः सर्गादिभिर् अर्थैः समष्टि-निर्देश-द्वारापि लक्ष्यत इत्य् अत्राह द्वाभ्याम्—
अत्र सर्गो विसर्गश् च स्थानं पोषणम् ऊतयः ।
मन्वन्तरेशानुकथा निरोधो मुक्तिर् आश्रयः ॥
दशमस्य विशुद्ध्य्-अर्थं नवानाम् इह लक्षणम् ।
वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ [भा।पु। २.१०.१-२]
मन्वन्तराणि चेशानुकथाश् च मन्वन्तरेशानुकथाः । अत्र सर्गादयो दशार्था लक्ष्यन्त इत्य् अर्थः । तत्र च दशमस्य विशुद्ध्य्-अर्थं तत्त्व-ज्ञानार्थं नवानां लक्षणं स्वरूपं वर्णयन्ति । नन्व् अत्र नैवं प्रतीयते ? अत आह श्रुतेन श्रुत्या कण्ठोक्त्यैव स्तुत्य्-आदि-स्थानेषु, अञ्जसा साक्षाद् वर्णयन्ति । अर्थेन तात्पर्य-वृत्त्या च तत्-तद्-आख्यानेषु ॥८।।
बलदेवः : ईश्वर-ज्ञानार्थं जीव-स्वरूप-ज्ञानं निर्णीतम् । अथ तत्-सादृश्येनेश्वर-स्वरूपं निर्णेतुं पूर्वोक्तं योजयति एवम्भूतानाम् इत्य्-आदिना । चिन्-मात्रं यत् स्वरूपम् इति चेतयितृ चेति बोध्यं पूर्व-निरूपणात् । ततहिवाकृत्येति चिन्मात्रत्वे सति चेतयितृत्वं याकृतिर् जातिस् तयेत्य् अर्थः । आकृतिस् तु स्त्रियां रूपे सामान्य-वपुषोर् अपि इति मेदिनी । तद्-अंशित्वेन जीवांशित्वेन चेत्य् अर्थः । तद्-अभिन्नं जीवाभिन्नं यद् ब्रह्म-तत्त्वम् । अंशः खल्व् अंशिनो न भिद्यते व्यष्टिर् इत्य् अर्थः । जीवादि-शक्तिमद् ब्रह्म समष्टिः । जीवस् तु व्यष्टिः । तादृश-समष्टि-ब्रह्म-निरूपणेन तस्य तथात्वं वक्तव्यम् इत्य् अर्थः । दशमस्य चेश्वरस्य । अवशिष्टः स्फुटार्थः ॥५६॥
—ओ)०(ओ—
[९-११]
तम् एव दशमं विस्पष्टयितुं तेषां दशानां व्युत्पादिकां सप्त-श्लोकीम् आह—-
भूत-मात्रेन्द्रिय-धियां जन्म सर्ग उदाहृतः
ब्रह्मणो गुण-वैषम्याद् विसर्गः पौरुषः स्मृतः ॥ [भा।पु। २.१०.३]
भूतानि खादीनि । मात्राणि च शब्दादीनि इन्द्रियाणि च । धी-शब्देन महद्-अहङ्कारौ । गुणानां वैषम्यात् परिणामात् । ब्रह्मणः परमेश्वरात् कर्तृ-भूतादीनां जन्म सर्गः । पुरुषो वैराजो ब्रह्मा, तत्-कृतः पौरुषश् चराचर-सर्गो विसर्ग इत्य् अर्थः ।
स्थितिर् वैकुण्ठ-विजयः पोषणं तद्-अनुग्रहः
मन्वन्तराणि सद्-धर्म ऊतयः कर्म-वासनाः
अवतारानुचरितं हरेश् चास्यानुवर्तिनाम्
पुंसाम् ईश-कथाः प्रोक्ता नानाख्यानोपबृंहिताः ॥ [भा।पु। २.१०.४-५]
वैकुण्ठस्य भगवतो विजयः सृष्टानां तत्-तन्-मर्यादा-पालनेनोत्कर्षः । स्थितिः स्थानम् । ततः स्थितेषु स्वभक्तेषु तस्यानुग्रहः पोषणम् । मन्वन्तराणि तत्-तन्-मन्वन्तर-स्थितानां मन्वादीनां तद्-अनुगृहीतानां सतां चरितानि, तान्य् एव धर्मस् तद्-उपासनाख्यः सद्-धर्मः । तत्रैव स्थितौ नाना-कर्म-वासना ऊतयः । स्थिताव् एव हरेर् अवतारानुचरितम् अस्यानुवर्तिनां च कथा ईशानुकथाः प्रोक्ता इत्य् अर्थः ।
निरोधोऽस्यानुशयनम् आत्मनः सह शक्तिभिः ।
मुक्तिर् हित्वान्यथा रूपं स्व-रूपेण व्यवस्थितिः ॥[भा।पु। २.१०.६]
स्थित्य्-अनन्तरं चात्मनो जीवस्य शक्तिभिः स्वोपाधिभिः सहास्य हरेर् अनुशयनम्, हरि-शयनानुगतत्वेन शयनं निरोध इत्य् अर्थः । तत्र हरेः शयनं प्रपञ्चं प्रति दृष्टि-निमीलनम् । जीवानां शयनं तत्र लय इति ज्ञेयम् । तत्रैव निरोधेऽन्यथारूपम् अविद्याध्यस्तम् अज्ञत्वादिकं हित्वा स्वरूपेण व्यवस्थितिर् मुक्तिः ॥९-११॥ (५७)
