अथ मङ्गलाचरणम्1
[१]
कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् ।
यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः ॥१॥ [भा।पु। ११.५.३२]
सर्व-संवादिनी : श्री-कृष्ण-चैतन्य-चन्द्राय नमः ।
श्री-कृष्णं नमता नाम सर्व-संवादिनी नाम ।
श्री-भागवत-सन्दर्भस्यानुव्याख्या विरच्यते ॥
अथ श्री-भागवत-सन्दर्भ-नामानं ग्रन्थम् आरभमाणो महा-भागवत-कोटि-बहिर्-अन्तर्-दृष्टि-निष्टङ्कित-भगवद्-भविष्यत् निजावतार-प्रचार-प्रचारित-स्व-स्वरूप-भगवत्-पद-कमलावलम्बि-दुर्लभ-प्रेम-पीयूष-मय-गङ्गा-प्रवाह-सहस्रं स्व-सम्प्रदाय-सहस्राधिदैवं श्री-कृष्ण-चैतन्य-देव-नामानं श्री-भगवन्तं कलि-युगेऽस्मिन् वैष्णव-जनोपास्यतयावतारस्यार्थ-विशेषालिङ्गितेन श्री-भागवत-पद्य-संवादेन स्तौति—कृष्ण-वर्णम् इति । एकादश-स्कन्धे कलि-युगोपास्य-प्रसङ्गे पद्यम् इदम् । अर्थश् च—त्विषा कान्त्या योऽकृष्णो गौरस् तं कलौ सुमेधसो यजन्ति । गौरत्वं चास्य—
आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतोऽनुयुगं तनुः । शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ [भा।पु। १०.८.१३]
इत्य् अतः पारिशेष्य-प्रमाण-लब्धम् । इदानीम् एतद् अवतारास्पदत्वेनाभिख्याते द्वापरे कृष्णतां गत इत्य् उक्तेः शुक्ल-रक्तयोः सत्य-त्रेता-गतत्वेनैकादश एव वर्णितत्वाच् च । पीतस्यातीतत्वं प्राचीन-तद्-अवतारापेक्षया । उक्तं चैकादशे द्वापरोपास्यत्वं श्री-कृष्णस्य श्यामत्व-महाराजत्व-वासुदेवादि-चतुर्मूर्तित्व-लक्षण-तल्-लिङ्ग-कथनेन—
द्वापरे भगवाञ् श्यामः पीत-वासा निजायुधः ।
श्रीवत्सादिभिर् अङ्कैश् च लक्षणैर् उपलक्षितः ॥
तं तदा पुरुषं मर्त्या महा-राजोपलक्षणम् ।
यजन्ति वेद-तन्त्राभ्यां परं जिज्ञासवो नृप ॥
नमस् ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ [भा।पु। ११.५.२७-२९] इति ।
अतो विष्णु-धर्मोत्तरादौ यच् च द्वापरे शुक-पक्ष-वर्णत्वम्, कलौ च नील-घन-वर्णत्वं श्रूयते, तद् अपि यदा श्री-कृष्णावतारो न स्यात्, तद् द्वापर-विषयम् एव मन्तव्यम् । एवं च यद्-द्वापरे श्री-कृष्णोऽवतरति, तद्-अनन्तर-कलाव् एव श्री-गौरोऽप्य् अवतरतीति स्वारस्य-लब्धेः, साक्षात् स्वयं श्री-कृष्णाविर्भाव-विशेष एवायं श्री-गौर इत्य् आयाति, तद्-अव्यभिचारात् । अत एव यद् विष्णु-धर्मोत्तरे निर्णीतम्—
प्रत्यक्ष-रूप-धृग्-देवो दृश्यते न कलौ हरिः ।
कृतादिष्व् एव तेनैव त्रियुगः परिपठ्यते ॥
कलेर् अन्ते च सम्प्राप्ते कल्किनं ब्रह्म-वादिनाम् ।
अनुप्रविश्य कुरुते वासुदेवो जगत्-स्थितिम् ॥ [वि।ध। १०४]2 इत्य्-आदि ।
तद् अप्य् अमर्यादैश्वर्य-कृष्णत्वेनैवातिक्रान्तम्, तस्य [श्री-गौरस्य] कलि-प्रथम-व्याप्ति-[श्री-कृष्ण-श्रीगौरयोर् अवतरणे मिथोऽव्यभिचरित-सम्बन्ध]-दर्शनात् ।
तद् एतद्-आविर्भावत्वं तस्य स्वयम् एव विशेषण-द्वारा व्यनक्ति—कृष्ण-वर्णम् । कृष्णेत्य् एतौ वर्णौ यत्र यस्मिन् श्री-कृष्ण-चैतन्य-देव-नाम्नि श्री-कृष्णत्वाभिव्यञ्जकं कृष्णेति वर्ण-युगलं प्रयुक्तम् अस्तीत्य् अर्थः। तृतीये श्रीमद्-उद्धव-वाक्ये—समाहुताह्3[भा।पु। ३.३.३] इत्य्-आदि-पद्ये, श्रियः सवर्णेन इत्य् अत्र [श्रीधर-स्वामि-पाद-कृतायां] टीकायाम्, “श्रियो रुक्मिण्याः समानं वर्ण-द्वयं वाचकं यस्य स श्रियः स-वर्णो रुक्मी” इत्य् अपि दृश्यते ।
यद् वा, कृष्णं वर्णयति तादृश-स्व-परमानन्द-विलास-स्मरणोल्लास-वशतया स्वयं गायति, परम-कारुणिकतया च सर्वेभ्योऽपि लोकेभ्यस् तम् एवोपदिशति यस् तम् ।
अथवा स्वयम् अकृष्णं गौरं त्विषा स्व-शोभा-विशेषेणैव कृष्ण-वर्णं कृष्णोपदेष्टारं च । यद्-दर्शनेनैव सर्वेषां श्री-कृष्णः स्फुरतीत्य् अर्थः ।
किं वा, सर्व-लोक-दृष्टाव् अकृष्णं गौरम् अपि भक्त-विशेष-दृष्टौ त्विषा प्रकाश-विशेषेण कृष्ण-वर्णं तादृश-श्यामसुन्दरम् एव सन्तम् इत्य् अर्थः । तस्मात् तस्मिन् सर्वथा श्री-कृष्ण-रूपस्यैव प्रकाशात् तस्यैव साक्षाद् आविर्भावः स्वयं स इति भावः ।
तस्य श्री-भगवत्त्वम् एव स्पष्टयति—साङ्गोपाङ्गास्त्र-पार्षदम्, बहुभिर् महानुभावैर् असकृद् एव तथा दृष्टोऽसाव् इति गौड-वरेन्द्र-बङ्ग-शुह्मोत्कलादि-देशीयानां महा-प्रसिद्धिः4 । तथाङ्गानि, परम-मनोहरत्वात्। उपाङ्गानि भूषणादीनि, महा-प्रभाववत्त्वात्, तान्य् एवास्त्राणि सर्वदैकान्त-वासित्वात् । तान्य् एव पार्षदा । यद् वा, अत्यन्त-प्रेमास्पदत्वात् तत्-तुल्या एव पार्षदाः श्रीमद्-अद्वैताचार्य-महानुभाव-चरण-प्रभृतयः, तैः सह वर्तमानम् इति चार्थान्तरेण व्यक्तम् ।
तम् एवं-भूतं कैर् यजन्ति ? यज्ञैः पूजा-सम्भारैः । न यत्र यज्ञेश-मखा महोत्सवाः [भा।पु। ५.१९.२३] इत्य् उक्तेः । तत्र च विशेषणेन तम् एवाभिधेयं व्यनक्ति—सङ्कीर्तनं बहुभिर् मिलित्वा तद्-गान-सुखं श्री-कृष्ण-गानम्, तत्-प्रधानैः । तथा सङ्कीर्तन-प्राधान्यस्य तद्-आश्रितेष्व् असकृद् एव दर्शनात् स एवात्राभिधेय इति स्पष्टम् ॥१॥
बलदेवः : श्री-कृष्णो जयति ।
भक्त्य्-आभासेनापि तोषं दधाने
धर्माध्यक्षे विश्व-निस्तारि-नाम्नि ।
नित्यानन्दाद्वैत-चैतन्य-रूपे
तत्त्वे तस्मिन् नित्यम् आस्तां रतिर् नः ॥
मायावादं यस् तमः-स्तोमम्
उच्चैर् नाशं निन्ये वेद-वाग्-अंशु-जालैः ।
भक्तिर् विष्णोर् दर्शिता येन लोके
जीयात् सोऽयं भानुर् आनन्द-तीर्थः ॥
गोविन्दाभिधम् इन्दिराश्रित-पदं हस्त-स्थ-रत्नादिवत् ।
तत्त्वं तत्त्व-विद् उत्तमौ क्षिति-तले यौ दर्शयाञ्चक्रतुः ॥
मायावाद-महान्धकार-पटली-सत्-पुष्पवन्तौ सदा
तौ श्री-रूप-सनातनौ विरचिताश्चर्यौ सुवर्यौ स्तुमः ॥
यः साङ्ख्य-पङ्केन कुतर्क-पांशुना
विवर्त-गर्तेन च लुप्त-दीधितिम् ।
शुद्धं व्यधाद् वाक्-सुधया महेश्वरं
कृष्णं स जीवः प्रभुर् अस्तु नो गतिः ॥
आलस्या अप्रवृत्तिः स्यात् पुंसां यद् ग्रन्थ-विस्तरे ।
अतोऽत्र गूढे सन्दर्भे टिप्पन्य् अल्पा प्रकाश्यते ॥
