अथ प्रथमः पटलः
कान्तं शान्तम् अशेष-जीव-हृदयानन्द-स्वरूपं परं
सर्वात्मानम् अनन्तम् आद्यम् अमलं विश्वाश्रयं केवलम् ।
भक्त्य्-आनन्द-रसैक-विग्रह-वरं भक्तैक-भक्ति-प्रियं
भक्तावेश-धरं विभुं कम् अपि तं गौरं सदोपास्महे ॥१॥
कामाग्नि-माया-शशि-बद्ध-मूर्तिर्
नामामृताब्धिर् विहरन् स्व-शक्त्या ।
नामैक-गम्योरस-सार-मूर्तिर्
नामात्मको नाम-विनोद-कारी ॥२॥
भक्तीशयोर् अभेदेन कृष्ण-चैतन्य उच्यते ।
भेदात् कृष्णस्य भक्तेश् च प्रसिद्धिस् तत्त्व-वेदिनाम् ॥३॥
नाम-चिन्तामणिः ख्यातो नाम-रूपी जनार्दनः ।
स एव कृष्ण-चैतन्यस् तस्य नामात्मको मनुः ॥४॥
अत्रारि-मित्र-चिन्तापि न कार्या राशि-भेदतः ।
सर्वात्मा सर्व-बन्धुश् च सर्व-मित्रं जगत्-पतिः ॥५॥
सर्वेऽधिकारिणस् तत्र पूजा-चर्या-जपादिषु ॥६॥
मनवो बहुशस् तस्य धर्म-कामार्थ-मोक्षदाः ।
सतां भागवती-भक्ति-प्रदाः प्रेम-प्रदाः क्वचित् ॥७॥
भक्ति-प्रकाशं विधिवच् चन्द्र-ज्योत्स्नेव चन्द्रिका ।
कर्त्री चेन् नामतो भक्ति-चन्द्रिका कथ्यते बुधैः ।
तद्-अर्थं मन्त्र-चर्याणां विधानं कथ्यते क्रमात् ॥८॥
तत्रादाव् उद्धरेन् मन्त्रांस् ततश् चर्याविधिं क्रमात् ।
तेनैव यो जपेन् मन्त्रं लभते सिद्धिम् उत्तमाम् ॥९॥
मन्त्रोद्धारम् अहं वक्ष्ये सर्व-कामार्थ-सिद्धये ।
कामो धरित्री-मायेन्दु-कलितः स्याद् रति-प्रियः ॥१०॥
अजो वह्नि-रमा-युक्तश् चन्द्र-खण्ड-युतः परः ।
प्रेमाख्यो नाम बीजोऽयं प्रेम-भक्ति-प्रदायकः ॥११॥
कृष्ण-चैतन्य ङेर् वहि-जायान्तो मनुर् उत्तमः ।
जपाद् अस्यैव मन्त्रस्य सर्व-सिद्धिं व्रजेन् नरः ॥१२॥
रां ऐं ह्रीं कमला-बीजं प्रत्येकेन नियोजयेत् ।
काम-स्थाने नृसिंहं च वेदादि-षड्-विधो मनुः ।
एकेन साधयेत् सर्वं प्रेम-भक्तिं विशेषतः ॥१३॥
एषाम् एकतमं मन्त्रं यो जपेत् स महा-मुनिः ।
स्तुत्यते सर्व-देवैश् च स च भागवतोत्तमः ॥१४॥
अथ चर्या-विधिं वक्ष्ये सर्व-मन्त्रार्थ-साधनम् ।
सिद्धो न जायते मन्त्रो विना येन जपादिभिः ॥१५॥
ब्राह्मे मुहूर्ते उत्थाय साधकः स्थिर-बुद्धिमान् ।
भालाम्बुजे गुरुं शुद्धं गौर-वर्णं स्मिताननम् ॥१६॥
शुक्ल-माल्याम्बर-धरं शुभ्र-चन्दन-शोभितम् ।
स्वस्तिकासन-संविष्टं व्याख्या-मुद्रा-कराम्बुजम् ॥१७॥
ध्यात्वैव तत् पदाम्भोज-रजोभिर् वपुर् आत्मनः ।
संशोध्य हृदि-देवेशं सञ्चिन्त्य तत् पदाम्बुजे ॥१८॥
यथा-शक्ति जपेन् मन्त्रम् आत्मानं तन्-मयं पुनः ।
भावयन् प्रातर् उत्थाय स्नानार्थं च जलाशयम् ।
गत्वा स्नात्वा जलेकृत्वा चतुरस्रं च मण्डलम् ॥१९॥
तत्रैवाहयेन् मन्त्री तीर्थानि मनुनाधुना ।
गङ्गे च यमुने चैव गोदावरि सरस्वति ॥२०॥
नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ।
इत्य् अनेनाङ्कुशेनैव मुद्रया सूर्य-मण्डलात् ॥२१॥
तत्राष्टधा जपन् मन्त्रं शिरस्य् अञ्जलिम् अष्टधा ।
दत्त्वा तत्र त्रिधाप्लुत्य कृत्वा सन्ध्यादिकं सुधीः ॥२२॥
कामं प्रेमाख्यम् उच्चार्य कृष्ण-चैतन्यम् आदरात् ।
तर्पयामीति मन्त्रेण पञ्च-विंशतिम् अञ्जलीन् ॥२३॥
दत्त्वा निर्वर्त्य विधिवत् स्नानं साधक-सत्तमः ।
