५३३ ३०७ तद्यथा (भा० ६१४६६) — (३०७) “मयि निर्वद्धहृदयाः साधवः समदर्शिनः । वशे कुर्वन्ति मां भक्तया सत् स्त्रियः सत्पतिं यथा ॥ ६६०॥ अत्र दृष्टान्तेनांशतः सख्यात्मिका भक्तिर्लक्ष्य ते ॥ श्रीवैकुण्ठो दुर्वाससम् ॥