०४ भेद-सत्यत्वम्

विश्वास-प्रस्तुतिः

अथ विष्णुतो जीवानां भेदः ।
तथा हि श्वेताश्वतराः पठन्ति (श्वे।उ। ४.६)—

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषष्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्योऽभिचाकशीति ॥ (क) ॥

मूलम्

अथ विष्णुतो जीवानां भेदः ।
तथा हि श्वेताश्वतराः पठन्ति (श्वे।उ। ४.६)—

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषष्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्योऽभिचाकशीति ॥ (क) ॥

कान्तिमाला

ईश्वरात् जीवानां भेदं वक्तुमाह द्वेति । सुपां सुप लुगित्यादि सूत्रादौ विभक्तेरात् । द्वौ सुपणौ पक्षिणौ जीवेशलक्षणौ समानमेकं वृक्षं देहं परिषष्वजाते स्वीकृत्य तिष्ठतः । जीवो भोगाय, ईशो नियमनाय इति बोध्यं । तौ कीदृशावित्याह, सयुजौ सहयोगवन्तौ, सखायौ तत्तुल्यौ । तयोर् अन्य एको जीवः पिप्पलं कर्मफलं सुखदुःखरूपं स्वादु अत्ति । अन्य ईश स्तदनश्नन्नपि अभिचाकशीति । प्रदीप्यते ॥क॥

विश्वास-प्रस्तुतिः

समाने वृक्षे पुरुषो निमग्नो ऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्य् अन्यम् ईशम् अस्य महिमानम् इति वीत-शोकः ॥ (ख) ॥ (मु। उ।, ३.१.२)

मूलम्

समाने वृक्षे पुरुषो निमग्नो ऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्य् अन्यम् ईशम् अस्य महिमानम् इति वीत-शोकः ॥ (ख) ॥ (मु। उ।, ३.१.२)

कान्तिमाला

समाने एकस्मिन् देहलक्षणे वृक्षे पुरुषो निमग्नो निरतः । अनीशया मायया मुह्यमानः सन् शोचति । यदा स्वस्मादन्यं भिन्नं ईशं कल्याणगुणगणेन स्वेन च जुष्टं परिषेवितं पश्यति ध्यायति तदा वीतशोकः सन् अस्य महिमानं ध्यायति ॥ख॥

विश्वास-प्रस्तुतिः

उपक्रमोपसंहाराव् अभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्तौ च लिङ्गं तात्पर्य-निर्णये ॥
इति तात्पर्य-लिङ्गानि षड् यान्य् आहुर् मनीषिणः ।
भेदे तानि प्रतीयन्ते तेनासौ तस्य गोचरः ॥ १ ॥

मूलम्

उपक्रमोपसंहाराव् अभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्तौ च लिङ्गं तात्पर्य-निर्णये ॥
इति तात्पर्य-लिङ्गानि षड् यान्य् आहुर् मनीषिणः ।
भेदे तानि प्रतीयन्ते तेनासौ तस्य गोचरः ॥ १ ॥

कान्तिमाला

भेदे शास्त्रतात्पर्यं दर्शयितुं आह उपक्रमेति । बृहत्संहितायां उपक्रमोपसंहारयो रैकरूप्यं इत्येकलिङ्गं । द्वा सुपर्णा इत्युपक्रमः । अन्यमीशमित्युपसंहारः । द्वेति, तयोरन्य इति, अनश्नन् इति, अविशेष पुनः पुनः श्रुतिरभ्यासः । अणुत्वबृहत्त्वादिविरुद्ध्वनित्यधर्मावच्छिन्नप्रतियोगिकतया भेदस्य शास्त्रं विना लोकाद् प्रतीतेरपूर्वता । वीतशोक इतिफलं । तस्य महिमानमेति इत्यर्थवादः । अनश्नन्निति उपपत्तिः असौ भेदः तस्य शास्त्रतात्पर्य्यस्य गोचरो विषयः ॥१॥

विश्वास-प्रस्तुतिः

किं च मुण्डके (मु। उ।, ३.१.३)—

यदा पश्यः पश्यते रुक्म-वर्णं कर्तारम् ईशं पुरुषं ब्रह्म-योनिम् । तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति ॥ (क) ॥

