षष्ठः पटलः
अथ वक्ष्ये मन्त्र-वरान् सर्व-कामार्थ-सिद्धि-दान् ।
कृष्ण-चैतन्य-चन्द्रस्य प्रेम-भक्ति-सुसिद्धये ॥१॥
कृष्णेति द्व्य्-अक्षरो मन्त्रश् चैतन्य-त्र्य्-अक्षरो मतः ।
चतुर्-वर्णो मन्त्र-वरो ङे-युक् त्र्य्-अक्षर एव च ॥२॥
स च पञ्चाक्षरो ज्ञेयः प्रेमादिर् मनुर् उत्तमः ।
प्रेम-सम्पुटितो ज्ञेयश् चैतन्य इति पञ्चमः ॥३॥
कामादिश् चेत् पञ्चमः स्यात् षड्-अक्षर इतीरितः ।
षड्-अक्षरो मन्मथान्तो मनुः सप्ताक्षरो मतः ॥४॥
विश्वम्भराय प्रेमादिः कामानोत् मनुर् उत्तमः ।
स्याच् छची-नन्दनो ङे-युग्-वह्नि-जायान्तको मनुः ॥५॥
अष्टक्षरो मन्त्र-वरः प्रेमाख्यादिर् नवाक्षरः ।
दशाक्षरो मन्मथादिर् मन्त्र-राजः प्रकीर्तितः ॥६॥
एतेषां नारदो ज्ञेयो मुनिश् छन्दो विराड् इति ।
देवता कृष्ण-चैतन्यो बीजं प्रेमाख्यम् उत्तमम् ॥७॥
शक्तिर् वह्नि-वधूः प्रोक्ता साद्याधिष्ठातृ-देवता ।
प्रेमाख्येन हि षड्-दीर्घ-भाजा स्याद् अङ्ग-कल्पना ॥८॥
प्रातः कृत्यादिकं कर्मयर्थापूर्वं समाचरेत् ।
पद्मं वसुदलोपेतं कर्णिका-केशरान्वितम् ॥९॥
षट्-कोणं विलिखेन् मध्ये बीजं तत्र लिखेत् पुनः ।
तत्र सम्पूजयेद् भक्त्या भगवन्तं सुसाधकः ॥१०॥
श्रीमन्-मौक्तिक-दाम-बद्ध-चिकुरं सुस्मेर-चन्द्राननम् ।
श्री-खण्डागुरु-चारु-चित्र-वसन-स्रग्-दिव्य-भूषणाञ्चितम् ॥११॥
नृत्यावेश-रसानुमोद-मधुरं कन्दर्प-वेशोज्ज्वलम् ।
चैतन्यं कनक-द्युतिं निज-जनैः संसेव्यमानं भजे ॥१२॥
ध्यात्वैवं पूजयेन् नित्यं बहिर् अङ्गैस् ततो बहिः ।
दिक्-पालास्त्राणि सम्पूज्य जपेन् मन्त्रं सुसाधकः ॥१३॥
लक्षैक-सङ्ख्यया प्रोक्तो जपो होमादयः क्रमात् ॥१४॥
पुनर् अन्य-मनुं वक्ष्ये सर्व-सिद्धि-फल-प्रदम् ।
वेदादि-हृद्-भगवते कृष्ण-चैतन्य एव च ॥१५॥
ङे-युतो मन्त्र-राजोऽयं त्रयाधिक-दशाक्षरः ।
मुनिर् ब्रह्मा विराट्-छन्दो देवता-न्यासि-रूप-धृक् ॥१६॥
चैतन्यः परमानन्दः प्रणवो बीजम् उत्तमम् ।
नमः शक्तिर् विनियोगो भक्ति-सिद्ध्य्-अर्थ इत्य् अपि ॥१७॥
आचक्रायाग्नि-दयिता हृदयाय नमो हृदि ।
विचक्रायानल-वधूः शिरसे वह्नि-नागरी ॥१८॥
सुचक्रायाग्नि-वरदा शिखायैव षड् इत्य् अपि ।
त्रैलोक्य-रक्षणोपेत-चक्रायाग्नि-प्रिया ततः ॥१९॥
कवचाय तथा वर्म त्व् असुरान्तक-पूर्वकम् ।
चक्रं पुनश् चतुर्थ्य्-अन्तं स्वाहास्त्राय तथास्त्रकम् ॥२०॥
नाराच-मुद्रया कुर्याद् ध्वनि-त्रितयम् एव च ।
एवम् अङ्गादिना कुर्यात् कर-न्यासं सुसंयमी ।
