विश्वास-प्रस्तुतिः
यथा श्री-गोपालोपनिषदि (गो।टा।उ।, २.२७)—
योऽसौ सर्वैर् वेदैर् गीयते ॥ इति ॥ (क) ॥
मूलम्
यथा श्री-गोपालोपनिषदि (गो।टा।उ।, २.२७)—
योऽसौ सर्वैर् वेदैर् गीयते ॥ इति ॥ (क) ॥
कान्तिमाला
सर्ववेदबोध्यत्वं हरेर्वक्तुमाह अथेतियोऽसाविति । यः श्रीगोपालः कृष्णः ॥क॥
विश्वास-प्रस्तुतिः
काठके च (क।उ। १.२.१५)—
सर्वे वेदा यत् पदम् आमनन्ति तपांसि सर्वाणि च यद् वदन्ति ॥ इति ॥ (ख) ॥
मूलम्
काठके च (क।उ। १.२.१५)—
सर्वे वेदा यत् पदम् आमनन्ति तपांसि सर्वाणि च यद् वदन्ति ॥ इति ॥ (ख) ॥
कान्तिमाला
सर्वे इति । यत्पदं यद्ब्रह्माख्यं वस्तु, पदं व्यवसितित्राणेत्यादुक्तेः ॥ख॥
विश्वास-प्रस्तुतिः
श्री-हरि-वंशे च—
वेदे रामायणे चैव पुराणे भारते तथा । आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयते ॥ इति ॥ (ग) ॥
मूलम्
श्री-हरि-वंशे च—
वेदे रामायणे चैव पुराणे भारते तथा । आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयते ॥ इति ॥ (ग) ॥
कान्तिमाला
वेदेरामायणे इतिस्फुटार्थ ॥ग॥
विश्वास-प्रस्तुतिः
साक्षात्-परम्पराभ्यां वेदा गायन्ति माधवं सर्वे ।
वेदान्ताः किल साक्षाद् अपरे तेभ्यः परम्परया ॥ १ ॥
मूलम्
साक्षात्-परम्पराभ्यां वेदा गायन्ति माधवं सर्वे ।
वेदान्ताः किल साक्षाद् अपरे तेभ्यः परम्परया ॥ १ ॥
कान्तिमाला
ननु वेदेषु कर्मप्रतिपादनं भूरि दृष्टं कथमुक्तोदाहरणानि सङ्गच्छेरन् इति चेत् तत्राह साक्षादिति । वेदान्ताः साक्षान्माधवं गायन्ति तेभ्योऽपरेवेदाः कर्मकाण्डानि तु परस्परया, तज्ज्ञानाङ्ग हृद्विशुद्धिकरकर्मविधानपरीपाट्येति सर्ववेद वेद्यत्वं हरेः सूपपन्नम् ॥१॥
विश्वास-प्रस्तुतिः
क्वचित् क्वचिदवाच्यत्वं यद्वेदेषु विलोक्यते ।
कार्त्स्न्येन वाच्यं न भवेदिति स्यात्तत्र सद्गतिः ।
अन्यथा तु तदारम्भो व्यर्थः स्यादिति मे मतिः ॥ २ ॥
मूलम्
क्वचित् क्वचिदवाच्यत्वं यद्वेदेषु विलोक्यते ।
कार्त्स्न्येन वाच्यं न भवेदिति स्यात्तत्र सद्गतिः ।
अन्यथा तु तदारम्भो व्यर्थः स्यादिति मे मतिः ॥ २ ॥
कान्तिमाला
ननु यतोवाचोनिवर्तन्ते इत्यादौ हरेर्वेदावाच्यत्वन्दृष्टं तत्र कागतिरिति चेत्तत्राहसाक्षादिति क्वचिदिति । दृष्टोपि मेरुः कार्त्स्नेना दर्शनाददृष्टो यथोच्यते तद्वत् । अन्यथा सर्वथा तदवाच्यत्वे तज्ज्ञानाय वेदाध्ययनारभो । निरर्थकः स्यात् ॥२॥
विश्वास-प्रस्तुतिः
शब्दप्रवृत्तिहेतूनां जात्यादीनामभावतः ।
ब्रह्म निर्धर्मकं वाच्यं नैवेत्याहुर्विपश्चितः ॥ ३ ॥
सर्वैः शब्दैरवाच्ये तु लक्षणा न भवेदतः ।
लक्ष्यं च न भवेद् धर्महीनं ब्रह्मेति मे मतम् ॥ ४ ॥
इति प्रमेय-रत्नावल्यां अखिलाम्नाय-वेद्यत्व-प्रकरणं नाम
द्वितीय-प्रमेयम्
॥ २ ॥

शब्देति । निर्विशेष ब्रह्मवादिनान्तु, ब्रह्मणि जातिगुणक्रियासञ्ज्ञानामभावात्तद्वाचिभिर् वेदशब्दैर् न तद्वाच्यं ॥३॥
नच लक्षणया वेदशब्दानां तत्र प्रवृत्तेर् न तदारम्भोव्यर्थः इति चेत् तत्राह सर्वैरिति । सर्वशब्दावाच्यं ब्रह्म त्वया स्वीकृतं । तत्र लक्षणा न सम्भवेत् । सोऽयं देवदत्त इत्यत्र पिण्डशब्द वाच्ये पिण्डे भागलक्षणा दृष्टा ॥४॥
॥ इति प्रमेयरत्नावल्यां हरेर् वेदवेद्यत्वं प्रकरणं व्याख्यातं ॥२॥
…
(३)