विश्वास-प्रस्तुतिः
अथैकान्त-भक्तेर् मोक्ष-हेतुत्वम् ।
यथा श्री-गोपाल-तापन्याम्—
भत्किर् अस्य भजनं तद् इहामुत्रोपाधि-नैरास्येनामुष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यम् ॥ (क) ॥ (गो। ता। उ।, पूर्व १४)
मूलम्
अथैकान्त-भक्तेर् मोक्ष-हेतुत्वम् ।
यथा श्री-गोपाल-तापन्याम्—
भत्किर् अस्य भजनं तद् इहामुत्रोपाधि-नैरास्येनामुष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यम् ॥ (क) ॥ (गो। ता। उ।, पूर्व १४)
कान्तिमाला
निष्काम भक्तेर्मुक्तिकरत्वं वक्तुमाह अथेति । भक्तिरस्येति । अस्य श्रीकृष्णस्य आनुकूल्येन श्रवणादिका भक्तिर् भजनं । तथा अमुष्मिन् कृष्णे मनःकल्पनं चित्तानुरञ्जनञ्च । मनः कल्प्यते अनुरञ्जते अर्प्यतेऽनेन इति निरुक्तेः । तादृश श्रवणादिहेतुको भावस्तदित्यर्थः । उत्तमात्वसिद्धये तदिहेति । इहलोके परलोके चोपाधि नैरास्येन कृष्णान्यफलाभिलाष राहित्येन तन्मात्रस्पृहया जायमानम् इत्यर्थः । एतदेव नैष्कर्म्यं आनुसङ्गेन मोक्षकरमित्यर्थः ॥क॥
विश्वास-प्रस्तुतिः
नारद-पञ्चरात्रे च—
सर्वोपाधि-विनिर्मुक्तं तत्परत्वेन निर्मलम् । हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥ (ख) ॥
मूलम्
नारद-पञ्चरात्रे च—
सर्वोपाधि-विनिर्मुक्तं तत्परत्वेन निर्मलम् । हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥ (ख) ॥
कान्तिमाला
सर्वोपाधीति । सर्वे रुपाधिभिः कृष्णान्याभिलाषैर् विनिर्मुक्तं, निर्मलं कर्माद्यनाविलं तत्परत्वेनानुकूल्येन विशिष्टं । हृषीकेण श्रोतादिना हृषीकेशस्य सेवनं कायिकं वाचिकं मानसिकं च परिशीलनं भक्तिरित्यर्थः । अत्र उत्तमात्वं स्फुटम् ॥ख॥
विश्वास-प्रस्तुतिः
नवधा चैषा भवति । यद् उक्तं श्री-भागवते (भा।पु। ७.५.२३-२४)—
श्रवनं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् । अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥ इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा । क्रियते भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम् ॥ (ग) ॥

तद्भेदानाह श्रवणमिति । एषा नवलक्षणा भक्तिर् अर्पितैव पुसां क्रियते नतु कृत्वा अर्पिता । तत्रापि अद्धा साक्षादेव नतु फलान्तरेच्छाव्यवधानेन क्रियते चेदुत्तममधीतमुत्तमाभक्तिर् इत्यहं मन्ये ॥ग॥
विश्वास-प्रस्तुतिः
सत्-सेवा गुरु-सेवा च देव-भावेन चेद् भवेत् ।
तदैषा भगवद्-भक्तिर् लभ्यते नान्यथा क्वचित् ॥ १ ॥
मूलम्
सत्-सेवा गुरु-सेवा च देव-भावेन चेद् भवेत् ।
तदैषा भगवद्-भक्तिर् लभ्यते नान्यथा क्वचित् ॥ १ ॥
कान्तिमाला
भक्तिलाभस्य हेतुमाह सत् सेवेति ॥१॥
विश्वास-प्रस्तुतिः
देव-भावेन सत्-सेवा यथा तैत्तिरीयके (तै।उ। १.११.२)—अतिथि-देवो भव ॥ (क) ॥
मूलम्
देव-भावेन सत्-सेवा यथा तैत्तिरीयके (तै।उ। १.११.२)—अतिथि-देवो भव ॥ (क) ॥
कान्तिमाला
देवभावेनेति । अतिथिरनिकेतनो हरिभक्तो देवो हरिवत् पूज्यो यस्य स त्वमीदृशो भव इति शिक्षा ॥क॥