मूलम्

किं च मुण्डके (मु। उ।, ३.१.३)—

यदा पश्यः पश्यते रुक्म-वर्णं कर्तारम् ईशं पुरुषं ब्रह्म-योनिम् । तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति ॥ (क) ॥

कान्तिमाला

ननु नेतानि लिङ्गानि भेदं साधयितुमेकान्तानि, तेषामभेदसाधनेऽपि दर्शितत्वात् । ब्रह्मविद्ब्रह्मैव भवति ब्रह्मैव सन् ब्रह्माप्येति इति मोक्षदशायामभेदावधारणाद् व्यवहारिकोभेदः स्यादिति चेत् तत्राह, किञ्चेति यदेति । पश्यः ध्याता जीवः ॥क॥

विश्वास-प्रस्तुतिः

काठके च (क।उ। ४.१.१४)—

यथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति । एवं मुनेर् विजानत आत्मा भवति गौतम ॥ (ख) ॥

मूलम्

काठके च (क।उ। ४.१.१४)—

यथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति । एवं मुनेर् विजानत आत्मा भवति गौतम ॥ (ख) ॥

कान्तिमाला

यथोदकमिति । विजानतस्तदनुभविनः ॥ख॥

विश्वास-प्रस्तुतिः

श्री-गीतासु च (गीता १४.२)—

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ (ग) ॥

मूलम्

श्री-गीतासु च (गीता १४.२)—

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ (ग) ॥

कान्तिमाला

इदमिति । उपाश्रित्य प्राप्य ॥ग॥

विश्वास-प्रस्तुतिः

एषु मोक्षेऽपि भेदोक्तेः स्याद् भेदः पारमार्थिकः ।
ब्रह्माहम् एको जीवोऽस्मि नान्ये जीवा न चेश्वरः ॥ २ ॥

मूलम्

एषु मोक्षेऽपि भेदोक्तेः स्याद् भेदः पारमार्थिकः ।
ब्रह्माहम् एको जीवोऽस्मि नान्ये जीवा न चेश्वरः ॥ २ ॥

कान्तिमाला

एष्विति । एषु वाक्येषु साम्यमिति, तादृगेवेति, साधर्म्यमिति, मोक्षेऽपि भेदोक्तेस्तात्त्विकोभेदः । एवञ्च ब्रह्मवेत्यत्र ब्रह्मतुल्य इत्येवार्थः ॥ एवौपम्येऽवधारणे इतिविश्वः ॥२॥

विश्वास-प्रस्तुतिः

मद्-अविद्या-कल्पितास् ते स्युर् इतीत्थं च दूषितम् ।
अन्यथा नित्य इत्य् आदि-श्रुत्य्-अर्थो नोपपद्यते ॥ ३ ॥

मूलम्

मद्-अविद्या-कल्पितास् ते स्युर् इतीत्थं च दूषितम् ।
अन्यथा नित्य इत्य् आदि-श्रुत्य्-अर्थो नोपपद्यते ॥ ३ ॥

कान्तिमाला

स एव माया परिमोहितात्मा शरीरमास्थाय करोति सर्व इत्यादि

विश्वास-प्रस्तुतिः

श्रुत्यर्थाभासमादाय शङ्करानुयायिनः केचित् कल्पयन्ति । ब्रह्मैवाविद्यया मोहितं, एको जीवो वास्तवः, स च अहमेव, मदन्ये जीवा मदविद्यया कल्पिताः । सर्वेश्वराख्यः पुरुषश्च चिदाभासाः सर्वे स्वाप्निका इव रथाश्वादयः । अथ ज्ञातात्मनि मयि चिन्मात्रतया अवस्थिते ते न भविष्यन्ति स्वाप्निका इव रथादयः । जागरे इत्येक एव सत्यो जीव इति तदिदं प्रत्याचष्टे ब्रह्माहमिति । इत्थं मोक्षेऽपि भेद प्रतिपादनेन । अन्यथा पारमार्थिक भेदानङ्गीकारे ॥३॥

