०१ भगवत्-पारतम्यम्

विश्वास-प्रस्तुतिः

जयति श्री-गोविन्दो गोपीनाथः समदन-गोपाल ।
वक्ष्यामि यस्य कृपया प्रमेय-रत्नावलीं सूक्ष्माम् ॥१॥

मूलम्

जयति श्री-गोविन्दो गोपीनाथः समदन-गोपाल ।
वक्ष्यामि यस्य कृपया प्रमेय-रत्नावलीं सूक्ष्माम् ॥१॥

विश्वास-प्रस्तुतिः

गौडोदयमुपयातस्तमः समस्तं निहन्ति यो युगपत् ।
ज्योतिश्च योऽतिशीतः पीतस्तमुपास्महे कृताञ्जलयः ॥

मूलम्

गौडोदयमुपयातस्तमः समस्तं निहन्ति यो युगपत् ।
ज्योतिश्च योऽतिशीतः पीतस्तमुपास्महे कृताञ्जलयः ॥

कान्तिमाला

विद्याभूषणापरनाम्ना बलदेव श्रीगोविन्दैकान्तिना ब्रह्मसूत्रेषु गोविन्दभाष्याभिधानंव्याख्यानं विरचितम् । अथ कैश्चिच्छिष्यैर्भाष्य प्रमेयाणि परिपृष्टः, स तानि सङ्क्षेपाद्वक्ष्यन्निर्विघ्नतायै तत्पूर्तये मङ्गलमाचरति—जयतीति । कीदृशः श्रीगोविन्द इत्याह गोपीनाथो वल्लवीकान्तः । मदयति मनांसि । भक्तानामिति मदनः गाः पालयतीति गोपालः ततः कर्मधारयः । स्फुटार्थमन्यत् । श्लेषेण वृन्दाटवी-मधिष्ठितानां श्रीगोविन्दादिसञ्ज्ञानां निखिलचैतन्यभक्ताभीष्टानां त्रयाणामर्च्चावताराणां जयाशंसनम् ॥ उभयत्र प्रणतिलक्षणमङ्गलं कृतम् जयतिना तस्याक्षेपात् ॥१॥

विश्वास-प्रस्तुतिः

भक्ति-आभासेनापि तोषं दधाने
धर्माध्यक्षे विश्व-निस्तारित-नाम्नि
नित्यानन्दाद्वैत-चैतन्य-रूपे
तत्त्वे तस्मिन् नित्यम् आस्तां रतिर् नः ॥२॥

मूलम्

भक्ति-आभासेनापि तोषं दधाने
धर्माध्यक्षे विश्व-निस्तारित-नाम्नि
नित्यानन्दाद्वैत-चैतन्य-रूपे
तत्त्वे तस्मिन् नित्यम् आस्तां रतिर् नः ॥२॥

कान्तिमाला

पुनरपि तत्र रतिप्राथनं मङ्गलमाह—भक्त्येति । तत्त्वे परमात्मनि कृष्णे (तत्त्वं वाक्यप्रभेदे स्यात्स्वरूपे परमात्मनीति विश्वः) कीदृशीत्याह—भक्त्याभासेनापीति । यथा पुत्रोद्देश्येन नामोच्चारयत्यजामिले तुष्टिदृष्टा । धर्माध्यक्षे प्रवर्तके । नित्यं आनन्दो यस्य तन्नित्यानन्दञ्च, नास्ति द्वैतं देहदेहिभेदो यस्यतदद्वैतञ्च, चैतन्यं विज्ञानञ्चेति कर्मधारयः । तद्रूपे तदात्मके। पक्षे कलावस्मिन् श्रीकृष्णः सङ्कर्षणेन शम्भुना च सहितो जनानुद्धर्तुमवततार । तत्र श्रीकृष्णस्य चैतन्य इति सङ्कर्षणस्य नित्यानन्द इति शम्भोस्त्वद्वैत इति नामाऽभूत् । तस्मिन् त्रिरूपे तत्वे नो रति नित्यमास्ताम् अन्यत् प्राग्वत् । प्रमाणं त्वत्राकरग्रन्थाद् ग्राह्यम् ॥२॥

विश्वास-प्रस्तुतिः

आनन्द-तीर्थ-नामा सुख-मय-धामा यतिर् जीयात् ।
संसारार्णव-तरणिं यम् इह जनाः कीर्तयन्ति बुधाः ॥३॥

मूलम्

आनन्द-तीर्थ-नामा सुख-मय-धामा यतिर् जीयात् ।
संसारार्णव-तरणिं यम् इह जनाः कीर्तयन्ति बुधाः ॥३॥

कान्तिमाला

अथ पूर्वाचार्य प्रणमत्यानन्देति। आनन्दतीर्थ इति श्रीमध्वाचार्यस्य नामान्तरम् । यतिः परिव्राट् । तरणिं नौकाम् ॥३॥

विश्वास-प्रस्तुतिः

भवति विचिन्त्या विदुषां निरवकरा गुरु-परम्परा नित्यम् ।
एकान्तित्वं सिद्ध्यति ययोदयति येन हरितोषः ॥४॥

मूलम्

भवति विचिन्त्या विदुषां निरवकरा गुरु-परम्परा नित्यम् ।
एकान्तित्वं सिद्ध्यति ययोदयति येन हरितोषः ॥४॥

कान्तिमाला

भाष्यप्रमेयाणि यतो लब्धानि, सा गुरुपरम्परा ध्येयेत्याह भवतीति । गुरुपरम्परा देशिकवंशः । (परम्परा परीपाठ्यांसन्तानेऽपि बधे क्वचिदिति विश्वः) निरवकरा निर्दोषा । तस्या ध्यानेन किं स्यादित्यत्राह । यया परम्परया ध्यातया ध्यात्रेकान्तित्वं सिद्ध्यति, हर्येकनिष्ठत्वं भवन्ति । येनैकान्तित्वेन हरितोष उदयति तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियोहि ज्ञानिनोऽत्यर्थमहं सच ममप्रिय इत्यादि स्मृतेः ॥४॥

विश्वास-प्रस्तुतिः

यद् उक्तं पद्म-पुराणे –

सम्प्रदाय-विहीना ये मन्त्रास् ते निष्फला मताः । अतः कलौ भविष्यन्ति चत्वारः सम्प्रदायिनः श्री-ब्रह्म-रुद्र-सनकाः वैष्णवाः क्षिति-पावनाः चत्वारस् ते कलौ भाव्या ह्य् उत्कले पुरुषोत्तमात् ॥क॥

प्रमेयोपदेशपथप्रवर्तकाश्चत्वारः प्रागभुवन् । तेभ्यो गङ्गाप्रवाहवदपरे प्रचारिताः । तदुपदिष्टेन पथा विना मन्त्रशास्त्रादुपलब्धा विष्णुमन्त्रा मुक्तिदा न भवन्ति । इत्यत्रपाद्मवाक्यमाहसम्प्रदायेति शिष्टाऽनुशिष्टगुरूपदिष्टो मार्गः सम्प्रदायः । शिष्टत्वं वेदप्रमाण्याभ्युपगन्तृत्वम् । अतः सम्प्रदायविहीनानां विष्णुमत्राणां जप्तानामपि वैफल्याद्धेतोः कलौ तदारम्भे सम्प्रदायिन स्ते केऽभूवन् तत्राह—श्रीपति । पुरुषोत्तमादिति । जगन्नाथात्तत् प्रेषणात्तत्क्षेत्रादित्यर्थः ॥क॥

विश्वास-प्रस्तुतिः

रामानुजं श्रीः स्वीचक्रे मध्वाचार्यं चतुर्मुखः श्री-विष्णु-स्वामिनं रुद्रो निम्बादित्यं चतुःसनः ॥ख॥

मूलम्

रामानुजं श्रीः स्वीचक्रे मध्वाचार्यं चतुर्मुखः श्री-विष्णु-स्वामिनं रुद्रो निम्बादित्यं चतुःसनः ॥ख॥

