यः स्व-प्राप्ति-पथं देवः सेवनाभासतोऽदिशत् ।
प्राप्यं च स्वपदं ममासौ श्यामसुन्दरः ॥
१। अर्चिर्-आद्य्-अधिकरणम्
॥ ४.३.१ ॥
पादेऽस्मिन् ब्रह्म-लोक-प्रापणः पन्थाः प्राप्यं च ब्रह्म-स्वरूपं निरूप्यते । छान्दोग्ये—
अथ यद् उ चैवास्मिन् शव्यं कुर्वन्ति यदि च नार्चिषम् एवाभिसम्भवन्त्य् अर्चिषोऽहरह आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षड्-उदण्णेति मासांस् तान् मासेभ्यः संवत्सरं संवत्सराद् आदित्यम् आदित्याच् चन्द्रमसं चन्द्रमसो विद्युतं तत् पुरुषोऽमानवः स एनान् ब्रह्म गमयत्य् एष देव-पथो ब्रह्म-पथ एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्त इति [छा।उ। ४.१५.५] इत्य् अर्चिः प्रथमः पन्थाः श्रूयते ।
कौषीतकी-ब्राह्मणे—
स एतं देव-यानं पन्थानम् आसाद्याग्नि-लोकम् आगच्छति स वायु-लोकं स वरुण-लोकं स इन्द्र-लोकं स प्रजापति-लोकं स ब्रह्म-लोकम् [कौ।ब्रा। १.३] इत्य् अग्निः प्रथमः ।
बृहद्-आरण्यके तु—
यदा वै पुरुषोऽस्माल् लोकात् प्रैति स वायुम् आगच्छति तस्मै स तत्र विजिहीते यथा रथ-चक्रस्य खं तेन स ऊर्ध्व आक्रमते । स आदित्यम् आगच्छति [बृ।आ।उ ५.१०.१] इत्य् आदौ वायुः प्रथमः ।
क्वचित् सूर्य-द्वारेण ते विरजाः प्रयान्ति [मु।उ। १.२.११] इति सूर्य-रूपश् च श्रुतः । एवम् अन्यत्रान्यादृशश् च । इह भवति संशयः—किम् अयं नाना-विधो ब्रह्म-लोक-मार्गः, किं वा, नाना-श्रुत्य्-उक्त-पवकोऽर्चिर्-आदिर् एक एवेति । भिन्न-प्रकरणत्वाद् अथैतैर् एवेत्य् अवधृत्य्-अनुरोधाच् च नाना-विध इति प्राप्ते—
**अर्चिर्-आदिना तत्-प्रथितेः ॥ **
सर्वोऽपि विद्वान् अर्चिः-प्रथमेनैव वर्त्मना ब्रह्म-लोकं व्रजति । कुतः ? तत्-प्रथितेः । तद् य इत्थं विदुर् ये चेमेऽरण्ये श्रद्धां तप इत्य् उपासते ते अर्चिषं [छा।उ। ५.१०.१] इति पञ्चाग्नि-विद्या-प्रकरणस्थेन वचसा विद्यान्तर-शालिनाम् अप्य् अर्चिर्-आदिनैव पथा गत्य्-उपदेशाद् इत्य् अर्थः ।
द्वाव् एव मार्गौ प्रथिताव् अर्चिर्-आदिर् विपश्चिताम् । धूमादिः कर्मिणां चैव सर्व-वेद-विनिर्णयात् ॥ [ब्रह्म-तर्क1] इति स्मृतिश् च ।
एवं सति यत्र विसदृशः पन्थाः श्रूयते, तत्र गुणोपसंहारवद् अनुक्तानां समावेशः प्रकरण-भेदेऽपि विद्यैक्यात् । एवं चावधृतिर् अपि रश्मि-प्राप्ति-परैव । अन्यथा वाक्य-भेद-प्रसङ्गः ॥१॥
र्प्च् : ७.१५.५४-५५
**ह्द्स् : **३.३२.६-७, ७.१५.५४
—ओ)०(ओ—
२। वाय्व्-अधिकरणम्
॥ ४.३.२ ॥
इदानीं वाक्यान्तर-पठितस्य वाय्व्-आदेर् अर्चिर्-मार्गे सन्निवेशः स्याद् इत्य् एतत् प्रदर्शयितुम् आरम्भः । स एतं देव-यानं पन्थानम् आसाद्याग्नि-लोकम् आगच्छति स वायु-लोकं [कौ।ब्रा। १.३] इत्य् अत्र श्रूयमाणो वायुर् अर्चिर्-आदि-पथे सन्निवेश्यो न वेति वीक्षायां क्रमाश्रवणात् कल्पकाभावाच् च नेति प्राप्ते—
वायुम् अब्दाद् अविशेष-विशेषाभ्याम् ॥
