०८५ ४७
तथा (भा० ३।२५।४४) -
(४७) “एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः
तीव्र ेण भक्तियोगेन मनो मय्यपितं स्थिरम् ॥ ७० ॥
तीव्र ेण दृढ़ेन योगकर्मादिभिरभङ्गुरेण शुद्धेनेत्यर्थः । तेनैव भक्तियोगेन श्रवणादिना मय्यपितं सत् मनः स्थिरं भवतीति यदेतावानेव निःश्रेयसस्य परमपुरुषार्थस्याविर्भावः । अत्रास्मिन्नित्यनेनान्यरिंमस्तु एतावतोऽत्यधिकोऽस्तीति व्यज्यते ॥ श्रीकपिल देवः ॥