कान्तिमाला

आदिभूतास्ते चत्वारः स्वस्वसम्प्रदायान् प्रौढान् वीक्ष्य स्ववंश्येषु तद्भुर्याश्चतुरश्चक्रुरित्याह—रामेति । श्रीलक्ष्मीः स्वसम्प्रदायप्रवर्त्तनमतया रामानुजं स्वीचक्रे । स्फुटार्थ मन्यत् ॥ख॥

विश्वास-प्रस्तुतिः

तत्र स्व-गुरु-परम्परा, यथा—

श्री-कृष्ण-ब्रह्म-देवर्षि-बादरायण-सञ्ज्ञकान् श्री-माध्व-श्री-पद्मनाभ-श्रीमन्-नरहरि-माधवान् अक्षोभ्य-जयतीर्थ-ज्ञानसिन्धु-दयानिधीन् श्री-विद्यानिधि-राजेन्द्र-जयधर्मान् क्रमाद् वयम् पुरुषोत्तम-ब्रह्मण्य-व्यासतीर्थांश् च संस्तुमः ततो लक्ष्मीपतिं माधवेन्द्रं च भक्तितः तच्-छिष्यान् श्रीश्वराद्वैत-नित्यानन्दान् जगद्-गुरून् देवम् ईश्वर-शिष्यं श्री-चैतन्यं च भजामहे श्री-कृष्ण-प्रेम-दानेन येन निस्तारितं जगत् ॥ (ग) ॥

मूलम्

तत्र स्व-गुरु-परम्परा, यथा—

श्री-कृष्ण-ब्रह्म-देवर्षि-बादरायण-सञ्ज्ञकान् श्री-माध्व-श्री-पद्मनाभ-श्रीमन्-नरहरि-माधवान् अक्षोभ्य-जयतीर्थ-ज्ञानसिन्धु-दयानिधीन् श्री-विद्यानिधि-राजेन्द्र-जयधर्मान् क्रमाद् वयम् पुरुषोत्तम-ब्रह्मण्य-व्यासतीर्थांश् च संस्तुमः ततो लक्ष्मीपतिं माधवेन्द्रं च भक्तितः तच्-छिष्यान् श्रीश्वराद्वैत-नित्यानन्दान् जगद्-गुरून् देवम् ईश्वर-शिष्यं श्री-चैतन्यं च भजामहे** **श्री-कृष्ण-प्रेम-दानेन येन निस्तारितं जगत् ॥ (ग) ॥

कान्तिमाला

मुख्यप्रयोजनाभावात् श्र्यादिपरम्परां विहाय स्वकीयां ब्रह्मपरम्परामाह कृष्णेति । ब्रह्मणः श्रीकृष्णशिष्यत्वं श्रीगोपालपूर्वतापिन्यांविस्फुटम् । श्रीमध्वमुनेर्वादरायणशिष्यत्वं त्वैतिह्यप्रसिद्धम् । मध्वशङ्करौ सहस्रविद्वद्गोष्ठीमध्यस्थौ मणिकर्णिकायामनशनतया विचारं चक्रतुः । तत्र नभसि नीलाभ्रप्रख्यः सवैर्दृष्टो व्यासो मध्वमतं स्वीचकार । शङ्करमतन्त्वत्याक्षीदिति प्रसिद्धम् । तच्छिष्यानिति तस्य श्रीमाधवेन्द्रस्य शिष्यान् श्रीश्वराचार्याद्वैताचार्यनित्यानन्दान् । देवमिति । माधवेन्द्रस्य ईश्वरः, ईश्वरस्य श्रीकृष्णचैतन्य इति । इत्थञ्च त्रयाणां प्रभूणां वश्यैरिदानीन्तनैः सम्बध्य स्वस्वगुरुपरम्परा । सर्वैर्बोद्धव्या इति दर्शितम् । येनेति श्रीचैतन्येन ॥ग॥

विश्वास-प्रस्तुतिः

अथ प्रमेयाण्य् उद्दिश्यन्ते—

श्री-मध्वः प्राह विष्णुं परतमम् अखिलाम्नाय-वेद्यं च विश्वं
सत्यं भेदं च जीवान् हरि-चरण-जुषस् तारतम्यं च तेषाम् ।
मोक्षं विष्ण्व्-अङ्घ्रि-लाभं तद् अमल-भजनं तस्य हेतुं प्रमाणं
प्रत्यक्षादि-त्रयं चेत्य् उपदिशति हरिः कृष्ण-चैतन्य-चन्द्रः ॥५॥

एवं स्वगुरुपरम्परामाख्याय तत्प्रमेयाणि तावदुदिदशति श्रीमध्व इति ।

विश्वास-प्रस्तुतिः

मध्वो मुनिरस्मत् पूर्वाचार्यो विष्णुं परतममखिलाम्नायवेद्यञ्चाह । तस्य सर्वजीवाभिन्नतां चिन्मात्राद्वितीयतयाम्नायलक्ष्यताञ्च निरस्यति-विश्वं भेदञ्च सत्यमाह । आविद्यकत्वात् प्रपञ्चस्तद्भेदश्चमृषेति परोत्प्रेक्षितं कुमतं निराकरोतीत्यर्थः । जीवान् बद्धमुक्तान् नित्यमुक्तान् सर्वान् हरिचरणजुषो हरेर्दासानाह, तेषां हर्यात्म कत्वं निराकरोति । तेषां जीवानां तारतम्यं स्वरूपसाम्ये सत्यपि साधनोज्जृम्भितैः फलैः वैषम्यमाह । त्रिदण्डिप्रतिपादितं फलतोऽपि साम्यं निराकरोति । जीवानां विष्ण्वघ्रिलाभं विष्णुसाक्षात्कारं मोक्षमाह, पराभिमतां तेषां विष्णुरूपतां निराकरोति । तस्य विष्णोरमलं निष्कामं यद्भजनं तत्तस्य मोक्षस्य हेतुमाह । ब्रह्माहमस्मीति ज्ञानस्य मोक्षहेतुतां निराकरोति । प्रत्यक्षादीनि त्रीणि स्वमते प्रमाणान्याह, तेभ्योऽधिकान्युपमानादीनि निराकरोति । इत्येतान्येव मध्वमुनिस्वीकृतानि नवप्रमेयाणि श्रीकृष्णचैतन्यहरि स्तदन्वयगृहीतदीक्षः स्वशिष्यानुपदिशति । उभयत्र लट् प्रयोग स्तयोः सत्वात् । जगत्प्राणो वायुर्देवो विष्णोरेकान्तीति केनोपनिषदि प्रसिद्धम्। यो हनुमान् सन् श्रीराघवेन्द्रं भीमः सन् श्रीयादवेन्द्रं मध्वः सन् पाराशर्य श्रीमुनीन्द्रञ्च तत्तन्मतप्रतीपान् खण्डयन् प्रतोषयामास । यद्यपि श्रीकृष्णचैतन्य ईश्वर स्तथापि तन्मतं सर्वोत्तमंवीक्ष्य तदन्वये दीक्षां स्वीचकार लोकसङ्ग्रहेच्छुः । यत्र विशुद्धं द्वैतं हरेरात्ममूर्तित्वादिति च वर्ण्यते ॥५॥

तस्य श्री-विष्णोः परतमत्वं, यथा श्री-गोपालोपनिषदि—तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं भजेत् तं यजेत् ॥ इति ॥क॥

एवमुद्दिष्टानि प्रमेयाणि क्रमात् सप्रमाणानि कर्तुप्रवर्त्ततेतत्र श्रीविष्णोरित्यादिभिः । परतमत्वं श्रेष्ठतमत्वम् । तस्मादितिपूतोक्तादर्थप्रचयाद्धेतोः, तन्मन्त्रतद्वाच्यतया द्वेधा सन्त ध्यायेत् स्मरेत् रसेत् जपेत् भजेत् परिचरेत यजेत्—अर्चयेदिति ॥क॥

विश्वास-प्रस्तुतिः

श्वेताश्वतरोपनिषदि (१.११-१२) च –

ज्ञात्वा देवं सर्व-पाशापहानिः क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः तस्याभिध्यानात् तृतीयं देह-भेदे विश्वैश्वर्यं केवल आप्त-कामः ॥ (ख) ॥ इति ।