बलदेवः : सर्गादीन् दश व्युत्पादयति तद् एवम् इत्य्-आदिना । ब्रह्मणः परमेश्वराद् इति । कारण-सृष्टिः पारमेश्वरी । कार्य-सृष्टिस् तु वैरिञ्चीत्य् अर्थः । मुक्तिर् इति भगवद्-वैमुख्यानुगतयाऽविद्यया रचितम् अन्यथा-रूपं देवम् आनवादिभावं हित्वा तत्-साम्मुख्यानुप्रवृत्तया तद्-भक्त्या विनाश्य, स्वरूपेणापहत-पाप्मत्वादि-गुणाष्टक-विशिष्टेन जीव-स्वरूपेण जीवस्य व्यवस्थितिर् विशिष्टा पुनर् आवृत्ति-शून्या पुनर् आवृत्ति-शून्या भगवत्-सन्निधौ स्थितिर् मुक्तिर् इत्य् अर्थः ॥५७॥
—ओ)०(ओ—
[१२]
आभासश् च निरोधश् च यतोऽस्त्य् अध्यवसीयते ।
स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ।।[भा।पु। २.१०.७]
आभासः सृष्टिः । निरोधो लयश् च यतो भवति । अध्यवसीयत उपलभ्यते जीवानां ज्ञानेन्द्रियेषु प्रकाशते च । स ब्रह्मेति परमात्मेति प्रसिद्ध आश्रयः कथ्यते । इति-शब्दः प्रकारार्थः । तेन भगवान् इति च । अस्य विवृतिर् अग्रे विधेया ॥१२॥ (५८)
बलदेवः : अथ नवभिः सर्गादिभिर् लक्षणीयम् आश्रय-तत्त्वम् आह आभासश् चेति । यत इति हेतौ पञ्चमी ॥५८॥
—ओ)०(ओ—
[१३]
स्थितौ च तत्राश्रय-स्वरूपम् अपरोक्षानुभवेन व्यष्टि-द्वारापि स्पष्टं दर्शयितुम् अध्यात्मादि-विभागम् आह—
योऽध्यात्मिकोऽयं पुरुषः सोऽसाव् एवाधिदैविकः ।
यस् तत्रोभय-विच्छेदः पुरुषो ह्य् आधिभौतिकः ॥
एकम् एकतराभावे यदा नोपलभामहे ।
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ [भा।पु। २.१०.८-९]
योऽयम् आध्यात्मिकः पुरुषश् चक्षुर्-आदि-करणाभिमानी द्रष्टा जीवः । स एवाधिदैविकश् चक्षुर्-आद्य्-अधिष्ठाता सूर्यादिः । देह-सृष्टेः पूर्वं करणानाम् अधिष्ठानाभावेनाक्षमतया करण-प्रकाश-कर्तृत्वाभिमानि-तत्-सहाययोर् उभयोर् अपि तयोर् वृत्ति-भेदानुदयेन जीवत्व-मात्राविशेषात् । ततश् चोभयः करणाभिमानि-तद्-अधिष्ठातृ-देवता-रूपो द्विरूपो विच्छेदो यस्मात् । स आधिभौतिकश् चक्षुर्-गोलकाद्य्-उपलक्षितो दृश्यो देहः पुरुष इति पुरुषस्य जीवस्योपाधिः । स वा एष पुरुषोऽन्न-रस-मयः [तै।उ।२.१] इत्य्-आदि श्रुतेः ॥१३॥ (५९)
बलदेवः : ननु करणाभिमानिनो जीवस्य करण-प्रवर्तक-सूर्यादित्वम् अत्र कथम् । तत्राह देह-सृष्टेः पूर्वम् इति करणानाम् इति । अधिष्ठानाभावेन चक्षुर्-गोलकाद्य्-अभावेनेत्य् अर्थः । उभयोर् अपि तयोर् वृत्ति-भेदानुदयेनेति करणानां विषय-ग्रहणं वृत्तिः । देवतानां तु तत्र प्रवर्तकत्वं वृत्तिः । अयम् अत्र निष्कर्षः देहोत्पत्तेः पूर्वम् अपि जीवेन सार्धम् इन्द्रियाणि तद्-देवताश् च सन्त्य् एव । तदा तेषां वृत्त्य्-अभावाज् जीवेऽन्तर्भावो विवक्षितः । उत्पन्ने तु देहे तयोर् विभागो यद्-भवतीत्य् आह ततश् चोभय इति ॥५९॥
—ओ)०(ओ—
[१३ब्]
एकम् एकतराभाव इत्य् एषाम् अन्योन्य-सापेक्ष-सिद्धत्वे नानाश्रयत्वं दर्शयति । तथा हि दृश्यं विना तत्-प्रतीत्य्-अनुमेयं करणं न सिध्यति । नापि द्रष्टा न च तद् विना करण-प्रवृत्त्य्-अनुमेयस् तद्-अधिष्ठाता सूर्यादिः । न च तं विना करणं प्रवर्तते । न च तद् विना दृश्यम् इत्य् एकतरस्याभाव एकं नोपलभामहे । तत्र तदा तत्-त्रितयम् आलोचनात्मकेन प्रत्ययेन । यो वेद साक्षितया पश्यति स परमात्मा आश्रयः । तेषाम् अपि परस्परम् आश्रयत्वम् अस्तीति तद्-व्यवच्छेदार्थं विशेषणं स्वाश्रयोऽनन्याश्रयः । स चासाव् अन्येषाम् आश्रयश् चेति । तत्रांशांशिनोः शुद्ध-जीव-परमात्मनोर् अभेदांश-स्वीकारेणैवाश्रय उक्तः । अतः परोऽपि मनुतेऽनर्थं [भा।पु। १.७.५] इति ।
जाग्रत्-स्वप्न-सुषुप्तं च गुणतो बुद्धि-वृत्तयः ।
तासां विलक्षणो जीवः साक्षित्वेन विवक्षितः ॥ [भा।पु। ११.१३.२७] इति ।
शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः [भा।पु। ५.११.१२] इत्य् आद्य् उक्तस्य साक्षि-संज्ञिनः शुद्ध-जीवस्याश्रयत्वं न शङ्कनीयम् । अथवा नन्व् आध्यात्मिकादीनाम् अप्य् आश्रयत्वम् अस्त्य् एव । सत्यम् । तथापि परस्पराश्रयत्वान् न तत्राश्रयताकैवल्यम् इति ते त्व् आश्रय-शब्देन मुख्यतया नोच्यन्त इत्य् आह एकम् इति । तर्हि साक्षिण एवास्ताम् आश्रयत्वम् । तत्राह त्रितयम् इति । स आत्मा साक्षी जीवस् तु यः स्वाश्रयोऽनन्याश्रयः परमात्मा स एवाश्रयो यस्य तथाभूत इति । वक्ष्यते च हंस-गुह्य-स्तवे सर्वं पुमान् वेद गुणांश् च तज्-ज्ञो न वेद सर्वज्ञम् अनन्तम् ईडे [भा।पु। ६.४.२५] इति । तस्मात् आभासश् च [भा।पु। २.१०.७] इत्य्-आदिनोक्तः परमात्मैवाश्रय इति ॥१३ब्॥ (६०)
॥ २.१० ॥ श्री-शुकः ॥ ८-१३॥
बलदेवः : आध्यात्मिकादीनां त्रयाणां मिथः सापेक्षत्वेन सिद्धेस् तेषाम् आश्रयत्वं नास्तीति व्याचष्टे एकम् एकतरेत्य् आदिना । त्रितयम् आध्यात्मिकादि-त्रितयम् । ननु शुद्धस्य जीवस्य देहेन्द्रियादि-साक्षित्वाभिधानेनान्यान् अपेक्षत्व-सिद्धेस् तस्याश्रयत्वं कुतो न ब्रूस तत्राह अत्रांशांशिनोर् इति । अंशिनांशोऽपीह गृहीत इत्य् अर्थः । असन्तोषाद् व्याख्यान्तरम् अथवेति । तर्हीति साक्षिणः शुद्ध-जीवस्य । सर्वम् इति पुमान् जीवः ॥६०॥
—ओ)०(ओ—
[१४]
अस्य श्री-भागवतस्य महा-पुराणत्व-व्यञ्जक-लक्षणं प्रकारान्तरेण च वदन्न् अपि तस्यैवाश्रयत्वम् आह द्वयेन—
सर्गोऽस्याथ विसर्गश् च वृत्ती रक्षान्तराणि च ।
वंशो वंशानुचरितं संस्था हेतुर् अपाश्रयः ॥
दशभिर् लक्षणैर् युक्तं पुराणं तद्-विदो विदुः ।
केचित् पञ्च-विधं ब्रह्मन् महद्-अल्प-व्यवस्थया ॥[भा।पु। १२.७.९-१०]
अन्तराणि मन्वन्तराणि । पञ्च-विधम्—
सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च ।
वंशानुचरितं चेति पुराणं पञ्च-लक्षणम् ॥ इति केचिद् वदन्ति ।
सर्गोऽस्येत्य् आदिकं द्वितीय-स्कन्ध [भा।पु। २.१०.१-७] एव व्याख्यातम् । अस्य श्री-भागवतस्य महा-पुराणत्व-व्यञ्जक-लक्षणं प्रकारान्तरेण च वदन्न् अपि तस्यैवाश्रयत्वम् आह द्वयेन—सर्ग इति । अन्तराणि मन्वन्तराणि । पञ्च-विधम्—
सर्गश् च प्रतिसर्गश् च वंशो मन्वन्तराणि च ।
वंशानुचरितं चेति पुराणं पञ्च-लक्षणम् ॥ इति केचिद् वदन्ति ॥
स च मत-भेदो महद्-अल्प-व्यवस्थया महा-पुराणम् अल्प-पुराणम् इति भिन्नाधिकरणत्वेन । यद्यपि विष्णु-पुराणादावपि दशापि तानि लक्ष्यन्ते, तथापि पञ्चानाम् एव प्राधान्येनोक्तत्वाद् अल्पत्वम् । अत्र दशानाम् अर्थानां स्कन्धेषु यथा-क्रमं प्रवेशो न विवक्षितः, तेषां द्वादश-सङ्ख्यत्वात् । द्वितीय-स्कन्धोक्तानां तेषां तृतीयादिषु यथा-सङ्ख्यं न समावेशः । निरोधादीनां दशमादिष्व् अष्टम-वर्जम् । अन्येषाम् अप्य् अन्येषु यथोक्त-लक्षणतया समावेशनाशक्यत्वाद् एव । तद् उक्तं श्री-स्वामिभिर् एव—
दशमे कृष्ण-सत्-कीर्ति-वितानायोपवर्ण्यते ।
धर्म-ग्लानि-निमित्तस् तु निरोधो दुष्ट-भूभुजाम् ।
प्राकृतादि-चतुर्धा यो निरोधः स तु वर्णितः ॥ इति ॥
अतोऽत्र स्कन्धे श्री-कृष्ण-रूपस्याश्रयस्यैव वर्णन-प्राधान्यं तैर् विवक्षितम् । उक्तं च स्वयम् एव—दशमे दशमं लक्ष्यम् आश्रिताश्रय-विग्रहम् इति । एवम् अन्यत्राप्य् उन्नेयम् । अतः प्रायशः सर्वेऽर्थाः सर्वेष्व् एव स्कन्धेषु गुणत्वेन वा मुख्यत्वेन वा निरूप्यन्त इत्य् एव तेषाम् अभिमतम् । श्रुतेनार्थेन चाञ्जसा [भा।पु। २.१०.२] इत्य् अत्र च तथैव प्रतिपन्नं सर्वत्र तत्-तत्-सम्भवात् । ततश् च प्रथम-द्वितीययोर् अपि महा-पुराणतायां प्रवेशः स्यात् । तस्मात् क्रमो न गृहीतः ॥१४॥ (६१)
