अष्टः पटलः
मन्त्राणां साधनं वक्ष्ये सकामानां विशेषतः ।
येनैव साध्यते सर्व-कर्म-सिद्धिर् अयत्नतः ॥१॥
वाग्-भवाद्येन मन्त्रेण शुक्ल-पद्मेन प्रत्यहम् ।
वाग्-भव-प्रकृतिं देवं रात्रि-शेषे विशेषतः ॥२॥
सुक्लेन चन्दनेनैव धूप-दीपादिभिस् तथा ।
सम्पूज्य मासम् एकं च सहस्रं प्रजपन् मनून् ।
लभते सर्व-विद्यां च कवित्वं निर्मलं सुधीः ॥३॥
श्री-पूर्वेणैव मनुना श्रीशं गौरं समर्चयन् ।
सित-श्री-खण्ड-पङ्कोपलिप्तेन कुसुमेन च ॥४॥
करवीरोद्भवेनैव सितेनैक-शतेन च ।
प्रभाते प्रत्यहं मासम् एकं मन्त्री प्रयत्नतः ।
जपन् सहस्र-तन्-मन्त्रान् सम्पत्तिं लभते न कः ॥५॥
शक्ति-पूर्वेण मनुना सर्व-शक्ति-समन्वितम् ।
गौरचन्द्रं समाराध्य पुत्र-कामो जितेन्द्रियः ॥६॥
सितासर्पिः समायुक्तैः रक्त-पद्मैः समाहितः ।
हुत्वायुत-द्वयं वह्नौ योनि-कुण्डे समाचिते ॥७॥
सहस्रैक-प्रमाणेन तथा मन्त्रं जपन् शुचिः ।
वत्सराभ्यन्तरे पुत्रं लभते वैष्णवं शुचिम् ॥८॥
ज्वरादि-पीडितानां च ग्रस्तानां व्याधि-सङ्कटैः ।
शिरः स्पृष्ट्वा जपेन् मन्त्रं नृसिंहाद्य्-अक्षरान्वितम् ।
सहस्रं व्याधिभिर् मुक्तो भवेद् एव तदा नरः ॥९।
प्रणवाद्येन तेनैव तत्त्व-जिज्ञासुर् आत्मनः ।
न्यासि-वेशोत्सवं गौरचन्द्रं भक्त्या समाहितः ॥१०॥
तुलसी-मालती-जाति-कुसुमैश् चन्दनोक्षितैः ।
समाराध्य जपं लक्षं कुर्वन् मन्त्री जितेन्द्रियः ॥११॥
लभते परमां शान्तिं संसार-च्छेद-कारिणीम् ।
विशिष्टम् उत्तमं ज्ञानं जायते नात्र संशयः ॥१२॥
वशीभवेज् जगत् सर्वं सर्वे स्युर् बान्धवा नराः ।
प्रेम-सिद्धिः करस्था स्याज् ज्ञान-विज्ञान-संयुता ॥१३॥
एकैकं काम्यम् उद्दिश्य जप-पूजा-स्वतन्त्रता ।
स्वाश्रमाचार-कौशल्यं ब्रह्मचर्यादिकं विधिः ॥१४॥
एवं सिद्धि-मनुः प्रातः शत-जप्तं जलं पिबेत् ।
मासम् एकं मिताहारी भवेच् छ्रुतिधरस् तदा ॥१५॥