श्रीमज्-जीवेन ये पाठाः सन्दर्भेऽस्मिन् परिष्कृताः ।
व्याख्यायन्ते त एवामी नान्ये ये तेन हेलिताः ॥
श्री-बादरायणो भगवान् व्यासो ब्रह्म-सूत्राणि प्रकाश्य तद्-भाष्य-भूतं श्री-भागवतम् आविर्भाव्य शुकं तद्-अध्यापितवान् । तद्-अर्थं निर्णेतु-कामः श्री-जीवः प्रत्यूह-कुलाचल-कुलिशं वाञ्छित-पीयूष-बलाहक-स्वेष्ट-वस्तु-निर्देशं मङ्गलम् आचरति कृष्णेति । निमि-नृपतिना पृष्टः करभाजनो योगी सत्यादि-युगावतारानुक्त्वाऽथ कलाव् अपि तथा शृणु [भा।पु। ११.५.३१] इति तम् अवधाप्याह—कृष्ण-वर्णम् इति । सुमेधसो जनाः कलाव् अपि हरिं भजन्ति । कैः ? इत्य् आह सङ्कीर्तन-प्रायैर् यज्ञैः अर्चनैर् इति । कीदृशं तम् ? इत्य् आह—कृष्णो वर्णो रूपं यस्यान्तर् इति शेषः । त्विषा कान्त्या त्व् अकृष्णम् । शुक्लो रक्तस् तथा पीतः इदानीं कृष्णतां गतः [भा।पु। १०.८.१३] इति गर्गोक्ति-पारिशेष्य-विद्युद्-गौरम् इत्य् अर्थः । अङ्गे नित्यानन्दाद्वैतौ । उपाङ्गानि श्रीवासादयः । अस्त्राणि अविद्या-च्छेत्तृत्वाद् भगवन्-नामानि । पार्षदान् गदाधर-गोविन्दायः । तैः सहितम् इति महाबलित्वं व्यज्यते । गर्ग-वाक्ये पीत इति प्राचीन-तद्-अवतारापेक्षया । अयम् अवतारः श्वेत-वराह-कल्प-गताष्टविंश-वैवस्वतम् अन्वन्तरीय-कलौ बोध्यः । तत्रत्ये श्री-चैतन्य एवोक्त-धर्म-दर्शनात् । अन्येषु कलिषु क्वचिच् छ्यामत्वेन क्वचिच् छुक-पत्राभत्वेन व्यक्तेर् उक्तेः । छन्नः कलौ यद् अभवः [भा।पु। ७.९.३८] इति,शुक्लो रक्तस् तथा पीतः [भा।पु। १०.८.१३] इति,कलाव् अपि तथा शृणु [भा।पु। ११.५.३१] इतिच । ये विमृशन्ति ते सुमेधसः । छन्नत्वं च प्रेयसी-त्विषावृतत्वं बोध्यम् ।
अङ्काःपूर्वाङ्कतोऽत्रान्ये टिप्पनी-क्रम-बोधकाः ।
द्वि-बिन्दवस् ते विज्ञेया विषयाङ्कारस् त्व् अबिन्दवः ॥
अत्र ग्रन्थे स्कन्धाध्याय-सूचका युग्माङ्का ग्रन्थ-कृतां सन्ति । तेभ्योऽन्ये ये टिप्पनी-क्रम-बोधायास्माभिः कल्पितास् ते द्विबिन्दु-मस्तकाः । विषय-वाक्येभ्यः परे येऽङ्कास् ते त्व् अबिन्दु-मस्तका बोध्याः ॥१॥5
राधा-मोहन-गोस्वामी :
चैतन्यं परमानन्दम् अद्वैतं द्वैत-कारणम् ।
श्री-कृष्णं राधया सार्धं प्रणमामि जगद्-गतिम् ॥
अस्य ग्रन्थस्य मुख्याभिधेय-श्री-कृष्ण-सङ्कीर्तन-रूप-मङ्गलं कुर्वन् तस्य मुख्योपास्यतां प्रमाणयन्न् एकादशस्थ-पद्यं दर्शयति—त्विषाकृष्णम् इति कनकम् इवोज्ज्वलम् । सुमेधस इति श्री-कृष्ण-कीर्तनं कलौ परम-श्रेयस्त्वेन शास्त्राचार्य-विवेचितम् इति सूचयति ॥१॥
गौर-किशोर-गोस्वामी :
यो गृह्णाति चिरं सेवाम् आत्म-प्रीति-प्रदां ध्रुवाम् ।
सुष्ठु-सम्पादितां साध्वीं स्व-भार्या-भ्रातृ-वंशजैः ॥
विष्णु-प्रिया-हृदिस्थोऽसौ श्री-गौराङ्गो महाप्रभुः ।
माया-मुग्धान् जनान् पातु प्रेम-भक्ति-प्रदानतः ॥
श्री-कृष्णः परमानन्दो राधयालिङ्गितः सदा ।
विदधातु परं क्षेमं तत्-पादाब्ज-श्रियाय च ॥
नत्वा विष्णु-प्रिया-नाथं नाम्ना स्वर्ण-लता मया ।
विवृतिः क्रियते शुद्धा सन्दर्भार्थ-प्रबोधिनी ॥
येन संरचितं मूलं स श्री-जीवो दयानिधिः ।
शक्तिं सञ्चारयत्व् अस्मिन् विवृतेः परिलेखने ॥
कुतो वा नूतनं वस्तु वयम् उत्प्रेक्षितुं क्षमाः ।
वचो विन्यास-वैचित्र्य-मात्रम् अत्र विचार्यताम् ॥
श्री-गौराङ्ग-चरण-कमल-मकरन्द-मधुप-श्री-कृष्ण-चैतन्य-वैष्णव-सम्प्रदायाचार्य-चूडामणिः श्री-जीव-गोस्वामि-पादः चिकीर्षितस्य षट्-सन्दर्भापर-नाम-श्री-भागवत-सन्दर्भ-सिद्धान्त-ग्रन्थस्य निर्विघ्न-परिसमाप्त्य्-अर्थं निर्विघ्न-परिसमाप्ति-कामो मङ्गलम् आचरेद् इत्य् अविगीत-शिष्टाचारानुमित-श्रुत्य्-आदौ तत्त्व-सन्दर्भ-ग्रन्थ-प्रारम्भे कलि-कल्मषाच्छनानां वेद-बोधितोपास्य-निर्घण्ट-व्याजेन मङ्गलम् आचरति—कृष्णेति ।
सर्वोऽप्य् अयं लोक-प्रसिद्धो वेदः प्रत्यक्षानुमानाभ्याम् अनवगतेष्टानिष्ट-प्राप्ति-परिहारोपाय-प्रकाशन-परः, सर्व-पुरुषाणां निसर्गत एव तत्-प्राप्ति-परिहारयोर् इष्टत्वात्, दृश्यते हि खलु सुख-दुःख-प्राप्ति-परिहारयोर् लोक-प्रवृत्तिः—“सुखं मे स्यात्, दुःखं माभूत्” इति स्वभावतः सर्वेषां पुरुषाणाम् अनवच्छिन्न-सुखादि-मात्रम् अभिलाषोपलम्भात् । दृष्ट-विषये च इष्टानिष्ट-प्राप्ति-परिहारोपाय-ज्ञानं प्रत्यक्षानुमानाभ्याम् एव सञ्जायते । अत एव न तत्रागमान्वेषणम् उपासनादि-पारमार्थिकालौकिक-विषये तु प्रत्यक्षादीनाम् अप्रवृत्त्या भवति तत्रागमान्वेषणा । अव्युत्पन्नानां प्रत्यक्षादिकं प्रमाणं माभूत् ।
व्युत्पन्नस्य तु प्रत्यक्षादिनैव पारमार्थैक-तत्त्व-निश्चयो भवत्य् एवेति चेत्, न, व्युत्पन्नस्यापि भ्रमादि-दोष-चतुष्टय-दर्शनात् । यादृशो हि पशु-शकुन्न्तादीनाम् अविप्रतिपन्न-मुग्ध-भावानां व्यवहारः । तादृशो व्युत्पन्नानाम् अपि पुंसां दृश्यते इति प्रत्यक्षादीनां लौकिक-प्रमाणाभावानाम् अलौकिक-तत्त्व-ज्ञानान् उपायता सिद्धा । अतोऽत्रापौरुषेय-वेद एवास्माकं प्रमाणम् । प्रत्यक्षादीनां तु तद्-अनुसारितया परतः प्रामाण्यं बोध्यम् ।
तथा हि द्वापरे वेदेषु समुत्सन्नेषु सङ्कीर्ण-प्रज्ञैर् ब्रह्मादिभिर् अभ्यर्थितो भगवान् पुरुषोत्तमः कृष्ण-द्वैपायन-रूपेणावतीर्य तान् उद्धृत्य विबभाज । तद्-अर्थ-निर्णेत्रीं चतुर्-लक्षणीं च ब्रह्म-मीमांसाम् आविश्चकार इत्य् अस्ति कथा स्कान्दी । तद्-अनन्तरं श्री-नारद-निर्देशेन ब्रह्म-मीमांसाया अकृतिम् अभाष्य-भूतं श्रीमद्-भागवतम् आव्रिभावयामास । स्मर्यते च गारुडे—अर्थोऽयं ब्रह्म-सूत्राणां भारतार्थ-विनिर्णयः इति । अथाधुना, “स्वल्पं तथायुर् बहवश् च विघ्नाः” इति दृष्ट्वा कलि-युगे अस्मिन् युगोचित-वेद-विहित-देवोपासनां हित्वा अन्यद् एव यजन-याजनेन वृथायुः-क्षपणेनालम् इति निर्णेतुं मङ्गलाचरण-प्रसङ्गात् स्व-पर-पक्ष-मण्डन-खण्डनेनास्मिन् कलौ एकस्यैव श्री-गौराङ्ग-महाप्रभु-कृष्ण-चैतन्य-देवस्य प्राधान्येनोपास्यत्वं सकल-वेद-सार-भूत-श्रीमद्-भागवत-पद्य-संवादेन आदौ घोषयति—कृष्णेति ।
