०७ कृष्ण-प्राप्ति-रूप-मोक्षम्

विश्वास-प्रस्तुतिः

अथ श्री-कृष्ण-प्राप्तेर् मोक्षत्वम् ।
यथा—

ज्ञात्वा देवं सर्व-पाशापहानिः ॥ इत्य् आदि (क) ॥ (श्वे।उ। १.१०) एको वशी सर्वगः कृष्ण ईड्यम् ॥ इत्य् आदि च (ख) ॥ (गो।ता।उ।, पूर्व, २०)

मूलम्

अथ श्री-कृष्ण-प्राप्तेर् मोक्षत्वम् ।
यथा—

ज्ञात्वा देवं सर्व-पाशापहानिः ॥ इत्य् आदि (क) ॥ (श्वे।उ। १.१०) एको वशी सर्वगः कृष्ण ईड्यम् ॥ इत्य् आदि च (ख) ॥ (गो।ता।उ।, पूर्व, २०)

कान्तिमाला

कृष्णप्राप्तेर् मुक्तित्वं वक्तुमाह ज्ञात्वेत्यादिगदित्यार्थम् ॥क-ख॥

विश्वास-प्रस्तुतिः

बहुधा बहुभिर् वेशैर् भाति कृष्णः स्वयं प्रभुः ।
तम् इष्ट्वा तत्-पदे नित्ये सुखं तिष्ठन्ति मोक्षिनः ॥ १ ॥
इति प्रमेय-रत्नावल्यां कृष्ण-प्राप्ति-रूप-मोक्ष-प्रकरणं नाम
सप्तम-प्रमेयम्
॥ ७ ॥

मूलम्

बहुधा बहुभिर् वेशैर् भाति कृष्णः स्वयं प्रभुः ।
तम् इष्ट्वा तत्-पदे नित्ये सुखं तिष्ठन्ति मोक्षिनः ॥ १ ॥
इति प्रमेय-रत्नावल्यां कृष्ण-प्राप्ति-रूप-मोक्ष-प्रकरणं नाम
सप्तम-प्रमेयम्
॥ ७ ॥

कान्तिमाला

बहुधेति श्रीकृष्णोपासकानामिव श्रीरामाद्युपासकानाञ्च मोक्षः । सुखतारतम्यं तु अवर्जनीयम् ॥१॥

॥ इति प्रमेयरत्नावल्यां भक्तेर् मोचकत्वप्रकरणं व्याख्यातं ॥ … (८)