विश्वास-प्रस्तुतिः
तया तद्-भक्तिर्, यथा श्री-भागवते (भा।पु। ७.५.३२)—
नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं स्पृषत्य् अनर्थापगमो यद्-अर्थः । महीयसां पाद-रजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ॥ (ख) ॥
मूलम्
तया तद्-भक्तिर्, यथा श्री-भागवते (भा।पु। ७.५.३२)—
नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं स्पृषत्य् अनर्थापगमो यद्-अर्थः । महीयसां पाद-रजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ॥ (ख) ॥
कान्तिमाला
नैषामिति प्रह्लाद वाक्यं एषां बहिर्दृष्टीनां मतिस्तावदुरुक्रमाङ्घ्रिं न स्पृशति । यस्य मति कृतस्य तदङ्घ्रिस्पर्शस्य अर्थः । फलं अनर्थापगमः संसृतिविनाशो भवति । तावत् कियदित्यत्राह महीयसामिति । निष्किञ्चनानां कृष्णैकधनानां महीयसां साधूनां अङ्घ्रिरजोऽभिषेकं यावन्न वृणीत परिनिष्टया यावत् तन्नसेवेत इत्यर्थः ॥ख॥
विश्वास-प्रस्तुतिः
देव-भावेन गुरु-सेवा यथा तैत्तिरीयके (तै।उ। १.११.२)—आचार्य-देवो भव ॥ (ग) ॥
मूलम्
देव-भावेन गुरु-सेवा यथा तैत्तिरीयके (तै।उ। १.११.२)—आचार्य-देवो भव ॥ (ग) ॥
कान्तिमाला
आचार्यो मन्त्रोपदेष्टा सदेवो हरिवत् पूज्यो यस्य स त्वमीदृशो भव इति शिक्षा ॥ग॥
विश्वास-प्रस्तुतिः
श्वेताश्वतरोपनिषदि च (श्वे।उ। ६.२२)—
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ (घ) ॥ कान्तिमाला- यस्येति । यस्य जिज्ञासोर् यथा देवे परमात्मनि तथा गुरौः पराभक्तिः स्यात् तस्यैते अस्यामुपनिषदि कथिता अर्थाः प्रकाशन्ते स्फुरन्ति नत्वेतद्विपरीतस्य इत्यर्थः ॥घ॥
तया तद्-भक्तिर्, यथा श्री-भागवते (भा।पु। ११.३.२१-२२)—
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः । अमायया।अनुवृत्त्या यैस् तुष्येद् आत्मात्मदो हरिः ॥ (ङ) ॥

तस्मादिति । उत्तमं श्रेयो जिज्ञासुर् जनो गुरुं प्रपद्येत ॥ कीदृशं, शाब्दे ब्रह्मणि वेदे, परे ब्रह्मणि श्रीकृष्णे च निष्णातम् । तत्र गुरोरन्तिके स्थितोऽमायया निष्कपटया अनुवृत्त्या सेवया भागवतान् धर्मान् शिक्षेत् । स्फुटार्थमन्यत् ॥ङ॥
विश्वास-प्रस्तुतिः
अवाप्त-पञ्च-संस्कारो लब्ध-द्विविध-भक्तिकः ।
साक्षात्-कृत्य हरिं तस्य धाम्नि नित्यं प्रमोदते ॥ २ ॥
मूलम्
अवाप्त-पञ्च-संस्कारो लब्ध-द्विविध-भक्तिकः ।
साक्षात्-कृत्य हरिं तस्य धाम्नि नित्यं प्रमोदते ॥ २ ॥
कान्तिमाला
अन्यान् शक्तिभेदान् प्रपञ्चयितुमाह अवाप्तेति । लब्धा विधिरुचिपूर्वतया द्विविधा भक्तिर्येन सः । नन्वेकस्य भक्तिद्वयलाभो विरुद्ध इतिचेत् सत्यं यस्य यादृशदेशिकसङ्ग स्तस्य तादृश भक्तिलाभः । इति न विरोधः ॥२॥
विश्वास-प्रस्तुतिः
तत्र पञ्च संस्कारा यथा स्मृतौ—
तापः पुण्ड्रं तथा नाम मन्त्रो यागश् च पञ्चमः । अमी हि पञ्च संस्काराः परमैकान्ति-हेतवः ॥ (क) ॥
मूलम्
तत्र पञ्च संस्कारा यथा स्मृतौ—
तापः पुण्ड्रं तथा नाम मन्त्रो यागश् च पञ्चमः । अमी हि पञ्च संस्काराः परमैकान्ति-हेतवः ॥ (क) ॥
