११६

२०३ ११६

श्रीनारदेनापि तन्महापुराणाविर्भावार्थं तथैवोपदिष्टम् (भा० १।५।१३)– (११६) “अथो महाभाग भवानमोघदृक्, शुचिश्रवाः सत्यरतो धृतव्रतः ।

उरुक्रमस्याखिलबन्धमुक्तये, समाधिनानुस्मर तद्विचेष्टितम् ॥ ३२७॥

(E)

(०४) अथो अतः, (भा० १।५।१२) - “नेष्कर्म्यमप्यच्युतभाववज्जितम्” इत्याद्युक्तेः कारणात् । अत्र विचेष्टितानुस्मरणेनाखण्डैव भक्तिर्लक्ष्यते ॥