२६७

४५८ २६७

अथ गुणकीर्त्तनम् (भा० ११५/२२)-

(२६७) “इदं हि पुंसस्तपसः श्रुतस्य वा, स्विष्टस्य सूक्तस्य च बुद्ध-दत्तयोः ।

अविच्युतोऽथंः कविभिनिरूपितो, यदुत्तमश्लोक-गुणानुवर्णनम् ॥ ८२० ॥

I

[[५४५]]

श्रुतं वेदाध्ययनम् स्विष्टं यागादि, सूक्तं मन्त्रादिजपः, बुद्धं शास्त्रीयवोधः, दत्तं दानम्, एतेषां भगवदपितानां सतामेवाविच्युतोऽर्थो नित्यं फलम् । किं तत् ? उत्तमश्लोकस्य गुणानु- वर्णनं यत् । जातायामपि गुणानुवर्णन-साध्यायां परमपुरुषार्थरूपायां रतौ गुणानुवर्णनस्य प्रत्युत नित्यनित्योल्लासादविचुघतत्वमुक्तम् । तस्मादविच्युतत्वेन रतिमेवास्य फलं सूचयति । श्रीनारदः श्रीव्यासम् ॥