०६ जीवानां तारतम्यम्

विश्वास-प्रस्तुतिः

अणु-चैतन्य-रूपत्व-ज्ञानित्वाद्य्-अविशेषतः ।
साम्ये सत्य् अपि जीवानां तारतम्यं च साधनात् ॥ १ ॥

मूलम्

अणु-चैतन्य-रूपत्व-ज्ञानित्वाद्य्-अविशेषतः ।
साम्ये सत्य् अपि जीवानां तारतम्यं च साधनात् ॥ १ ॥

कान्तिमाला

जीवानां तारतम्यं वक्तुमाह अथेति । अणु इति । आदिशब्दात् कर्तृत्व भोक्तृत्वापहतपाप्मत्वादीनि ग्राह्याणि । साधनादिति; कर्मरूपात् भक्तिरूपाच्च इत्यर्थः । कर्मतारतम्यादैहिकं, भक्तितारतम्यात्तु पारत्रिकं फलतारतम्यं बोध्यं ॥१॥

विश्वास-प्रस्तुतिः

तत्राणुत्वम् उक्तं श्वेताश्वतरैः (श्वे।उ। ५.९)—

बालाग्र-शत-भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ (क) ॥

मूलम्

तत्राणुत्वम् उक्तं श्वेताश्वतरैः (श्वे।उ। ५.९)—

बालाग्र-शत-भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ (क) ॥

कान्तिमाला

बालाग्रेति । सच जीवो भगवत्प्रपन्नः आनन्त्याय कल्पते, अन्तो मरणं, तद्राहित्याय इत्यर्थः ॥क॥

विश्वास-प्रस्तुतिः

चैतन्य-रूपत्वं ज्ञानित्वादिकं च षट्-प्रश्न्यां (प्र। उ। ४.९)—

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ॥ (ख) ॥

मूलम्

चैतन्य-रूपत्वं ज्ञानित्वादिकं च षट्-प्रश्न्यां (प्र। उ। ४.९)—

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ॥ (ख) ॥

कान्तिमाला

ज्ञानित्वादिकञ्च इत्यत्रादिपदात् कर्तृत्वभोक्तृत्वे । एष हीति एष विज्ञानात्मा पुरुषोजीव स्तस्य द्रष्टेत्यादिना रूपादिभोगः प्रस्फुटः । प्रकृतेः कर्तृत्वे, यजेत् ध्यायेत् इत्यादि श्रुति वैयर्थ्य । समाध्यभावश्च । प्रकृतेरन्योऽहमस्मीति समाधिः । नचैष जडायास्तस्याः सम्भवेत्, नच स्वस्य स्वान्यत्वं सम्भवति ॥ख॥

विश्वास-प्रस्तुतिः

आदिना गुणेन देह-व्यापित्वं च, श्री-गीतासु (गीता १३.३३)—

यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ (ग) ॥

मूलम्

आदिना गुणेन देह-व्यापित्वं च, श्री-गीतासु (गीता १३.३३)—

यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ (ग) ॥

कान्तिमाला

यथेति विशदार्थं ॥ग॥

विश्वास-प्रस्तुतिः

आह चैव सूत्रकारः (ब्र। सू।, २.३.२४)—गुणाद् वालोकवत् ॥ (घ) ॥

मूलम्

आह चैव सूत्रकारः (ब्र। सू।, २.३.२४)—गुणाद् वालोकवत् ॥ (घ) ॥

कान्तिमाला

गुणाद्वेति आलोको दीपादिर् यथा प्रभाख्यगुणात् कृत्स्नं गेहंव्याप्नोति, एवं चेतनाख्यगुणात् कृस्नं देहं जीव इत्यर्थः ॥घ॥

विश्वास-प्रस्तुतिः

गुण-नित्यत्वम् उक्तम् वाजसनेयिभिः (बृ।आ।उ। ४.५.१४)—अविनाशी वा अरे अयमात्मानुच्छित्तिधर्मा ॥ (ङ) ॥

मूलम्

गुण-नित्यत्वम् उक्तम् वाजसनेयिभिः (बृ।आ।उ। ४.५.१४)—अविनाशी वा अरे अयमात्मानुच्छित्तिधर्मा ॥ (ङ) ॥

