०४

चतुर्थः पटलः

अथ भक्तिमतीं दीक्षां मन्त्र-सिद्ध्य्-अर्थ-हेतवे ।

वक्ष्ये शिष्येष्ट-सिद्ध्य्-अर्थं भगवत्-प्रीति-कारिणीम् ॥१॥

यामृते मन्त्र-सिद्धिर् न भवेत् कोटि-जपादिभिः ।

कल्पे दृष्ट्वा न कदापि जपेन् मन्त्रं विवक्षणः ॥२॥

यथा-स्वं दक्षिणा-वस्तु नेह ब्रह्माण्ड-गोचरे ।

तत्रैवं दक्षिणा देह-समर्पण-विधिर् विधिः ॥३॥

ततः प्रथमतः शिष्य-गुरु-लक्षणम् उच्यते ॥४॥

भक्तं भक्ति-विधान-तत्त्व-कथने निष्णातम् एवान्वहम्

ब्रह्माख्यान-परायणं भगवतस् तत्त्वैक-निष्ठापनम् ।

शान्तं दान्तम् अनन्य-साधन-परं सद्-वासना-संयुतं

भक्त्या श्री-गुरुम् आश्रयेद् अनुगतोऽमायी सुशान्तोऽनिशम् ॥५॥

प्रपद्यमानो गुरुम् आह वाक्यं

प्रणम्य भक्त्या निज-कर्म-दर्शी ।

अहं सदा दुःसह-दुःख-भागी

दयां कुरुस्वेति दयानिधे मे ॥६॥

संसार-मग्नं प्रणतं दयाम्बुधे

त्रायस्व मां नित्यम् अनन्य-दर्शिनम् ।

स्वाभीष्ट-सेवा-विधिम् एव देहि मे

शिष्यं प्रपन्नं कुरु-शासनं हितम् ॥७॥

मास-र्क्ष-तिथि-वारे च शुभे लग्ने समाहितः ।

देशिकः संयमी दीक्षा-विधिम् आरभते स्वयम् ॥८॥

वृतः शिष्येण वासोभिर् भूषणैः पुष्प-चन्दनैः ।

एतैर् अलङ्कृतो धीरो भूमिं संशोध्य यत्नवान् ॥९॥

तत्रासनं पातयित्वा चैलाजिन-कुशोत्तरम् ।

तद् एव शोधयेन् मन्त्रैर् मन्त्री बद्धाञ्जलिः शुचिः ॥१०॥

मेरु-पृष्ठादिभिश् चात्र मन्त्रिते स्वस्तिकासनम् ।

बद्धोपविश्य प्राची-दिग्-वदनः सोर्ध्व-पूण्ड्रकः ॥११॥

सम्मन्त्र्य गन्ध-पुष्पादीन् करौ ताभ्यां च शोधयेत् ।

प्रणम्य वाम-भागे च गुरु-पङ्क्तीर् गणाधिपम् ॥१२॥

दक्षेऽग्रतो भगवतीं क्षेत्र-पालं च पश्चिमे ।

निर्विघ्नो विधिवत् कृत्वा ताल-दिग्-बन्धनादिकम् ॥१३॥

भूत-शुद्धि-क्रमेणैव देह-शोधनम् आचरन् ।

संस्थाप्य देहे जीवादीन् कृत-न्यास-विधि-क्रमात् ॥१४॥

स्व-देहे पीथम् अभ्यर्च्य ध्यानाद् एव महाप्रभुम् ।

तत्र संस्थाप्य मूलेन सम्पूज्य मनसा क्रमात् ॥१५॥

तस्याहं तन्-मयो भूत्वा बहिः पूजां समाचरन् ।

अर्घ्य-संस्थापनं कुर्याद् यथा-क्रमम् अतन्द्रितः ॥१६॥

त्रिषट्-चतुष्कोण-युतं मण्डल-त्रयम् उत्तमम् ।

उपर्य् उपरि-भागेन भुवि वामे लिखेत् सुधीः ॥१७॥

प्रक्षाल्य त्रिपदीम् अस्त्र-मनुना तत्र मण्डले ।

संस्थाप्य पूजयेद् भक्त्या गन्धाद्यैः सुसमाहितः ।

वह्नि-मण्डल-रूपां तां वह्नि-मण्डल-मन्त्रतः ॥१८॥