तथा हि कठाः पठन्ति (क।उ। २.२.१३)—

नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । तम् आत्मस्थं येऽनुपश्यन्ति धीरास् तेषां शान्तिः शाश्वती नेतरेषाम् ॥ (क) ॥

तां श्रुतिमुदाहरति । नित्य इति । आत्मनि मनसि स्थितम् ॥क॥

विश्वास-प्रस्तुतिः

एकस्माद् ईश्वरान् नित्याच् चेतनात् तादृशा मिथः ।
भिद्यन्ते बहवो जीवास् तेन भेदः सनातनः ॥ ४ ॥
प्राणैकाधीन-वृत्तित्वाद् वागादेः प्राणता यथा ।
तथा ब्रह्माधीन-वृत्तेर् जगतो ब्रह्मतोच्यते ॥ ५ ॥

श्रुत्यर्थं योजयति एकस्मादिति । यः परेशो नित्यश् चेतन एकोनित्यानां चेतनानां बहूनां जीवानां कामान् वाञ्छितानि, यथा साधनं विदधाति । तं ये धीराः पश्यन्ति ध्यायन्ति, तेषां शान्तिः संसार दुःखनिवृत्तिः शाश्वतीति तदर्थः । न खलु नित्यानां चेतनानां अविद्याकल्पितत्वं प्रेक्षावता शक्यमभिधातुं, इत्येकजीववादकण्ठकुठाररूपमेतद्वाक्यं । तादृशा इति, नित्याश्चेतनाश्चेत्यर्थः । तेनेति, नित्यानां चेतनानां नित्यात् चेतनात् भेदप्रतिपादनेन इत्यर्थः ॥४॥

विश्वास-प्रस्तुतिः

नन्वेवं सर्वं खल्विदं ब्रह्म, तत्त्वमसि, इत्यादेः कागतिर् इतिचेत् तत्राह प्राणैकेति ॥५॥

तथा हि छान्दोग्ये पठ्यते (छा। उ।, ५.१.१५)—

न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्य् आचक्षते । प्राण इत्य् एवाचक्षते प्राणो ह्य् एवैतानि सर्वाणि भवति ॥ (क) ॥

नवै इति, वागादीनामिन्द्रियाणां वागादि शब्दैर्नाभिधानं । किन्तु प्राणायत्तवृत्तिकत्वात् प्राणशब्देनैवाभिधानं, प्राणरूपत्वञ्च यथाभवति, एवं ब्रह्मायत्तवृत्तिकत्वात् चिज्जडात्मकस्य प्रपञ्चस्य ब्रह्मशब्देनाभिधानं ब्रह्मरूपत्वञ्च इति ॥क॥

विश्वास-प्रस्तुतिः

ब्रह्म-व्याप्यत्वतः कैश्चिज् जगद् ब्रह्मेति मन्यते ॥ ६ ॥

मूलम्

ब्रह्म-व्याप्यत्वतः कैश्चिज् जगद् ब्रह्मेति मन्यते ॥ ६ ॥

कान्तिमाला

यद्धि यद्द्याप्यं तत् तद्रूपमिति सङ्केतान्तरेणापि तदद्द्वैतवाक्यं सङ्गमनीयमित्याह ब्रह्मेति ॥६॥

विश्वास-प्रस्तुतिः

यद् उक्तं श्री-विष्णु-पुराणे (वि।पु। १.९.६९)—

योऽयं तवागतो देव समीपं देवतागणः । सत्यमेव जगत्स्रष्टा यतः सर्वगतो भवान् ॥ (क) ॥

मूलम्

यद् उक्तं श्री-विष्णु-पुराणे (वि।पु। १.९.६९)—

योऽयं तवागतो देव समीपं देवतागणः । सत्यमेव जगत्स्रष्टा यतः सर्वगतो भवान् ॥ (क) ॥

कान्तिमाला

योऽयमिति श्रीविष्णुं प्रति देवानां वाक्यं । स्फुटार्थ । इत्थं च स एव मायेत्यादौ जीवस्य परमात्माभेदः तदायत्त वृत्तिकत्वादिभ्यां व्याख्यातो बोध्यः ॥क॥