मूलम्

श्वेताश्वतरोपनिषदि (१.११-१२) च –

ज्ञात्वा देवं सर्व-पाशापहानिः क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः तस्याभिध्यानात् तृतीयं देह-भेदे विश्वैश्वर्यं केवल आप्त-कामः ॥ (ख) ॥ इति ।

कान्तिमाला

ज्ञावेति । शास्त्रात् सद्गुरूक्तात्, देवे परेशं ज्ञात्वावस्थितस्य मुमुक्षोः सर्वेषां देहदैहिकममतापाशानां हानिर्भवति । तत् पाशजन्यैः क्लेशैः क्षीणैर्विशिष्टस्य तस्याः प्रारब्धभोगपूर्तेः पुनः पुनर्जायमानस्य जन्ममृत्युप्रहाणिर्भवति ।विडालीदन्तस्पर्शेन तदर्भकस्येव जन्मादिना दुःखं तस्य न भवतीत्यर्थः । अथोत्तरोत्तरं तस्य देवस्याभिध्यानात् देहस्य लिङ्गशरीरस्य भेदे विनाशे सति चान्द्रब्राह्मापेक्षया तृतीयं भागवतं पदं स देवध्यायी लभते विमुक्तो भवतीत्यर्थः । कीदृशं तृतीयं तदित्याहँविश्वैश्वर्यं कृत्स्नविभुतिकङ्केवलं प्रकृत्यस्पुष्टं ततः स देवध्यायी आप्तकामः पूर्णाभिलाषो भवति ॥ख॥

विश्वास-प्रस्तुतिः

एतज् ज्ञेयं नित्यम् एवात्म-संस्थं नातः परं वेदितव्यं हि किञ्चित् ॥ (ग) ॥ इति च ।

मूलम्

एतज् ज्ञेयं नित्यम् एवात्म-संस्थं नातः परं वेदितव्यं हि किञ्चित् ॥ (ग) ॥ इति च ।

कान्तिमाला

एतद्देवात्मकं वस्तु ज्ञेयं, अतःपरमन्यद्वेदितव्यं किञ्चिन्नास्ति तस्यैव पारतम्यात् ॥ग॥

विश्वास-प्रस्तुतिः

श्री-गीतासु (७.७) च –

मत्तः परतरं नान्यत् किं चिद् अस्ति धनञ्जय ॥(घ)॥ मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥ इति ॥

मूलम्

श्री-गीतासु (७.७) च –

मत्तः परतरं नान्यत् किं चिद् अस्ति धनञ्जय ॥(घ)॥ मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥ इति ॥

कान्तिमाला

मत्त इति परतरं मत्तोऽन्यत् किञ्चिन्नास्तीति मामेव सर्वोत्तमं विद्धीत्यर्थः । परमेव परतरं स्वार्थे प्रत्ययस्तरः ॥घ॥

विश्वास-प्रस्तुतिः

हेतुत्वाद् विभु-चैतन्यानन्दत्वादि-गुणाश्रयात् ।
नित्य-लक्ष्म्यादि-मत्वाच् च कृष्णः परतमो मतः ॥६॥

मूलम्

हेतुत्वाद् विभु-चैतन्यानन्दत्वादि-गुणाश्रयात् ।
नित्य-लक्ष्म्यादि-मत्वाच् च कृष्णः परतमो मतः ॥६॥

कान्तिमाला

यैर्हेतुभिर्विष्णोः पारतम्यं तानाह हेतुत्वादिति । हेतुत्वम्प्रपञ्चनिमित्तोपादानत्वं । तत्र पराख्यशक्तिमत्वेन निमित्तत्त्वं प्रधान क्षेत्रज्ञशक्तिमत्वेन तूपादानत्वं बोध्यं, स्फुटार्थमन्यत् ॥६॥

विश्वास-प्रस्तुतिः

तत्र सर्व-हेतुत्वं यथाहुः श्वेताश्वतराः (५.४) –

सर्वा दिश ऊर्ध्वम् अधश् च तिर्यक् प्रकाशयन् भ्राजते यद्वनड्वान् । एकः स देवो भगवान् वरेण्यो योनि-स्वभावान् अधितिष्ठत्य् एकः ॥ (क) इति ।

मूलम्

तत्र सर्व-हेतुत्वं यथाहुः श्वेताश्वतराः (५.४) –

सर्वा दिश ऊर्ध्वम् अधश् च तिर्यक् प्रकाशयन् भ्राजते यद्वनड्वान् । एकः स देवो भगवान् वरेण्यो योनि-स्वभावान् अधितिष्ठत्य् एकः ॥ (क) इति ।

कान्तिमाला

एक इति । सदेवो भगवान् एकः सर्वोत्तमः, अतो वरेण्यः पूज्यः । योनीनां प्रधानमहदादीनां कारणतत्त्वानां स्वभावान् स्वरूपाणि एकः सहायरहितः पराख्यशक्तिवेशोऽधितिष्ठति वशे संस्थापयति । (एके मुख्यान्यकेवलाः इत्यमरः), (योनिः स्यादाकरेभगे इति विश्वः), (योनिः कारणे भगताम्रयोः इति हेमश्च), (स्वरूपञ्च स्वभावश्च इत्यमरः) यद्वा एकः । तेभ्योऽन्यस्तदस्पृष्ट इत्यर्थः ॥क॥

विश्वास-प्रस्तुतिः

यच् च स्वभावं पचति विश्व-योनिः पाच्यांश् च सर्वान् परिणामयेद् यः ॥ (ख) ॥ (श्वे।उ। ५.५)

मूलम्

यच् च स्वभावं पचति विश्व-योनिः पाच्यांश् च सर्वान् परिणामयेद् यः ॥ (ख) ॥ (श्वे।उ। ५.५)

कान्तिमाला

यच्चेति । यो देवः स्वभावं तेषां प्रधानादीनां स्वरूपाणि पचति महदादिकार्याविर्भावकतया आभिमुख्यं नयतीत्यर्थः । पाच्यांस्तदाभिमुख्ययोग्यान् सर्वान् प्रधानादीनर्थान् यो देवः परिणामयेन्महदाद्यवस्थां नयेदित्यर्थः । एवं पराख्यशक्तिवेशो यो विश्वनिमित्तं स एव प्रधानक्षेत्रज्ञशक्तिवेशोविश्वयोनिर्जगदुपादानमित्यर्थः ॥ख॥

विश्वास-प्रस्तुतिः

विभु-चैतन्यानन्दत्वं, यथा काठके—

महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति ॥ (ग) ॥ (क।उ। ४.४)

मूलम्

विभु-चैतन्यानन्दत्वं, यथा काठके—

महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति ॥ (ग) ॥ (क।उ। ४.४)

कान्तिमाला

महान्तं पूज्यं मत्वा ज्ञात्वा उपास्य चेत्यर्थः ॥ग॥

विश्वास-प्रस्तुतिः

विज्ञान-सुख-रूपत्वम् आत्म-शब्देन बोध्यते ।
अनेन मुक्त-गम्यत्व-व्यूत्पत्तेर् इति तद्-विदः ॥७॥

मूलम्

विज्ञान-सुख-रूपत्वम् आत्म-शब्देन बोध्यते ।
अनेन मुक्त-गम्यत्व-व्यूत्पत्तेर् इति तद्-विदः ॥७॥

कान्तिमाला

नन्वस्माद्वाक्याद्विभुत्वं प्राप्तं, चैतन्यानन्दत्वं न प्राप्यते । इति चेत्तत्राह—विज्ञानेति । अत्यते लभ्यते मुक्तैरयमित्यात्मा अततेः कर्मणि मनिन् । मुक्ताः खलु तादृशमेव तं ध्यायन्ति लभन्ते चेति भावः ॥७॥

विश्वास-प्रस्तुतिः

वाजसनेयिनश् चाहुः—

विज्ञानम् आनन्दं ब्रह्म रातिर् दातुः परायणम् ॥ (क) ॥ (बृ।आ।उ। ३.९.२८.७)