सर्व-संवादिनी : सर्गोऽस्येत्य् आदि । अतः प्रायशः सर्वेऽर्थाः इति । तत्र मुख्यत्वेन (१) **सर्गः—**द्वितीय-तृतीय-स्कन्धयोः, (२) **विसर्गः—**द्वितीय-तृतीय-चतुर्थ-स्कन्धयोः, (३) कामाद् **वृत्तिः—**जगृहुर् यक्ष-रक्षांसि रात्रि-क्षुत्-तृट्-समुद्भवां [भा।पु। ३.२०.१९] इत्य्-आदि वाक्यतः तृतीय-स्कन्धेऽपि । चोदना-वृत्तिस् तु सप्तमैकादशयोः स्कन्धयोर् वर्णाश्रमाचार-कथने [भा।पु। ७.११, ११.१७-१८] । (४) **रक्षा—**सर्वत्रैव, (५) **मन्वन्तर—**अष्टम-स्कन्धादिषु, (६) वंशो (७) **वंशानुचरितं—**चतुर्थ-नवम-स्कन्धादिषु, (८) **संस्था—**एकादश-द्वादश-स्कन्धयोः, (९) **हेतुः—**श्री-कपिल-देवादि-वाक्यतः तृतीयैकादश-स्कन्धादिषु, (१०) अपाश्रयह्—दशम-स्कन्धादिषु ज्ञेयः ॥६१॥
बलदेवः : अस्येति । प्रकारान्तरेणेति क्वचिन्-नामान्तरत्वाद् अर्थान्तरत्वाच् चेत्य् अर्थः । एतानि दश-लक्षणानि केचित् तृतीयादिषु क्रमेण स्थूल-धियो योजयन्ति । तान् निराकुर्वन्न् आह द्वितीय-स्कन्धोक्तानाम् इति । अष्टादश-सहस्रित्वं द्वादश-स्कन्धित्वं च भागवत-लक्षणं व्याकुप्येत । अध्याय-पूर्तौ भागवतत्वोक्तिश् च न सम्भवेद् इति च बोध्यम् । शुक-भाषितं चेद् भागवतं तर्हि प्रथमस्य द्वादश-शेषस्य च तत्त्वानापत्तिः । तस्माद् अष्टादश-सहस्रि तत्-पितुर् आचार्याच् छुकेनाधीतं कथितं चेति साम्प्रतं संवादास् तु तथैवानादि-सिद्धा इति साम्प्रतम् ॥६१॥
राधामोहन-गोस्वामी : तस्यैवेति ब्रह्मणः एवेत्य् अर्थः । तद्-विदः पुराण-विदः । महा-पुराणाल्प-पुराण-भिन्नाधिकरणत्वेनेति—महा-पुराणाल्प-पुराणयोर् भेदेन भिन्नम् अधिकरणं य्योस् तत्त्वेन दश-लक्षण-पञ्च-लक्षणेति लक्षण-द्वयम् इत्य् अर्थः । तेषां स्कन्धानाम् ।
ननु द्वितीय-स्कन्ध-शेषे लक्षणान्य् उक्तानि, ततः क्रमेण तृतीयादिषु किम्-उक्तानि ? इत्य् आशङ्क्याह—द्वितीय-स्कन्धोक्तानाम् अपि । तेषाम् इति तेषां दश-लक्षणानाम् । तेषाम् अपि मतं श्रीधर-स्वामिनाम् अपि मतम् । प्रायशः स्याद् इति तृतीयादिषु क्रमेणैव दश-लक्षण-वर्णनेति द्वितीय-तृतीययोस् तल्-लक्षणाक्रान्त-पुराणता न स्याद् इति भावः । तस्मात् क्रम-वर्णनस्यासम्भवात् क्रमो न विवक्षित इति । तथा चाश्रयस्य पर-ब्रह्मणः कृष्णस्य मुख्यत्वेन वर्णनीयतया उपक्रमे तस्यैवादौ वर्णनम् उपक्रान्तम्, मध्ये मध्ये अन्ते च तस्यैव वर्णनं कृतम्, तत्-प्रसङ्गात् तदाधिक्य-तात्पर्याद् वा यथा-योगम् इतराणि लक्षणानि वर्णितानीति भावः । तथोक्तं—
उपक्रमोपसंहाराव् अभ्यासोऽपूर्वता फलम् ।
अर्थ-वादोपपत्ती च लिङ्गं तात्पर्य-निर्णये ॥
इति क्रमेण श्री-कृष्ण-परम् इदं शास्त्रम् इति भावः ॥६१॥
गौर-किशोर-गोस्वामी- प्राक्-महा-पुराणस्य लक्षणम् उक्तम् । अथ मतान्तरीयं तल्-लक्षणं पुनः निर्दिश्य श्री-भागवतस्य महा-पुराणत्वं विवृत्य परमात्मनः श्री-भगवत एव आश्रयत्वं परिशेषेण निर्णयति, “सर्गोऽस्याथः” इति विविध-सन्देह-निराकरणार्थं विस्तारेण व्याख्या-ग्रन्थम् आह—केचिद् इति । परमात्मनः भगवतः श्री-कृष्णस्यैवाश्रयत्वं निर्देष्टुम् आह—अतो अत्र स्कन्धे इति । एतेन रस-राज-श्री-गौराङ्ग-महाप्रभोर् अपि आश्रयत्वम् अविसंवादेन प्रतिपन्नम् । आसन् वर्णाः इत्य्-आदिना श्री-कृष्णेन लक्षणानि दर्शयति अव्याकृत इति ॥६०-६१॥