ततोऽस्त्र-मनुना शङ्खं प्रक्षाल्य स्थापयेत् ततः ।

पूजयेत् सूर्य-रूपं तं सूर्य-मण्डल-मन्त्रतः ॥१९॥

गन्धं पुष्पं यवं दूर्वां हृदा शङ्खे च निक्षिपेत् ।

दक्षिण-स्थ-जले धीमान् विलोमेनैव मातृकाः ॥२०॥

तेजः स्वरूपाविज्ञाय प्रजपन्न् इन्दु-निःसृताः ।

तद् युक्तामृत-बुद्ध्याब्जं शिरसा पूरयेज् जलैः ॥२१॥

तद् भागं सोम-बुद्ध्या च सोम-मण्डल-मन्त्रतः ।

सम्पूज्य तत्र तीर्थानि स्थापयेत् सूर्य-मण्डलात् ।

तन्-मन्त्रेण समानीय हृत् पद्याच् च महाप्रभुम् ॥२२॥

प्रदर्श्य गालिनीं मुद्रां शिखया नेत्र-मन्त्रतः ।

स्वयं वीक्ष्य वर्मणा च जलं तद् अवगुण्ठयेत् ॥२३॥

अथ गुण्ठन-मुद्राभिः पुनस् तस्याग्नि-कोणतः ।

हृदयापि कवचान्ते नेत्रम् अग्रे च विन्यसेत् ॥२४॥

दिक्ष्व् अस्त्रम् अङ्ग-मन्त्रैस् तु पूजयेत् तज्-जलं क्रमात् ।

अमृतीकरणं धेनु-मुद्रया शङ्ख-मुद्रिकाम् ॥२५॥

प्रदर्श्याच्छाद्य यत्नेन तज्-जलं मत्स्य-मुद्रया ।

प्रजपन्न् अष्टधा मूल-मन्त्रम् ऐक्यं च भावयेत् ॥२६॥

जलाब्ज-देवतानां च प्रसन्नात्मा ततः परम् ।

शङ्ख-स्थ-जल-बिन्दुं च दक्षिण-स्थ-जले क्षिपेत् ॥२७॥

तच्-छेषेणोक्षयेत् पूजा-द्रव्यम् आत्मानम् एव च ।

वार-त्रयम् ततो मन्त्री घटं मण्डल-मध्यतः ॥२८॥

गुरु-विघ्नेश्व-पीठार्चान्विते शालि-कुशोपरि ।

संवेष्ट्य क्षौम-युग्मेन सतारं विधिवन् न्यसेत् ॥२९॥

पञ्च-रत्नं पञ्च-गव्यं पञ्चामृतम् अतः परम् ।

कुश-कूर्चास् तथा श्वेत-प्रसूनाक्षत-पल्लवान् ॥३०॥

प्रत्येकम् एव मन्त्रेण मूलेन निक्षिपेद् घटे ।

कर्पूरअ-वासिनं नीरं मातृकाम् अयम् उत्तमम् ॥३१॥

सुधा-स्वरूपकं स्वच्छं त्रिश् च जप्तं स्व-मन्त्रतः ।

क्षीर-द्रुमादिक्वथम्बा नीत्वा शङ्खान्तरं पुनः ॥३२॥

तेन सम्पूर्य मूलेन त्रिपदां तत्र सम्जपेत् ।

गङ्गादि-सर्व-तीर्थानि समुद्रान् सर्व-देवताः ।

आवाह्य स्थापयेत् तत्र क्षिप्त्वा गन्धाष्टकं कलाः ॥३३॥

सम्पूज्य विधिवत् सर्वाघटे सर्वं पयः क्षिपेत् ।

आच्छाद्य विधिनाभ्यर्चेद् घटं सर्व-मयं ततः ॥३४॥

यन्त्र-स्वर्णादि-पात्रस्थं लिखितं सुमनोहरम् ।

घटे संस्थाप्य तत्रैवाधारादींश् चाभिपूजयेत् ॥३५॥

वसु-युग्म-दलोपेतं कमलं केशरान्वितम् ।

स-कर्णिकं चतुर्द्वार-तोरणाञ्चितम् उत्तमम् ॥३६॥

रेखा-त्रय-समायुक्तं वसु-वज्र-समन्वितम् ।