पूजा-गृह-द्वार-देशे शुचिर् भूत्वोपविश्य च ।
सम्पूज्य द्वारपालांश् च देहलीं लङ्घयेत् ॥२४॥
ततः—
आसनस्थोऽपि भूतानां शान्ति-कर्म समाचरेत् ।
उत्पतन्तीह भूता ये पृथिव्य्-अम्बर-वासिनः ॥२५॥
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां नित्यं पवित्रं कुरु चासनम् ॥२६॥
इत्य् आमन्त्र्यासनं मन्त्री तथा धारादि-पञ्चभिः ।
पूजयित्वा तु तत्रैव प्राङ्-मुखः साधकोत्तमः ॥२७॥
स्वस्तिकासन-संविस्टो वामाङ्घ्रि-घातन-त्रयम् ।
ऊर्ध्व-ताल-त्रयं दत्त्वा दृष्ट्यापूजालयाद् बहिः ॥२८॥
भौमान्तरीक्ष-दिव्यांस् तान् विघ्नान् निःसारयेत् ॥२९॥
ततः—
अस्त्रेण गन्ध-पुष्पाभ्यां करौ संशोध्य साधकः ।
पुनर् अस्त्रेण सम्प्रोक्ष्य गन्धं पुष्पं जलं ततः ॥३०॥
अमृतीकृत्य मूलेन कुर्यान् मन्त्रितम् उत्तमम् ।
ततः स्फोटिकया कुर्याद् दिग्-बन्धनम् अतः परम् ॥३१॥
प्राकार-त्रितयं वह्नेर् विधाय तस्य मध्यतः ।
स्थित्वाचरेद् भूत-शुद्धिं यथा-क्रमम् अनन्य-धीः ॥३२॥
ज्ञान-कर्मेन्द्रियैर् भूतैः सूक्ष्म-भूतैश् च पञ्चभिः ।
प्रकृत्या मनसा बुद्ध्याप्य् अहङ्कारेण शुद्ध-धीः ॥३३॥
स्व-स्व-कार्य-युतैर् जीवं सुषुम्ना-वर्त्मना ततः ।
नीत्वा ब्रह्मणि संयोज्य सोऽहम् इत्य् एव योजयेत् ॥३४॥
शून्यं शरीरं सञ्चिन्त्य वायु-बीजानि षोडश ।
वामनासा-पुटे धीमान् जपन् यत्नेन शुद्ध-धीः ॥३५॥
वामनासा-पुटेनैव वायम् आकृष्य वायुना ।
तेन नाभि-स्थितं वायु-मण्डलं वर्धयेत् ततः ॥३६॥
तेन यत्नेन संशोध्य वाम-कुक्षि-स्थितं पुनः ।
पुरुषं पाप-सङ्घातं श्यामं रक्त-विलोचनम् ॥३७॥
अङ्गुष्ठैक-मितं दुष्टम् अधोमुखम् अतः परम् ।
स्तम्भयित्वानिलं यत्नाच् चतुःषष्ठि-मितं जपन् ॥३८॥
जपन् द्वात्रिंश-द्वारं तद् दक्षिणेन शनैस् त्यजेत् ॥३९॥
पुनर् दक्षिणया वायुम् आकृष्य वह्नि-मन्त्रतः ।
स्तम्भयित्वानिक्लं मन्त्री-योगेन कुम्भकेन हि ॥४०॥
प्रज्वाल्य वायुना वह्निं सन्दह्य पाप-देहिनम् ।
तद् भस्म-सहितं वायुं वामया सन्त्यजेद् बहिः ॥४१॥
वामया वायुम् आकृष्य जपन्न् एवेन्दु-सञ्ज्ञकम् ।
बीजं मध्यम् अनाभ्याच ललाटेन्दौ नियोज्य च ॥४२॥
वारुणेनैव संस्तम्भ्य वायुं तच् चन्द्र-मण्डलात् ।
विधायामृत-दृष्टिं च तयामृती-कृतं वपुः ॥४३॥
विचिन्त्य शक्ति-बीजेन शरीरं सुदृढं पुनः ।
भावयन् सन्त्यजेद् वायुं दक्षिणेनैव वर्त्मना ॥४४॥
पूर्व-स्थापित-जीवादीन् स्वे स्वे स्थाने नियोजयेत् ।
हंस इत्य् एष मन्त्रेण जीव-न्यासं ततश् चरेत् ॥४५॥
जीव-न्यास-मनुं वक्ष्ये सर्व-कर्माङ्गम् उत्तमम् ।
वेदादिर् बिन्दुमान् शेषः शक्तिर् अङ्कुश एव च ॥४६॥
चादिलान्तं सेन्दु-खण्डं हो हंसः सोऽहम् एव च ।
मम प्राणा इह प्राणाः पुनः पूर्व-मनुं पठन् ॥४७॥
मम जीव इह स्थितः पुनर् एवं मनुं पठन् ।
मम वाङ्-मनस्-त्वग् इति चक्षुः श्रोत्रं ततः परम् ॥४८॥
घ्राण-प्राणा इहागत्य सुकेनैव चिरं पुनः ।
तिष्ठन्तु वह्निजाया च पूर्व-बीज-चतुष्टयम् ॥४९॥
जीव-न्यास-मनुः प्रोक्तस् तान्त्रिकैर् मन्त्र-वित्तमैः ॥५०॥
इति भक्ति-चन्द्रिकायां प्रथमः पटलः !
॥१॥
–ओ)०(ओ–
(२)