विश्वास-प्रस्तुतिः
स्व-शक्त्या सृष्टवान् विष्णुर् यथार्थं सर्वविज् जगत् ।
इत्य् उक्तेः सत्यम् एवैतद्-वैराग्यार्थम् असद्-वचः ॥ १ ॥
मूलम्
स्व-शक्त्या सृष्टवान् विष्णुर् यथार्थं सर्वविज् जगत् ।
इत्य् उक्तेः सत्यम् एवैतद्-वैराग्यार्थम् असद्-वचः ॥ १ ॥
कान्तिमाला
प्रपञ्चसत्यत्वं वक्तुमाह अथेत्यादिना स्वशक्त्येति । ननु तस्मादिदं जगदशेषमसतस्वरूपं जगत्सत्यत्ववादिनां कथं सङ्गच्छेत तत्राह वैराग्यार्थमिति । अनित्यजगत्सुखतृष्णापरित्यागार्थमेव नतु तन्मृषात्वार्थ, तत्सत्यत्वे प्रमाणलाभादितिभावः ॥१॥
विश्वास-प्रस्तुतिः
तथा हि श्वेताश्वतरोपनिषदि (श्वे।उ। ४.१)
य एकोऽवर्णो बहुधा शक्ति-योगाद् वर्णान् अनेकान् निहितार्थो दधाति ॥ इति ॥ (क) ॥
मूलम्
तथा हि श्वेताश्वतरोपनिषदि (श्वे।उ। ४.१)
य एकोऽवर्णो बहुधा शक्ति-योगाद् वर्णान् अनेकान् निहितार्थो दधाति ॥ इति ॥ (क) ॥
कान्तिमाला
स्वशक्त्येत्येतत् प्रमाणयति य इति । य ईश्वरः स्वयमवर्णः ब्राह्मणादिभिन्नः स्वशक्ति योगादनेकान् ब्राह्मणादीन् वर्णान् दधाति उत्पादयतीत्यर्थः । वर्णो द्विजादौशुक्लादौ स्तुतौ रूपयशोक्षरे इतिविश्वः यद्वा, स्वयं अवर्णः रूपरहितोऽनेकान् शुक्लादीन् अर्थान् निहितार्थः चेतसि धृतप्रयोजनः ॥क॥
विश्वास-प्रस्तुतिः
श्री-विष्णु-पुराणे च (वि।पु। १.२२.५४)—
एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगत् ॥ इति ॥ (ख) ॥
मूलम्
श्री-विष्णु-पुराणे च (वि।पु। १.२२.५४)—
एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगत् ॥ इति ॥ (ख) ॥
कान्तिमाला
एकदेशेति । परमव्योमनिलयस्य हरेः शक्तिकार्य्यमेतत् तदतिदूरं इदं परिदृश्यमानं जगदिति समुदायार्थः ॥ख॥
विश्वास-प्रस्तुतिः
ईशावास्योपनिषदि (ई।उ। ८)—
स पर्यगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरं शुद्धम् अपाप-विद्धम् । कविर् मनीषी परिभूः स्वयम्भूर् याथा-तथ्यतोऽर्थान् व्यदधाच् छाश्वतीभ्यः समाभ्यः ॥ इति ॥ (ग) ॥
मूलम्
ईशावास्योपनिषदि (ई।उ। ८)—
स पर्यगाच् छुक्रम् अकायम् अव्रणम् अस्नाविरं शुद्धम् अपाप-विद्धम् । कविर् मनीषी परिभूः स्वयम्भूर् याथा-तथ्यतोऽर्थान् व्यदधाच् छाश्वतीभ्यः समाभ्यः ॥ इति ॥ (ग) ॥
कान्तिमाला
यथार्थमिति सर्वविदिति च प्रमाणयति, सपर्यागादिति । स प्रकृतः परमात्मा परितोऽगात् सर्व व्यापत्, शुक्लमित्याद्याःशब्दाः पुंस्त्वेन विपरिणम्याः स इत्युपक्रमात् शुक्रो दीप्तिमान्, अकायोऽस्थाविर इतिसूक्ष्मस्थूलदेहशून्य, अव्रणः अक्षतः विनाशशून्यः, शुद्धः रागाद्यनाविलः; अपापविद्धः कर्मशून्यः कवि सर्वज्ञः, मनीषी चतुरः, परिभूः मायाभिभवी, स्वयम्भुः निर्हेतुकः याथातथ्यतः सत्यतया, ऋतं सत्यं समीचीनं सम्यक्तथ्य यथातथं इतिहलायुधः । अर्थान् महदादीन्, समाः सम्वत्सरान् व्याप्य, सम्वत्सरो वत्सरोऽब्दो हायनोऽस्त्रीशरत्समा इत्यमरः ॥ग॥