श्री-भागवते एकादश-स्कन्धे कलि-योगोपास्य-निर्णयावसरे पद्यम् इदं—कृष्ण-वर्णम् इति । तत्र महाराजेन निमिना जिज्ञासितः सन् नव-योगीन्द्राणाम् अन्यतमः श्री-करभाजनः सत्य-त्रेता-द्वापर-युगावतारान् उक्त्वा तद्-अनन्तरम् अस्मिन् कलौ “को देवः ? का वा उपासना-पद्धतिः ? इति सन्देह-निराकरणार्थं ज्ञापयति—“कृष्ण-वर्ण” इति । त्विषा कान्त्या अकृष्णम् इति स्वामि-पादेनोक्तम् । यः कान्त्या अकृष्णः तं देवं सुमेधसो विवेकिनो यजन्ति । यजन-प्रणालीम् आह—सङ्कीर्तन-प्रायैः, यज्ञैर् अर्चनैः, न तु अन्य-यज्ञैः इत्य् अनेन इतर-यजन-प्रणाली अपकृता ।
तत्र च यजने सर्वेषाम् एवाधिकार इति कलौ यजन-वैशिष्ट्यम् । तेनैव हि सर्व-पुरुषार्थ-सिद्धिः । यद् उक्तं—“कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम्” । अत्र त्विषाकृष्णम् इति विशेष्य-पदम् । कृष्ण-वर्णं साङ्गोपाङ्गास्त्र-पार्षदं त्व् अस्य विशेषणम् । कृष्ण-वर्णं कृष्णः वर्णो रूपं यस्य तम् इत्य् आपाततः अर्थ-बोधेनोपास्य-देवतस्या देह-गत-रूपं कृष्णं चिन्तयतां मतं व्यावर्तयति त्विषाकृष्णम् इति । त्विषा कान्त्या अकृष्णम् इत्य् अकार-प्रश्लेषेण अङ्ग-वर्णस्य कृष्णत्व-कल्पना अपाकृता ।
अथ कान्त्या यः अकृष्णः स देवः कः, यम् अहं भजानि ? इति सन्देहे सञ्जाते संवादिनी-प्रेरणेन सिद्धान्तम् आह आनन्द-पादः—“त्विषा कान्त्या योऽकृष्णो गौरस् तं कलौ सुमेधसो यजन्ति” । अधुनास्य त्विषा अकृष्णस्य कलि-युग्योचितोपास्य-देवस्य गौरत्वं सकल-वेद-सार-भूत-श्रीमद्-भागवत-पद्य-संवादेन साधयति । गौरत्वं चास्य—
आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतोऽनुयुगं तनुः ।
शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ [भा।पु। १०.८.१३]
“इत्य् अत्र पारिशेस्य-प्रमाण-लब्धं” इति । परिशेषस्य भावः पारिशेष्यम् । “प्रसक्त-प्रतिषेधेऽन्यत्राप्रसङ्गात् शिष्यमाणे सम्प्रत्ययः परिशेषः” इति न्याय-भाष्यम् । प्रसक्तानां सम्भावितानां मध्ये अन्येषां सर्वेषां प्रतिषेधे सति अनन्तरम् अवशिष्टस्य ग्रहणं परिशेषः । यथा धूमान् वह्न्य्-अनुमाने किम् इन्धनो वह्निर् इति विशेष-जिज्ञासायां धूमस्य विअजात्य-परीक्षणेन तृण-पर्ण-काष्ठानां निषेधे यत् करीष-प्रभत्वम् अनुमीयते तद् इदं परिशेषानुमानम् । अप्रसक्तस्य पाषाणादेस् तावत् सम्भावनैव नास्ति इत्य् उक्तम् अन्यत्राप्रसङ्गात् अन्यत्र अप्रसक्तेर् इत्य् अर्थः । दशम-स्कन्धे श्री-कृष्ण-नाम-करण-प्रसङ्गे नन्द-महाराजं सम्भाष्य गर्गेणोक्तं—आसन् वर्णा इति । युगे युगे वारं वारं धर्म-संस्थापनाय भक्त-वाञ्छा-परिपूरणाय च यथोचितावतार-देहान् गृह्णतः अस्यार्भकस्य शुक्लो रक्तस् तथा पीत इति त्रयो-वर्णा आसन् । हि निश्चये । इदानीं द्वापर-युगे कृष्णतां गतः कृष्ण-वर्णत्वं प्राप्तः । सत्य-त्रेतयोः शुक्ल-रक्तावतारौ, इदानीं कृष्णावतारः इति शेषः । उक्तं च श्री-भागवतामृते—“कथ्यन्ते वर्ण-नामाभ्यां शुक्लः सत्य-युगे हरिः” [ल।भा। १.४.२५] । अन्यत्र च, त्रेतायां रक्त-वर्णोऽसौ, द्वापरे भगवान् श्यामः, द्वापरे कृष्णतां गतः इति च ।
इदम् अत्राकूतं तर्हि पीत-पदस्य कुत्र सङ्गतिः ? कस्मिन् युगे वास्य श्री-भगवतः हरेः पीत-वर्णत्वम् ? इति प्राप्ते ब्रूमः—महाभारते दान-धर्मोक्त-सहस्र-नाम-स्तोत्रे—
सुवर्ण-वर्ण-हेमाङ्गो वराङ्गश् चन्दनाङ्ग-दी ।
सन्न्यास-कृच् छमः शान्तो निष्ठा-शान्ति-परायणः ॥
इति यद् उक्तं तद्-वचनेन सह कृष्ण-वर्णम् इति श्लोकस्येक-वाक्यतां कृत्वा भागवत-पद्य-संवादेन सत्य-त्रेता-द्वापर-युगोचितावतार-विभाग-निर्देशं ज्ञात्वा परिशेषानुमान-प्रमाण-बलेन कलौ अवतीर्णस्य श्री-भगवतः पीतत्वं सिद्धम् । न च आसन् इति भूत-काल-निर्देशेन क्रम-प्राप्त्या पीतोऽपि द्वापर-युगावतार इति वाच्यम् । “नाना-तन्त्र-विधानेन कलाव् अपि तथा शृणु” इति पृथग्-निर्देशात् । युगावतार-कथन-प्रसङ्गे द्वापरे भगवतः पीतत्वं न श्रुतम् ।
“त्विषाकृष्णं” इति पदस्य पीत-वर्णं गौर-वर्णं वेति अर्थं विहाय कृष्ण-रूपो अर्थ-कल्पना न युक्ता प्रकाश्य-कृष्णावतारस्य द्वापरान्तर्-भावित्वेन प्रसिद्धेः । अत आहुः आनन्द-पादाः—कलौ यः कान्त्या अकृष्णः, गौरः, सुमेधसः तं यजन्ति । कलौ अवतीरणं कीदृशं त्विषाकृष्णं गौरं सुमेधसो यजन्ति, इत्य् अपेक्षायां विशेषम् आह—कृष्ण-वर्णं कृष्णो वर्णो रूपं यस्यान्तरम् इति शेषः । । इन्द्रनीलमणिवद् उज्ज्वल-कृष्णत्वं तु अस्य उज्ज्वल-गलित-हेम-गौर-कान्त्या अभिभूतत्वात् न चाक्षुष-प्रत्यक्ष-गोचर इति ।
अथवा कृष्ण-वर्णं कृष्णेत्य् अतो वर्णो यत्र यस्मिन् श्री-गौराङ्ग-महाप्रभु-कृष्ण-चैतन्य-देव-नाम्नि, श्री-कृष्णत्वाभिव्यञ्जकं कृष्णेति वर्ण-युगलं प्रयुक्तम् इत्य् अस्ति कथा क्रामसन्दर्भी । यथा द्वापरे श्री-कृष्णोऽवतरति तथैव कलौ श्री-गौराङ्गोऽप्य् अवतरति । अन्तः कृष्णो बहिः पीतत्वात् सर्वतः कृष्णत्वाभिव्यञ्जकत्वाच् च श्री-कृष्णस्य प्रच्छन्नाविर्भाव-विशेष एवायम् अवतारः श्री-गौराङ्ग-महाप्रभुर् इत्य् आयाति ।
श्री-कृष्णस्य कृष्ण-वर्ण-परावृत्त्या गौर-वर्ण-सम्पत्ती चायम् एव हेतुः । श्री-राधाया विष्णु-प्रिया-रूपेणावतीर्णायाः स्व-प्रेयस्यावर्ण-भावाभ्यां स्वीय-कृष्ण-वर्ण-भावाभिभवेन स्व-प्रेयसी-वर्ण-भावाभिभावेन च श्री-कृष्णस्य कलौ प्रच्छन्नावतारत्वम् ।
