०९ प्रमाण-त्रित्वम्

विश्वास-प्रस्तुतिः

अथ प्रत्यक्षानुमान-शब्दानाम् एव प्रमाणत्वम् ।
यथा श्री-भागवते (भा।पु। ११.१९.१७)—

श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् ॥ (क) ॥

मूलम्

अथ प्रत्यक्षानुमान-शब्दानाम् एव प्रमाणत्वम् ।
यथा श्री-भागवते (भा।पु। ११.१९.१७)—

श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् ॥ (क) ॥

कान्तिमाला

त्रीण्येव प्रमाणानि इति वक्तुमाह अथ प्रत्यक्षेति । प्रमाणानां त्रित्वमत्र प्रमेयम् । एवकारादेतदन्येषामुपमादीनामेषु त्रिष्वन्तर्भावान्नाधिक्यमिति वेदान्तस्यमन्तके प्रमाणनिरूपणे द्रष्टव्यम् । श्रुतेः प्राधान्यमभिप्रेत्य पूर्वं तामाह श्रुतिरिति ॥क॥

विश्वास-प्रस्तुतिः

प्रत्यक्षेऽन्तर् भवेद् यस्माद् ऐतिह्यं तेन देशिकः ।
प्रमाणं त्रिविधं प्राख्यत् तत्र मुख्या श्रुतिर् भवेत् ॥ १ ॥

मूलम्

प्रत्यक्षेऽन्तर् भवेद् यस्माद् ऐतिह्यं तेन देशिकः ।
प्रमाणं त्रिविधं प्राख्यत् तत्र मुख्या श्रुतिर् भवेत् ॥ १ ॥

कान्तिमाला

नन्वैतिह्यमधिकं पठितं, त्रयं प्रमाणं कथमितिचेत् तत्राह प्रत्यक्षेऽन्तरिति । अनिर्दिष्टवक्तृकतागतपारम्पर्यप्रसिद्धमैतिह्यम् । यथा इहवटे यक्षो निवसति इति तच्चादिमेन पुंसा दृष्टत्वात् प्रत्यक्षान्तर्गतमिति त्रयमेव प्रमाणं । देशिको

विश्वास-प्रस्तुतिः

मध्वमुनिः ॥ मनुश्चैव माह । प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमं । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ तत्र त्रिषु प्रमाणेषु मध्ये श्रुति स्त्वपौरुषेयवाक्यसंहतिर् मुख्या भवेत्, परमार्थप्रमापकत्वात् ॥१॥

प्रत्यक्षम् अनुमानं च यत् साचिव्येन शुद्धिमत् ।
माया-मुण्डावलोकादौ प्रत्यक्षं व्यभिचारि यत् ॥ २ ॥
अनुमा चातिधूमेऽद्रौ वृष्टि-निर्वापिताग्निके ।
अतः प्रमाणं तत् तच् च स्वतन्त्रं नैव सम्मतम् ॥ ३ ॥

मुख्यत्वं दर्शयितुमाह प्रत्यक्षमिति । यत् साचिव्येन यस्य साहाय्येन शुद्धिमत् प्रमाजनकम् । यथा, दृष्टचरमायामुण्डस्य पुंसः भ्रान्त्या सत्येऽप्यविश्वस्ते तदेवेदमित्याकाश वाण्या प्रत्यक्षं परिशुद्धं यथा च भोः शीतार्ताः पथिका माऽस्मिन् वहिम्म सम्भावयत, दृष्टं मया वृष्ट्याऽत्राऽधुना न निर्वाणः । किन्तु अस्मिन् धूमोद्गारिणि शैले सोऽस्ति । इत्यनुमानं च परिशुद्धं ॥ स्वतन्त्रे तु ते सव्यभिचारे भवत इत्याह मायेति । यथा मायावी किञ्चनमुण्डं मायया दर्शयित्वा आह चैत्रस्य मुण्डमिदमिति । नच तत्तस्य । इति प्रत्यक्षस्य व्यभिचारः । वृष्ट्या तत्क्षणनिर्वापितवह्नौ चिरमधिकोदित्वर धूमे शैले, वह्निमान् धूमवत्वात् । इत्यनुमानस्य व्यभिचारः । नेत्र ज्वालाकरत्वादिधूम लक्षणं चात्रास्त्येव । अत इति स्फुटार्थम् ॥२-३॥

