५८३ ३३४
अथ श्रीमदुद्धववत् श्रीकृष्णैकानुगतानां साधनत्वे साध्यत्वे च स्वयं श्रीकृष्णरूप एव परमोपादेय इत्याह, (भा० ११।२६।३३ ) —
(३३४) “ज्ञाने कर्म्मणि योगे च वार्त्तायां दण्डधारणे ।
यावानर्थो नृणां तात तावांस्तेऽहं चतुविधः ॥ १०६७॥
मे
ज्ञानादौ यावान् धर्म्मादि लक्षणश्चतुविधोऽर्थः, तावान् सब्र्वोऽपि अहमेव । तत्र ज्ञाने मोक्षः, कर्म्मणि धर्म्मः कामश्च, योगे नानाविधसिद्धिलक्षणो लौकिको वार्त्तायां दण्डधारणे च नानाविधलौकिकश्चार्थ इति चतुविधत्वं ज्ञ ेयम् ॥ श्रीभगवान् ॥