अथैवम्भूत-श्री-गौराङ्ग-देवस्य परमेश्वरत्वं विज्ञापयति विशेषणान्तरेण “साङ्गोपाङ्गास्त्र-पार्षदम्” इति । अङ्गानि मनोरमावयवादीनि उपाङ्गानि महा-प्रभाव-युक्त-भूषणादीनि एव अस्त्राणि पार्षदो यस्य सः । तं श्री-गौराङ्ग-महाप्रभुं सुमेधसो यजन्तीति निर्देशः । अथवा अङ्गानि हृदयादीनि, उपाङ्गानि कौस्तुभादीनि अस्त्राणि सुदर्शनादीनि, पार्षदाः सुनन्दादयः प्रच्छन्नत्वात् गुप्त-भावेनावतिष्ठन्ते यत्र श्री-गौराङ्गावतारे तम् इत्य् अर्थः । प्रच्छन्नार्थकत्व-रूप-कष्ठ-कल्पनां परित्यज्य श्री-गौराङ्ग-पूर्णावतारोचित-व्याख्याम् आह आनन्द-पादः—“अत्यन्त-प्रेमास्पदत्वात् तत्-तुल्या एव पार्षदाः श्रीमद्-अद्वैताचार्य-महानुभाव-चरण-प्रभृतयस् तैः सह वर्तमानम् इति चार्थान्तरेण वक्तव्यम्” इति । अत्र प्रभृतयः इति पदेन श्री-नित्यानन्दो गदाधरो श्रीवासः तथा श्री-विष्णु-प्रियायाः अनुज-सहोदर-श्री-यादवाचार्यः, तथा तत्-पुत्र श्री-माधवानन्दः नित्य-पार्षदा ज्ञेयाः ।
तम् एवंभूत-कलि-पावनावतारं श्रीमन्-महाप्रभु-गौराङ्ग-देवं यज्ञैः पूजा-सम्भारैः सङ्कीर्तन-प्रायैः सुमेधसः यजन्ति । ये च दुर्मेधसः ते श्री-गौराङ्ग-देवम् अनादृत्य श्री-गौर-नाम-कीर्तनं च परित्यज्य अन्य-देवार्चनेन वृथा-काल-निपातं कुर्वन्ति, अन्ते च नित्यं समाप्नुवन्ति इति ध्वनिः ॥१॥
—ओ)०(ओ—
[२]
अन्तः कृष्णं बहिर् गौरं दर्शिताङ्गादि-वैभवम् ।
कलौ सङ्कीर्तनाद्यैः स्मः कृष्ण-चैतन्यम् आश्रिताः ॥२॥
सर्व-संवादिनी : तद् एतत् सर्वम् अवधार्यापि परमोत्कृष्टेनार्थेन तम् एव स्तौति—अन्तः कृष्णम् इत्य्-आदिना । दर्शितं चैतत् परम-विद्वच्-छिरोमणिना श्री-सार्वभौम-भट्टाचार्येण—
कालान् नष्टं भक्ति-योगं निजं यः
प्रादुष्कर्तुं कृष्ण-चैतन्य-नामा ।
आविर्भूतस् तस्य पादारविन्दे
गाढं गाढं लीयतां चित्त-भृङ्गः ॥ इति ॥२॥
बलदेवः : कृष्ण-वर्ण-पद्य-व्याख्या-व्याजेन तद्-अर्थम् आश्रयति अन्तर् इति । स्फुटार्थः ॥२॥
राधा-मोहन-गोस्वामी : स्व-भजनस्य सम्प्रदाय-प्रवर्तनायावतीर्णं गौर-रूपेण श्री-कृष्णं तद्-अनुगत-व्याख्या-सम्पत्तये पुनः प्रणमति—अन्तः-कृष्णम् इति । आश्रिता इति वयम् इति शेषः ॥२-७॥
गौर-किशोर-गोस्वामी : अथ प्रथम-श्लोकार्थ-स्पष्टीकरणाय कलौ श्री-गौराङ्ग एव उपास्य इति अभिधा-वृत्त्या विज्ञापनार्थं तत् सिद्धान्त-दार्ढ्याय तस्य परमोत्कर्ष-प्रतिपादयिषुः तम् एव श्री-गौराङ्ग-महाप्रभु-कृष्ण-चैतन्य-देवं स्तौति—अन्तः-कृष्णम् इत्य्-आदिना ।
न च स्वतः-सिद्धस्य श्री-गौराङ्गावतारस्य पुनः प्रतिपादनं न सङ्गच्छते शास्त्र-वाक्यादिना, प्रतिपादनेऽपि हेयोपादेयता-रहितस्य तस्यापुरुषार्थत्व-प्रसङ्ग इति वाच्यम् । शास्त्र-वाक्यानि श्री-गौराङ्गं प्रतिपादयन्ति । विमूढ-जनानां तथा कुतर्काच्छन्नानां मतिम् आकर्षयितुं बाह्य-कथा लौकिक-रीत्या वा श्री-गौराङ्गम् उपास्यत्वेन ज्ञापयन्ति घोषयन्ति । ततः शास्त्रेण प्रतिपादितत्वेऽपि श्री-गौराङ्गस्य स्वतः-सिद्धत्वं न हीयते । यत् तु पुरुषार्था प्राप्ति-प्रसङ्गः, नैष दोषः । श्री-गौराङ्गं भगवतः पूर्णावतार-भावेन ज्ञात्वा अस्य अर्चनादौ निविष्ट-चित्तानां सर्व-क्लेश-प्रहाणात् परम-पुरुषार्थ-प्राप्तेः ।
यद्यपीदम् अविरोधेन भक्ति-सिद्धान्तं निरूपयितुं शास्त्रं प्रवृत्तम्, न उच्छृङ्खल-तर्क-शास्त्रवत् शुष्क-तर्काश्रयेण केवलाभिर् युक्तिभिः किञ्चित् मतं साधयितुं खण्डयितुं वा प्रवृत्तम्, तथापि सम्यक्-दर्शन-प्रतिपक्ष-भूतानि आनन्द-देशीयानां दुष्ट-मतानि अवश्यं निराकरणीयानि, अन्यथा कुतर्क-समाच्छादितं तत्त्वं न पुरुषार्थ-सिद्धये पर्याप्तं स्याद् इति तत्-तन्-मतम् उत्थाप्य निराक्रियते ।
अत्राशिष्टा मन्यन्ते श्री-कृष्णेन सह भगवतः श्री-गौराङ्गस्य न कश्चित् सम्बन्धः । न चासौ श्री-कृष्णस्य प्रच्छन्नाविर्भाव-विशेषः । अतो नेश्वर-बुद्ध्या सेवितव्य इति । एतन्-मतं निराकरोति—अन्तः-कृष्णेति । कृष्णत्वं यस्यातरम् इति । यतोऽस्य दर्शनेनैव च श्री-कृष्णाविर्भाव-विशेष एवायं श्री-गौराङ्गः । तस्मात् ईश्वरत्वे न कापि शङ्का पदं लभते ।
यद् अपि केचिद् आहुः श्री-कृष्णाविर्भाव-विशेष एवायं श्री-गौराङ्गः । अतः तदीय-पत्नी-तत्-परिकरादिभिः सह अस्य ध्यान-मन्त्रादिना पृथक्-पूजा-पद्धतिर् विद्यते श्री-कृष्ण-ध्यान-मन्त्रादिनैव तत्-सिद्धेः, अपि तु श्री-कृष्णात् ऋते श्री-गौराङ्ग-पूजा समाधेयेति । तन् निरस्यति—बहिर् गौर इति निर्देशात् । अन्तः-कृष्णत्वेऽपि ज़्-कृष्णात् अस्य वैशिष्ट्यम् आह—बहिर् गौरम् इति । अपूर्वोज्ज्वल-हेम-वर्णम् इत्य् अर्थः । द्वापरे अतृप्त-कामः श्री-कृष्णः प्रेयस्या वर्ण-भावाभ्याम् आत्मानम् आच्छाद्य स्वीयाभीष्ट-पूरणाय कलौ श्री-गौराङ्ग-रूपेणाविर्भूतः ।
अतः तत्-कालोचित-ध्यानेन मन्त्रेण च एवम्भूतस्यास्यैतत्-काले कुत्र पूजादि-सम्भवः ? अधिकं तु श्री-कृष्णस्य ध्यान-मन्त्रादौ वर्णिताः ये देह-वर्णवयवाः तैः सह श्री-गौराङ्गस्य देह-वर्णावयवादेर् अत्यन्त-वैलक्षण्यात् तादृश-ध्यानादेस् तु रूपाद्य्-अननुगततया श्री-कृष्णस्य ध्यान-मन्त्रैः श्री-गौराङ्ग-पूजा मत्त-कल्पनैव । अतः श्री-गौराङ्ग-पूजायाः तद्-उचित-मन्त्रादेर् व्यवस्थावश्यं स्वीकार्या, शास्त्र-सङ्गा चेयम् । आनन्द-चरणैर् अपि श्री-विष्णुप्रियया सह श्री-गौराङ्गस्य यथोचित-युगल-मन्त्रेण श्री-गौर-विष्णुप्रिया-युगल-भजन-सेवा-पूजा तथा श्री-नित्यानन्दादिभिः सह पृथक् पृथग् भावेन श्री-गौराङ्गस्य पूजा तद्-उचित-ध्यान-मन्त्रेण समाचरिता । यो व्रजे नन्दनन्दनो राधा-नाथः श्री-कृष्णः स हि अत्र नवद्वीपे शचीसुतः विष्णुप्रिया-नाथः श्री-गौराङ्गः संवृत्तः । या व्रजे वृषभानु-नन्दिनी कृष्ण-प्रिया श्री-राधा, सा हि नवद्वीपे सनातन-सुता गौर-प्रिया श्री-विष्णुप्रिया ।
अत्रापरे प्रत्यवतिष्ठते । यद्यपि युगावतार-निर्णय-प्रसङ्गे भागवतादि-शास्त्र-प्रमाणकः श्री-गौराङ्गः, तथापि श्री-कृष्ण-तत्त्वाद् अपकृष्टतया श्री-गौराङ्ग-तत्त्वं शास्त्रेण समर्थ्यते, यथा मत्स्याद्य्-अवतार-तत्त्वानि । कुतः एतत् ? श्री-कृष्णात् श्री-गौराङ्गस्य पृथग्-ध्यान-मन्त्रादीनां स्वीकारेऽपि श्री-गौराङ्गोपासनाया आनर्थक्य-प्रसङ्गः । दृश्यते च शास्त्रे—एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इति ।