कान्तिमाला
ताप इति पाद्मोत्तरखण्डे । अमी तापादयः संस्काराः पञ्च ॥क॥
विश्वास-प्रस्तुतिः
तापोऽत्र तप्त-चक्रादि-मुद्राधारणम् उच्यते ।
तेनैव हरिनामादि-मुद्रा चाप्य् उपलक्ष्यते ॥ २ ॥
मूलम्
तापोऽत्र तप्त-चक्रादि-मुद्राधारणम् उच्यते ।
तेनैव हरिनामादि-मुद्रा चाप्य् उपलक्ष्यते ॥ २ ॥
कान्तिमाला
तापादीन् व्याचष्टे । तेनैवेति । तप्त चक्रादिधारणेनैव इत्यर्थः ॥ तप्तचक्रादिधृतिं कलिमलिन मनसां दुष्करां मन्वानः पतितानुदिदधीर्षुर् भगवान् श्रीकृष्णचैतन्यश् चन्दनादिना श्रीभगवन्नाममुद्राधृतिं प्राचापि स्वीकृतामुपादिक्षत् ॥ साच पञ्चसंस्कारवाक्ये तप्त चक्रादिधारणेनोपलक्षितां इति भावः ॥२॥
विश्वास-प्रस्तुतिः
सा यथा स्मृतौ—
हरिनामाक्षरैर् गात्रम् अङ्कयेच् चन्दनादिना । स लोक-पावनो भूत्वा तस्य लोकम् अवाप्नुयात् ॥ (क) ॥
पुण्ड्रं स्याद् ऊर्ध्व-पुण्ड्रं तच् छास्त्रे बहुविधं स्मृतम् ।
हरि-मन्दिर-तत्-पादाकृत्याद्य्-अतिशुभावहम् ॥
नामात्र गदितं सद्भिर् हरि-भृत्यत्व-बोधकम् ।
मन्त्रोऽष्टादश-वर्णादिः स्वेष्टदेव-वपुर् मतः ॥
शालग्रामादि-पूजा तु याग-शब्देन कथ्यते ।
प्रमाणान्येषु दृश्यानि पुराणादिषु साधुभिः ॥ ३ ॥

पुण्ड्रमिति हरिमन्दिरादितिलकं । तिलकं तमाल पत्रं चित्रक मुक्तं विशेषकं पुण्ड्रं इति हलायुधः । स्फुटार्थमन्यत् ॥३॥
विश्वास-प्रस्तुतिः
नवधा भक्तिर् विधि-रुचि-पूर्वा द्वेधा भवेद् यया कृष्णः ।
भूत्वा स्वयं प्रसन्नो ददाति तत्-तद्-ईप्सितं धाम ॥ ४ ॥
मूलम्
नवधा भक्तिर् विधि-रुचि-पूर्वा द्वेधा भवेद् यया कृष्णः ।
भूत्वा स्वयं प्रसन्नो ददाति तत्-तद्-ईप्सितं धाम ॥ ४ ॥
कान्तिमाला
पूर्वत्र उद्दिष्टं भक्ति द्वैविध्यं स्फुटयति नवधेति । विधिपूर्वा वैधी, रुचिपूर्वा तु रागानुगा, इति हरिभक्तिरसामृतेऽस्य विस्तरः । स्फुटार्थमन्यत् ॥४॥
विश्वास-प्रस्तुतिः
विधिनाभ्यर्च्यते देवश् चतुर्-बाह्वादि-रूप-धृक् ।
रुच्यात्मकेन तेनासौ नृलिङ्गः परिपूज्यते ॥ ५ ॥
मूलम्
विधिनाभ्यर्च्यते देवश् चतुर्-बाह्वादि-रूप-धृक् ।
रुच्यात्मकेन तेनासौ नृलिङ्गः परिपूज्यते ॥ ५ ॥
कान्तिमाला
भक्ति भेदस्य भजनीय भेदमाह विधिनेति । चतुरिति, परमव्योमाधिपतिर्वासुदेवः । चतुर्बाहुर् अनिरुद्धश्च श्वेतद्वीपपतिः । आदिना अष्टभुजो दशभुजश्चेति । चतुर्भुजः श्यामलाङ्गः श्रीभूलीलाभिरन्वितः विमलैर् भुषणैर् नित्यैर्भूषितो नित्य विग्रहैः ॥ पञ्चायुधैः सेव्यमानः शङ्खचक्रधरो हरिः ॥ इति ॥ पीनायताष्टभुजमण्डलमध्यलक्ष्म्या स्पर्द्धच्छ्रिया परिवृतो वनमालयाद्य ॥ इति ॥ दशबाहुर्महातेजा देवतारिनिसूदनः । श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः ॥ इति च स्मृतेः ॥ नृलिङ्गो यशोदा स्तनन्धयश्च ॥ इति वेदान्त स्यमन्तके अन्य विस्तारः ॥५॥
विश्वास-प्रस्तुतिः
तुलस्यश्वत्थधात्र्यादिपूजनं धामनिष्ठता ।
अरुणोदयविद्धस्तु सन्त्याज्यो हरिवासरः ।