मूलम्

वाजसनेयिनश् चाहुः—

विज्ञानम् आनन्दं ब्रह्म रातिर् दातुः परायणम् ॥ (क) ॥ (बृ।आ।उ। ३.९.२८.७)

कान्तिमाला

तथात्वे वाचनिकमाह—विज्ञानमिति । दातुर्यजमानस्य, रातिः फलार्पकम् ॥क॥

विश्वास-प्रस्तुतिः

श्री-गोपालोपनिषदि च—

तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् ॥ (ख) ॥

मूलम्

श्री-गोपालोपनिषदि च—

तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् ॥ (ख) ॥

कान्तिमाला

तमेकमिति स्फुटार्थम् ॥ख॥

विश्वास-प्रस्तुतिः

मूर्तत्वं प्रतिपत्तव्यं चित्-सुखस्यैव रागवत् ।
विज्ञान-घन-शब्दादि-कीर्तनाच् चापि तस्य तत् ।
देह-देहि-भिदा नास्तीत्य् एतेनैवोपदर्शितम् ॥८॥

मूलम्

मूर्तत्वं प्रतिपत्तव्यं चित्-सुखस्यैव रागवत् ।
विज्ञान-घन-शब्दादि-कीर्तनाच् चापि तस्य तत् ।
देह-देहि-भिदा नास्तीत्य् एतेनैवोपदर्शितम् ॥८॥

कान्तिमाला

ननु मूर्तत्वं चित्सुखवस्तुनः कथं? तत्राह—मूर्तत्वमिति भैरवादे रागस्य गान्धर्ववासिते श्रोत्रे यथा मूर्तत्वं प्रतीतं, तथा भक्ति भाविते मनसि तस्य तत्वमित्यर्थः विज्ञानघनानन्दघनसच्चिदानन्दैकरसे भक्तियोगे तिष्ठतीति गोपालोपनिषदि (गोपालोत्तरतापनी-८६) ब्रह्मणि विज्ञानघनादिशब्दप्रयोगाच्च तस्य तत्वम् । मूर्तौधनः (पा। ३.३.७७) इति सूत्रेण काठिन्येऽर्थे हन्तेरपप्रत्ययो घनाश्चादेशोऽनुशिष्टः सैन्धवघन इति तस्योदाहरणम् तदिदमचिन्त्य-शक्तिसिद्धं बोध्यम् । देहदेहीति । एतेनचित्सुखवस्तुनः मूर्तत्वसमर्थनेन परेशदेहदेहिभेदो नास्तीति चोक्तमित्यर्थः ॥८॥

विश्वास-प्रस्तुतिः

मूर्तत्वस्यैव विभुत्वं यथा श्वेताश्वतरोपनिषदि—

वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस् तेनेदं पूर्णं पुरुषेण सर्वम् ॥ (क) ॥ (श्वे।उ। ३.९)

मूलम्

मूर्तत्वस्यैव विभुत्वं यथा श्वेताश्वतरोपनिषदि—

वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस् तेनेदं पूर्णं पुरुषेण सर्वम् ॥ (क) ॥ (श्वे।उ। ३.९)

कान्तिमाला

ननु मूर्तत्वे विभुत्वं न स्यात्, तत्राह—मूर्तस्येवेति । वृक्ष इति । एकः सर्वाध्यक्षः पुरुषोहरिर्दिवि परव्योम्नि तिष्ठति, स खलु स्वेतरसर्वनमस्यत्वात् वृक्ष इव स्तब्धः कञ्चिदपि प्रति नम्रो नेत्यर्थः । तेनैकेन पुरुषेण सर्वमिदं जगत् पूर्णं व्याप्तम् । अत्र पुरुषो दिवि तिष्ठतीति मूर्तत्वम्, तेनेदं पूर्णमिति तस्येव विभुत्वमागतम् ॥क॥

विश्वास-प्रस्तुतिः

द्युस्थोऽपि निखिल-व्यापीत्य् आख्यानान् मूर्तिमान् विभुः ।
युगपद् ध्यातृ-वृन्देषु साक्षात्काराच् च तादृशः ॥९॥

मूलम्

द्युस्थोऽपि निखिल-व्यापीत्य् आख्यानान् मूर्तिमान् विभुः ।
युगपद् ध्यातृ-वृन्देषु साक्षात्काराच् च तादृशः ॥९॥

कान्तिमाला

मिथोऽतिदूरेषु ध्यातृवृन्देषु सिद्धप्रेमसु युगपद् तस्य प्रत्यक्षत्वाच्च तस्य मूर्तस्य विभुत्वं, नच धावन् सन्निदध्यात्, योगपद्यविरोधात् ॥९॥

विश्वास-प्रस्तुतिः

श्री-दशमे (१०.९.१३-१४) च—

न चान्तर्-बहिर् यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ॥ तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ (क) ॥

न चान्तरिति । यस्य अन्तर्बहिरादिदेशपरिच्छेदो नास्त्यतो यो जगतः पूर्वादिषु देशेषु युगपदस्ति, यश्च स्वशक्त्याजगन्मयस्तमात्मजं गोपी यशोदा सापराधं मत्वा उलूखले दाम्ना बबन्ध । तं कीदृशं, इत्याह—मर्त्यलिङ्गं द्विभुजमनुष्याकृतिं, अधोक्षजं त्यक्तैन्द्रियक मुखं स्वानुबन्धिसुखवन्तमित्यर्थः । प्राकृतं यथेत्युक्तेर्विज्ञानघनत्वं स्पष्टं विभोरेवमूर्तत्वञ्च ॥क॥

विश्वास-प्रस्तुतिः

श्री-गीतासु (९.४-५) च—

मया ततम् इदं सर्वं जगद्-अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥ न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ (ख) ॥

मूलम्

श्री-गीतासु (९.४-५) च—

मया ततम् इदं सर्वं जगद्-अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥ न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ (ख) ॥

कान्तिमाला

मयेति । अव्यक्तमूर्तिना प्रत्यग्विग्रहेण मयेदं सर्वं जगत् ततं व्याप्तं, सर्वभूतानि मत्स्थानि मया धृतानि न चाहं तेषु अवस्थितः, तैर्भृतो नाहम् । तानि च भूतानि कलसे जलानीव मयि न धृतानि, किन्तु मत्सङ्कल्पेनैव तानि धृतानि इति भावेनाह—न च मदिति । ननु कथमेवं सम्भवेदिति चेत्तत्राह—पश्येति ईश्वरस्य ममासाधारणं योगं पश्येति ॥ख॥

विश्वास-प्रस्तुतिः

अनन्त्या शक्तिर् अस्तीशे योग-शब्देन योच्यते ।
विरोध-भञ्जिका सा स्याद् इति तत्त्व-विदां मतम् ॥ १० ॥

मूलम्

अनन्त्या शक्तिर् अस्तीशे योग-शब्देन योच्यते ।
विरोध-भञ्जिका सा स्याद् इति तत्त्व-विदां मतम् ॥ १० ॥

कान्तिमाला

युज्यते दुर्घटेषु कार्येष्वनेनेति व्युत्पत्तेरचिन्त्या शक्तियोगः ॥१०॥

विश्वास-प्रस्तुतिः

आदिना सर्वज्ञत्वं यथा मुण्डके (१.१.९, २.२.७)—

यः सर्वज्ञः सर्व-वित् ॥ (क) ॥

मूलम्

आदिना सर्वज्ञत्वं यथा मुण्डके (१.१.९, २.२.७)—

यः सर्वज्ञः सर्व-वित् ॥ (क) ॥

कान्तिमाला

विभुचैतन्यानन्दत्वादीत्यत्रादिपदग्राह्यमाह, आदिनेति । सर्वजानातीति सर्वज्ञः, सर्वं विन्दतीति सर्ववित् ॥क॥