अत्राभिधीयते—न, एतत् तत्त्वयोर् उत्कृष्टापकृष्ट-परिकल्पनायाः शास्त्र-विगर्हितत्वात् । यः श्री-कृष्णः, स एव श्री-गौराङ्गः । मस्त्यादीनां तु अंशत्वात् अंशिनि कृष्णे पर्यवसानं न विरुद्धम्, किन्तु श्री-गौराङ्गः मत्स्यादिवत् न अंशः, येनास्यावसानं श्री-कृष्णे कल्प्येत, अपि तु श्री-कृष्णस्य पूर्णाविर्भाव-विशेषत्वात् श्री-गौराङ्गो हि षड्-ऐश्वर्यैः पूर्णः स्वयं भगवान्, यद् उक्तं वृद्धानन्दैः—
षड्-ऐश्वर्यैः पूर्णो य इह भगवान् स स्वयम् अयम् ।
न चैतन्यात् कृष्णात् जगति पर-तत्त्वं परम् इह ॥ इति ।
श्री-कृष्ण-चैतन्य-शब्दः हि श्री-गौराङ्गस्य सन्न्यास-कालोचित-नाम-विशेषः । निमाइ, विश्वम्भरः, विष्णुप्रिया-नाथः, महाप्रभुः, नवद्वीप-चन्द्रः, नदीया-विहारी, इत्य्-आदीनि अस्य श्री-गौराङ्गस्य अपर-नामानि संस्कृत-प्राकृत-भाषा-प्रसिद्धानि । अतः श्री-गौराङ्ग-तत्त्वम् एव हि पर-तत्त्वम् अधुना कलौ इति निष्कर्षः ।
शक्त्या सह अभिन्नः पुरुषोत्तमः नित्य-लीला-रसास्वादन-परोऽपि विप्रलम्भादि-युक्तापूर्व-रसास्वादनार्थं ह्लादिनी-शक्त्या सह विभिन्नः सन् यो व्रजे श्री-नन्दनन्दन-रूपेणाविर्भूतः सोऽधुना कलौ पूर्व-सञ्जात-पिपासाया रस-विशेषास्वादन् एन निवारणार्थं पुनः ह्लादिनी-शक्त्या सह एकीभूतः सन् श्री-गौराङ्ग-रूपेणावतीर्णः । आर्षश् चायं—
राधा कृष्ण-प्रणय-विकृतिर् ह्लादिनी शक्तिर् अस्माद्
एकात्मानाव् अपि भुवि पुरा देह-भेदं गतौ तौ ।
चैतन्याख्यं प्रकंअम् अधुना तद्-द्वयं चैक्यम् आप्तं
राधा-भाव-द्युति-सुवलितं नौमि कृष्ण-स्वरूपम् ॥ [चै।च। १.१.५] इति ।
श्रीमद्-भागवत-निबद्धं श्री-कृष्णोक्तम्, न पारयेऽहं निरवद्य इत्य्-आदि-श्लोकेन यत् श्री-कृष्ण-तत्त्व-माधुर्यं प्रकाशितं तद् अधुनाभिनव-माधुर्यान्तर-संयुक्तं सत् श्री-गौराङ्ग-तत्त्वाकारेण परिस्फुटम् । यद् वा, श्री-कृष्ण-तत्त्वं हि ह्लादिनी-शक्त्या सह प्रेम-रसेन परिपाकावस्थान्तरं प्राप्य श्री-गौराङ्ग-रूपेण पर्यवसितम् । तेन च श्री-कृष्ण-तत्त्वात् एतस्य श्री-गौराङ्ग-तत्त्वस्यास्वादन-वैशिष्ट्यं च—पर-तत्त्वं परम् इह इति उपासकानाम् अनुभव-बलेन सुष्ठु सङ्गच्छते ।
श्री-कृष्णाविर्भाव-विशेष एवायं श्री-गौराङ्गः । तथा च तस्य परमेश्वरत्व-ज्ञापक-शास्त्र-वाक्यानि उद्धृतानि । अधुना पुनः त्णय् अप्य् अपराणि वेद-व्यासादिभिः उट्टङ्कितानि उपस्थाप्यन्ते । दृश्यते च पुराणे—
अहम् एव क्वचिद् ब्रह्मन् सन्न्यासाश्रमम् आश्रितः ।
हरि-भक्तिं ग्राहयामि कलौ पाप-हतान् नरान् ॥ इति ।
अन्यत्र तु श्री-महाभारते दान-धर्मे—
सुवर्ण-वर्ण-हेमाङ्गो वराङ्गश् चन्दनाङ्ग-दी ।
विरहाविषमः शून्यो धृताशिर-चलश् चलः ।
तत्रैव पुनः—
क्रियामासामगः सामो निर्वाणं भेषजं भिषक् ।
सन्न्यास-कृच् छमः शान्तो निष्ठा-शान्ति-परायणः ॥ इति ।
तथा च श्रीमद्-भागवते—
आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतोऽनुयुगं तनुः ।
शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ [भा।पु। १०.८.१३] इति ।
पुनः तत्रैव च युगावतार-निर्णय-प्रसङ्गे—
कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् ।
यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः ॥ [भा।पु। ११.५.३२] इति च ।
शास्त्रान्तरे च—
कलेः प्रथम-सन्ध्यायां गौराङ्गोऽहं मही-तले ।
भागीरथी-तटे रम्ये भविष्यामि शची-सुतः ॥
अहम् एव कलौ विप्र नित्यं प्रच्छन्न-विग्रहः ।
भगवद्-भक्त-रूपेण लोकान् रक्षामि सर्वथा ॥
अहं पूर्णो भविष्यामि युग-सन्धौ विशेषतः ।
गङ्गा-तीरे नवद्वीपे वारम् एकं शची-सुतः ॥ इति ।
उक्तं च अनन्त-संहितायां श्री-भगवता—
अवतीर्णो भविष्यामि कलौ निज-जनैः सह ।
शची-गर्भे नवद्वीपे स्वर्धुनी-परिवारिते ॥ इति ।
अपि तु विश्व-सार-तन्त्रे—
गङ्गायां दक्षिणे भागे नवद्वीपे मनोरमे ।
फाल्गुन्यां पौर्णमास्यां वै निशायां गौर-विग्रहः ॥ इति ।
अपि च ऊर्ध्वाम्नाय-संहितायां श्री-भगवद्-वाक्यं—
कृष्णं वदिष्यन्ति जनाः कंसारातिं सुरास् तथा ।
पौर्णमास्यां फाल्गुनस्य फाल्गुनी-ऋक्ष-योगतः ॥
जनिष्ये गौर-रूपेण शची-गर्भे पुरन्दरात् ।
वैवस्वतेऽन्तरे ब्रह्मन् गङ्गा-तीरे सुपुण्यदे ॥ इति ।
तत्रैव हि—
कलौ पुरन्दरात् शच्यां गौर-रूपो विभुः स्मृतः ।
महाप्रभुर् इति ख्यातः सर्व-लोकैक-पावनः ॥ इति च ।
अपि तु दृश्यते तत्र च—
श्री-व्यास उवाच—
केन रूपेण भगवान् पूजितः स्यात् सुखावहः ।
घोरे कलि-युगे प्राप्ते तन् मे वद दयानिधे ॥
श्री-नारद उवाच—
कृष्ण-रूपेण भगवान् कलौ पाप-प्रणाश-कृत् ।
गौर-रूपेण भगवान् भावितः पूजितस् तथा ॥
श्री-व्यास उवाच—
केन मन्त्रेण भगवान् गौराङ्गः परिपूजितः ।
सुखावहः स्याल् लोकानां तन् मे ब्रूहि महा-मुने ॥
श्री-नारद उवाच—
अहो गूढतमः प्रश्नो भवता परिकीर्तितः ।
मन्त्रं वक्ष्यामि ते ब्रह्मन् महा-पुण्य-प्रदं शुभम् ॥
ॐ गौराय नमः इत्य् एष मन्त्रो लोकेषु पूजितः ।
माया-रसानङ्ग-बीजैर् वाग्-बीजेन च पूजितः ॥
एवं बहु-विधा ब्रह्मन् मन्त्रास् ते परिकीर्तिताः ।
गङ्गा-तीरे कुरुक्षेत्रे नवद्वीपे विशेषतः ।
वृन्दावने च मन्त्रोऽयं साधितः सिद्धिम् आप्नुयात् ॥
इत्य् आदीनि श्री-ऊर्ध्वाम्नाय-संहितायां गौर-मन्त्रोद्धार-नाम तृतीयाध्यायः । अथ ईशान-संहितायां श्री-पार्वतीं प्रति श्री-महादेव-वाक्यम्—
अपरं शृणु चार्वङ्गि मन्त्र-राजम् इमं प्रिये ।
आदौ मायां समुच्चार्य गौरचन्द्रं ततो वदेत् ।
भक्ति-योगेन गौराङ्गं पूजयेत् प्रिये ॥ इत्य् आदीनि ।
तथा हि—नमस्यामि शची-पुत्रं गौरचन्द्रम् इत्य्-आदि श्री-गौराङ्ग-देव-स्तोत्रम् । श्रीमन्-मौक्तिक-दाम-बद्ध-चिकुरम् इत्य्-आदि श्री-गौराङ्ग-महाप्रभोर् ध्यानम्—
नमस् त्रिकाल-सत्याय जगन्नाथ-सुताय च ।
स-भृत्याय स-पुत्राय स-कलत्राय ते नमः ॥
