अथ द्वितीयः पटलः
ततो वै मातृका-न्यासम् आचरेत् साधकोत्तमः ।
ऋषिर् ब्रह्मास्य मन्त्रस्य गायत्री-च्छन्द उच्यते ॥१॥
माता सरस्वती ध्येया देवता कथ्यते बुधैः ।
हलो बीजानि तत्त्व-ज्ञैः शक्तयो मन्त्र-वित्तमैः ॥२॥
स्वराश् च मातृका-न्यासे विनियोगस् ततः क्रमात् ।
शिरो-वदन-हृद्-गुह्य-पादेषु न्यस्य पञ्चकम् ॥३॥
ब्रह्मादि-सेन्दुभिः षड्भिः स्वर-युग्मैः शिरोऽन्तगैः ।
कराङ्ग-न्यासं कुर्वीत ततो ध्यायेत् सरस्वतीम् ॥४॥
पञ्चाशल्-लिपिभिर् विभक्त-मुख-दोः-पन्-मध्य-वक्षः-स्थलां
भास्वन्-मौलि-निबद्ध-चन्द्र-शकलाम् आपीन-तुङ्ग-स्तनीम् ।
मुद्राम् अक्ष-गुणं सुधाढ्य-कलसं विद्यां च हस्ताम्बुजैर्
बिभ्राणां विषद-प्रभां त्रिनयनां वाग्-देवताम् आश्रये ॥५॥
इति ध्यात्वा न्यसेद् देहे मातृकार्णान् विचक्षणः ॥६॥
शिरसि वदन-वृत्ते चक्षुषोः कर्णयोश् च
तद्-अनु च नसि युग्मे गण्डयोर् ओष्ठ-देशे ।
अधर-दशन-युग्मे भाल-देशे च वक्त्रे
स्वर-वसु-युग-वर्णान् विन्यसेद् इन्द्र-युक्तान् ॥७॥
कर-पद-युग-सन्धिष्व् अग्रतो कादिनान्तान्
शशि-कलित-प-वर्गान् पार्श्वयोः पृष्ठ-नाभ्योः ।
जठर इति हृदि-स्थं यं च रं दक्षिणांसे
ककुदि लम् इति चांसे वाम-भागे वम् एव ॥८॥
कर-द्वये पद-द्वन्द्वे जठरे वक्त्रके पुनः ।
हृत्-पूर्वे विन्यसेत् शादि-क्षान्तान् इन्दि-विभूषितान् ॥९॥
एवम् उक्तेषु देशेषु स-विसर्गान् स्वरान् हलः ।
विन्यसेत् पुनर् एतेषु बिन्दु-सर्ग-युतान् अपि ।
विन्यस्यन् मातृका-वर्णान् एवं वर्ण-तनुर् भवेत् ॥१०॥
ततः श्री-वासुदेवादि-न्यासं कुर्यात् सुसाधकः ।
अस्यैव न्यास-राजस्य नारदो मुनिर् एव च ॥११॥
गायत्री-छन्द इत्य् एवं वासुदेवश् च देवता ।
बीजं प्रणव एव स्यात् स्वाहा शक्तिः प्रकीर्तिता ॥१२॥
अधिष्ठात्री देवता स्याद् देवी कात्यायनी सति ।
आचक्रायेति पञ्चाङ्गं कुर्याद् ध्यायेत् ततः परम् ॥१३॥
ध्यायेद् आतप्त-हेम-द्युति-रुचिरतमं पीत-वस्त्रं प्रसन्नम्
श्रीवत्सोद्भासि वक्षः-स्थल-कलित-लसत्-कौस्तुभं दिव्य-भूषणम् ।
हस्ताम्भोजैर् दधानं दर-कमल-गदा-चक्रम् आनन्द-रूपम्
लक्ष्म्या जुष्टं स्वगेशासनम् अमर-मणिं वासुदेवं परेशम् ॥१४॥
ध्यात्वैवं मातृकार्णानां मूर्तीः शक्तीश् च विन्यसेत् ।
मन्त्रोद्धारं प्रवक्ष्यामि न्यासस्य क्रम-योगतः ॥१५॥
प्रणवो मातृका-वर्णा मूर्तिः शक्तिश् च ङे-युता ।
वह्नि-जायान्वितो मन्त्रो वर्ण-स्थाने नियोजितः ॥१६॥
लक्ष्म्या युक्तो वासुदेवोऽनन्तः शक्त्यान्वितः स्मृतः ।
हृषीकेशः श्रिया युक्तः प्रीत्या सङ्कर्षणस् तथा ॥१७॥
विष्णुः पद्मालया-युक्तो वैकुण्ठो रमया सह ।
माधवः कमला-युक्तः कान्त्या कमल-लोचनः ॥१८॥
विश्वया विश्वनाथोऽपि शान्त्या विश्वेश्वरस् तथा ।
नारायणो विरक्त्या च नरो बुद्ध्या समन्वितः ॥१९॥
केशवः कीर्ति-संयुक्तो देवकीनन्दन-श्रुती ।
परेशः परया युक्तः परमेष्ठी च शोभया ।
शक्तयो मूर्तयः प्रोक्ताः स्वराणां क्रम-योगतः ॥२०॥
अथ वक्ष्ये हलां मूर्तीः शक्तीश् च यत्नतः क्रमात् ।
दुर्गा-गदाधरौ चक्रि-जये शङ्खधरस् तथा ॥२१॥
विजया-सहितो ज्ञेयः शर्ङ्गी च विरजान्वितः ।
हरि-क्लिन्ने वसुमती सुरौ कृष्ण-वसुन्धरे ॥२२॥
गोविन्द-वसुदे शौरि-वसुधे मधुसूदनः ।
सन्ध्या-युती दया-युक्तो वामनः श्रीधरस् तथा ॥२३॥
हर्षया सहितो मेधा सहितश् च त्रिविक्रमः ।
खड्गि-प्रभे च मुषली चण्डया सहितोऽङ्कुशी ॥२४॥
विलासिनी समायुक्तो वराह-विग्रहस् तथा ।
धरणी सहितो रत्या प्रद्युम्नो भक्ति-संयुतः ॥२५॥
सत्यश् चेद् ऊसया सार्धम् अनिरुद्धस् ततत्ः परः ।
यज्ञेशश् चोमया सार्धं श्री-रामः कृपयान्वितः ॥२६॥
आकृष्ट्या सहितो ज्ञेयो जगन्नाथो भृगूद्वहः ।
उग्रया सहितः कूर्म-रूपी धृत्या युतः पुनः ॥२७॥
वाणी-युतो हयग्रीव आद्या-युक्तो जनार्दनः ।
मूर्त्या बलानुजो बाल ऋद्ध्या शुद्ध्या गदाग्रजः ॥२८॥
दामोदरः पुष्टि-युतस् तुष्टि-युक् कमलेक्षणः ।
यज्ञ आहुति-संयुक्तस् तथोरुक्रम एव च ॥२९॥
श्रद्धा-युक्तो नृसिंहश् च संहृत्या सहितस् तथा ।
याद्यैर् धातु प्राण-जीव-क्रोधा अप्य् आत्मनेऽन्तकाः ॥३०॥
एवं कृतेऽधिकारी स्यात् भक्ति-साधन-कर्मणि ।
तस्माद् यत्नेन कर्तव्यो न्यासोऽयं भक्ति-साधकः ॥३१॥
इति भक्ति-चन्द्रिकायां द्वितीयः पटलः
॥२॥
–ओ)०(ओ–
(३)