५०

०९१ ५०

श्रीरुद्रगीतेऽपि ( भा० ४।२४१६१२) -

“इदं जपत भद्र ं वो विशुद्धा नृपनन्दनाः ।

स्वधर्ममनुतिष्ठन्तो भगवत्यपिताशयाः ॥” ७५॥

इत्युक्त्वाह (भा० ४।२४७०) -

(५०) “तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् ।

पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥”७६॥

[[६७]]

(18)

अथ तमेव पूजयध्वम्, न तु स्वधर्मानुष्ठानाग्रहादिकमपि कुरुध्वमित्येव कारार्थः । आत्मस्थं स्वान्तर्यामित्वेन स्थितं तद्वदपरेष्वपि भूतेष्ववस्थितमात्मानं परमात्मानं गृणन्तः कीर्त्तयन्तो ध्यायन्तश्चेत्यन्यत्र मनोवचोव्यापारोऽपि निषिद्धः । असकृदित्येकस्यां पूजायां समाप्य - मानायामेवान्यारब्धव्या, न तु कर्म्माद्याग्रहेण विच्छेदः कर्त्तव्य इत्यर्थः ॥ श्रीरुद्रः प्रचेतसः ॥