सप्तमः पटलः
अथ मन्त्र-वरं वक्ष्ये द्वात्रिंशद्-अक्षरान्वितम् ।
सर्व-पाप-प्रशमनं सर्व-दुर्वासनानलम् ॥१॥
चतुर्-वर्ग-प्रदं सौम्यं भक्तिदं प्रेम-पूर्वकम् ।
दुर्बुद्धि-हरणं शुद्ध-सत्त्व-बुद्धि-प्रदायकम् ॥२॥
सर्वाराध्यं सर्व-सेव्यं सर्वेषां काम-पूरकम् ।
सर्वाधिकार-संयुक्तं सर्व-लोकैक-बान्धवम् ॥३॥
सर्वाकर्षण-संयुक्तं दुष्ट-व्याधि-विनाशनम् ।
दीक्षा-विधि-विहीनं च कालाकाल-विवर्जितम् ॥४॥
वाङ्-मात्रेणार्चितं बाह्य-पूजाविध्य्-अनपेक्षकम् ।
जिह्वा-स्पर्शन-मात्रेण सर्वेषां फल-दायकम् ।
देश-कालानियमितं सर्व-वादि-सुसम्मतम् ॥५॥
तस्योद्धारं प्रवक्ष्यामि समाहित-मनाः शृणु ।
हरे द्वन्द्वं तथा कृष्ण-द्वन्द्वं व्युत्क्रमणात् पुनः ॥६॥
हरे-राम-द्वयं पश्चाद् विलोमेनैव तत् पठेत् ।
सर्वाघ-हर्णाद् धेतोर् हरिर् इत्य् अभिधीयते ॥७॥
भक्ति-योगेन सर्वेषां जीवाकर्षण-कारणात् ।
कृष्ण इत्य् उच्यते सद्भिः शुद्ध-सत्त्व-तनुः प्रभुः ॥८॥
रामोऽपि लोक-रमणात् संसार-च्छेद-कारकः ।
तस्मान् मोक्ष-प्रदो रामः सर्व-शास्त्रेषु कथ्यते ॥९॥
सम्बोधन-प्रियः कृष्णः सम्बोधन-पद-क्रमात् ।
मन्त्रोऽयं विहितस् तेन तत्र प्रेमा नियोजितः ॥१०॥
सर्व-नाम-स्वरूपोऽयं देह-स्वरूप एव च ।
तत्रैकत्र यदि प्रेमा सोभयत्र तदा भवेएत् ॥११॥
चतुर्-युगे भवेद् भक्तिर् मुक्तिश् चैव चतुर्-युगे ।
तेन नामानि चत्वारि चत्वारि कृष्ण-रामयोः ॥१२॥
भक्ति-साधनतः पाप-नाशोऽथ मुक्ति-साधनात् ।
तत्रोभयत्र नामानि हरेश् चत्वारि नामतः ॥१३॥
सम्बोधन-पदं श्रुत्वा प्रभुस् तत्र समागतः ।
किं प्रार्थते भक्त-जनैस् तद् एव दातुम् उद्यतः ॥१४॥
एतैर् न प्रार्थ्यते किञ्चिन् नाम-श्रवण-योगतः ।
वसेत् तेषां च हृदय इत्थम्-भूत-गुणो हरिः ॥१५॥
मन्त्रे मुक्ति-विधानार्थं राम-नाम-नियोजितम् ।
द्वयोर् विरोधात् भक्तानां विधेयं किं तद् उच्यताम् ॥१६॥
आदौ भक्त्या भवेन् मुक्तिः संसार-च्छेद-कारिणी ।
तथा भागवती भक्तिः प्रेम-लक्षण-लक्षिता ॥१७॥
तथा च—
न विना भक्ति-योगेन मुक्तिः स्थाद् भव-सागरात् ।
ताम् ऋते प्रेमदा भक्तिर् न कदाचित् प्रभोः पदे ॥१८॥
अविद्या सुख-दुःखानां विनाशाद् विद्यया युतः ।
जीवन्-मुक्तः स विज्ञेयः प्रेम-भक्ति-परायणः ।
अमुना मनुना चैतत् साध्य-साधन-तत्परः ॥१९॥
तत्-साधनं प्रवक्ष्यामि यथा-विधि-क्रमाद् इह ।
नित्यानन्दो मुनिः प्रोक्तोऽनुष्टुब्-छन्द उदाहृतः ॥२०॥
परमास्वरूपः श्री-चैतन्य एव दैवतम् ।
कृष्ण-नामेति बीजं स्याद् भक्तिः शक्तिर् उदाहृता ॥२१॥
आद्या शक्तिर् अधिष्ठात्री देवता प्रेम-रूपिणी ।
एतेषां विनियोगः स्यात् प्रेम-सिद्धौ प्रभोः पदे ॥२२॥