चन्दनालिप्त-पात्रे च लिखेत् स्वर्ण-शलाकया ॥३७॥

चतुरस्रं कर्णिकायाम् आसनं मध्य-देशतः ।

प्रेम-बीजं लिखेत् तत्र बहिः षट्-कोणम् उत्तमम् ॥३८॥

षड्-गह्वरे काम-बीजं चतुष्कोणे भुवः पुनः ।

चैतन्यानन्द-नामानम् इमं यन्त्रं विलिख्य च ॥३९॥

स्वर्ण-पात्रे कुङ्कुमेन धारयेद् यः समाहितः ।

भक्तिर् भागवती प्रेम-लक्षणा तस्य सिध्यति ॥४०॥

उपर्य् उपरि तत्रैव क्रमाद् आधार-शक्तिकान् ।

सम्पूज्य पूर्ववद् ध्यात्वा भगवन्तं हृदि-स्थितम् ॥४१॥

मूल-हृद्-भाल-कमले तेजस् त्रयम् अनुत्तमम् ।

तडिल्-लताभं तत्रैकीकृत्य प्रेम्ना ततो बहिः ॥४२॥

निःसार्य किञ्चित् संस्थाप्य भक्त्या पूजासने ततः ।

मूलेन मूर्तिं सङ्कल्प्य तत आवाहयेत् पुनः ॥४३॥

आवाहन्य् आदिभिर् मन्त्री-मुद्राभिर् अष्टभिस् तथा ।

संस्थाप्य मूल-मन्त्रेण दद्याद् अर्घ्यं प्रकल्पितम् ॥४४॥

ततः पाद्यादिभिर् देवं सम्पूज्य विधिवत् सुधीः ।

तत्रैव अञ्जलिभिः षड्भिः पाद-हृद्-मस्तके पुनः ॥४५॥

वक्षे वामे च सर्वाङ्गे तुलस्यादिभिर् अर्चयेत् ।

करवीराम्बुजैः शुक्लै रक्तै तच्-चन्दनान्वितैः ॥४६॥

एवं सम्पूज्य विधिवद् अङ्गाद्य्-आवरणं ततः ।

पूजयेद् गन्ध-पुष्पाद्यैः क्रमेण विधिवन् नरः ।

तत्रानुज्ञां प्रभोः प्रार्थ्य क्षिपेत् त्र्य्-अञ्जलि-मूलतः ॥४७॥

आग्नेयादि-चतुष्कोणे चतुरस्रासनस्य च ।

सम्पूज्य पुष्प-गन्धाभ्यां हृदयाद्य्-अङ्ग-देवताः ॥४८॥

नेत्रम् अग्रे चतुर्-दिक्षु पूर्वादिष्व् अस्त्र-देवताः ।

रक्त-श्याम-पाठ-लाभ-शुक्ल-कृष्णानल-प्रभाः ॥४९॥

सुवर्ण-वसनालेप-युक्ता दिव्य-विभूषणाः ।

वराभीति-कराध्येयाः प्रेम-स्निग्धेक्षणाः शुभाः ॥५०॥

तद्-बहिः षट्सु कोणेषु पूज्योऽग्रे द्विज-नन्दनः ।

गदाधरो दक्ष-भागे न्यासी दामोदरस् तथा ॥५१॥

वामे श्रीमन्-नरहरिः पश्चाद् दासो गदाधरः ।

दक्षे दत्तो वासुदेवः शिवानन्दश् च वामतः ॥५२॥

प्रेम्ना प्रभु-मुखाम्भोज-प्रेक्षकाः पुलकाकुलाः ।

दिव्य-माल्य-कराम्भोजा एते पूज्या विधानतः ॥५३॥

तद्-बहिः केशरेष्व् अग्रे नित्यानन्दो जगत्-पतिः ।

आचार्याद्वैत-नामापि मुरारि-श्रीनिवासकौ ॥५४॥

पुरी स्यान् माधवो ज्ञेयः परमानन्द एव च ।

ब्रह्मानन्दोऽपि सन्न्यासी नृसिंहानन्द इत्य् अपि ॥५५॥

भारती केशवो ज्ञेयः सर्व-विद्या-विशारदः ।

गोविन्दानन्दो गोविन्द-दासो वक्रेश्वरस् ततः ॥५६॥

