१७४

३०५ १७४

(१७४) “स्वधर्मस्थो यजन् यज्ञैरनाशीः काम उद्धव ।

न याति स्वर्ग-नरकौ यद्यन्यन्न समाचरेत् । ५०५ ॥ अस्मिल्ँलोके वर्त्तमानः स्वधर्म्मस्थोऽनघः शुचिः ।

ज्ञानं विशुद्धमाप्नोति मद्भक्तिञ्च यदृच्छया ।”५०६॥

[[३५५]]अतः शुचिनिवृत्तरागादिमलः, यदृच्छयेति केवलज्ञानादपि भक्तेदुर्लभतां द्योतयति” इत्येषा । अनाफलकामत्वं केवलेश्वराज्ञा बुद्धया कुर्वाणत्वम् । अत्र ज्ञानिसङ्गे सति तन्मात्रत्वमेव भगवदर्पणं भवेत् । भक्तसङ्गे तु तत्सन्तोषमयत्वम् । अतो यदृच्छयेति पूर्ववद्भक्तसङ्ग-तत्- कृपालक्षणं भाग्यं बोधितम् । यदुक्तम् (भा० २/३ । ११) “एतावानेव यजतामिह निःश्रेयसोदयः’ इत्यादि ॥ श्रीभगवान् ॥