विश्वास-प्रस्तुतिः
अथ जीवानां भगवद्-दासत्वम्
तथा हि श्वेताश्वतराः पठन्ति (श्वे।उ। ६.७)—
तम् ईश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद् विदाम देवं भुवनेशम् ईड्यम् ॥ (क) ॥
मूलम्
अथ जीवानां भगवद्-दासत्वम्
तथा हि श्वेताश्वतराः पठन्ति (श्वे।उ। ६.७)—
तम् ईश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद् विदाम देवं भुवनेशम् ईड्यम् ॥ (क) ॥
कान्तिमाला
जीवानां हरिदासत्वं प्रतिपादयितुमाह अथेति । ननु हरिदासत्वे स्वरूपसिद्धे किमर्थं उपदेशः इति चेत् तदभिव्यक्त्वर्थः स उपदेश इति गृहाण । एवमाह श्रुतिः । घतमिव पयसि गूढं भूते भूते वसति विज्ञानां । सततं मन्थायितव्यं मनसा मन्थानदण्डेन । इति ॥ तमिति ईश्वराणां चतुर्मुखादानां । देवतानां इन्द्रादीनां ॥क॥
विश्वास-प्रस्तुतिः
स्मृतिश् च—
ब्रह्मा शम्भुस् तथैवार्कश् चन्द्रमाश् च शतक्रतुः । एवम् आद्यास् तथैवान्ये युक्ता वैष्णव-तेजसा ॥ इत्य् आद्या ॥ स-ब्रह्मकाः स-रुद्राश् च सेन्द्रा देवा महर्षिभिः । अर्चयन्ति सुर-श्रेष्ठं देवं नारायणं हरिम् ॥ इति च (ख) ॥

ब्रह्मादीनामैश्वर्यं परमात्मदत्तमित्याह ब्रह्मेति ॥ख॥
विश्वास-प्रस्तुतिः
पाद्मे च जीव-लक्षणे—
दास-भूतो हरेर् एव नान्यस्यैव कदाचन ॥ (ग) ॥
इति प्रमेय-रत्नावल्यां जीवानां भगवद्-दासत्व-प्रकरणं नाम पञ्चम-प्रमेयम्
॥ ५ ॥
मूलम्
पाद्मे च जीव-लक्षणे—
दास-भूतो हरेर् एव नान्यस्यैव कदाचन ॥ (ग) ॥
इति प्रमेय-रत्नावल्यां जीवानां भगवद्-दासत्व-प्रकरणं नाम पञ्चम-प्रमेयम्
॥ ५ ॥
कान्तिमाला
दासभूत इति नान्यस्य ब्रह्मरुद्रादेः ॥२॥
॥ इति प्रमेयरत्नावल्यां जीवानां हरिदासत्वप्रकरणं व्याख्यातं ॥ …(६)