विश्वास-प्रस्तुतिः
श्री-विष्णु-पुराणे च (वि।पु। १.२२.५८)—
तद् एतद् अक्षयं नित्यं जगन् मुनि-वराखिलम् । आविर्भाव-तिरोभाव-जन्म-नाश-विकल्पवत् ॥ इति ॥ (घ) ॥
मूलम्
श्री-विष्णु-पुराणे च (वि।पु। १.२२.५८)—
तद् एतद् अक्षयं नित्यं जगन् मुनि-वराखिलम् । आविर्भाव-तिरोभाव-जन्म-नाश-विकल्पवत् ॥ इति ॥ (घ) ॥
कान्तिमाला
तदेतदिति । एतदीश्वरजीवप्रकृतिरूपं अखिलं जगत् हे मुनिवर! अक्षयं नित्यं प्रकृतिजीवरूपमक्षयंस्वरूपेण क्षयरहितं परिणामीत्यर्थः । प्रकृते महदादितया जीवस्य च ज्ञानविकाशेन परिणामः । ईश्वररूपन्तुनित्यं कूटस्थं, एतदेवाह आविर्भावेति । ईश्वरांश आविर्भावतिरोभाववान् प्रकृतिजीवरूपोऽंशस्तु जन्मनाशवानिति वा पाठक्रममनादृत्य अर्थक्रमाद्व्याख्यातं । पूर्वत्र हि, द्वेरूपे ब्रह्मणस्तस्य मूर्तञ्चामूर्तमेवच । क्षराक्षरस्वरूपे ते सर्वभूतेष्ववस्थिते ॥ अक्षरन्तत्परम्ब्रह्म क्षरंसर्वमिदञ्जगत् ॥ इत्युक्त्वा, तन्मध्ये ब्रह्मविष्ण्वीश रूपाणि पठित्वा, तदनन्तरं तदेतदिति पठितं ॥घ॥
विश्वास-प्रस्तुतिः
महाभारते च (म। भा।, अश्वमेध ३५.३४)—
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः । सत्याद् भूतानि जातानि सत्यं भूत-मयं जगत् ॥ इति ॥ (ङ) ॥
मूलम्
महाभारते च (म। भा।, अश्वमेध ३५.३४)—
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः । सत्याद् भूतानि जातानि सत्यं भूत-मयं जगत् ॥ इति ॥ (ङ) ॥
कान्तिमाला
ब्रह्मेति । सच्चिदानन्दं सत्यसङ्कल्पं यद्ब्रह्म तत् सत्यं, आलोचनात्मकं यत् तस्य तपःतत्सत्यं, तेन ब्रह्मणा, सनाभिकमलादुत् पादितो यः प्रजापतिस्तत् सत्यं, सत्यात् तस्माज्जातानि भूतानि, अतो भूतमयं जगत् सत्यं ॥ङ॥
विश्वास-प्रस्तुतिः
आत्मा वा इदम् इत्य् आदौ वन-लीन-विहङ्गवत् ।
सत्त्वं विश्वस्य मन्तव्यम् इत्य् उक्तं वेद-वेदिभिः ॥ २ ॥
इति प्रमेय-रत्नावल्यां विश्व-सत्यत्व-प्रकरणं नाम
तृतीय-प्रमेयम्
॥ ३ ॥
मूलम्
आत्मा वा इदम् इत्य् आदौ वन-लीन-विहङ्गवत् ।
सत्त्वं विश्वस्य मन्तव्यम् इत्य् उक्तं वेद-वेदिभिः ॥ २ ॥
इति प्रमेय-रत्नावल्यां विश्व-सत्यत्व-प्रकरणं नाम
तृतीय-प्रमेयम्
॥ ३ ॥
कान्तिमाला
ननु आत्मा वा इदमेक एवाग्र आसीत् इत्यादि श्रुतिषु पूर्वं परमात्मैक आसीत् नतु प्रपञ्चोऽपि । आत्मैवेदमिति सामानाधिकरण्यव्यपदेशस्तु रज्जुभुजङ्गवत् आत्मनि तस्याध्यस्तत्वा देव ततो मिथ्यैव स इति चेत् तत्राह आत्मेति । वने लीनो विहङ्गो हि यथा तत्रास्त्येव, तथा आत्मनि लीनः प्रपञ्चः सौक्ष्म्येण अस्त्येव । अन्यथा सत्कार्य्यतापत्तिः ॥२॥
॥ इति प्रमेयरत्नावल्यां विश्वसत्यत्व प्रकरणं व्याख्यातं ॥३॥
…
(४)