हरिदासो मुकुन्दश् च रामः सङ्गीत-तत्परः ।

हरिदासो द्विजवरः सर्वे चन्दन-मालिनः ॥५७॥

हरिनाम-पराः केचित् केचित्-तन्-नाम-तत्-पराः ।

प्रेमाङ्कुर-समायुक्ताः प्रेमाश्रु-नयनोज्ज्वलाः ॥५८॥

तद्-बहिः पत्र-मध्ये च सार्वभौमस् ततः परम् ।

वल्लभो जगदानन्दो मुकुन्दो रघुनन्दनः ॥५९॥

जगन्नाथः शची-देवी गोविन्द-घोष एव च ।

काशीश्वरः कृष्ण-दासः श्रीदाम-दास एव च ॥६०॥

सुन्दरानन्द-नामादि परमेश्वर-दासकः ।

पुरुषोत्तम-दासः स्याद् गौरी-दासस् ततः परम् ॥६१॥

कमलाकरस् ततोऽभ्यर्चः सर्वे दिव्यानुलेपनाः ।

ध्येया दिव्याम्बराः प्रेम-रस-विह्वल-चेतसः ॥६२॥

पत्रे तद्-बहिः-पूज्या ज्ञानानन्दस् ततः परम् ।

घोष-श्री-वासुदेवश् च प्रतापरुद्र एव च ॥६३॥

रामानन्दो राघवश् च प्रद्युम्नः श्री-सुदर्शनः ।

वाणीनाथो विष्णुदासो दामोदर-पुरन्दरौ ॥६४॥

आचार्य-चन्द्रो भगवान् चन्द्रशेखर एव च ।

चन्दनेश्वर-नामापि पण्डितः श्री-धनञ्जयः ॥६५॥

सर्वे भागवता गौर-प्रेम-विह्वल-मानसाः ।

हरिनाम-रता ध्येया दिव्य-माल्य-कराम्बुजाः ॥६६॥

तद्-बहिर् दिक्षु दिक्-पालाः पूज्या भक्ति-परायणाः ।

तत्-तद्-बीजादि-युक्ताश् च तत्-तद्-वर्ण-विभूषणाः ॥६७॥

इन्द्रोऽग्निर् यम इत्य् एव नैरृतो वरुणस् तथा ।

वायुः कुवेर ईशानो दिक्ष्व् अनन्तोऽध ऊर्ध्वतः ॥६८॥

लोकेशस् तद्-बहिर् दिक्षु तद्-अस्त्राणि प्रपूजयेत् ।

वज्रादीन्य् अष्ट-मूर्तानि चक्राब्जे त्व् अध ऊर्ध्वयोः ॥६९॥

प्रभोः पार्षद-रूपाणि स्व-लक्ष्माढ्यानि मौलिषु ।

ततो नामाष्टकेनापि तस्मै पुष्पाञ्जलीन् दिशेत् ॥७०॥

इति सम्पूज्य धूपं च दीपं नैवेद्यम् अग्रतः ।

स्थापयित्वास्त्र-मन्त्रेण सम्प्रोक्ष्य शोषणादिभिः ॥७१॥

वायु-बीजादिभिर् वाम-पाणिना शोधयेत् पुनः ।

संरक्ष्य चक्र-मुद्राभिर् धेनु-मुद्रामृती-कृतम् ॥७२॥

जप्तं मूलेनाष्ट-कृत्वस् तुलस्या पूजितं कृती ।

निवेद्य मूल-मन्त्रेण घण्टां तन्-मन्त्र-मन्त्रिताम् ॥७३॥

वादयन् वाम-हस्तेन नीचैर् दद्यात् पुनः पुनः ।

धूपम् आपादम् आमौलि सप्त-वारं प्रदर्शयेत् ॥७४॥

दीपं गृहीत्वा नैवेद्यं तन्-निवेदन-मुद्रया ।

तन्-मन्त्रेणैव परया भक्त्या श्री-प्रभवेऽर्पयेत् ॥७५॥

निवेदयामि भवते जुषाणेदं हविर् हरे ।

स्थापयित्वा पुनर् भूमौ कर्पूर-वासितं परम् ॥७६॥

गण्डूषं दत्त्वा मन्त्रेण ग्रास-मुद्रां प्रदर्शयेत् ।