अपरं पूर्ववत् कृत्वा ध्यायेद् हृदय-पङ्कजे ॥२१॥
अत्यन्तातप्त-हेम-द्युति-रुचिर-तनुं दीर्घ-देहाक्षि-बाहुं
श्री-खण्डालिप्त-वक्षः-स्थल-कलित-तल-सन्-मालती-माल्य-युग्मम् ।
आरक्ताभास-वासो-युग-ललित-वपुर्-नाट्य-लीला-कलाढ्यं
वन्दे चैतन्य-चन्द्रं सकल-कलुषहं प्रेम-भक्त्य्-एक-गम्यम् ॥२२॥
धात्वैवं पूजयेद् भक्त्या भगवन्तं जनार्दनम् ।
अङ्गैर् दिक् पतिभिः सार्धं वज्राध्यैश् च यथा-क्रमम् ॥२३॥
एवम् आराधितो देव-देवेशः साधकोत्तमैः ।
विरक्ति-सहितां भक्तिं ददाति तत्-क्षणात् प्रभुः ॥२४॥
प्रेमाख्यस्य मनोर् वक्ष्ये पूजा-विधिम् अथो क्रमात् ।
ऋषिर् ब्रह्मानुष्टुप्-च्छन्दो देवता प्रेम-विग्रहः ॥२५॥
विश्वम्भरो बीज-मन्त्र-प्रेमाख्यं स्वयम् एव च ।
शक्तिर् वह्नि-वधूः प्रोक्तो विनियोगः स्व-कर्मणि ॥२६॥
षड्-दीर्घ-भाजा प्रेम्ना च कुर्याद् एवाङ्ग-कल्पनां ।
यथा-विधि कर-न्यासं कृत्वाध्यायेत् समाहितः ॥२७॥
ध्यायेद् बालं प्रसन्नं तरुण-रविकराभासमानं समन्तात्
क्रोडस्थं मातुर् अद्धा प्रकटित-परमानन्दम् आलोल-देहम् ।
देवं विश्वम्भरं तं कलि-कलुष-हरं दिव्य-विप्राङ्गनाभिः
प्रेम्ना संवीक्ष्यमाणं विहसित-वदनं रक्त-नेत्रोत्पलाढ्यम् ॥२८॥
ध्यात्वैवं पूजयेद् भक्त्या पाद्यार्घ्याद्यैर् यथा-क्रमम् ॥२९॥
अङ्ग-वह्न्य्-आदि-कोणे तद् अनु च परितः केशरेष्व् एव मातॄर्
दिव्यालङ्कार-युक्ताः सुविमल-वसनाः पूजयेद् भक्ति-युकः ।
पूज्या भक्तिर् विभूतिस् त्रिभुवन-जननी श्री-शची-कान्तिर् आद्या
शान्तिः शक्तिश् च धात्री तद्-अनुदल-गतात् पूजयेद् गन्ध-पुष्पैः ॥३०॥
नित्यानन्दस् तथाद्वैतो मुरारिः श्रीनिवासकः ।
जगन्नाथस् तथा ज्ञेयः सुदर्शन इति स्मृतः ॥३१॥
गदाधरश् च विख्यातः ख्यातो नरहरिस् तथा ।
दिव्य-माल्याम्बर-धराः पुलकाश्रु-भराकुलाः ॥३२॥
पत्राग्रे विप्र-पत्न्यश् च पूजनीयाः प्रयत्नतः ।
माधवी वैष्णवी देवी शुभदा सुन्दरी सती ॥३३॥
कालिन्दी ललिता दिव्य-वासोऽलङ्कार-चर्चिताः ।
गौरी-श्यामा क्रमाज् ज्ञेयाः प्रतिवेशि-वराङ्गनाः ।
तद्-बहिर्-दिक्षु भक्ताग्र्याः पूजनीया विधानतः ॥३४॥
वासुदेवो मुकुन्दश् च रामः शङ्कर एव च ।
नीलाम्बरो राम-दास-कवि-चन्द्रस् ततः परम् ॥३५॥
हरिदासस् तथा चन्द्रशेखराचार्य एव च ।
दिव्यमाल्याम्बर-धराः सर्वे सङ्गीत-तत्-पराः ॥३६॥
तद्-बहिर्-दिक्षु दिक्-पालान् वज्रादींश् च ततो बहिः ।
पूर्वोक्त-यन्त्रे सम्पूज्य दश-लक्षं जपेद् बुधः ॥३७॥
इति भक्ति-चन्द्रिकायां षष्ठः पटलः
(७)