इति श्री-गौराङ्ग-महाप्रभोः प्रणाम-मन्त्रः । श्लोके तु “स-पुत्राय” इति पदेन “पुत्रः” श्री-विष्णुप्रियायाः सहोदरानुज-श्री-यादवाचार्यः, तेन सह अवस्थितो यः श्री-गौराङ्ग-महाप्रभुः, तस्मै इति । पुत्रत्वेन श्री-यादवाचार्य-प्रतिपाल्य-स्वीय-सेवाधिकारं श्री-गौराङ्ग-महाप्रभुः तस्मै परम-कृपया ददौ । ततः श्री-यादवाचार्यस्य गौराङ्ग-पुत्रत्वं सिद्धम् । “स-कलत्राय” इति । शचीनन्दनाय विद्महे इत्य्-आदि हि श्री-गौराङ्ग-गायत्री । अधुना सम्प्रवक्ष्यामि कवचं सर्व-सिद्धिदम् इत्य्-आदि श्री-गौराङ्ग-कवचम् । एतानि सर्वाणि हि शास्त्रेभ्यः अवबोधनीयानि ।
अतः पूर्वोल्लिखित-शास्त्र-वाक्य-समन्वयात् श्री-गौराङ्गस्य परमेश्वरत्वं श्री-कृष्णाविर्भाव-विशेषत्वं च सिद्धम् । न च एतद्-वाक्य-गतानां पदानां श्री-गौराङ्ग-स्वरूप-विषयत्वे याथार्थ्येन अवगम्यमाने अर्थान्तर-कल्पना । युक्ता श्रुत-हान्य्-अश्रुत-कल्पना-प्रसङ्गात् । द्वापरे यः श्री-कृष्णः कलौ स एव श्री-गौराङ्ग इति शास्त्र-विदां तात्पर्यम् । अतो यथोचित-ध्यान-मन्त्रादिना श्री-गौराङ्गोपासनाया अवश्य-कर्तव्यता प्रापा । अकरणे प्रत्यवेयू पुरुषापसदाः । श्री-गौराङ्गम् अनादृत्य श्री-कृष्ण-भजन-सेवा-रतस्य जरासन्धादिवत् असुरत्वं ज्ञेयम् । तस्मात्—श्री-गौराङ्गोपासनायाः आनर्थक्य-प्रसङ्ग इति वचनं साहस-मात्रम् ।
ये च कौलटेराः श्री-कृष्ण-भक्ति-व्याजातिशयेन श्री-गौराङ्ग-तत्त्वम् अन्यथा कल्पयन्ति, तथा भाव-सिन्धु-श्री-गौराङ्गस्य विभिन्न-भावोत्थ-वाक्यावलीम् अनुचिन्त्य—असौ गौराङ्गः श्री-कृष्णस्य दासः, न तु परमेश्वरः इत्य् एवं जल्पन्ति च, मृदङ्ग-करताल-वाद्यादिभिः सह सङ्कीर्तनंन धर्माङ्गम् इति स्व-जातीय-सहचर-वाक्य-बलेन सङ्कीर्तन-यज्ञस्यापकृष्टतां साधयन्ति, मत्स्यादिवद् अवतार-रूपेण परम-साधारण-मनुष्य-रूपेण भागवत-रूपेण वा, अमुं श्री-गौराङ्गं चिन्तयन्ति, तेषां गण्डे पञ्च-चपेटिका-स्वरूपं श्री-गौराङ्ग-तत्त्व-माहात्म्य-सिद्धान्त-साहाचार्य-वरेण्यः
यद् अद्वैतं ब्रह्मोपनिषदि तद् अप्य् अस्य तनु-भा
य आत्मान्तर्यामी पुरुष इति सो ऽस्यांश-विभवः ।
षड्-ऐश्वर्यैः पूर्णो य इह भगवान् स स्वयम् अयं
न चैतन्यात् कृष्णाज् जगति पर-तत्त्वं परम् इह ॥ [चै।च। १.१.३] इति ।
या अव्यवसिता बुद्धिः निखिल-लोक-पति-श्री-गौराङ्गं त्यक्त्वा अअन्यत्र धावति, सा मतिः कुलटा, तया परिचालितः परिपुष्टः यः जीवः स कौलटेरः । परिपोषणात् अस्या मतेः मातृत्वम्, परिपोष्यत्वात् जीवस्य पुत्रत्वम्, अतः कौलटेरत्वम् एषां साम्प्रतम् एव ।
कलि-पावनावतार-श्री-गौराङ्गस्य परमेश्वरत्वं ज्ञापयति—“दर्शिताङ्गादि-वैभवम्” इति । ये तावत् सत्त्व-गुण-विवर्जिताः अभक्तास् ते श्री-कृष्ण-चैतन्य-महाप्रभु-श्री-गौराङ्गम् अलौकिक-गुण-गणैश्वर्यादिर् युक्तम् अपि ईश्वरत्वेन न जानन्तीति कौतुकम् । तद् उक्तं यामुनाचार्य-स्तोत्रे—
त्वां शील-रूप-चरितैः परम-प्रकृष्टैः
सत्त्वेन सात्त्विकतया प्रबलैश् च शास्त्रैः ।
प्रख्यात-दैव-परमार्थ-विदां मतैश् च
नैवासुर-प्रकृतयः प्रभवन्ति बोद्धुम् ॥ [स्तोत्र-रत्नं १२] इति ।
अथ ग्रन्थ-कारः परमेश्वर-श्री-कृष्ण-चैतन्य-गौराङ्ग-महाप्रभोश् चरण-कमले आत्मानं सम्पूर्ण-रूपेण उत्सर्गी करोति अन्यान् अपि तत् कर्तुम् आह्वयति—“कृष्ण-चैतन्यम् आश्रिताः” इत्य् अनेन ॥२॥
—ओ)०(ओ—
[३]
जयतां मथुरा-भूमौ श्रील-रूप-सनातनौ ।
यौ विलेखयतस् तत्त्वं ज्ञापकौ पुस्तिकाम् इमाम् ॥३॥
सर्व-संवादिनी : जयताम् इति । ज्ञापकौ ज्ञापयितुम् ॥३॥
बलदेवः : अथाशीर् नमस्कार-रूपं मङ्गलम् आचरति जयताम् इति । श्रीलौ ज्ञान-वैराग्य-तपः-सम्पत्तिमन्तौ रूप-सनातनौ मे गुरु-परम-गुरू जयतः निजोत्कर्षं प्रकटयताम् । मथुरा-भूमाव् इति । तत्र तयोर् अध्यक्षता व्यज्यते । तयोर् जयोऽस्त्व् इत्य् आशास्यते । जयतिर् अत्र तद् इतर-सर्व-सद्-वृन्दोत्कर्ष-वचनः । तद्-उत्कर्षाश्रयत्वात् तयोस् तत्-सर्व-नमस्यत्वम् आक्षिप्यते । तत्-सर्वान्तःपातित्वात् स्वस्य तौ नमयाव् इति च व्यज्यते। तौ कीदृशाव् इत्य् आह । याव् इमां सम्दर्भाख्यां पुस्तिकां विलेखयतस् तस्या लिखने मां प्रवर्तयतः । बुद्धौ सिद्धत्वात् इमाम् इत्य् उक्तिः । तत्त्वं ज्ञापकौ तत्त्वं वाद्य-प्रभेदे स्यात् स्वरूपे परमात्मनि इति विश्व-कोषात् । परेशं सपरिकरं ज्ञापयिष्यन्ताव् इत्य् अर्थः । कर्तरि भविष्यति ण्वुल् षष्ठी-निषेधस् तु अकेनोर् भविष्यद् आधमर्णयोः [पा। २.३.७०] इति सूत्रात् ॥३॥
राधा-मोहन-गोस्वामी : न व्याख्यातम्।
गौर-किशोर-गोस्वामी : पुरा किल श्री-रूप-सनातनौ कर्णाट-देश-वासि-प्रसिद्ध-ब्राह्मण-वंशजौ आस्ताम् । अथ कार्य-व्यपदेशेन तौ द्वौ गौडे राज-मन्त्रि-रूपेण अवसताम् । तत्र श्री-गौराङ्गस्यानुगत-जन-चरण-रेणोः स्पर्शेन ज्ञान-विज्ञान-तपः-सम्पत्तिमन्तौ तौ कठोर-वैराग्यम् अवलम्ब्य व्रज-भूमौ वसन् श्री-गौराङ्ग-महाप्रभोः सञ्चारित-शक्ति-बलेन वैष्णव-श्री-ग्रन्थादीन् प्रकटयामासतुः । वर्तमान-ग्रन्थ-कारः तयोर् भ्रातुष्पुत्रः शिष्यं च, ग्रन्थस्य निर्विघ्न-परिसमाप्त्य्-अर्थं तौ द्वौ नमस्करोति । वैराग्यानन्तरं जागतिक-धन-शून्यत्वेऽपि अहैतुक-भक्ति-सम्पत्तेर् अधिकारित्व-हेतोर् अनयोः श्री-युक्तत्वात्—श्रील इति । श्री-रूप-सनातनयोर् निर्देशेन ग्रन्थ-कारस्येयं ग्रन्थ-सङ्कलन-प्रवृत्तिः । धाम्ना सह तयोर् जयम् इच्छति—जयताम् इति ॥३॥
—ओ)०(ओ—
[४]
कोऽपि तद्-बान्धवो भट्टो दक्षिण-द्विज-वंशजः ।
विविच्य व्यलिखद् ग्रन्थं लिखिताद् वृद्ध-वैष्णवैः ॥४॥
सर्व-संवादिनी : कोऽपीति । वृद्ध-वैष्णवैः श्री-रामानुज-मध्वाचार्य-श्रीधर-स्वाम्य्-आदिभिर् यल् लिखितम्, तस्माद् उद्धृतस्येत्य् अर्थः । अनेन स्व-कपोल-कल्पितत्वं च निरस्तम् ॥४॥
बलदेवः : ग्रन्थस्य पुरातनत्वं स्व-परिष्कृतत्वं चाह—कोऽपीति । तद्-बान्धवस् तयो रूप-सनातनयोर् बन्धुर् गोपाल-भट्ट इत्य् अर्थः । वृद्ध-वैष्णवैः श्री-मध्व्-आदिभिर् लिखिताद् ग्रन्थात् तं विविच्य विचार्य सारं गृहीत्वा ग्रन्थम् इमं व्यलिखत् ॥४॥