अर्चिषम् इत्य् आदाव् अब्दात् संवत्सरात् परमादित्यात् पूर्वं वायुं निवेशयन्ति । कुतः ? अविशेषेति। स वायु-लोकम् इत्य् अविशेषेणोपदिष्टस्य, यद् आह वै पुरुषोऽस्माल् लोकात् प्रैति [बृ।आ।उ ५.१०.१] इत्य् आदौ, स वायुम् आगच्छति [बृ।आ।उ ५.१०.१] इति सूर्यात् पूर्व-वर्तित्वेन विशेषेणोपदेशाद् इत्य् अर्थः । एवं सति सामेभ्यो देव-लोकादित्यम् इति बृहद्-आरण्यकोक्तो देव-लोकोऽपि वायुर् एव ज्ञेयः । योऽयं पवन एष एव देवानां गृह इति देव-निवास-स्थानत्वेनोक्तेः । अपरे त्व् आहुः देव-लोकोऽपि वर्त्म-पर्व-विशेषः । स च संवत्सरात् परत्र पूर्वत्र च वायोर् निवेश्यः । न तु मास-संवत्सरयोर् मध्ये तयोः सम्बन्ध-प्रसिद्धेः । तथा च संवत्सरादित्ययोर् मध्ये देव-लोक-वायु-लोकौ सन्निवेश्याव् इति ॥२॥
र्प्च् : —
**ह्द्स् : **७.१५.५५
—ओ)०(ओ—
३। तडिद्-अधिकरणम्
॥ ४.३.३ ॥
स वरुण-लोकं स इन्द्र-लोकं स प्रजापति-लोकम् इत्य् अत्र विचारः । इह श्रुतो वरुण-लोकोऽर्चिर्-आदि-पर्वतया सन्निवेश्यो न वेति विषये वायोर् इवास्य व्यवस्थापकाभावान् नेति प्राप्ते—
तडितोऽधि वरुणः सम्बन्धात् ॥
चन्द्रमसो विद्युतम् इत्य् उक्तायास् तडितोऽध्युपरिष्टाद् असौ वरुणो निवेश्यः । कुतः ? सम्बन्धात् । तडिद्-वरुणयोः सम्बन्ध-सत्त्वात् । विद्युत्-पूर्विका हि वृष्टिर् भवति । यथा हि विशाला विद्युतस् तीव्र-स्तनित-निर्घोषा जीमूतोदरे नृत्यन्त्य् अथापः प्रपतन्ति विद्योतते स्तनयति वर्षिष्यति वै [छा।उ। ७.११.१] इति श्रवणात् । स्व-सम्बन्धि-वृष्टि-गत-नीराधिपतित्वेन वरुणस्य तडिता सम्बन्धः प्रसिद्धः । वरुणाद् उपरि तु इन्द्र-प्रजापत्योर् निवेशः । स्थानान्तराभावात् पाठ-सामर्थ्याच् च । तद् एवम् अर्चिर्-आदि-प्रजापत्य्-अन्ता द्वादश-पर्वा त्रयोदश-पर्वा वा ब्रह्म-लोक-पद्धतिर् इति सिद्धम् ॥३॥
र्प्च् : ७.१५.५५-५६
**ह्द्स् : **७.१५.५५
—ओ)०(ओ—
४। आतिवाहिकाधिकरणम्
॥ ४.३.४ ॥
अथाचिरादि-विचारान्तरम् अर्चिरादयो वर्त्म-चिह्नान्य् उतार्चिर्-आदि-व्यक्तय आहो स्विद् विदुषां गमयितार इति सन्देहे वर्त्म-चिह्नानीति तावत् प्राप्तं तच्-चिह्न-सारूप्येण निर्देशात् । तथा हि लोका निर्दिशन्ति पुरान् निर्गत्य नदीं याहि ततो गिरिं ततो घोषम् इति । तत्-तद्-व्यक्तयो वा वाचनिकत्वात् । एवं प्राप्ते—
आतिवाहिकास् तल्-लिङ्गात् ॥
आतिवाहे पुरुषोत्तमेन नियुक्तास् तेऽर्चिर्-आदयो देवा भवन्ति, न तु तानि ताश् चेति प्रतिपत्तव्यम् । कुतः ? तल्-लिङ्गात् । आतिवाहिक-लिङ्गं गन्तॄणां गमयितृत्वं तस्मात्, तत्-पुरुषोऽमानवः स एतान् ब्रह्म गमयति इत्य् अन्ते श्रुतस्य पुरुषस्य गमयितृत्वावगमात् तत्-साहचर्याद् अर्चिर्-आदीनाम् अपि तन् मन्तव्यम् इत्य् अर्थः ॥४॥
र्प्च् : ६.१.३०
**ह्द्स् : **६.१.३०, ४.१२.१९-२०
॥ ४.३.५ ॥
चिह्न-व्यक्ति-पक्षयोर् असिद्धेश् चैवं स्वीकार्यम् इत्य् आह—
उभय-व्यामोहात् तत्-सिद्धेः ॥
रात्र्य्-आदिषु मृतस्याअरादि-सम्बन्धाभावाद् अर्चिर्-आदीनाम् अनवस्थितेर् न मार्ग-चिह्नत्वम् । जडत्वेन नेतृत्वायोगाच् च न तत्-तद्-व्यक्तित्वम् इत्य् उभय-पक्ष-व्यामोहात् तस्य श्रुति-सिद्धेश् च तेषाम् आतिवाहिकत्वम् इत्य् अर्थः ॥५॥
