अथ सिद्ध-प्रयोग-विधिः
अथ सिद्ध-प्रयोगोऽपि लिख्यते साधु-सम्मतः ।
यद् योगाज् जप-मात्रेण सिध्यत्य् एव मनुर् मतः ॥१६॥
पुटितं प्रणवेनैव मन्त्रं कृत्वा जपेत् सुधीः ।
लक्षम् एकं हविष्याशी तदा सिद्ध-मनुर् भवेत् ॥१७॥
वाग्-भवान्तरितं मन्त्र-वर्णं कृत्वा जपन् मनुम् ।
लक्षं नियत-वाक्-शुद्धः सिद्ध-मन्त्रस् तदा भवेत् ॥१८॥
वाक्-शक्ति-कमला-युक्तं जपेन् मन्त्रं सुसाधकः ।
लक्षं निशीथे शुद्धात्मा क्षीर-भोजनम् अचरन् ।
तदा सिद्धो भवेन् मन्त्रः सर्व-काम्य-फल-प्रदः ॥१९॥
अथ पुरश्चरण-विधिः
अथ वक्ष्ये पुरश्चर्या-विधिं मन्त्रार्थ-सिद्धये ।
यम् ऋते न भवेत् सिद्धिर् मन्त्राणां किम् उ कर्मणाम् ॥२०॥
धनैर् वासो-युगैर् दिव्यैर् अलङ्कारैर् मनोरमैः ।
सन्तोष्य श्री-गुरुं प्रेम्णा वाक्येन सेवयापि च ॥२१॥
पादौ कराभ्यां संस्पृश्य प्रणम्य दण्डवद् भुवि ।
करिष्ये मन्त्र-वर्यस्य पुरश्चरणम् उत्तमम् ॥२२॥
आज्ञां मे देहि भगवन् सर्व-काम्यार्थ-सिद्धये ।
एवं प्रसादितः प्रीत्या गुरुणा साधकोत्तमः ॥२३॥
देव-गेहेऽश्वत्थ-मूले पुष्पोद्याने नदी-तटे ।
परवते स्वर्धुनी-तीरे क्षेत्रे श्री-पुरुषोत्तमे ॥२४॥
तेषाम् एकतमे स्थाने समाहित-मनाः शुचिः ।
आहारादि-विहारार्थं क्रोश-युग्मं समन्ततः ॥२५॥
क्षीरि-वृक्षोद्भवैः काष्ठैः खानितैर् दिक्षु कल्पयेत् ।
जप-स्थानम्, कूर्म-चक्रं नवकोष्ठ-समन्वितम् ॥२६॥
अष्ट-वर्गं लिखेत् तत्र क्षेत्राख्याद्याक्षरं यतः ।
तन्-मुखं तद् भवेत् तत्र चैलाजिन-कुशोत्तरम् ॥२७॥
आसनं स्थापयेन् मन्-मन्त्रैर् मन्त्रितं तत्र साधकः ।
स्वस्तिकं कमलद्वापि बद्धासनम् अनन्य-धीः ॥२८॥
उपविश्य च पूर्वेद्युर् गायत्रीं प्रजपेत् सुधीः ।
सङ्कल्प-तिल-कुशाभ्यां प्रायश्चित्त-विधि-क्रमात् ॥२९॥
ततः प्रारम्भ-दिवसे प्रातः स्नात्वासनोपरि ।
उपविश्य च सङ्कल्पं कृत्वा न्यस्त-तनुः शुचिः ॥३०॥+
मन्त्रं नैव द्रुतं नैव विलम्बितम् अनन्य-धीः ।
ध्यायन् मन्त्राक्षरं देवं दशधा संस्कृतं पुनः ॥३१॥
जपेत् सूर्योदयात् यावन् मध्यन्दिनं समाहितः ।
यावत् सङ्ख्यो जपस् तत्र दिवसे तावद् अन्वहम् ॥३२॥
त्रिकाल-पूजा कर्तव्या हरिर् द्रव्यं निवेदयेत् ।
शेष-भोजी मिताहारो मित-वाक् प्रिय-भाषणः ॥३३॥
स्त्रिया सम्भाषणं त्याज्यं शूद्र-सम्भाषणं तथा ।
मनः प्रलोभनं कार्यं न च नाना मनोरथैः ॥३४॥