विश्वास-प्रस्तुतिः

आनन्दित्वं च तैत्तिरीयके (२.९.१)—

आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्चन ॥ (ख) ॥

मूलम्

आनन्दित्वं च तैत्तिरीयके (२.९.१)—

आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्चन ॥ (ख) ॥

कान्तिमाला

आनन्दमिति । ब्रह्मणो धर्मभूतमानन्दं विद्वान् कुतश्चन कालकर्मादेर् नविभेति धर्म वेदी विमुच्चयते इत्यर्थः ॥ख॥

विश्वास-प्रस्तुतिः

प्रभुत्व-सुहृत्त्व-ज्ञानदत्व-मोचकत्वानि च श्वेताश्वतर-श्रुतौ (३.१७)—

सर्वस्य प्रभुम् ईशानं सर्वस्य शरणं सुहृत् ॥ (ग) ॥

मूलम्

प्रभुत्व-सुहृत्त्व-ज्ञानदत्व-मोचकत्वानि च श्वेताश्वतर-श्रुतौ (३.१७)—

सर्वस्य प्रभुम् ईशानं सर्वस्य शरणं सुहृत् ॥ (ग) ॥

कान्तिमाला

सर्वस्येति । प्रभुत्वं प्रभावशालित्वं, ईशानत्वं नियन्तृत्वं, सौहार्यं निर्निमित्तहितकारित्वं ॥ग॥

विश्वास-प्रस्तुतिः

प्रज्ञा च तस्मात् प्रसृता पुराणी ॥ (घ) ॥ (श्वे।उ। ४.१४)

मूलम्

प्रज्ञा च तस्मात् प्रसृता पुराणी ॥ (घ) ॥ (श्वे।उ। ४.१४)

कान्तिमाला

प्रज्ञाचेति । तस्मादुपासितादीशात् जीवानां पुराणी सनातनी प्रज्ञा धर्मभूता सम्वित् प्रसृता भवति प्रकटीभवतीत्यर्थः ॥घ॥

विश्वास-प्रस्तुतिः

संसार-मोक्ष-स्थिति-बन्ध-हेतुः ॥ (ङ) ॥ (श्वे।उ। ६.१६)
माधुर्यं च, श्री-गोपालोपनिषदि (पूर्व १०)— सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् । द्विभुजं ज्ञान-मुद्राढ्यं वनमालिनम् ईश्वरम् ॥ (च) ॥

माधुर्यञ्चेति । मनुष्यभावेनैव पारमैश्वर्यसाध्यकार्यकारित्वं तदित्यर्थः । यथा स्तनचुषणेन पूतनाप्राणहरणं, कोमलाङ्घ्रिहत्यातिकठोर शकटभङ्गः सप्ताब्दिक्या मूर्त्या गिरिराजस्य धारणमित्यादि । मनुष्यभावमुदाहरति सत्पुण्डरीकेति ॥च॥

विश्वास-प्रस्तुतिः

न भिन्ना धर्मिणो धर्मा भेद-भानं विशेषतः ।
यस्मात् कालः सर्वदास्तीत्य् आदि-धीर् विदुषाम् अपि ॥ ११ ॥

मूलम्

न भिन्ना धर्मिणो धर्मा भेद-भानं विशेषतः ।
यस्मात् कालः सर्वदास्तीत्य् आदि-धीर् विदुषाम् अपि ॥ ११ ॥

कान्तिमाला

ननु विभुत्वादयो धर्मा हरेर् भिन्ना न वा? नाद्यः । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति इति तद्भेदनिषेधकश्रुति व्याकोपात् । नान्त्यः । प्रत्याख्येयनैर्गुण्यापत्तेरिति चेत्तत्र समाधिर् न भिन्ना इति । भेदाभावेऽपि विशेषाभेदकार्यमस्ति इति न नैर्गुण्यापत्तिः । विशेषश्च भेदप्रतिनिधिर् न भेदः । नन्वेवं कुत्रदृष्टं तत्राह । यस्मात् काल इति । आदिनासत्तासतीत्यादिसङ्ग्रहः । अत्र कालस्य कालाश्रयत्वं सत्तायाश्च सत्त्वाश्रयत्वं, भेदाभावेपि यथा प्रतीयते तथा प्रकृतेऽपीत्यर्थः । अत्राधिकन्तु सुसूक्ष्मात् गोविन्द भाष्यादधिगन्तव्यम् ॥११॥

विश्वास-प्रस्तुतिः

एवम् उक्तं नारद-पञ्चरात्रे—

निर्दोष-पूर्ण-गुण-विग्रह आत्म-तन्त्रो निश्चेतनात्मक-शरीर-गुणैश् च हीनः । आनन्द-मात्र-कर-पाद-मुखोदरादिः सर्वत्र च स्व-गत-भेद-विवर्जितात्मा ॥ (क) ॥

मूलम्

एवम् उक्तं नारद-पञ्चरात्रे—

निर्दोष-पूर्ण-गुण-विग्रह आत्म-तन्त्रो निश्चेतनात्मक-शरीर-गुणैश् च हीनः । आनन्द-मात्र-कर-पाद-मुखोदरादिः सर्वत्र च स्व-गत-भेद-विवर्जितात्मा ॥ (क) ॥

कान्तिमाला

निर्दोषेति । मुग्धत्वादिदोषशून्यः सार्वज्ञ्यादिगुणपूर्णो विग्रहो यस्य स भगवान् विष्णुः, किं मायिनामिवविशुद्ध सत्तात्मकस्तस्य विग्रह स्तत्राह, निश्चेतनात्मकेति । चिद्विग्रहो विशेषाच्चिद्गुणकतया प्रतीत इत्यर्थः । किं साङ्ख्यानामिव चिदेकधातु स्तत्राह आनन्दमात्रेति चिदानन्दविग्रह इत्यर्थः । किं विष्वक्सेनानुयायिनामिव देहदेहिभेदवान् तत्राह सर्वत्रेति । देहदेहिभावे गुणगुणिभावे च स्वगत भेदेनापि रहित इत्यर्थः । त्रिविधो हि भेदः । आम्रः पनसो नेति सजातीय भेदः, आम्रः पाषाणो नेति विजातीयभेदः, आम्र-पुष्पाणि आम्रो न इति स्वगतो भेदः ॥क॥

विश्वास-प्रस्तुतिः

अथ नित्य-लक्ष्मीकत्वं यथा विष्णु-पुराणे—

नित्यैव सा जगन्-माता विष्णोः श्रीर् अनपायिनी । यथा सर्व-गतो विष्णुस् तथैवेयं द्विजोत्तम ॥ (ख) ॥

मूलम्

अथ नित्य-लक्ष्मीकत्वं यथा विष्णु-पुराणे—

नित्यैव सा जगन्-माता विष्णोः श्रीर् अनपायिनी । यथा सर्व-गतो विष्णुस् तथैवेयं द्विजोत्तम ॥ (ख) ॥

कान्तिमाला

नित्यैवेति । अनपायिनी नित्यसम्बन्धा स्वरूपानुबन्धिनीत्यर्थः ॥ख॥

विश्वास-प्रस्तुतिः

विष्णोः स्युः शक्तयस् तिस्रस् तासु या कीर्तिता परा ।
सैव श्रीस् तद्-अभिन्नेति प्राह शिष्यान् प्रभुर् महान् ॥ १२ ॥

मूलम्

विष्णोः स्युः शक्तयस् तिस्रस् तासु या कीर्तिता परा ।
सैव श्रीस् तद्-अभिन्नेति प्राह शिष्यान् प्रभुर् महान् ॥ १२ ॥

कान्तिमाला

एतत् प्रतिपादयितुं विष्णोः स्युरिति । ननु क्वचिन् नित्यमुक्तजीवत्वं लक्ष्म्याः स्वीकृतं, तत्राह प्राहेति । नित्यैवेति पद्ये, सर्वव्याप्तिकथनेन कला काष्ठेत्यादि पद्यद्वये, शुद्धोपीत्युक्त्याच महाप्रभुना स्वशिष्यान् प्रति लक्ष्म्यां भगवदद्वैतमुपदिष्टं । क्वचिद्यत्तस्यास्तु द्वैतमुक्तं तत्तुतदाविष्टनित्यमुक्तजीवमादायसङ्गतमस्तु ॥१२॥