अङ्ग-न्यासं प्रकुर्वीत मन्त्र-वर्ण-विभागतः ।
हरे कृष्ण हरे कृष्ण हृदयाय नमस् ततः ॥२३॥
कृष्ण कृष्णेति शिरसे स्वाहा चैव हरे हरे ।
शिखायै वषड् इत्य् एव कवचाय हुम् इत्य् अतः ॥२४॥
हरे राम हरे राम नेत्राभ्यां वौषड् इत्य् अपि ।
राम रामेति विज्ञेयम् अस्त्राय फट् ततः परम् ॥२५॥
हरे हरे ततः कुर्यात् कर-न्यासम् इति क्रमात् ॥२६॥
ततो यन्त्रं लिखेन् मन्त्री पद्मं षोडश-पत्रकम् ।
रेखा-त्रय-समायुक्तं द्वार-तोरण-संयुतम् ॥२७॥
अक्षर-द्वय-मानेन मन्त्र-वर्णान् लिखेद् दले ।
षट्-कोणं विलिखेन् मध्ये कर्णिकायां विधानतः ॥२८॥
प्रेमाख्यं मध्य-देशे च कामं बीजं च कोणतः ।
एतस्मिन्न्न् अपि यन्त्रे चाप्य् आधारादीन् प्रपूज्य च ।
तत्रैव स्थापयेद् ध्यात्वा यथा-विधि-क्रमाद् इति ॥२९॥
कनक-रुचिर-भासः शुद्ध-सत्त्वैक-वेशो
निज-सुमधुर-नामाख्यान-दानैक-दक्षः ।
सततम् अवतु विश्वं श्री-नवद्वीप-चन्द्रो
निज-परिजन-वीतो दीन-बन्धुर् द्विजेन्द्रः ॥३०॥
ध्यात्वैवं पूजयेद् भक्त्या परमात्मानम् अव्ययम् ॥३१॥
कोणाग्र-दिक्षु देशे च पूजयेद् अङ्ग-देवताः ।
षट्-कोणस्याग्र-भागे च स सम्पूज्या भक्ति-संयुताः ॥३२॥
नित्यानन्दोऽद्वैत-नामा मुरारिः श्रीनिवासकः ।
काशीश्वरो मुकुन्दश् च ततः केशर-मध्यतः ॥३३॥
गदाधरो द्विज-वरस् तथा नरहरिः प्रियः ।
दामोदरो वासुदेवः शिवानन्द-गदाधरौ ॥३४॥
रागहव-श्रीरामदासौ सुन्दरानन्द-शार्ङ्गिणौ ।
गौरीदासस् ततः पूज्यः परमेश्वर एव च ॥३५॥
पुरुषोत्तम-दासोऽपि तथा वृन्दावनाश्रयः ।
गोविन्दो वासुदेवश् च कमलाकर एव च ॥३६॥
तद् बहिः पत्र-मध्ये च वैष्णवा भक्ति-तत्-पराः ।
गोपीनाथो महेशश् च शुक्लाम्बर-सनातनौ ॥३७॥
जगायि-माधवौ ज्ञेयौ वासुदेवाच्युताव् अपि ।
दिक्षु पूज्याः प्रयत्नेन प्रेमाश्रु-पुलकाचिताः ॥३८॥
जय गौराङ्ग गौराङ्ग जय विश्वम्भर प्रभो ।
इति वाद-रता नित्यं प्रेम-गद्गद-भाषिणः ॥३९॥
पत्राग्रे तद् बहिः पूज्याः यदुनन्दन एव च ।
गङ्गा-दासः केशवश् च कृष्णदासस् ततः परम् ॥४०॥
रघुनाथ-विश्वनाथौ नीलाम्बर-सनातनौ ।
दिव्य-माल्य-कराः सौम्याः प्रेमाश्रु-पुलकाकुलाः ।
ततोऽन्यावरणान्य् एव पूर्ववत् परिपूजयेत् ॥४१॥
कोट्य्-एक-जप-मात्रेण पुरश्चरणम् उच्यते ।
दशांश-होम-सङ्ख्यानां चतुर्गुण-विधानतः ॥४२॥
जपं कुर्यात् प्रयत्नेन काऌअ-सङ्ख्या न विद्यते ।
मालया कर-रेखाभिर् जपेत् साधक-सत्तमः ॥४३॥
विधिर् मन्त्र-जपे प्रोक्तः षष्ठि-दण्डात्मकं दिनम् ।
स्नानाद्य्-अपेक्षा नास्त्य् अत्र यथा-शक्यं करोतु वा ।
इत्य् एवं साधयेन् मन्त्रं स एव साधकोत्तमः ॥४४॥
इति भक्ति-चन्द्रिकायां सप्तमः पटलः