२४३

४२१ २४३

एष च सत्सङ्गो ज्ञानं विनापि कृतोऽर्थद एव स्यादित्याह, (भा० ३।२३।५५) -

(२४३) “सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया ।

स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ ७३२॥

अधिया अज्ञानेन, यत्तु पूर्व्वं श्रीनारदादौ मुन्यन्तरसाधारणदृष्टिनिन्दिता, तदिहास्निग्धे ज्ञानलव- दुर्विदग्धे च ज्ञेयम् ॥ श्रीदेवहूतिः ॥