तृतीयः पटलः
मन्त्र-न्यासं प्रवक्ष्यामि यथा-स्थानं यथा-क्रमम् ।
येन मन्त्र-मयो देहस् तत्-क्षणाद् भवति ध्रुवम् ॥१॥
शिरो-भाल-मुखे कण्ठे हृदये जठरे तथा ।
नाभौ ध्वजे जानु-देशे पादयोर् विन्यसेत् क्रमात् ॥२॥
मन्त्र-वर्णान् इन्दु-युक्तान् साधकः सुसमाहितः ।
करयोर् अङ्गुलीष्व् एव मन्त्रार्णान् विन्यसेत् सुधीः ॥३॥
ततः ऋष्य्-आदिकं कुर्याद् यथा-क्रमम् अनन्य-धीः ।
मन्त्रस्यास्य ऋषिः प्रोक्तो नारदश् छन्द ईरितम् ॥४॥
गायत्री देवता कृष्ण-चैतन्यो रस-विग्रहः ।
बीजं तु काम-प्रेमाख्यं स्वाहा शक्तिः प्रकीर्तिता ॥५॥
आद्या शक्तिर् अधिष्ठात्री देवता मन्त्र-वित्तमैः ।
शिरो-वदन-हृद्-देशे ध्वजे पादे च सर्वतः ॥६॥
गात्रेषु विन्यसेत् साध्ये विनियोगः क्रमाद् इति ।
पदानि पञ्च-मन्त्राङ्ग-कल्प्यान्य् अथ मनुं न्यसेत् ॥७॥
मन्त्रार्णैः कल्पयेद् अङ्गं क्रम-योगेन साधकः ।
कामेन कल्पयेद् अङ्गं हृदयाय नमः परम् ॥८॥
प्रेम्णा च शिरसे स्वाहा शिखायै वषड् इत्य् अपि ।
कृष्णेति कवचान् ङे हुं चैतन्यायेत्य् अतः परम् ॥९॥
नेत्र-त्रयाय वौषट् स्यात् स्वाहास्त्राय फड् इत्य् अपि ।
सर्वैर् मन्त्राक्षरैर् एवम् अङ्ग-न्यासो विधीयते ।
एवम् एव प्रकुर्वीत कर-न्यासं समाहितम् ॥१०॥
ततो वर्ण्येन विधिना स्व-देहे पीठम् अर्चयेत् ।
उपर्य् उपरि सञ्चित्यं हृदि सङ्कल्प्य तारवत् ॥११॥
आधार-शक्तये मूल-प्रकृत्यै कूर्म आयु-युक् ।
अनन्ताय पृथिव्यै च ततः क्षीराब्धये नमः ॥१२॥
श्वेतद्वीपाय तत्रैव रत्न-मण्डप आय-युक् ।
दक्ष-वामांसयोर् ऊर्वोर् धर्म-ज्ञानं प्रपूजयेत् ॥१३॥
वैराग्यं च तथैश्वर्यं चतुर्थ्य्-अन्तं ततः परम् ।
मुखे ध्वजे पार्श्वयोश् चाधर्मम् अज्ञानम् एव च ॥१४॥
अवैराग्यम् अनैश्वर्यं पूजयेन् मण्डपान्तरे ।
दिक्षु मध्ये कल्प-वृक्षं तद्-अधो-रत्न-वेदिकाम् ॥१५॥
रत्न-सिंहासनं तस्मिन्न् आनन्द-कन्दम् एव च ।
संविन्नालं च कमलं कर्णिका केशरान्वितम् ॥१६॥
शेषं ततः कर्णिकायां सूर्येन्द्व्-अनल-मण्डलम् ।
प्रणवाङ्गैः समायुक्तं स्व-कला-सहितं ततः ॥१७॥
सत्त्वं रजस् तमसेन्दु-स्वाद्य्-अक्षर-युतं तथा ।
आत्मानम् अन्तः परम-पूर्वकं च स-शक्तिकः ।
ज्ञानात्मेति ततः शक्तीः पीठस्य षोडशैकतः ॥१८॥
लक्ष्मीर् वसुमती भद्रा विमला कमलामला ।
अरुन्धती च गान्धारी क्षमा शान्तिर् हरि-प्रिया ॥१९॥
रतिः कान्तिर् धृतिः सत्या सुभद्रा मध्य-भागतः ।
विष्णु-प्रिया च विज्ञेया एता वै पीठ-शक्तयः ॥२०॥
वेदादि-हृदयं प्रोक्तं भगवान् वासुदेवकः ।
विष्णुर् ङे-युक् ततो ब्रूयात् सर्व-भूतात्मने ततः ॥२१॥
सर्वात्म-संयोग-योग-पद्म-पीठात्मने नमः ।
इत्य् एवं पीठम् अभ्यर्च्य कृत्वा दिग्-बन्धनं पुनः ॥२२॥
स्वाङ्के न्यस्योत्तान-करौ ध्यायेच् छ्री-पुरुषोत्तमम् ॥२३॥
स्वर्धुनी-तीरम् आसाद्य नवद्वीपे जनालये ।
ब्राह्मणैः पण्डितैर् भट्टैर् आचार्यैश् चक्रवर्तिभिः ॥२४॥
कविभिः कविराजैश् च काव्यविद्भिर् विचक्षणैः ।
वैद्यैर् वैद्यक-शास्त्रज्ञैर् ज्योतिर्विद्भिः समन्विते ॥२५॥
दातृभिर् ज्ञानिभिर् धन्यैर् वेदविद्भिश् च वैष्णवैः ।
करवीरं सितै रक्तैः शतपत्रैश् चतुर्विधैः ॥२६॥
निषेविते पुनस् तत्र कदम्ब-तरु-मूलतः ।
दिव्यं मनोहरं स्थानं गन्ध-वायु-निषेवितम् ॥२७॥
वेष्टितं भक्त-वर्यैश् च तत्-तद्-भाव-समन्वितैः ।
कर-स्थ-माल्य-युग्मैश् च जय-गौरेति वादिभिः ॥२८॥
क्रमात् सप्तावृति-युतैर् दिव्य-वेश-विभूषणैः ।
तन्-मध्ये वर्तते दिव्यं चतुरस्रं सुखासनम् ॥२९॥
भक्ति-भाव-समायुक्तस् तत्रासीनं विचिन्तयेत् ॥३०॥
ध्यायेद् आतप्त-जाम्बुनद-रुचि-रुचिरं शुक्ल-रक्तान्त-चीरम्
दिव्यारक्तासन-स्थं स्मित-वलित-मुखाम्भोज-रक्त-द्वि-नेत्रम् ।
श्री-खण्डालिप्त-वक्षः-स्थल-कलित-लसन्-मालती-माल्य-युग्मं
चैतन्यं दिव्य-भूषं द्विज-मुकुट-मणिं भक्त-मालाभिषिक्तम् ॥३१॥
एवं ध्यात्वार्चिते पीठे हृदयाम्भोज-मध्यतः ।
उपवेश्य स्वागतादि-प्रश्नं कृत्वा सुसाधकः ॥३२॥
मनसा मूल-मन्त्रेण दद्याद् अर्घ्यं च मस्तके ।
पाद्यम् आचमनीयं च मधुपर्कं ततः परम् ॥३३॥
इति भक्ति-चन्द्रिकायां तृतीयः पटलः
(४)