—ओ)०(ओ—
[१५-२४]
अथ सर्गादीनां लक्षणम् आह—
अव्याकृत-गुण-क्षोभान् महतस् त्रिवृतोऽहमः ।
भूत-मात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥ [भा।पु। १२.७.११]
अथ सर्गादीनां लक्षणम् आह—अव्याकृतेति । प्रधान-गुण-क्षोभान् महान्, तस्मात् त्रिगुणोऽहङ्कारः । तस्माद् भूत-मात्राणां भूत-सूक्ष्माणाम् इन्द्रियाणां च, स्थूल-भूतानां च, तद्-उपलक्षित-तद्-देवतानां च सम्भवः सर्गः । कारण-सृष्टिः सर्ग इत्य् अर्थः।
पुरुषानुगृहीतानाम् एतेषां वासनामयः ।
विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम् ॥ [भा।पु। १२.७.१२]
पुरुषः परमात्मा । एतेषां महद्-आदीनाम्, जीवस्य पूर्वकर्म-वासना-प्रधानोऽयं समाहारः । कार्य-भूतश् चराचर-प्राणि-रूपो बीजाद् बीजम् इव प्रवाहापन्नो विसर्ग उच्यते। व्यष्टि-सृष्टि-विसर्ग इत्य् अर्थः । अनेनोतिर् अप्य् उक्ता ।
वृत्तिर् भूतानि भूतानां चराणाम् अचराणि च ।
कृता स्वेन नॄणां तत्र कामाच् चोदनयापि वा ॥ [भा।पु। १२.७.१३]
चराणां भूतानां सामान्यतोऽचराणि, च-काराच् चराणि च, कामाद् वृत्तिः । तत्र तु नॄणां स्वेन स्वभावेन कामाच् चोदनयापि वा या नियता वृत्तिर् जीविका कृता, सा वृत्तिर् उच्यत इत्य् अर्थः ।
रक्षाच्युतावतारेहा विश्वस्यानुयुगे युगे ।
तिर्यङ्-मर्त्यर्षिदेवेषु हन्यन्ते यैस् त्रयी-द्विषः ॥ [भा।पु। १२.७.१४]
यैर् अवतारैः । अनेनेश-कथा । स्थानं पोषणं चेति त्रयम् उक्तम् ।
मन्वन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वराः ।
ऋषयोऽंशावताराश् च हरेः षड्-विधम् उच्यते ॥ [भा।पु। १२.७.१५]
मन्व्-आद्य्-आचरण-कथनेन सद्-धर्म एवात्र विवक्षित इत्य् अर्थः । ततश् च प्राक्तन-ग्रन्थेनैकार्थ्यम् ।
राज्ञां ब्रह्म-प्रसूतानां वंशस् त्रैकालिकोऽन्वयः ।
वंश्यानुचरितं तेषां वृत्तं वंशधराश् च ये ॥ [भा।पु। १२.७.१६]
तेषां राज्ञां ये च वंश-धरास् तेषां वृत्तं वंश्यानुचरितम् ॥१५-२०॥(६२)
सर्व-संवादिनी : न व्याख्यातम्।
बलदेवः : उद्दिष्टानां सर्गादीनां क्रमेण लक्षणानि दर्शयितुम् आह—अथेत्यादि । अव्याकृतेति त्रिवृत्-पदं महतोऽपि विशेषणं बोध्यम् । सात्त्विकी राजसश् चैव तामसश् च त्रिधा महान् [वि।पु। १.२.३४] इति श्री-वैष्णवात् । पुरुषः परमात्मा विरिञ्चान्तःस्थ इति बोध्यम् । स्फुटार्थानि शिष्टानि ॥६२॥
गौर-किशोर-गोस्वामी- संस्थानादीनां लक्षणानि विवृणोति “नैमित्तिकः” इति । भुक्त-शिष्ट-कर्म-विशिष्टः जीवः अनुशायी, भोगावशिष्ट-कर्म हि अनुशयः स्फुटार्थानि इतराणि ॥६२॥
—ओ)०(ओ—
नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः ।
संस्थेति कविभिः प्रोक्तश् चतुर्धास्य स्वभावतः ॥ [भा।पु। १२.७.१७]
अस्य परमेश्वरस्य । स्वभावतः शक्तितः । आत्यन्तिक इत्य् अनेन मुक्तिर् अप्य् अत्र प्रवेशिता ।
हेतुर् जीवोऽस्य सर्गादेर् अविद्या-कर्म-कारकः ।
यं चानुशयिनं प्राहुर् अव्याकृतम् उतापरे ॥ [भा।पु। १२.७.१८]
हेतुर् निमित्तम् । अस्य विश्वस्य । यतोऽयम् अविद्यया कर्म-कारकः । यम् एव हेतुं केचिच् चैतन्य-प्राधानेनानुशयिनं प्राहुः । अपर उपाधि-प्राधान्येनाव्याकृतम् इति ।
व्यतिरेकान्वयो यस्य जाग्रत्-स्वप्न-सुषुप्तिषु ।
मायामयेषु तद् ब्रह्म जीव-वृत्तिष्व् अपाश्रयः ॥ [भा।पु। १२.७.१९]