विश्वास-प्रस्तुतिः

तत्र त्रिशक्तिर् विष्णुः, यथा श्वेताश्वतरोपनिषदि—

परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च ॥ (क) ॥

मूलम्

तत्र त्रिशक्तिर् विष्णुः, यथा श्वेताश्वतरोपनिषदि—

परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च ॥ (क) ॥

कान्तिमाला

परास्येति। स्वाभाविकी वह्न्युष्णता इव स्वरूपानुबन्धिनी, ज्ञानबलक्रिया, सम्वित् सन्धिनी ह्लादिनी रूपा क्रमाद्वोध्या ॥क॥

विश्वास-प्रस्तुतिः

प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः ॥ (ख) ॥
श्री-विष्णु-पुराणे (६.७.६१) च— विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्या-कर्म-सञ्ज्ञान्या तृतीया शक्तिर् इष्यते ॥ (ग) ॥

मूलम्

प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः ॥ (ख) ॥
श्री-विष्णु-पुराणे (६.७.६१) च— विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्या-कर्म-सञ्ज्ञान्या तृतीया शक्तिर् इष्यते ॥ (ग) ॥

कान्तिमाला

विष्णुशक्तिरिति । अविद्येति कर्मेति च सञ्ज्ञा यस्याः सा अन्या तृतीयाशक्ति स्त्रिगुणा मायेत्यर्थः ॥ग॥

विश्वास-प्रस्तुतिः

परैव विष्ण्व्-अभिन्ना श्रीर् इत्य् उक्तं तत्रैव (वि।पु। १.९.४४-४५)—

कला-काष्ठा-निमेषादि-काल-सूत्रस्य गोचरे । यस्य शक्तिर् न शुद्धस्य प्रसीदतु स नो हरिः ॥ प्रोच्यते परमेशो यः यः शुद्धोऽप्य् उपचारतः । प्रसीदतु स नो विष्णुर् आत्मा यः सर्व-देहिनाम् ॥ (घ) ॥

कलेति कलादिलक्षणो यः कालस्तदेवसूत्रं जगच्चेष्टानियामकत्वाद्रज्जुः तस्य गोचरे विषये यस्यपराख्याशक्तिर्नास्ति स विष्णुर्नः प्रसीदतु । यः केवलः पराभेदरहितोप्युपचारात् परमेशः प्रोच्यते । पराचासौ मा च लक्ष्मीस्तस्या ईशःस्वामीति निगद्यते इत्यर्थः, यः प्रसिद्धः स नः प्रसीदतु । स्फुटमन्यत् ॥घ॥

विश्वास-प्रस्तुतिः

एषा परैव त्रिवृद् इत्य् अप्य् उक्तं, तत्रैव (वि।पु। १.१२.६९)—

ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये । ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ (ङ) ॥

मूलम्

एषा परैव त्रिवृद् इत्य् अप्य् उक्तं, तत्रैव (वि।पु। १.१२.६९)—

ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये । ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ (ङ) ॥

कान्तिमाला

एषेति । त्रिवृत् त्रैरूप्येण विभाता । ह्लादिनीति । ह्लादात्मापि यया ह्लादते, भवति ह्लादवान् साह्लादिनी । सदात्मापि ययासत्तां धत्ते सा सर्वदेशकालव्याप्तिहेतुः सन्धिनी । संविदात्मापि यया संवेत्ति सा सम्वित् । एका विशेषबलनिर्भातभेदकार्यापि निर्भेदेत्यर्थः । सत्वांशेन ह्लादकरी, रजोऽंशेन तापकरी, या मिश्रा त्रिगुणा शक्तिः सा त्वयि नो वर्त्तते, कुत इत्यत्राह, गुणवर्जिते माया गुणापृष्टे इत्यर्थः ॥ङ॥

विश्वास-प्रस्तुतिः

एकोऽपि विष्णुर् एकापि लक्ष्मीस् तद्-अनपायिनी ।
स्व-सिद्धैर् बहुभिर् वेशैर् बहुर् इत्य् अभिधीयते ॥ १३ ॥

मूलम्

एकोऽपि विष्णुर् एकापि लक्ष्मीस् तद्-अनपायिनी ।
स्व-सिद्धैर् बहुभिर् वेशैर् बहुर् इत्य् अभिधीयते ॥ १३ ॥

कान्तिमाला

यथा श्रीनारदपञ्चरात्रे, मणिर्यथा विभागेन नील पीतादिभिर्युतः रूपभेदमवाप्नोति ध्यानभेदात् तथा विभुः । इति मणिरत्र वैदूर्यम् । नील पीतादय स्तद्गुणाः । एवं एकमेव परन्तत्त्वं पुरुषोत्तमतया स्त्र्यत्तमतया च द्वेधा प्रकाशते । तस्य तस्याश्च वैदुर्यमणिवत् बहूनि रूपाणि सन्तीत्याह एकोपि इति । स्वसिद्धैः स्वरूपानुबन्धिभिः । वेशैः संस्थानैः बहुर् बह्वी चोच्यते ॥१३॥

विश्वास-प्रस्तुतिः

तत्रैकत्वे सत्य् एव विष्णोर् बहुत्वं, यथा श्री-गोपालोपनिषदि (पूर्व २०)—

एको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन् बहुधा योऽवभाति । तं पीठ-स्थं ये तु यजन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् ॥ (क) ॥

एको इति । बहुधा मत्स्यकूर्मादिरूपप्राकट्येन ॥क॥

विश्वास-प्रस्तुतिः

अथ लक्ष्म्यास् तद् यथा—परास्य शक्तिर् विविधैव श्रूयते ॥ (ख) ॥ (श्वे।उ। ९.८)

मूलम्

अथ लक्ष्म्यास् तद् यथा—परास्य शक्तिर् विविधैव श्रूयते ॥ (ख) ॥ (श्वे।उ। ९.८)

कान्तिमाला

अथेति । तद्वहुत्वं ॥ परास्येति विविधा जानकी रुक्मिण्यादि रूप प्राकट्येन नानारूपा ॥ख॥

विश्वास-प्रस्तुतिः

पूर्तिः सार्वत्रिकी यद्यप्य् अविशेषा तथापि हि ।
तारतम्यं च तच्-छक्ति-व्यक्त्य-व्यक्ति-कृतं भवेत् ॥ १४ ॥

मूलम्

पूर्तिः सार्वत्रिकी यद्यप्य् अविशेषा तथापि हि ।
तारतम्यं च तच्-छक्ति-व्यक्त्य-व्यक्ति-कृतं भवेत् ॥ १४ ॥

कान्तिमाला

विष्णोर् लक्ष्म्या श्चावतारेषु पूर्तिर् यद्यपि तुल्या तथापि गुण प्राकट्यतारतम्यादंशांशिभावो प्यस्तीत्याह पूर्तिरिति । सार्वत्रिकी सर्वेष्ववतारेषु वर्तमाना अंविशेषा तुल्या ॥१४॥

विश्वास-प्रस्तुतिः

तत्र विष्णोः सार्वत्रिकी पूर्तिर्, यथा वाजसनेयके (बृ।आ।उ। ५.१.१)—

पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते । पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते ॥ (क) ॥

मूलम्

तत्र विष्णोः सार्वत्रिकी पूर्तिर्, यथा वाजसनेयके (बृ।आ।उ। ५.१.१)—

पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते । पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते ॥ (क) ॥

कान्तिमाला

पूर्णमिति अदोऽवतारिरूपं इदं अवताररूपं उभय पूर्ण सर्वशक्तिमत पूर्णादवतारिरूपात् पूर्णमवताररूपं लीलाविस्ताराय स्वयमुदच्यते प्रादुर्भवति । तल्लीलापूतौ पूर्णस्यावताररूपस्य पूर्णं स्वरूपमादाय स्वस्मिन्नैक्यं नीत्वा पूर्णमवतारिरूप मन्यत्राविलीन सदवशिष्यते तिष्ठतीत्यर्थः ॥ अत्र ऐक्यमुक्तं पार्थक्येनस्थिति श्चोच्यते तदिदं यथेष्टं बोध्यं ॥क॥

