०५

पञ्चमः पटलः

अथ स्तोत्रं प्रवक्ष्यामि प्रत्यङ्ग-वर्णनं प्रभोः ।

त्रि-कालं पठनाद् एव प्रेम-भक्तिं लभेन् नरः ॥१॥

कश्चिच् छ्री-कृष्ण-चैतन्य-स्मरणाकुल-मानसः ।

पुलकावचिताङ्गोऽपि सकम्पाश्रु-विलोचनः ॥२॥

कथञ्चित् स्थैर्यम् आलम्ब्य प्रणम्य गुरुम् आदरात् ।

स्तोतुम् आरब्धवान् भक्त्या द्विज-चन्द्रं महाप्रभुम् ॥३॥

तप्त-हेम-द्युतिं वन्दे कलि-कृष्णं जगद्-गुरुम् ।

चारु-दीर्घ-तनुं श्रीमच्-छची-हृदय-नन्दनम् ॥४॥

लसन् मुक्तालतानद्ध-चारु-कुञ्चित-कुन्तलम् ।

शिखण्डाक्षत-गन्धाढ्य पुष्प-गुच्छावतंसकम् ॥५॥

अर्ध-चन्द्रोल्लसद्-भाल-कस्तूरी-तिलकाङ्कितम् ।

भङ्गुर-भ्रू-लता-केलि-जित-काम-शरासनम् ॥६॥

प्रेम-प्रवाह-मधुर-रक्तोत्पल-विलोचनम् ।

तिल-प्रसून-सुस्निग्ध-नूतनायत-नासिकम् ॥७॥

श्री-गण्ड-मण्डलोल्लासि-रत्न-कुण्डल-मण्डितम् ।

सव्य-कर्ण-सुविन्यस्त-स्फुरच्-चारु-शिखण्डकम् ॥८॥

मधुर-स्मित-सुस्निग्ध-प्रारक्ताधर-पल्लवम् ।

ईषद्-दन्तुरित-स्निग्ध-स्फुरन्-मुक्ता-रदोज्ज्वलम् ॥९॥

स-प्रेम-मधुरालाप-वशीकृत-जगज्-जनम् ।

त्रिकोण-चिबुकं कोटि-शरद्-इन्दु-प्रभाननम् ॥१०॥

सिंह-ग्रीवं महा-मत्त-द्विरदोल्लासि-कन्धरम् ।

आरक्त-रेखा-त्रय-युक्-कम्बु-कण्ठ-मनोहरम् ॥११॥

मुक्ता प्रबाल-कलित-हारोज्ज्वलित-वक्षसम् ।

कङ्कणाङ्गद-विद्योति-जानु-लम्बित-भुज-द्वयम् ॥१२॥

यव-चक्राङ्कितारक्त-श्रीमत्-पाणि-तलोज्ज्वलम् ।

स्वर्ण-मुद्रालसच्-छ्रीमद्-विमलाङ्गुलि-पल्लवम् ॥१३॥

चन्दनागुरु-सुस्निग्धं पुलकावलि-चर्चितम् ।

चारुनाभिलसन् मध्यं सिंह-मध्य-कृशोदरम् ॥१४॥

विचित्र-चित्र-वसन-मध्य-बन्धोल्लसद्-वलिम् ।

सुचारु-नूपुरोल्लासि-कूजच्-चरण-पल्लवम् ॥१५॥

शरच्-चन्द्र-प्रतीकाशनखराजत्-पदाङ्गुलिम् ।

अङ्कुश-ध्वज-वज्रादि-लसत्-तल-पदाम्बुजम् ॥१६॥

कोटि-सूर्य-प्रतीकाशं कोटीन्दु-ललित-द्युतिम् ।

कोटि-कन्दर्प-लावण्यं कोटि-लीला-मनोरमम् ॥१७॥

साक्षाल्-लीला-तनुं केलि-तनुं शृङ्गार-विग्रहम् ।

क्वचिद्-भाव-कला-मूर्तिं प्रस्फुरत्-प्रेम-विग्रहम् ॥१८॥

नामात्मकं नाम-तनुं परमानन्द-विग्रहम् ।

भक्त्यात्मकं भक्ति-तनुं भक्त्याचार-विहारिणम् ॥१९॥

अशेष-केलि-लावण्यं लीला-ताण्डव-पण्डितम् ।

शची-जठर-रत्नाब्धि-समुद्भूत-सुधा-निधिम् ॥२०॥

अशेष-जगदानन्द-कन्दम् अद्भुत-मङ्गलम् ।

स्फुरद्-रास-रसावेश-मदालस-विलोचनम् ॥२१॥