सव्येन चोत्पलाकारं दक्षेण पञ्च-मुद्रिकाः ॥७७॥

यथा-क्रमं भोजयित्वा हुत्वा च विधिवद् बलिम् ।

ग्रहादिभ्यः समर्प्याथ पुनर् गण्डूषम् आदरात् ।

दत्त्वाग्रे त्रिः कर्म कुर्यात् स्वार्पणान्तं ततो न्यसेत् ॥७८॥

संहार-मुद्रया देवं हृदि संस्थाप्य यत्नवान् ।

विष्वक्सेनाय निर्माल्यं दत्त्वा किञ्चित् स्वयं ततः ॥७९॥

गृहीत्वा तन्-मयो भूत्वा सर्वं स्मृत्वा चिद्-आत्मकम् ।

घटे संयोज्य तं स्पृष्ट्वा शतम् अष्टोत्तरं जपन् ॥८०॥

कृतोपवासं पूर्वेद्युः शिष्यम् आनीय वामतः ।

भूत-शुद्ध्य्-आदिकं कृत्वा घटं नीत्वा तथान्तिके ॥८१॥

देवं प्रार्थ्य-मन्त्र-पूतैश् चाभिसिञ्चेद् घटोदकैः ॥८२॥

धृत्वांशुके अथाचम्य भक्त्यासीनस्य सन्निधौ ।

विचिन्त्य देवं हृदये देशिक-सुप्रसन्न-धीः ॥८३॥

पूजयित्वा अर्घ्य-पाद्याद्यैर् आत्मानं शिष्यम् एव च ।

वाससाच्छाद्य रुद्राक्षं दिव्य-दृष्ट्यावलोकयन् ॥८४॥

न्यस्य मूर्ध्नि करं तस्य दक्ष-कर्णे मनुं वदेत् ।

विधिवद् वार-त्रितयं स चैक्यं भावयन् पठेत् ॥८५॥

गुरु-दैवत-मन्त्राणां ततस् तस्य करेऽर्पयेत् ।

समान-फल-दोऽस्त्व् एष आवयोर् मन्त्र इत्य् अपि ॥८६॥

तुलसी-सहितं नीरं शिष्यः स्वस्ति ब्रवीत्व् इति ।

लब्ध्वा शुभ्राशिषोऽन्यच् च जायते पूर्व-मानसः ॥८७॥

यथा-शक्ति जपेन् मन्त्रं गुरुः शिष्यश् च शान्त-धीः ।

विनयावनतस् तस्माच् छिक्षेत समयादिकम् ॥८८॥

ततः शिष्यो गुरु-भक्त्या काञ्चनादि-धनेन च ।

सन्तोष्य विधिवद् भूमौ प्रणमेत् पुनः पुनः ।

देह-समर्पणं कृत्वा तोषयेद् गुरुम् आदरात् ॥८९॥

गुरुर् ब्रह्मा गुरु विष्णुर् गुरुर् देवो महेश्वरः ।

गुरुर् एव परं ब्रह्म तस्माद् आदौ तम् अर्चयेत् ॥९०॥

अज्ञान-तिमिरान्धस्येत्य् आदिना प्रणमेत् सद् ।

एकम् अप्य् अक्षरं यस् तु गुरुः शिष्ये निवेदयेत् ॥९१॥

यत् किञ्चिद् अन्न-पानादि-प्रियं द्रव्यं मनोरमम् ।

निवेद्य गुरवे पश्चात् स्वयं भुञ्जीत प्रत्यहम् ॥९२॥

शिष्यः शान्तो यतात्मा च गुरु भक्तिर् अतः सदा ।

व्रती सत्य-वचानित्यं जपेन् मन्त्रं प्रयत्नतः ॥९३॥

एतेषां मन्त्र-चर्याणां दश-लक्ष्यं जपेत् सुधीः ।

होमस् तस्य दशांशेन तर्पणं तद्-दशांशतः ॥९४॥

अभिषेकस् तद्-दशांशो ब्राह्मणं भोजयेत् ततः ।

दशांश-विधिना युक्तः पुरश्चर्या-विधैः क्रमात् ॥९५॥

इति भक्ति-चन्द्रिकायां चतुर्थः पटलः

॥४॥

–ओ)०(ओ–

(५)