राधा-मोहन-गोस्वामी : न व्याख्यातम्।
गौर-किशोर-गोस्वामी : ग्रन्थस्यास्य प्राचीनत्वं तथा महाजन-वर्त्म-चारित्वं दर्शयति—कोऽपीति । भट्टः श्री-गोपाल-भट्ट-पादः । “वृद्ध-वैष्णवैः श्री-रामानुजानन्द-श्रीधर-स्वामि-पादादिभिर् यल् लिखितं तद् दृष्ट्वेत्य् अर्थः । अनेन स्व-कपोल-कल्पितत्वं निरस्तम्” इति संवादिनी ॥३॥
—ओ)०(ओ—
[५]
तस्याद्यं ग्रन्थनालेखं क्रान्तम् उत्क्रान्त-खण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥५॥
सर्व-संवादिनी : न व्याख्यातम्।
बलदेवः : तस्य भट्टस्य आद्यं पुरातनं ग्रन्थनालेखं पर्यालोच्य जीवको मल्-लक्षणः, पर्यायं कृत्वा क्रमं निबध्य लिखति । “ग्रन्थ सन्दर्भे”[धातु १८३९] चौरादिकः । ततो ण्यास-श्रन्थ [पा। ३.३.१०७] इति कर्मणि युच्, ग्रन्थना ग्रन्थः । तस्य लेखं लिखनम्, भावे घञ् । तं लेखं कीदृशम् ?इत्य् आह—क्रान्तम्, क्रमेण स्थितम् । व्युत्क्रान्तं व्युत्क्रमेण स्थितम् । खण्डितं छिन्नम् इति स्व-श्रमस्य सार्थक्यम् ॥५॥
राधा-मोहन-गोस्वामी : न व्याख्यातम्।
गौर-किशोर-गोस्वामी : अथ ग्रन्थ-कारः निखिल-शास्त्र-निष्णातः महा-दार्शनिक-चूडामणिः श्री-जीव-गोस्वामिइ-पादः वैष्णवोचित-स्वभाव-सुलभ-विनय-गुण-सम्पन्नत्वात् स्वाहङ्कारं परिहरति—तस्याद्यम् इति श्लोकेन ॥५॥
—ओ)०(ओ—
[६]
यः श्री-कृष्ण-पदाम्भोज-भजनैकाभिलाषवान् ।
तेनैव दृश्यताम् एतद् अन्यस्मै शपथोऽर्पितः ॥६॥
सर्व-संवादिनी : य इति । एको मुख्यः । एतत् लिखनम् ॥६॥
बलदेवः : ग्रन्थस्य रहस्यत्वम् आह यः श्रीति । कृष्ण-पारतम्येऽन्येनानादृते तस्यामङ्गलं स्याद् इति । तन्-मङ्गलायैतत् । न तु ग्रन्थावद्य-भयात् । तस्य सुव्युत्पन्नैर् निरवद्यत्वेन परीक्षितत्वात् ॥६॥
राधा-मोहन-गोस्वामी : न व्याख्यातम्।
गौर-किशोर-गोस्वामी : अस्य ग्रन्थस्य गुरुत्वातिशयात्
ग्रन्थ-प्रारम्भे शपथ-वाक्यम् आह— यः श्री-कृष्णेति ।
न च विरुद्ध-मतावलम्बिभिः सह विचार-पराङ्-मुखता-वशात्
स्वीय-साम्प्रदायिक(ा)-वेष्टन-विशेष एवायं,
येनान्येषां पठन-पाठनं व्यावर्तितम् -
सर्वत्राप्रतिद्वन्द्वित्वेऽपि
निरहङ्कार-समदर्शि-वैष्णवे उदारतायाः चिर-प्राचुर्यात् ।
पुरुषोत्तमे श्री-कृष्णे श्रद्धा-हीनानां
तत्-सम्बन्धि-ग्रन्थ-पर्यालोचनेन अवज्ञा-बुद्धि-वशात्
पर-पक्ष-जिगीषोन्मादनाद् वा अपराधः सञ्जायेत,
तत् तेषां माभूत्,
इति सर्व-जन-कल्याण-काङ्क्षी ग्रन्थ-कारः
स्वार्थी-भूत-विश्व-व्यापी-कारुण्यः श्री-जीव-गोस्वामि-पादः
अपरान् निषेधति—अन्यस्मै शपथोऽर्पितः इति ॥६॥
—ओ)०(ओ—
[७]
अथ नत्वा मन्त्र-गुरून् गुरून् भागवतार्थदान् ।
श्री-भागवत-सन्दर्भं सन्दर्भं वश्मि लेखितुम् ॥७॥
सर्व-संवादिनी : अथेति । श्री-भागवत-सन्दर्भ-नामानं सन्दर्भ-ग्रन्थम् इत्य् अर्थः । वश्मि कामये ॥७॥
बलदेवः : अथेति ।
गूढस्य प्रकाशश् च सारोक्तिः श्रेस्ठा तथा ।
नानार्थवत्त्वं वेद्यत्वं सन्दर्भः कथ्यते बुधैः ॥
इत्य् अभियुक्तोक्त-लक्सणं सन्दर्भं लेखितुं वश्मि वाञ्छामि । श्री-भागवतं सन्दृभ्यते ग्रथ्यतेऽत्रेति । हलश् च [पा। ३.३.२१] इत्य् अधिकरणे घञ् ॥७॥
राधा-मोहन-गोस्वामी : न व्याख्यातम्।
गौर-किशोर-गोस्वामी : अनन्तरं ग्रन्थस्य यथोचितं नाम निर्दिशति—नत्वेति । श्री-भागवत-सन्दर्भम् इति। सम्-पूर्व-दृभ-धातोर् घञि निष्पन्नं सन्दर्भ-पदं रचनाम् आहुः—सन्दर्भः प्रबन्धः इति त्रिकाण्ड-शेषः । सन्दर्भो रचना गुम्फः ग्रन्थनं समा इति हेमचन्द्रः । सन्दर्भ-लक्षणम् उक्तं प्राचीनैः, यथा—
गूढार्थस्य प्रकाशं च सारोक्तिः श्रेष्ठता तथा ।
नानार्थत्वं वेद्यत्वं सन्दर्भः कथ्यते बुधैः ॥
वश्मि कामये ॥७॥
—ओ)०(ओ—
[८]
यस्य ब्रह्मेति संज्ञां क्वचिद् अपि निगमे याति चिन्-मात्र-सत्ताप्य्
अंशो यस्यांशकैः स्वैर् विभवति वशयन्न् एव मायां पुमांश् च ।
एकं यस्यैव रूपं विलसति परम-व्योम्नि नारायणाख्यं
स श्री-कृष्णो विधत्तां स्वयम् इह भगवान् प्रेम तत्-पाद-भाजाम् ॥८॥
सर्व-संवादिनी : सर्व-ग्रन्थार्थं सङ्क्षेपेण दर्शयन्न् अपि मङ्गलाचरति—यस्य इति । क्वचिद् अपि सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ। २.१.२] इत्य् आदाव् अपि-शब्देन तत्रैव ब्रह्मत्वं मुख्यम् इत्य् आनीतम् । अंशकैः लीलावतार-रूपैर् गुणावतार-रूपैश् च । पुमान् पुरुषः सर्वान्तर्यामी परमात्माख्यः । एकं श्री-कृष्णाख्याद् अन्यत् । यस्यैव इति तस्य भगवत्त्व-साम्येऽपि श्री-कृष्णस्यैव स्वयं-भगवत्त्वं दर्शितम् । नारायणाख्यं रूपं पादोत्तर-खण्डादि-प्रतिपाद्यः परम-व्योमाख्य-महा-वैकुण्ठाधिपः श्रीपतिः । “स्वयं भगवान्” इति, कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इति श्री-भागवत-प्रामाण्यम् इहेति सूचितम् । श्रीर् इति तद्-अव्यभिचारिणी स्वरूप-शक्तिर् अपि दर्शिता । इह जगति । तत्-पाद-भाजां तच्-चरणारविन्दं भजताम् । प्रेम प्रीत्य्-अतिशयम् । विधत्तां कुरुतां प्रादुर्भावयत्व् इत्य् अर्थः ॥८॥
बलदेवः : अथ श्रोतृ-रुच्य्-उत्पत्तये ग्रन्थस्य विषयादीन् अनुबन्धान् सङ्क्षेपेण तावद् आह यस्येति । स स्वयं भगवान् श्री-कृष्णः । इह जगति तत्-पाद-भाजां तच्-चरण-पद्म-सेविनां स्व-विषयकं प्रेम विधत्ताम् अर्पयतु । स कः । इत्य् आह यस्य स्वरूपानुबन्ध्याकृतिगुण-विभूति-विशिष्टस्यैव श्री-कृष्णस्य । चिन्मात्र-सत्ता अनभिव्यक्त-तत्-तद्-विशेषा ज्ञान-रूपा विद्यमानता । क्वचिद् अपि निगमे कस्मिंश्चित् सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ।२.१.१],अस्तीत्य् एवोपलब्धव्यः [का।उ। २.३.१३] इत्य्-आदि-रूपे श्रुति-खण्डे ब्रह्मेति संज्ञां याति । तादृशतया चिन्तयतां तथा प्रतीतम् आसीद् इत्य् अर्थः । भक्ति-भावित-मनसां तु व्यञ्जित-तत्-तद्-विशेषा सैव पुरुषत्वेन प्रतीता भवतीति बोध्यम् । सत्यं ज्ञानम् इत्य् उपक्रान्तस्यैवानन्दमय-पुरुषत्वेन निरूपणात् । अत एवम् उक्तं जितं ते स्तोत्रे—
