९०

१५८ ९०

तथा (भा० १२/१२/५६ ) -

श्रीभक्ति सन्दर्भः

(६०) “यूयं द्विजाग्रया वत भुरिभागा, यत् शश्वदात्मन्यखिलात्मभूतम् ।

नारायणं देवमदेवमीश, मजस्त्रभावा भजताविवेश्य ॥ " १५७ ॥

टीका च - “तदेवं श्रोतु नात्मानश्चाभिनन्दन्नाह - यूयमिति द्वाभ्याम् । हे द्विजाग्रचाः, यद् यस्मादात्मन्यन्तःकरणे श्रीनारायणमाविवेम्य शश्वद्भजत, सम्भावनायां लोट्, अतो भुरिभागा बहुपुण्याः । कथम्भूतम् ? अखिलात्मभूतं सर्वान्तर्यामिनम्, अतएव देवं सर्वोपास्यम् अदेवं न देवोऽन्यो यस्य तम् । कुतः ? ईशम्, यद्वा, यस्माद्ययं भूरिभागास्तपआदिना सम्पन्नास्ततो नारायणं भजतेति विधिः” इत्येषा । अन तपआदिसम्पत्तेः सार्थकत्वं नारायण भजनेनैव भवतीति स्वाम्यभिप्रायः ॥