विश्वास-प्रस्तुतिः

महावाराहे च—

सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः । हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् ॥ परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः । सर्वे सर्व-गुणैः पूर्णाः सर्व-दोष-विवर्जिताः ॥ (ख) ॥

सर्वे इति । शाश्वताः जगति पुनः पुनराविर्भाविनः देहाः स्वरूपानुबन्धिनो विग्रहाः, स्वरूपानुबन्धित्वादेव हानेन उपादानेन च वर्जिताः ॥ स्फुटार्थ मन्यत् ॥ख॥

विश्वास-प्रस्तुतिः

अथ श्रियः सा यथा श्री-विष्णु-पुराणे (१.९.१४०-१४३)—

एवं यथा जगत्-स्वामी देव-देवो जनार्दनः । अवतारं करोत्य् एष तथा श्रीस् तत्-सहायिनी ॥ पुनश् च पद्माद् उद्भूता आदित्योऽभूद् यदा हरिः । यदा च भार्गवो रामस् तदाभूद् धरणी त्व् इयम् ॥ राघवत्वेऽभवत् सीता रुक्मिणी कृष्ण-जन्मनि । अन्येषु चावतारेषु विष्णोर् एषा सहायिनी ॥ देवत्वे देव-देहेयं मनुष्यत्वे च मानुषी । विष्णोर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम् ॥ (ग) ॥

अथेति । सा पूर्तिः । तामुदाहरति एवं यथा इति । प्रकटार्थं । देवत्वे इति । करोति प्रकटयति ॥ग॥

विश्वास-प्रस्तुतिः

स्यात् स्वरूप-सती पूर्तिर् इहैक्याद् इति विन् मतम् ॥ १५ ॥

मूलम्

स्यात् स्वरूप-सती पूर्तिर् इहैक्याद् इति विन् मतम् ॥ १५ ॥

कान्तिमाला

स्यात् इति । एषुवाक्येषु सैव सर्वत्रेति सर्वेषां प्रादुर्भावानां अभेदान् सर्वेषु तेषु स्वरूपसती पूर्ति रस्त्येवेति श्रुति युक्तिविदां मतं इत्यर्थः । अन्यथा स्वरूपपूर्ते रभावे तदभेदो गौणःस्यात् ॥१५॥

विश्वास-प्रस्तुतिः

अथ तथापि तारतम्यम्—तत्र श्री-विष्णोस् तद् यथा श्री-भागवते (भा।पु। १.३.२८)—

एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् ॥ (क) ॥

मूलम्

अथ तथापि तारतम्यम्—तत्र श्री-विष्णोस् तद् यथा श्री-भागवते (भा।पु। १.३.२८)—

एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् ॥ (क) ॥

कान्तिमाला

अथेति । यद्यप्यविशेषा पूर्तिरस्ति तथापि तारतम्यमंशांशिभावोप्यस्ति इत्यर्थः ॥ एतेचेति । एते चतुर्विंशतिः पुंसो गर्भोदशायिनोऽशकलाः कथिताः । तन्मध्यपठितः श्रीकृष्णस्तु स्वयं भगवान् अनन्यापेक्षिरूपो मूलमित्यर्थः ॥क॥

विश्वास-प्रस्तुतिः

अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल ॥ इति च ॥ (ख) ॥ (भा।पु। ९.२४.५५)

मूलम्

अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल ॥ इति च ॥ (ख) ॥ (भा।पु। ९.२४.५५)

कान्तिमाला

तयोर् देवकी वसुदेवयोः ॥ख॥

विश्वास-प्रस्तुतिः

अथ श्रियस् तद् यथा पुरुष-बोधिन्याम् अथर्वोपनिषदि—गोकुलाख्ये माथुर-मण्डल इत्य् उपक्रम्य द्वे पार्श्वे चन्द्रावली राधिका चेत्य् अभिधाय परत्र यस्या अंशे लक्ष्मी-दुर्गादिका शक्तिर् इति ॥ (ग) ॥

अथेति । श्रियस्तत्तारतम्यं ॥ गोकुलाख्य इति । अत्रांशिन्याः श्रीराधायाः लक्ष्म्यादयोऽंशा इत्यर्थो विस्फुटः । दुर्गात्र मन्त्र राजाधिष्टात्री, नतु प्राकृती ॥ग॥

विश्वास-प्रस्तुतिः

गौतमीय-तन्त्रे च—

देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ (घ) ॥

मूलम्

गौतमीय-तन्त्रे च—

देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ (घ) ॥

कान्तिमाला

देवीति । राधिका देवी परेत्यन्वयः । अतः कृष्णमयी कृष्णात्मिका तथापि परदेवता कृष्णार्चिका सर्वलक्ष्मीमयी, पुरुषबोधिनीश्रुतेः, निखिलानूं लक्ष्मीणामंशिनी, सर्वासां तासां कान्तिरिच्छा पूज्यत्वाभिलाषो यस्यां सा, सन्मोहिनी कृष्णानुरञ्जिका ॥घ॥

विश्वास-प्रस्तुतिः

अथ नित्य-धामत्वम् आदि-शब्दात्, यथा छान्दोग्ये (छा।उ। ७.२४.१)—

स भगवः कस्मिन् प्रतिष्ठित इति । स्वे महिम्नीति ॥ (ङ) ॥

मूलम्

अथ नित्य-धामत्वम् आदि-शब्दात्, यथा छान्दोग्ये (छा।उ। ७.२४.१)—

स भगवः कस्मिन् प्रतिष्ठित इति । स्वे महिम्नीति ॥ (ङ) ॥

कान्तिमाला

नित्यलक्ष्यादिमत्त्वा दित्यत्रादिपदग्राह्यमाह । भगवः भगवन् हे सनत्कुमार सभूमाख्योहरिर् इत्यादि प्रश्नः, स्वेमहिम्नीति तदुत्तरं ॥ङ॥

विश्वास-प्रस्तुतिः

दिव्ये ब्रह्म-पुरे ह्य् एष संव्योम्न्य् आत्मा प्रतिष्ठित ॥ (च) इति च ॥ (मु।उ। २.२.७) ॥

मूलम्

दिव्ये ब्रह्म-पुरे ह्य् एष संव्योम्न्य् आत्मा प्रतिष्ठित ॥ (च) इति च ॥ (मु।उ। २.२.७) ॥

कान्तिमाला

दिव्य इति । पुरे विचित्र प्रासादादिशालिनि ॥च॥

विश्वास-प्रस्तुतिः

ऋक्षु च (ऋग् वेद, १.१५४.६)—

ता वां वास्तून्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह तद् उरुगायस्य वृष्णः परमं पदम् अवभाति भूरि ॥ (छ) ॥

मूलम्

ऋक्षु च (ऋग् वेद, १.१५४.६)—

ता वां वास्तून्य् उश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह तद् उरुगायस्य वृष्णः परमं पदम् अवभाति भूरि ॥ (छ) ॥

कान्तिमाला

तामिति तां तानि वां युवयो राधिका कृष्णयोर्वास्तूनि गृहानि गमध्ये प्राप्तुं उस्मसि कामयामहे । यत्र येषु गादो भूरि शृङ्गाः प्रशस्तविषाणाः सन्ति । अयासः शुभावहविधिरूपाः, अयः शुभावहोविधिरित्यमरः वाञ्छितदात्र्य इत्यर्थः ॥ अत्रार्थे श्रुतिराह । वृष्णःभक्तेच्छावर्षिणः कृष्णस्यतत् परमं पदं भूरि प्रचुरमवभाति नास्त्यस्य सङ्ख्येत्यर्थः ॥छ॥