एवं पूर्ण-जपो हुत्वा होमाशक्तौ विधानवित् ।
दशांशं होम-सङ्ख्यानां चतुर्गुण-मनुं जपेत् ॥३५॥
तर्पणं चाभिषेकं च कुर्यान् मन्त्री विधि-क्रमात् ।
ब्राह्मणान् भोजयेद् भक्त्या कृत-कार्यो भवेत् सुखी ॥३६॥
एवं प्रमाणम् आलम्ब्य कलौ सङ्ख्या-चतुर्गुणा ।
एवं चतुर्गुण-जपात् सिद्धो मन्त्रो भवेन् नृणाम् ॥३७॥
अथोपसंहारः
वैराग्येण विना मन्त्र-सिद्धिर् नो जायते नृणाम् ।
तस्मात् सर्वः प्रयत्नेन विरक्तः प्रजपेन् मनुम् ॥३८॥
वैराग्यं वासना शौन्यम् इहामुत्र च दैहिके ।
कामात् कोर्धाच् च मोहाच् च दम्भाहङ्कार-योगतः ॥३९॥
मात्सर्याल् लोभतो जाता वासना दुरवग्रहा ।
तया संसक्त-मनसां कार्य-सिद्धिर् न जायते ॥४०॥
प्रीतो देवो वरं दाता स च प्रीतः कथं भवेत् ।
दुर्वासनां परित्यज्य सदा सद्-वासना-युतः ॥४१॥
कायेन मनसा वाचा स्व-धर्म-पर-मानसः ।
यथा-विधि-क्रमेणैव जपन् मन्त्रं सुसाधकः ॥४२॥
यदा कृष्णं भजेद् भक्त्या नित्य-सन्ध्या-त्रये सुखी ।
तन्-नाम-निरतोऽभीक्ष्णं तत्-पाद-मननोत्सवः ॥४३॥
तत्-कथा-श्रवणोल्लासी भृशं तद्-रूप-दर्शकः ।
एवं चेन् निरपेक्षोऽपि सापेक्षो वा समाहितः ॥४४॥
गुर्व्-आज्ञा-मननासक्तो गुरु-देवात्मकोऽनिशम् ।
तदा प्रिय-मनाः कृष्णो निरपेक्षाय सादरम् ॥४५॥
निज-पादाम्बुजे प्रीतिं ददाति प्रेम-लक्षणाम् ।
सापेक्षाय यथा-काम्यं ददाति वरम् उत्तमम् ।
नान्यथा जायते सिद्धिः कोटि-सङ्ख्य-जपादिभिः ॥४६॥
वैराग्यं जायते केन क्षिणोति वासनां कुतः ।
यतः सिद्धिम् अवाप्नोति सर्व-कल्याण-साधिकाम् ॥४७॥
सन्नधा वैष्णवे शास्त्रे गुरु-वाक्ये च साधवः ।
साधु-सङ्गेन शास्त्रोक्त्या गुरु-भक्तिः सुनिष्ठिता ॥४८॥
तन्-निष्ठ-शास्त्र-सिद्धान्ते प्रतीतिर् जायते नृणाम् ।
तद्-वाक्येन हि सञ्ज्ञानं जायते तेन तत्त्वतः ॥४९॥
भद्राभद्रं विजानीते त्याज्यं ग्राह्यं विशेषतः ।
त्यजेत् त्याग-कृताभ्यासो ग्राह्य-ग्रहण-तत्परः ॥५०॥
एवं सञ्जायते ज्ञानं विज्ञान-सहितं ततः ।
तेन ज्ञानेन सञ्छिन्ना भवेद् दुर्वासना भृशम् ॥५१॥
यथा बुद्ध्या यजन् कृष्णम् आतप्त-कनकोज्ज्वलम् ।
जपेन् मन्त्रं यथासङ्खं मन्त्र-देवैक-विग्रहम् ॥५२॥
एवं सिद्ध-मनुर् मन्त्री कृत-कार्यो यथा-सुखम् ।
विहरेत् परम-प्रीत्या परमानन्द-विग्रहः ॥५३॥
इति भक्ति-चन्द्रिकायाम् अष्टः पटलः