विश्वास-प्रस्तुतिः

प्रतिबिम्ब-परिच्छेद-पक्षौ यौ स्वीकृतौ परैः ।
विभुत्वाविषयत्वाभ्यां तौ विद्वद्भिर् निराकृतौ ॥ ७ ॥

मूलम्

प्रतिबिम्ब-परिच्छेद-पक्षौ यौ स्वीकृतौ परैः ।
विभुत्वाविषयत्वाभ्यां तौ विद्वद्भिर् निराकृतौ ॥ ७ ॥

कान्तिमाला

उपाधौ प्रतिबिम्बितं तेन परिच्छिन्नं वा ब्रह्म जीवरूपस्यात् । उपाधेर्विगमे तु ब्रह्मवैकमित्याहुः केवलाद्द्वैतिनः । तन्निराकर्तुमाह प्रतिबिम्बेति । ब्रह्मणो विभुत्वात् नैरूप्याच्च न तस्य प्रतिबिम्बं । परिच्छेदविषयत्वास्वीकाराच्च न तस्य परिच्छेदः । वास्तवे परिच्छेदे टङ्कच्छिन्नपाषाणखण्डव-द्विकारित्वाद्यापत्तिः ॥७॥

विश्वास-प्रस्तुतिः

अद्वैतं ब्रह्मणो भिन्नम् अभिन्नं वा त्वयोच्यते ।
आद्ये द्वैतापत्तेर् अन्ते सिद्ध-साधनता-श्रुतेः ॥ ८ ॥

मूलम्

अद्वैतं ब्रह्मणो भिन्नम् अभिन्नं वा त्वयोच्यते ।
आद्ये द्वैतापत्तेर् अन्ते सिद्ध-साधनता-श्रुतेः ॥ ८ ॥

कान्तिमाला

क्षोदाक्षमत्वादप्यद्वैतं नाभ्युपेयमित्याह अद्वैतम् इति । जीव ब्रह्मणोरद्वैतं ब्रह्मणो भिन्नं न वा, नाद्यः, द्वैतापत्तेः । नान्त्यः, प्रतिपादयन्त्या श्रुतेः सिद्धसाधनता पातात् । अद्वैतं हि ब्रह्मात्मकं अतः सिद्धं तदस्ति किं तत् प्रतिपादनेन ॥८॥

विश्वास-प्रस्तुतिः

अलीकं निर्गुणं ब्रह्म प्रमाणाविषयत्वतः ।
श्रद्धेयं विदुषां नैवेत्य् ऊचिरे तत्त्व-वादिनः ॥ ९ ॥
इति प्रमेय-रत्नावल्यां भेद-सत्यत्व-प्रकरणं नाम चतुर्थ-प्रमेयम्
॥ ४ ॥

मूलम्

अलीकं निर्गुणं ब्रह्म प्रमाणाविषयत्वतः ।
श्रद्धेयं विदुषां नैवेत्य् ऊचिरे तत्त्व-वादिनः ॥ ९ ॥
इति प्रमेय-रत्नावल्यां भेद-सत्यत्व-प्रकरणं नाम चतुर्थ-प्रमेयम्
॥ ४ ॥

कान्तिमाला

ननु साक्षी चेताः केवलो निर्गुणश्च इति श्रुतेः निर्गुणमेव । ब्रह्म वास्तवं तत्राह अलीकमिति । न तावत् निर्गुणे ब्रह्मणि प्रत्यक्षं प्रमाणं रूपाद्यभावात् । नाप्यनुमानं तद्द्व्याप्य लिङ्गाभावात् । न च शब्दः प्रवृत्तिनिमित्तानां जात्यादीनां तस्मिन्नभावात् । न च तत्र भागलक्षणया भाव्यं, सर्वशब्दावाच्ये तदसम्भवादिति पूर्वमेवोक्तं ॥९॥

॥ इति प्रमेयरत्नावल्यां भेदसत्यत्वप्रकरणं व्याख्यातं ॥

(५)