कान्तिमाला

अविनाशीति । अरे मैत्रेयि अयमात्मा जीवः स्वरूपतोऽविनाशी । अनुच्छित्ति उच्छेदरहिता धर्मा ज्ञानादयो यस्य स अनुच्छित्तिधर्मा, गुणतोऽप्यविनाशीत्यर्थः । नचानुच्छित्तिरेव धर्मोयस्य इति व्याख्यातव्यं । अस्यार्थस्य अविनाशीत्यनेनैवावगतत्वात् ॥ङ॥

विश्वास-प्रस्तुतिः

एवं साम्येऽपि वैषम्यम् ऐहिकं कर्मभिः स्फुटम् ।
प्राहुः पारत्रिकं तत् तु भक्ति-भेदैः सुकोविदः ॥ २ ॥

मूलम्

एवं साम्येऽपि वैषम्यम् ऐहिकं कर्मभिः स्फुटम् ।
प्राहुः पारत्रिकं तत् तु भक्ति-भेदैः सुकोविदः ॥ २ ॥

कान्तिमाला

एवं अणुत्वादिभिर्जीवानां साम्यमुक्त्वा, अर्थसाधनहेतुकं वैषम्यमाह एवमिति । ऐहिकं प्रपञ्चगतं, पारत्रिकं भगवल्लोकगतम् ॥२॥

विश्वास-प्रस्तुतिः

तथा हि कौथुमाः पठन्ति—

यथाक्रतुर् अस्मिन् लोके पुरुषो भवति । तथेतः प्रेत्य भवति ॥ इति ॥ (क) ॥

मूलम्

तथा हि कौथुमाः पठन्ति—

यथाक्रतुर् अस्मिन् लोके पुरुषो भवति । तथेतः प्रेत्य भवति ॥ इति ॥ (क) ॥

कान्तिमाला

यथेति। अस्मिन् लोके पुरुषो यथाक्रतुः यादृशं साधनं करोति तथा इतः प्रेत्य अस्मात् लोकात् परलोकं गत्वा भवति । साधनानुरूपं फलं भवति इत्यर्थः ॥क॥

विश्वास-प्रस्तुतिः

स्मृतिश् च—

यादृशी भावना यस्य सिद्धिर् भवति तादृशी ॥ इति ॥ (ख) ॥

मूलम्

स्मृतिश् च—

यादृशी भावना यस्य सिद्धिर् भवति तादृशी ॥ इति ॥ (ख) ॥

कान्तिमाला

यादृशीति गदितार्थं ॥ख॥

विश्वास-प्रस्तुतिः

शान्त्याद्या रति-पर्यन्ता ये भावाः पञ्च कीर्तिताः ।
तैर् देवं स्मरतां पुंसां तारतम्यं मिथो मतम् ॥ ३ ॥
इति प्रमेय-रत्नावल्यां जीव-तारतम्य-प्रकरणं नाम षष्ठ-प्रमेयम्
॥६॥

मूलम्

शान्त्याद्या रति-पर्यन्ता ये भावाः पञ्च कीर्तिताः ।
तैर् देवं स्मरतां पुंसां तारतम्यं मिथो मतम् ॥ ३ ॥
इति प्रमेय-रत्नावल्यां जीव-तारतम्य-प्रकरणं नाम षष्ठ-प्रमेयम्
॥६॥

कान्तिमाला

उपसंहरति शान्ताद्या इति । शान्तदास्यसख्यवात्सल्यरतयः । पञ्चभावाः । तैर्देवम्भजतां वैषम्यं प्रस्फुटं ॥ ये खलु विष्वक्सेनानुयायिनः निरञ्जनः परमंसाम्यमुपैति इति श्रुतेः, मोक्षे जीवानां परमं साम्यं स्वीचक्रुः तेषामपि वैषम्यं दुष्परिहरं जीवान् प्रति श्रीदेव्याः शेषित्वाङ्गीकारात् विष्वक्सेनस्य नियामकत्वस्वीकाराच्च ॥६॥

॥ इति प्रमेयरत्नावल्यां जीवतारतम्यप्रकरणं व्याख्यातं ॥ …**(७)