न ते रूपं न चाकारो नायुधानि न चास्पदम् ।
तथापि पुरुषाकारो भक्तानां त्वं प्रकाशते ॥ इति ।
स चैवं प्राचीनाङ्गीकृतम् इति वाच्यम् । उक्तरीत्या तस्याप्य् अनभीष्टत्वाभावात् । यस्य कृष्णस्यांशः पुमान् मायां वशयन्न् एव स्वैर् अंशकैर् विभवति । कारणार्णवशायी सहस्रशीर्षा पुरुषः सङ्कर्षणः कृष्णांशः प्रकृतेर् भर्ता । तां वशे स्थापयन्न् एव स्व-वीक्षण-क्षुब्धया तयाण्डानि सृष्ट्वा, तेषां गर्भेष्व् अम्बुभिर् अर्ध-पूर्णेषु सहस्र-शीर्षा प्रद्युम्नः सन् स्वैर् अंशकैः मत्स्यादिभिः । विभवति विभव-संज्ञकान् लीलावतारान् प्रकटयतीत्य् अर्थः । यस्यैव कृष्णस्य नारायणाख्यम् एकं मुख्यं रूपम् । आवरणाष्टकाद् बहिःष्ठेपरम-व्योम्नि विलसति स नारायणो यय विलास इत्य् अर्थः । अनन्यापेक्षि-रूपः स्वयं भगवान् प्रायस् तत्-सम-गुण-विभूतिर् आकृत्यादिभिर् अन्यादृक् तु विलास इति सर्वम् एतच् चतुर्थ-सन्दर्भे विस्फुटीभविष्यद्-वीक्षणीयम् ॥८॥
राधा-मोहन-गोस्वामी :
वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् ।
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥ [भा।पु। १.२.११]
इति श्री-भागवतीय-श्लोक-तात्पर्य-पद्येन दर्शयति—यस्येति । क्वचिद् अपि निगमे ब्रह्म-संहितादौ, यस्य चिन्-मात्र-सत्ता ब्रह्मेति संज्ञां याति, नियतम् आश्रयतीत्य् अन्वयः । चित् ज्ञानम् । तन्-मात्रं तन्-मयं स्व-स्वरूप-भूत-ज्ञानवद्-वस्तु-सत्ता । स्व-स्वरूप-भूत-सत्-पद-प्रवृत्ति-निमित्तवद् इत्य् अर्थः । “सत्यं ज्ञानम् अनन्तं ब्रह्मऽ इति श्रुतेः ।
तथा च, श्री-कृष्णः स्व-स्वरूप-भूत-श्री-विग्रह-धारि ब्रह्मेति भावः । एवं च ब्रह्म-पदं ज्ञान-परं ज्ञानि-परं च । धर्म-धर्मिणोर् अभेदात् प्रत्येकं तयोर् भेदाच् च । एवं शरीर-शरीरिणोर् अपि भेदाभेदौ। एवं तच्-छरीरावशिष्टस्यापि ब्रह्मत्वम् । विशिष्टस्य विशेष्यानतिरेकात् । यस्यांशः पुमांश् च । परमात्मा प्रथम-पुरुषः । मायां प्रकृतिं वशयन् तद्-गुण-योगेन स्वैर् अंशकैः । स्व-स्वरूप-भूत-जीवात्मअ-रूप-धर्मैः । विभवति विविधो भवति ।
श्री-वैकुण्ठ-नाथस्य विलास-रूपत्वं दर्शयति—एकम् इति । रसामृत-सिन्धाव् अप्य् उक्तम्—“सिद्धान्ततस् त्व् अभेदोऽपि श्रीश-कृष्ण-स्वरूपयोः” [भ।र।सि। १.२.५९] इति । श्रीशेति श्री-राधयोर् ऐक्यं सूचयति । स्फुरद्-उर्व् इति । भगवद्-विशेषणं प्रेम-विशेषणं वेति । अत्रायं विवेकः—यदा ज्ञानानन्द-तात्पर्येण ब्रह्म-शब्द-प्रयोगस् तदा धर्मत्वम् । यदा ज्ञानादिमत्-तात्पर्येण ब्रह्म-शब्द-प्रयोगस् तदा अंशत्वम् । यदा शरीरत्वेन ज्ञानादिमत्त्वेन च प्रबोधयितुं प्रयुक्तो ब्रह्म-शब्दस्, तदा सम्पूर्ण-भगवत्-परः । कृष्ण-शरीरादेर् अपि ज्ञानानन्द-स्वरूपतया सच्-चिद्-आनन्द-विग्रह इत्य्-आदि प्रयोग इति ॥८॥
गौर-किशोर-गोस्वामी : सर्व-ग्रन्थार्थं संक्षेपेण दर्शयन्न् अपि मङ्गलम् आचरति, तथा विषयादीन् अनुबन्धान् निर्दिशति—यस्येति ग्रन्थेन । अनुबन्धो नाम अधिकारि-विषय-सम्बन्ध-प्रयोजनानि । स्वयं भगवान् स श्री-कृष्णः पुरुषोत्तम इह संसारे तत्-पाद-भाजां तच्-चरण-सेवकानां प्रेमाणं विधत्तां विदधात् । कोऽसौ ? इत्य् आह—यस्य श्री-कृष्णस्यापि चिन्-मात्र-सत्ता क्वचित् निगमे ब्रह्मेति संज्ञां याति । सत्यं ज्ञानम् अनन्तं ब्रह्म [तै।उ।२.१.१] इत्य् आदौ ब्रह्मानुभवोपदेशः श्रुतौ दृश्यते । तद् ब्रह्म श्री-कृष्णस्य चिन्-मात्र-सत्त्वात् नातिरिक्तम् । श्री-कृष्णस्याचिन्त्य-ज्ञान-रूपत्व-विशेष एव ब्रह्म । अपि-शब्देन तत्रैव ब्रह्मत्वं मुख्यम् इत्य् आनीतम् । ज्ञान-मार्गी श्री-कृष्णस्य चिन्-मात्र-सत्तां ब्रह्मेति मत्या प्राप्नोतीति भावः । एतेन चिन्-मात्र-सत्तातिरिक्त-ब्रह्मास्तित्व-कल्पना विशेषेण बाधिता । यस्य स्वरूपतोऽंशः सन्न् अपि पुनः स्वकीयैर् अंशकैर् लीलावतार-रूपैर् गुणावतार-रूपैश् च मायां स्वकीयां प्रकृतिम्, मयाध्यक्षेण प्रकृतिः सूयते स-चराचरं [गीता ९.१०], मम माया दुरत्यया [गीता ७.१४] इत्य्-आदि-गीता-संवादेन सर्व-चराचर-विसर्ग-करीं जीव-विमोहिनीं शक्तिं वर्णयन् वशीकुर्वन्न् एव विभवति विशेषेण प्रभवति । तत्-तद्-अवतार-ग्रहणेनापि नास्य स्वरूपान्यथा-भावो भवतीत्य् आकूतम् । पुमान् पुरुषः सर्वान्तर्यामी परमात्माख्यः । एवं श्री-कृष्णाख्याद् अन्यः यस्येति तस्य भगवत्ता-साम्येऽपि श्री-कृष्णस्यैव स्वयं भगवत्त्वं दर्शितम् । यस्य एकं मुख्यम्, एके मुख्यान्य-केवला इति कोषात् नारायणाख्यं रूपं पाद्मोत्तर-खण्डादि प्रतिपाद्यम्, परम-व्योम्नि महा-वैकुण्ठे विलसति, सर्वातिशायि-महिम्ना विराजते । परम-व्योमाख्य-महा-वैकुण्ठाधिपतिः श्रीपतिः स्वयं भगवानिति6 पाद्मोत्तर-खण्डे कथानुसन्धेया । कृष्णस् तु भगवान् [भा।पु। १.३.२८] स्वयम् इति श्री-भागवत-प्रामाण्यम् इहापि सूचितम् । श्रीति तद्-अव्यभिचारिणी-स्वरूप-शक्तिर् अपि दर्शिता । इति संवादिनी-विज्ञप्त्या श्रिया राधिकया युक्तः स श्री-कृष्णः प्रेम विधत्ताम् । प्रेम श्री-कृष्ण-चरणे अहैकुत्क-प्रीत्य्-अतिशयः । स एव पूर्व-पुरुषार्थः । एतेन मुक्त्य्-आदेः परम-पुरुषार्थत्वम् अपाकृतं बोद्धव्यम् ॥८॥
—ओ)०(ओ—
-
अत्र शिरो-वाक्यं कस्मिंश्चित् हस्त-लिप्यां न लभ्यते । तद् एव प्रकरण-लब्धम् इति सम्पादकेनानेन संयोजितम्। अस्य सन्दर्भस्य तिस्रो विभागाः—मङ्गलाचरणं, प्रमाण-प्रकरणं, प्रामेय-प्रकरणं च । ↩︎
-
अत्र कैश्चित् “चतुर्युगावस्था” लिख्यते । तत् तु न मम प्रकाशित-विष्णु-धर्मोत्तर-संस्करणे न कुत्रापि लब्धम् । ↩︎
-
समाहुता भीष्मक-कन्यया ये श्रियः सवर्णेन बुभूषयैषाम् । गान्धर्व-वृत्त्या मिषतां स्व-भागं जह्रे पदं मूर्ध्नि दधत् सुपर्णः ॥ ↩︎
-
प्रसिद्देः इति पाठः। ↩︎
-
अङ्का इत्य् आदौ बोध्याः इत्य्-अन्तम् अंशं कानाइ-लाल-पण्डितस्य संस्करणे नास्ति। ↩︎
-
आकरे न लब्धम्। ↩︎