जन्माष्टम्यादिकं सूर्योदयविद्धं परित्यजेत् ॥ ६ ॥
मूलम्
तुलस्यश्वत्थधात्र्यादिपूजनं धामनिष्ठता ।
अरुणोदयविद्धस्तु सन्त्याज्यो हरिवासरः ।
जन्माष्टम्यादिकं सूर्योदयविद्धं परित्यजेत् ॥ ६ ॥
कान्तिमाला
तुलस्यश्वत्थेति । धामनिष्ठता निष्ठया श्रीमथुरादि धाम निवासः । सामर्थ्य सत्येतच्छरीरेण, तदभावे भावनया, इति बोध्यं ॥ अरुणोदयेत्यादि, हरिभक्तिविलासे अस्य विस्तारः ॥६॥
विश्वास-प्रस्तुतिः
लोक-सङ्ग्रहम् अन्विच्छन्
नित्य-नैमित्तिकं बुधः ।
प्रतिष्ठितश् चरेत् कर्म
भक्ति-प्राधान्यम् अत्यजन् ॥ ७ ॥+++(5)+++
मूलम्
लोकसङ्ग्रहमन्विच्छन्नित्यनैमित्तिकं बुधः ।
प्रतिष्ठितश्चरेत् कर्म भक्तिप्राधान्यमत्यजन् ॥ ७ ॥
कान्तिमाला
आश्रमस्थः प्रतिष्ठितो
लब्ध-महद्-आसनश् चेत्
तानि लोक सङ्ग्रहाय । कुर्यात् गौणकाले, भक्तिं तु तात्पर्येण अनुतिष्ठेत् । इति सुसूक्ष्मे भाष्ये, श्रीगीताभूषणे, च विस्तृतं । भक्ति सन्दर्भेऽपि एवमेव विस्तृतं द्रष्टव्यं ॥७॥
विश्वास-प्रस्तुतिः
दश नामापराधांस्तु
यत्नतः परिवर्जयेत् ॥ ८ ॥
मूलम्
दश नामापराधांस्तु यत्नतः परिवर्जयेत् ॥ ८ ॥
कान्तिमाला
यानादिकृतहरिमन्दिरगमनादयः सेवापराधा वाराहादौ कथिताः । ते तु सन्तत सेवया मार्जनीयाः स्युर् इति ते वर्जनीया एव । ये च नामापराधा दश, पाद्मे दर्शिताः । तेषां तु सन्ततनामावृत्त्या विमार्जनं स्यात् तादृशानामावृत्तेश्च दुःशक्यत्वात् ते दश यत्नात् परिवर्जनीयाः इत्याह दश इति । (९) ते च, सतां निन्दा । (२) श्रीविष्णोः सकाशात् शिवनामादेः स्वातन्त्र्यमननं । (३) गुर्वज्ञा । (४) श्रुति तदनुयायिशास्त्रनिन्दा । (५) हरिनाम महिम्नि अर्थवादमात्रमेतदिति मननं । (६) तत्र प्रकारान्तरेणार्थ कल्पनं । (७) नामबलेन पापे प्रवृत्तिः । (८) अन्य शुभक्रियाभिर्नाम्नां साम्यमननं । (९) अश्रद्दधाने विमुखे च नामोपदेशः । (१०) श्रुतेऽपि नाम्नां माहात्म्ये तत्राप्रीतिः ॥ इति ते चैते सनत्कुमारेण नारदं प्रति उपदिष्टा बोध्याः ॥८॥
विश्वास-प्रस्तुतिः
कृष्णावाप्तिफला भक्तिरेकान्तात्राभिधीयते ।
ज्ञानवैराग्यपूर्वा सा फलं सद्यः प्रकाशयेत् ॥ ९ ॥
इति प्रमेय-रत्नावल्यां विशुद्ध-भक्तेर् मुक्ति-प्रदत्व-प्रकरणं नाम अष्टम-प्रमेयम्
॥८॥
मूलम्
कृष्णावाप्तिफला भक्तिरेकान्तात्राभिधीयते ।
ज्ञानवैराग्यपूर्वा सा फलं सद्यः प्रकाशयेत् ॥ ९ ॥
इति प्रमेय-रत्नावल्यां विशुद्ध-भक्तेर् मुक्ति-प्रदत्व-प्रकरणं नाम अष्टम-प्रमेयम्
॥८॥
कान्तिमाला
उपसंहरति कृष्णेति एकान्तेति । तदन्य फलतायां तु अनेकान्तता इत्यर्थः । सा चेत् ज्ञानादि पूर्वा स्यात्, तदा कृष्णावाप्ति लक्षणं फलं सद्यस्त्वरया प्रकाशयेत्, अन्यथा तु विलम्बेन । तच्छ्रद्दधाना मुनयो ज्ञानवैराग्य युक्तया । पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया इत्यादि, स्मृतेः ॥ ज्ञानं शास्त्रीयं ॥९॥
॥ इति विशुद्धभक्तेर् मुक्तिप्रदत्वप्रकरणंव्याख्यातं ॥
…
(९)