विश्वास-प्रस्तुतिः

अनुकूलो मतस्तर्कः शुष्कस्तु परिवर्जितः ॥ ४ ॥

मूलम्

अनुकूलो मतस्तर्कः शुष्कस्तु परिवर्जितः ॥ ४ ॥

कान्तिमाला

तर्ह्यनुमानं परित्याज्यमितिचेत् तत्राह अनुकूल इति । श्रुत्यर्थ पोषकोऽनूकूलः । तद्विरोधी तु प्रतिकूल इत्यर्थः । तर्कस्य व्याप्तिग्रहे शङ्कानिवर्तकत्वेनानुमानाङ्गकत्वात् तदस्वीकारेण तदङ्गिनोऽनुमानस्याप्यस्वीकारो बोध्यः ॥४॥

विश्वास-प्रस्तुतिः

तथा हि वाजसनेयिनः (बृ।आ।उ। २.४.५)—

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ॥ (क) ॥

मूलम्

तथा हि वाजसनेयिनः (बृ।आ।उ। २.४.५)—

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ॥ (क) ॥

कान्तिमाला

अनुकूल तर्काङ्गीकारे श्रुतिमाह आत्मनि । अरे मैत्रेयि! आत्मा हरिर्द्रष्टव्यः साक्षात् कर्तव्यः । तत्र साधनमाह श्रोतव्यः वैदिकगुरुमुखात् श्रोत्रेण ग्राह्यः । मन्तव्यः वेदानुयायिना तर्केन निश्चेतव्यः । निदिध्यासितव्यो ध्यातव्यः । अत्र ध्यानमेव विधेयमप्राप्तत्वात् स्वाध्यायविधिप्राप्तत्वात् श्रवणस्य तत् प्रतिष्ठार्थत्वान्मननस्य चानुवाद एव ॥क॥

विश्वास-प्रस्तुतिः

काठकाः (क।उ। २.९)—

नैषा तर्केण मतिर् आपनेया प्रोक्तान्येन सुज्ञानाय प्रेष्ठ ॥ (ख) ॥

मूलम्

काठकाः (क।उ। २.९)—

नैषा तर्केण मतिर् आपनेया प्रोक्तान्येन सुज्ञानाय प्रेष्ठ ॥ (ख) ॥

कान्तिमाला

प्रतिकूलतर्कत्यागे श्रुतिमाह नैषेति । हे प्रेष्ठ! हे नचिकेत! एषा ब्रह्मज्ञानार्हा मति स्त्वया शुष्केण तर्केण नापनेया न भ्रंशनीया । तर्हि ज्ञानं कथं भवेत् तत्रात्र प्रोक्तेति । अन्येन वैदिके गुरुणा प्रोक्ता उपदिष्टा सती सा सुज्ञानाय प्रमायै भाविनी इत्यर्थः ॥ख॥

विश्वास-प्रस्तुतिः

स्मृतिश् च—

पूर्वापराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् । इत्य् आद्यम् ऊहनं तर्कः शुष्क-तर्कं तु वर्जयेत् ॥ (ग) ॥

मूलम्

स्मृतिश् च—

पूर्वापराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् । इत्य् आद्यम् ऊहनं तर्कः शुष्क-तर्कं तु वर्जयेत् ॥ (ग) ॥

कान्तिमाला

उक्तां व्यवस्थां प्रमाणयन्ति पूर्वापरेति ॥ग॥

विश्वास-प्रस्तुतिः

नावेदविदुषां यस्माद् ब्रह्मधीरुपजायते ।
यच्चौपनिषदं ब्रह्म तस्मान् मुख्या श्रुतिर्मता ॥ ५ ॥

मूलम्

नावेदविदुषां यस्माद् ब्रह्मधीरुपजायते ।
यच्चौपनिषदं ब्रह्म तस्मान् मुख्या श्रुतिर्मता ॥ ५ ॥

कान्तिमाला

अन्वयव्यतिरेकाभ्यां च श्रुतेः प्राधान्यं दर्शयन् उपसंहरति नावेदेति । अवेदविदुषां वेदज्ञानरहितानां तार्किकादीनां यस्मात् ब्रह्मधीर् न जायते । इति व्यतिरेकः । यच्चौपनिषदं ब्रह्म इत्यन्वयश्च ॥५॥

विश्वास-प्रस्तुतिः

तथा हि श्रुतिः (बृ।आ।उ। ३.९.२६)

नावेदविन् मनुते तं बृहन्तम् ॥ इति ॥ औपनिषदं पुरुषं पृच्छामि ॥ (क) ॥
इति प्रमेय-रत्नावल्यां प्रमाण-त्रित्व-प्रकरणं नाम नवम-प्रमेयम्
॥ ९ ॥