श्री-बादरायण-समाधि-लब्धार्थ-विरोधाद् अत्र च जीव-शुद्ध-स्वरूपम् एवाश्रयत्वेन न व्याख्यायते किन्त्व् अयम् एवार्थः । जाग्रद्-आदिष्व् अवस्थासु, मायामयेषु माया-शक्ति-कल्पितेषु महद्-आदि-द्रव्येषु च । केवल-स्वरूपेण व्यतिरेकः परम-साक्षितयान्वयश् च यस्य तद् ब्रह्म जीवानां वृत्तिषु शुद्द-स्वरूपतया सोपाधितया च वर्तनेषु स्थितिष्व् अपाश्रयः । सर्वम् अत्य् अतिक्रम्याश्रय इत्य् अर्थः । अप इत्य् एतत् खलु वर्जने, वर्जनं चातिक्रमे पर्यवस्यतीति ।
तद् एवम् अपाश्रयाभिव्यक्ति-द्वार-भूतं हेतु-शब्द-व्यपदिष्टस्य जीवस्य शुद्ध-स्वरूप-ज्ञानम् आह द्वाभ्याम् ।
पदार्थेषु यथा द्रव्यं तन्-मात्रं रूप-नामसु ।
बीजादि-पञ्चतां तासु ह्य् अवस्थासु युतायुतम् ॥
विरमेत यदा चित्तं हित्वा वृत्ति-त्रयं स्वयम् ।
योगेन वा तद्-आत्मानं वेदेहाया निवर्तते ॥ [भा।पु। १२.७.२०-२१]
रूप-नामात्मकेषु पदार्थेषु घटादिषु यथा द्रव्यं पृथिव्य्-आदि-युतम् अयुतं च भवति । कार्य-दृष्टिं विनाप्य् उपलम्भात् । तथा तन्-मात्रं शुद्धं जीव-चैतन्य-मात्रं वस्तु गर्भाधानादि-पञ्चतान्तासु नवस्व् अप्य् अवस्थास्व् अविद्यया युतं स्वतस् त्व् अयुतम् इति शुद्धम् आत्मानम् इत्थं ज्ञात्वा निर्विण्णः सन्न् अपाश्रयानुसन्धान-योग्यो भवतीत्य् आह विरमेतेति । वृत्ति-त्रयं जाग्रत्-स्वप्न-सुषुप्ति-रूपम् । आत्मानं परमात्मानम् । स्वयं वामदेवादेर् इव मायामयत्वानुसन्धानेन देवहूत्य्-आदेर् इवानिष्ठितेन योगेन वा । ततश् चेहायास् तद्-अनुशीलन-व्यतिरिक्त-चेष्टायाः ॥
॥ १२.७ ॥ श्री-सूतः ॥ उद्दिष्टः सम्बन्धः ॥१५-२४॥
**सर्व-संवादिनी :**प्रलय-लक्षणम् आह—नैमित्तिक [भा।पु। १२.७.१७] इति । एषां [प्रलयानां] लक्षणं द्वादशे चतुर्थाध्यायेऽनुसन्धेयं [भा।पु। १२.४.३-३८] । प्रलयस् तु मन्वन्तरान्तेऽपि भवति । यथा श्री-विष्णु-धर्मोत्तरे प्रथम-काण्डे,
वज्र उवाच—
मन्वन्तरे परिक्षीणे यादृशी द्विज जायते ।
समवस्था महाभाग तादृशी वक्तुमर्हसि ॥
मार्कण्डेय उवाच—
मन्वन्तरे परिक्षीणे देवा मन्वन्तरेश्वराः ।
महर्लोकमथासाद्य तिष्ठन्ति गतकल्मषाः ॥
मनुश् च सह शक्रेण देवाश् च यदुनन्दन ।
ब्रह्म-लोकं प्रपद्यन्ते पुनर्-आवृत्ति-दुर्लभम् ॥
ऋषयश् च तथा सप्त तत्र तिष्ठन्ति ते सदा ।
अधिकारं विना सर्वे सदृशाः परमेष्ठिनः ॥
भू-तलं सकलं वज्र तोय-रूपी महेश्वरः ।
ऊर्मि-माली महावेगः सर्वम् आवृत्य तिष्ठति ॥
भूर्-लोकम् आश्रितं सर्वं तदा नश्यति यादव ।
न विनश्यन्ति राजेन्द्र विश्रुताः कुल-पर्वताः ॥
अत्र कुल-पर्वता महेन्द्र-मलयेत्य्-आदयः ।
शेषं विनश्यति जगत् स्थावरं जङ्गमं च यत् ।
नौर् भूत्वा तु मही देवी तदा यदु-कुलोद्भव ॥
धारयत्य् अथ बीजानि सर्वाण्य् एवाविशेषतः ।
आकर्षति तु तां नावं स्थानात् स्थानं तु लीलया ॥
कर्षमाणं तु तां नावं देव-देवं जगत्-पतिम् ।
स्तुवन्ति ऋषयः सर्व दिव्यैः कर्मभिर् अच्युतम् ॥
घूर्णमानस् तदा मत्स्यो जल-वेगोर्मि-सङ्कुले ।
घूर्णमानां तु तां नावं नयत्य् अमित-विक्रमः ॥
हिमाद्रि-शिखरे नावं बद्ध्वा देवो जगत्-पतिः ।
मत्स्यस् त्व् अदृश्यो भवति ते च तिष्ठन्ति तत्रगाः ॥
कृत-तुल्यं तदा कालं तावत् प्रक्षालनं स्मृतम् ।
आपः शमम् अथो यान्ति यथा-पूर्वं नराधिप ।
ऋषयः मनुश्चैव सर्वं कुर्वन्ति ते तदा ॥
मन्वन्तरान्ते जगताम् अवस्था
मयेरिता ते यदु-वृन्द-नाथ ।
अतः परं किं तव कीर्तनीयं
समासतस् तद् वद भूमि-पाल ॥ इति ।
