३०५

५३० ३०५

तदेतद्दास्य- सम्बन्धेनैव सर्व्वमपि भजनं महत्तरं भवतीत्याह (भा० हा५।१६) -

(३०५) “यशामश्रुतिमात्रेण पुमान् भवति निर्मलः ।

तस्य तीर्थपदः किंवा दासानामवशिष्यते ॥ " ६८७॥

यस्य भगवतो नामश्रवणमात्रेण यथाकथञ्चित्तच्छ्रवणेन किं पुनः सभ्यक् तद्भजनेनेत्यर्थः । तर्हि दासोऽस्मीत्यभिमानेन सम्यगेव भजतां सर्व्वत्र साधने साध्ये च किमवशिष्यते तदधिकमन्यत्

किमपि नास्तीत्यर्थः ॥ दुर्वासाः श्रीमदम्बरीषम् ॥