मूलम्

तथा हि श्रुतिः (बृ।आ।उ। ३.९.२६)

नावेदविन् मनुते तं बृहन्तम् ॥ इति ॥ औपनिषदं पुरुषं पृच्छामि ॥ (क) ॥
इति प्रमेय-रत्नावल्यां प्रमाण-त्रित्व-प्रकरणं नाम नवम-प्रमेयम्
॥ ९ ॥

कान्तिमाला

नावेदेत्याद्युक्तार्थम् ॥क॥

विश्वास-प्रस्तुतिः

॥ इति प्रमेयरत्नावल्या प्रमाणत्रित्वप्रकरणं व्याख्यातम्॥

एवम् उक्तं प्राचा— श्री-मध्व-मते हरिः परतमः सत्यं जगत् तत्त्वतो भेदो जीव-गणा हरेर् अनुचरा नीचोच्च-भावं गताः । मुक्तिर् नैज-सुखानुभूतिर् अमला भक्तिश् च तत्-साधनम् अक्षादि-त्रितयं प्रमाणम् अखिलाम्नायैक-वेद्यो हरिः ॥ १ ॥

यानि अस्मत् पूर्वाचार्येण प्रमेयान्युपात्तानि तान्येवात्र मयापीत्याह एवमुक्तं प्राचेति, श्रीमदिति । अनुचराः दासाः नित्याश्च । नीचोच्चभावं साधनभेदैः फलतारतम्यं । मुक्तिर् नजेति मुक्तिर्हित्यान्यथारूपं स्वरूपेण व्यवस्थितिः ॥ इति श्रीभागवतात् । वैमुख्यरचितं देवमानवादिभावं तत्साम्मुख्येन हित्वा साक्षात्कृतेन चित्सुखेन विज्ञातृणा स्वरूपेण स्थितिर् मुक्तिः इत्यर्थः ॥ अणुविज्ञान सुखं विज्ञातृ हरेर्दासभूतं जीवस्य नैज रूपम् । दास्यं च तदङ्घ्रिलाभाविनाभूतमिति मोक्षं विष्णवङ्ग्र्हिलाभं इत्यनेनाविरुद्धं । विकसितार्थमन्यत् ॥१॥

विश्वास-प्रस्तुतिः

… आनन्द-तीर्थै रचितानि यस्यां प्रमेय-रत्नानि नवैव सन्ति । प्रमेय-रत्नावलिर् आदरेण प्रधीभिर् एषा हृदये निधेया ॥ २ ॥

मूलम्

… आनन्द-तीर्थै रचितानि यस्यां प्रमेय-रत्नानि नवैव सन्ति । प्रमेय-रत्नावलिर् आदरेण प्रधीभिर् एषा हृदये निधेया ॥ २ ॥

कान्तिमाला

ग्रन्थमुपसंहरं स्तस्योपादेयत्वमाह आनन्देति स्फुटार्थम् ॥२॥

विश्वास-प्रस्तुतिः

… नित्यं निवसतु हृदये चैतन्यात्मा मुरारिर् नः । निरवद्यो निर्वृतिमान् गजपतिर् अनुकम्पया यस्य ॥ ३ ॥
इति श्री-भगवत्-कृष्ण-चैतन्य-सम्प्रदायाचार्य-श्रीमद्-बलदेव-विद्याभूषण-कृता प्रमेय-रत्नावली पूर्तिम् अगात् ।

अन्तेऽपि हृदि स्वाभीष्टस्फुरणं मङ्गलमाचरति-नित्यमिति अत्र श्रीकृष्णः श्रीकृष्णचैतन्यः स्वपूर्वचतुर्थो रसिकमुरारिश्च इति त्रयः प्रतिपाद्यन्ते । प्रथमपक्षे चैतन्यात्मा चिद्विग्रहः । गजपतिहिग्रस्तो गजेन्द्रः द्वितीये चैतन्यनामा आत्मा विग्रहः शच्यां जगन्नाथ मिश्रात् प्रकटः । गजपतिः प्रतापरुद्रो नृपतिः । तृतीये चैतन्यात्मा शचीसूनुनिविष्टचित्तः । गजपतिर्गोपालदासाख्यः करी ॥

वेदान्तवागीशकृतप्रकाशा प्रमेयरत्नावलिकान्तिमाला । गोविन्दपादाम्बुजभक्तिभाजां भूयात्सतां लोचनरोचनीयम्॥

॥ इति प्रमेयरत्नावल्यां कान्तिमाला टिप्पणी सम्पूर्णा ॥

समाप्तोऽयं ग्रन्थः