एवं सर्व-मन्वन्तरेषु संहार इत्य्-आदि-प्रकरणं श्री-हरिवंशे तदीय-टीकासु च स्पष्टम् एव । अत एव पञ्चम-षष्ठ-मन्वन्तरान्ते श्री-भागवतेऽपि प्रलयो वर्ण्यते—
चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते ।
य ससर्जे प्रजा इष्टाः स दक्षो दैवचोदितः ॥ [४.३०.४९] इत्य् आदौ ॥
रूपं स जगृहे मात्स्यं चाक्षुषान्तर-सम्प्लवे ।
नाव्यारोप्य महीमय्याम् अपाद् वैवस्वतं मनुम् ॥ [भा।पु। १.३.१५] इत्य् आदौ च ।
तथा च भारत-तात्पर्ये श्री-मध्वाचार्याः—मन्वन्तर-प्रलये मत्स्य-रूपो विद्या-मदान् मनवे देव-देव [३.४३] इति । द्वादशे शौनक-वाक्ये—
स वा अस्मत्-कुलोत्पन्नः कल्पेऽस्मिन् भार्गवोत्तमः ।
नैवाधुनापि भूतानां संप्लवः कोऽपि जायते ॥ [भा।पु। १२.८.३]
इत्य् अत्र तद्-अस्वीकारस् तु कल्पान्त-प्रलय-विषय एव, येन ग्रस्तम् इदं जगद् [भा।पु। १२.८.२] इत्य् उक्तत्वात्, मन्वन्तर-प्रलये भावि-मन्वादीनाम् अपि स्थितेश् च । सष्ठे तु प्रलयोऽन्यस्मान् मन्वन्तराद् विलक्षणः, त्रैलोक्यस्यैव मज्जनात् । तथा चाष्टमे श्री-मत्स्य-देवेनोक्तम्—
त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।
उपस्थास्यति नौः काचिद् विशाला त्वां मयेरिता ॥ [भा।पु। ८.२४.३३] इति ।
एतद् अपेक्षयैव तत्र शुकेनापि योऽसाव् अस्मिन् महा-कल्पे [भा।पु। ८.२४.११] इत्य् उक्तम् । कल्प-शब्दस्य प्रलय-मात्र-वाचित्वात् । महच्-छब्दस्य मन्वन्तरान्तर-प्रलयापेक्षत्वात्, सम्वर्त्तः प्रलयः कल्पः क्षयः कल्पान्त इत्य् अपि इत्य् अमरः । अतस् त्रैलोक्य-मज्जन-हेतोर् एव दैनन्दिन-प्रलयवद् ब्रह्मापि तदा सत्य-युग-समान-काले प्रलये श्री-नारायण-नाभि-कमले विश्राम्यति । यत एव तत्र विश्रमण-साम्यात्, यावद् ब्राह्मी निशा [भा।पु। ८.२४.३७] इति निशा-शब्दः प्रयुक्तः । तत्र च त्रैलोक्य-मज्जनेऽपि केषाञ्चिद् देवासुरादीनाम् असमाप्त-भोगानां स्थितिस् तां नावम् आलम्ब्यैव । यद् उक्तं श्री-मत्स्य-देवेनैव सत्यव्रतं प्रति—
त्वं तावद् ओषधीः सर्वा बीजान्य् उच्चावचानि च ।
सप्तर्षिभिः परिवृतः सर्व-सत्त्वोपबृंहितः ॥ [भा।पु। ८.२४.३४] इति ।
तस्मात् सिद्धे मन्वन्तर-प्रलये, तस्यापि नैमित्तिकत्वाच् चतुष्टयानतिरिक्तत्वम् । अन्योऽप्य् अकस्मात् प्रलयः श्रूयते यथा स्वायम्भुव-मन्वन्तर-सृष्ट्य्-आरम्भे, यथा सष्ठ-मन्वन्तर-मध्ये प्राचेतस-दक्ष-दौहित्र-हिरण्याक्ष-वधे । उभयोर् ऐक्येन कथनं तु तृतीये लीला-साजात्येनैव ज्ञेयम् । यथा पाद्म-ब्राह्म-कल्पयोः क्वचित् क्वचित् साङ्कर्यम्, तद्वत् । तस्मात्—निरोधोऽस्यानुशयनम् आत्मनः सह शक्तिभिः [भा।पु। २.१०.६] इत्य् एतल्-लक्षणम् अप्य् उपलक्षणम् एव नित्य-प्रलयेऽपि तद्-अव्याप्तेः ॥१५-२४॥ (६३)
बलदेवः : पूर्वोक्तायां दश-लक्षण्यां मुक्तिर् एक-लक्षणम् । अस्यां तु चतुर्विधानां संस्थायाम् आत्यन्तिक-लय-शब्दिता मुक्तिर् आनीतेति । यं चानुशयिनम् इति भुक्त-शिष्ट-कर्म-विशिष्टो जीवोनुशयीत्य् उच्यते । रूपेति मूर्त्या संज्ञया चोपेतेष्व् इत्य् अर्थः । कार्य-दृष्टिम् इति घटादिभ्यः पृथग् अपि पृथ्व्यादेः प्राप्तेर् इत्य् अर्थः । अपाश्रयेति ईश्वर-ध्यान-योग्यो भवतीत्य् अर्थः । स्वयम् इति वामदेवः खलु गर्भस्य एव परमात्मानं बुबुधे, योगेन देवहूतीत्य् अर्थः ॥६३॥