विश्वास-प्रस्तुतिः

श्री-गोपालोपनिषदि च (उत्तर ३५)—

तासां मध्ये साक्षाद् ब्रह्म-गोपाल-पुरी हि ॥ (ज) ॥

मूलम्

श्री-गोपालोपनिषदि च (उत्तर ३५)—

तासां मध्ये साक्षाद् ब्रह्म-गोपाल-पुरी हि ॥ (ज) ॥

कान्तिमाला

तासामिति । सप्तानां पुरीणाम्मध्ये गोपालस्यपुरी मथुरा साक्षाद्ब्रह्म, तत्पराख्यशक्तिरूपत्वेन ताद्रूप्यात् अभिव्यक्तबृहद्गुणत्वाच्च ॥ज॥

विश्वास-प्रस्तुतिः

जितन्ते-स्तोत्रे च—

लोकं वैकुण्ठ-नामानं दिव्य-षाड्गुण्य-संयुतम् । अवैष्णवानाम् अप्राप्यं गुण-त्रय-विवर्जितम् ॥ नित्य-सिद्धैः समाकीर्णं तन्-मयैः पाञ्च-कालिकैः । सभा-प्रासाद-संयुक्तं वनैश् चोपवनैः शुभम् ॥ वापी-कूप-तडागैश् च वृक्ष-षण्डैः सुमण्डितम् । अप्राकृतं सुरैर् वन्द्यम् अयुतार्क-सम-प्रभम् ॥ इति ॥ (झ) ॥

लोकमित्यादि । प्रस्फुटार्थ ॥ पाञ्चकालिकैरिति । अभिगमनोपादानेज्याध्ययनसमाधयः पञ्चकालास्तत् परायणैर् इत्यर्थः ॥झ॥

विश्वास-प्रस्तुतिः

ब्रह्म-संहितायां च (ब्र।सं। ५.२)—

सहस्र-पत्रं कमलं गोकुलाख्यं महत् पदं । तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् ॥ इति ॥ (ञ) ॥

मूलम्

ब्रह्म-संहितायां च (ब्र।सं। ५.२)—

सहस्र-पत्रं कमलं गोकुलाख्यं महत् पदं । तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् ॥ इति ॥ (ञ) ॥

कान्तिमाला

सहस्रेति महतः स्वयं भगवतः पदं स्थानं, पदं व्यवसितित्राणस्थान लक्ष्माङ्घ्रिवस्तुषु इत्यमरः । अनन्तस्य सङ्कर्षणस्यांशेन । सम्भवः प्राकट्यं अनादितो यस्यतत् ॥ञ॥

विश्वास-प्रस्तुतिः

प्रपञ्चे स्वात्मकं लोकम् अवतार्य महेश्वरः ।
आविर्भवति तत्रेति मतं ब्रह्मादि-शब्दतः ॥ १६ ॥
गोविन्दे सच्-चिद्-आनन्दे नर-दारकता यथा ।
अज्ञैर् निरूप्यते तद्वद् धाम्नि प्राकृतता किल ॥ १७ ॥

मूलम्

प्रपञ्चे स्वात्मकं लोकम् अवतार्य महेश्वरः ।
आविर्भवति तत्रेति मतं ब्रह्मादि-शब्दतः ॥ १६ ॥
गोविन्दे सच्-चिद्-आनन्दे नर-दारकता यथा ।
अज्ञैर् निरूप्यते तद्वद् धाम्नि प्राकृतता किल ॥ १७ ॥

कान्तिमाला

ननु महिमादि शब्दवाच्यं हरेः पदं प्रकृतिमण्डलाद्बहिः श्रुतं। तन्मण्डलान्तःस्थं मथुरादि तस्यपदमित्येतत् कथं तत्राह प्रपञ्चे इति । लोकस्य स्वात्मकत्वे हेतुः ब्रह्मादिशब्द इति । आदिना महिमसंव्योमशब्द सङ्ग्रहः । एवं तर्हि मथुरादौ प्राकृतत्वं कुतः स्फुरित तत्राह गोविन्द इति । नरदारकता प्राकृतमनुष्य बालकता ॥१६-१७॥

विश्वास-प्रस्तुतिः

अथ नित्य-लीलत्वं च, तथा हि श्रुतिः (बृह्।आ।उ। ३.८.३)—यद् गतं भवच् च भविष्यच् च ॥ (क) ॥

मूलम्

अथ नित्य-लीलत्वं च, तथा हि श्रुतिः (बृह्।आ।उ। ३.८.३)—यद् गतं भवच् च भविष्यच् च ॥ (क) ॥

कान्तिमाला

अथेति । यदिति बृहदारण्यके । यद्गतं ब्रह्मनिष्ठं गुणकर्म नित्यं, गतभवत्भविष्यच्छब्दैस्तस्य त्रैकालिकत्वप्रत्ययात् ॥क॥

विश्वास-प्रस्तुतिः

एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृद्य् अन्तरात्मा ॥ (ख) ॥

मूलम्

एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृद्य् अन्तरात्मा ॥ (ख) ॥

कान्तिमाला

एको देव इति । पिप्पलादशाखायां । अत्र लीलायाः नित्यत्वं वाचनिकं ॥ख॥

विश्वास-प्रस्तुतिः

स्मृतिश् च (गीता ४.९)—

जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सोऽर्जुन ॥ (ग) ॥

मूलम्

स्मृतिश् च (गीता ४.९)—

जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सोऽर्जुन ॥ (ग) ॥

कान्तिमाला

जन्मेति श्रीगीतासु । दिव्यमप्राकृतं नित्यमिति यावत् ॥ग॥

विश्वास-प्रस्तुतिः

रूपानन्त्याज् जनानन्त्याद् धामानन्त्याच् च कर्म तत् ।
नित्यं स्यात् तद्-अभेदाच् चेत्य् उदितं तत्त्व-वित्तमैः ॥ १८ ॥
इति प्रमेय-रत्नावल्यां भगवत्-पारतम्य-प्रकरणं नाम
प्रथम-प्रमेयम्
॥ १ ॥

मूलम्

रूपानन्त्याज् जनानन्त्याद् धामानन्त्याच् च कर्म तत् ।
नित्यं स्यात् तद्-अभेदाच् चेत्य् उदितं तत्त्व-वित्तमैः ॥ १८ ॥
इति प्रमेय-रत्नावल्यां भगवत्-पारतम्य-प्रकरणं नाम
प्रथम-प्रमेयम्
॥ १ ॥

कान्तिमाला

ननु लीलाया नित्यत्वं शब्दात् प्रतीतं, युक्तिविरहात्तदपुष्टमिति चेत्तत्राह रूपानन्त्यादिति । अत्राहुः लीलायाः क्रियात्वात् प्रत्यवयवमप्यारम्भ समाप्तिभ्यां तस्याः सिद्धिर् वाच्या, ताभ्यां विना न तस्याः स्वरूपं सिद्धेत् ॥ तथाचारम्भसमाप्तिमत्तया विनाशित्वध्रौव्यात् कथं सा नित्येति चेदुच्यते । परात्मनः सदैवाकारानन्त्यात् पार्षदानन्त्यात् स्थानानन्त्याच्च नानित्यत्वं तस्याः, तत्तदाकारगतयोस्तत्तदारम्भ समाप्त्योः सत्त्वेप्येकत्रैकत्र तत्तक्रियावयवा यावत् समाप्यन्ते न समाप्यन्ते वा, तावदेवान्यत्रान्यत्राप्यारब्धाः स्युर् इत्येवमविच्छेदान्नित्यत्वं सिद्धं । ननु मास्तु विच्छेदः । पृथगारम्भाद्नैवसेतिचेदुच्यते समयभेदेनाभ्युदितानामप्येकरूपाणां क्रियाणामैक्यं । यथा चोक्त द्विःपाकोऽनेन कृतौ नतु द्वौ पाकाविति द्विर्गोशब्दोयमुच्चरितो नतौ द्वौ गोशब्दाविति प्रतीतिनिर्णीतशब्दैक्यवदिदं द्रष्टव्यं । तदेतदाह तदभेदाच्चेति । तेषां रूपादीनां चतुर्णा भेदविरहादित्यर्थः ॥१८॥

॥ इति प्रमेयरत्नावल्यां भगवत्पारतम्यप्रकरणं व्याख्यातम् ॥१॥ (२)