क्वचिद्-भक्त-जनैर् दिव्य-माल्य-गन्धानुलेपनैः ।

वेष्टितं रस-सङ्गीतं गायद्भी रस-लालसम् ॥२२॥

क्वचिद् बाल्य-रसावेश-गङ्गा-तीरे विहारिणम् ।

क्वचिद् गायति गायन्तं नृत्यन्तं कर-शब्दितैः ॥२३॥

वदन्तं शब्दम् अत्युच्चैः कुर्वन्तं सिंह-विक्रमम् ।

क्वचिद् आस्फोट-हुङ्कार-कम्पिताशेष-भूतलम् ॥२४॥

सुगुप्त-गोपिका-भाव-प्रकाशित-जगत्-त्रयम् ।

प्रापिताशेष-पुरुष-स्त्री-स्वभावम् अनाकुलम् ॥२५॥

निज-भाव-रसास्वाद-विवशैकादशेन्द्रियम् ।

विदग्ध-नागरी-भाव-कला-केलि-मनोरमम् ॥२६॥

गदाधर-प्रेम-भाव-कलाक्रान्त-मनोरथम् ।

नरहरि-प्रेम-रसास्वाद-विह्वल-मानसम् ॥२७॥

सर्व-भागवताहूत-कान्ताभाव-प्रकाशकम् ।

प्रेम-प्रदान-ललित-द्विभुजं भक्त-वत्सलम् ॥२८॥

प्रेमाख्य-पद-द्वन्द्वं श्री-प्रेम-भक्ति-मन्दिरम् ।

निज-भाव-रसोल्लास-मुग्धी-कृत-जगत्-त्रयम् ॥२९॥

स्व-नाम-जप-सङ्ख्याभिर् वैष्णवी-कृत-भूतलम् ।

नवद्वीप-जनानन्दं भूदेव-जन-मङ्गलम् ॥३०॥

अशेष-जीव-सद्-भाग्य-क्रम-सम्भूत-सत्-फलम् ।

भयानुराग-सुस्नेह-भक्ति-गम्य-पदाम्बुजम् ॥३१॥

नटराज-शिरोरत्नं श्री-नागर-शिरोमणिम् ।

अशेष-रसिक-स्फूर्यन्-मौलि-भूषण-भूषणम् ॥३२॥

रसिकानुगत-स्निग्ध-वदनाब्ज-मधु-व्रतम् ।

श्रीमद्-द्विज-कुलोत्तंसं नवद्वीप-विभूषणम् ॥३३॥

प्रेम-भक्ति-रसोन्मत्ताद्वैत-सेव्य-पदाम्बुजम् ।

नित्यानन्द-प्रियतमं सर्व-भक्त-मनोरथम् ॥३४॥

भक्ताराध्यं भक्ति-साध्यं भक्त-रूपिणम् ईश्वरम् ।

श्रीनिवासादि-भक्ताग्रैः स्तूयमानं मुहुर् मुहुः ।

सार्वभौमादिभिर् वेद-शास्त्रागम-विशारदैः ॥३५॥

य एवं चिन्तयेद् देव-देवेशं प्रयतोऽनिशम् ।

संस्तौति भक्ति-भावेन त्रिसन्ध्यं नित्यम् एव च ॥३६॥

धर्मार्थी लभते धर्मं श्री-भागवतम् उत्तमम् ।

अर्थार्थी लभते चार्थं कृष्ण-सेवा-विधौ रतिम् ॥३७॥

कामार्थी लभते कामं प्रेम-भक्ति-विधानतः ।

संसार-वासना-मुक्तिं मोक्षार्थी विगत-स्पृहः ॥३८॥

विद्यार्थी लभते विद्यां काम-संसार-कृन्तनीम् ।

काव्यार्थी कविता-शक्तिं कृष्ण-वर्णन-शालिनीम् ॥३९॥

अपुत्रो वैष्णवं पुत्रं लभते लोक-वन्दितम् ।

आश्रयार्थी लभेच् छान्तं श्रीमद्-भागवतं गुरुम् ॥४०॥

श्रीमच्-छ्री-कृष्ण-चैतन्य-पादाम्बुजे भृशम् ।

प्रेमानुराग-ललितां सद्-भक्तिं लभते नरः ॥४१॥

इति भक्ति-चन्द्रिकायां प्रत्यङ्ग-वर्णनो नाम

पञ्चमः पटलः

॥५॥

–ओ)०(ओ–

(६)