राधामोहन-गोस्वामी : बादरायणेति । तत्-समाधि-लब्ध-ब्रह्म-जीव-भेदेन विरोधाद् इत्य् अर्थः । जाग्रद्-आदिषु जीव-वृत्तिषु माया-मयेषु देहादिषु जीव-स्वरूपस्योपाध्य्-उपाहितस्योपाधि-व्यतिरेकोऽस्ति, तेन तदानीमभिमानितेति । शुद्ध-जीवोऽपि श्लोकोऽत्र तात्पर्य-विषयो भवितुम् अर्हति, तथापि तस्य ब्रह्मत्वं न घटते । प्राग्-उक्त-समाधि-लब्धार्थ-विरोधात् सुषुप्ते निरुक्तान्वयासत्त्वाच् च न जीव-परतया व्याख्यायते इति भावः । केवल-स्व-स्वरूपेण निरुपाध्य्-अंशेन व्यतिरेक इति । तेन ब्रह्मणस् तुरीयत्वं परम-साक्षितया शुद्ध-जीवस्य साक्षाद्-दर्शन-शक्त्य्-उद्बोधकतयाऽन्वयश् चेति । शिवम् अद्वैतं चतुर्थं मन्यन्ते [नृपु। ४.२] इति श्रुतेः, तुरीयं त्रिषु सन्ततम् इति स्मृतेश् च । एकादशात् जीवोऽल्प-शक्तिर् अल्पज्ञः इत्य्-आदि श्रुत्या जीवस्य स्वतः-सिद्ध-ज्ञानाभावात्, बुद्धेश् चोदयिता यश् च चिद्-आत्मा पुरुषो विराट् इति गायत्र्य्-अर्थ-विवरण-याज्ञवल्क्य-वचनात् । को ह्य् एवान्यात् कः प्राण्यात् यद् एष आकाश आनन्दो न स्यात्, एष ह्य् एवानन्दयति जीवान् इति रामानुज-भाष्य-धृत-श्रुतेश् च । जीवस्य मुक्तता-दशायां दशा-त्रयातीतत्वेऽपि न तदानीं द्शा-त्रयान्वय इति तद्-व्यावृत्तिः । रूप-नामात्मकेषु रूप-नाम-युक्तेषु पञ्चता मरणम्, द्रव्यस्य पृथिव्यादेः ।
गौर-किशोर-गोस्वामी-
श्री-गौरोरो-विलासिनी देवी विष्णु-प्रियाभिधा ।
अनुजो यादवानन्दः तस्या ज्ञेयः सुभक्तिमान् ॥
तद्-वंश-सम्भूतः श्रीमत्-कुञ्जलालो महामतिः ।
अहं तस्य सुतो ज्येष्ठो गौर-किशोर-संज्ञकः ॥
टीका विरचिता ह्य् एषा नाम्ना स्वर्ण-लता मया ।
वैष्णव-परितोषार्थं सन्दर्भार्थ-प्रबोधिनी ॥
श्रीमद्-गौराङ्ग-चन्द्रस्य विष्णु-प्रियान्वितस्य च ।
तद्-भक्त-जन-वर्गाणां कृपातः पूर्णताम् इता ॥
ग्रह-शर-गुरु-भूपे शकाब्दे कुम्भगे रवौ ।
मया प्रकाशिता टीका सन्दर्भेण समायुता ॥
वामे विष्णु-प्रिया यस्य सव्ये लक्ष्मीप्रिया सती ।
सम्मुखे यादवाचार्यः पश्चाच् च सेवकाः स्थिताः ॥
चरणं शरणं तस्य यातु स्वर्ण-लता मम ।
विजयते सदा चैवं गौरचन्द्रो महाप्रभुः ॥
इति श्री-गौरकिशोर-गोस्वामि-वेदान्त-तीर्थ-विरचिता तत्त्व-सन्दर्भ-टीका स्वर्ण-लता समाप्ता ॥
इति श्री-कलि-युग-पावन-स्व-भजन-विभाजन-प्रयोजनावतार-श्री-श्री-भगवत्-कृष्ण-चैतन्य-देव-चरणानुचर-विश्व-वैष्णव-राज-सभाजन-भाजन-श्री-रूप-सनातनानुशासन-भारती-गर्भे श्री-भागवत-सन्दर्भे तत्त्व-सन्दर्भो नाम प्रथमः सन्दर्भः ॥
बलदेवः : इति कलीति कलि-युग-पावनं यत् स्व-भजनं तस्य विभजनं विस्तरणं प्रयोजनं यस्य तादृशोऽवतारः प्रादुर्भावो यस्य, तस्य श्री-भगवत्-कृष्ण-चैतन्य-देवस्य चरणयोर् अनुचरौ, विश्वस्मिन् ये वैष्णव-राजास् तेषां सभासु यत् स-भाजनं सत्-कारस् तस्य भाजने पात्रे च यौ श्री-रूप-सनातनौ तयोर् अनुशासन-भारत्य उपदेश-वाक्यानि गर्भे मध्ये यस्य तस्मिन् ॥
टिप्पणी तत्त्व-सन्दर्भे विद्या-भूषण-निर्मिता ।
श्री-जीव-पाठ-संपृक्ता सद्भिर् एषा विशोध्यताम् ॥
इति श्रीमद्-बलदेव-विद्या-भूषण-विरचिता तत्त्व-सन्दर्भ-टिप्पणी समाप्ता ॥
-
अत्र श्री-गुरु-सद्-भक्त-भगवत्-स्मरणं शुभम् । ग्रन्थरम्भे तु कर्तव्यं मङ्गलं शिष्ट-सम्मतम् ॥ इति युक्तम् उक्तं एकस्मिन् संस्करणे सम्पादकैः कानाइ-लाल-अधिकारि-महोदयैः । अत्र-प्रभृति समुदयो षट्-सन्दर्भ एव _प्रमेय-_प्रकरणं मन्तव्यम् ॥ तस्मात् ग्रन्थोऽत्रैवारभ्यते ॥ ↩︎
-
इ wओउल्द् जोइन् सेच्तिओन् ३१ हेरे, अस् इत् इस् अल्ल् चोम्मेन्तर्य् ओन् १.७.४। सेच्तिओन् ३२ स्तर्त्स् चोम्मेन्तर्य् ओन् १.७.५। ↩︎
-
टीका च। ↩︎
-
टीका च । ↩︎