र्प्च् : ११.१९.१७, ११.१४.१५, ११.२०.१२
**ह्द्स् : **४.१२.२३-२४
—ओ)०(ओ—
५। वैद्युताधिकरणम्
॥ ४.३.६ ॥
पुरुषोत्तमेन प्रयुक्तोऽमानवः पुरुषोऽर्चिः-पर्यन्तम् आगत्योपासकान् नयत्य् उत विद्युत्-पर्यन्तम् इति संशये भू-पर्यन्तागतैः पार्षदैर् अजामिलादेर् नयनाद् अर्चिः-पर्यन्तम् इति प्राप्ते—
वैद्युतेनैव ततस् तच्-छ्रुतेः ॥
ततो विद्युत्-प्राप्त्य्-अनन्तरं वैद्युतेन विद्युत्-पर्यन्तागतेन तत्-पार्षदेन विद्वान् ब्रह्म प्राप्यते । कुतः ? तच्-छ्रुतेः । चन्द्रमसो विद्युतं तत्-पुरुषोऽमानवः स एतान् ब्रह्म गमयति [छा।उ। ४.१५.५] इति तच्-छ्रवणात् । वरुणादीनां तु तत्-सहकारित्वेन तत् सिद्धम् । एषां पद्धतिः साधारणी । अजामिलस्य विशेषत्वात् तथात्वम् असाधारणम् इति बोध्यम् ॥६॥
र्प्च् : ६.३.१७-१८, ११.२१.५, ११.१९.१७, ११.१०.२९, १०.९.११, २.१०.९, ईशो। १६, _अचिन्त्याः खलु ये भावाः, _२.६.३४।
**ह्द्स् : **६.१.३०
—ओ)०(ओ—
६। कार्याधिकरणम्
॥ ४.३.७ ॥
एवं गतिम् आख्याय गम्यं वक्तुम् आह—स एनान् ब्रह्म गमयति2 [छा।उ। ४.१५.५] इति विषय-वाक्यम् । तत्र बादरि-मतं तावद् उच्यते—अयम् अमानवः पुमान् परम् एव ब्रह्म गमयतीत्य् उत कार्यं चतुर्मुखाख्यम् इति वीक्षायां ब्रह्म-शब्दस्य परस्मिन्न् एव मुख्यत्वात् तयोर्ध्वम् इत्य् अमृतत्व-श्रवणाच् च परम् एवेति प्राप्ते—
कार्यम् एव ब्रह्म गमयतीति बादरिर् मन्यते । कुतः ? अस्येति । अस्य कार्यस्यैकदेशित्वात् गतिर् उपपद्यते, न तु सर्व-देशस्य परस्येति भावः ॥७॥
र्प्च्, ह्द्स् : ८.२१.२-३
॥ ४.३.८ ॥
विशेषितत्वाच् च ॥
प्रजापतेः सभां वेश्म प्रपद्ये [छा।उ। ८.१४.१] इति छान्दोग्य-श्रुत्या विशेषितत्वाच् च कार्यम् एव गमयतीत्य् अर्थः ॥८॥
**र्प्च्, ह्द्स् : **८.५.१८
॥ ४.३.९ ॥
सामीप्यात् तु तद्-व्यपदेशः ॥
स एत्य ब्रह्म-लोकान् गमयति, ते तेषु ब्रह्म-लोकेषु पराः परावतो वसन्ति । तेषां न पुनर्-आवृत्तिः [बृ।आ।उ ६.२.१५] इति बृहद्-आरण्यके योऽयम् अपुनर्-आवृत्ति-व्यपदेशः स तु सामीप्याभिप्रायेण भविष्यति । विद्वांसः कार्य ब्रह्म प्राप्य तेन सह तद्-अव्यवहितं परं ब्रह्म प्राप्नुवन्ति । ततः पुनर् नावर्तन्त इति ॥९॥
र्प्च् : १०.१४.१३, २.६.२२
**ह्द्स् : **४.२४.२९
—ओ)०(ओ—
७। कार्यात्ययाधिकरणम्
॥ ४.३.१० ॥
कदेत्य् अपेक्षायाम् आह—
कार्यात्यये तद्-अध्यक्षेण सहातः परम् अभिधानात् ॥
कार्यस्य चतुर्मुख-लोक-पर्यन्तस्याण्डस्यात्यये विलये सति तद्-अध्यक्षेण चतुर्मुखेन सहातः कार्यात् चतुर्मुखात् परं ब्रह्म प्राप्नोति । सह प्राप्तौ हेतुर् अभीति । ब्रह्मविद् आप्नोति परम् इत्य् उपक्रम्य सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा [तै।उ। २.१.३] इति तद्-उक्तेर् इत्य् अर्थः । अत्र ब्रह्मणा चतुर्मुखेन सहेत्य् अर्थः ॥१०॥
र्प्च् : ३.३२.६-१०
ह्द्स् : ३.३२.८-९** **
॥ ४.३.११ ॥
स्मृतेश् च ॥
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति स्मरणाच् च ।
तथा च अर्चिषम् इत्य् आदाव् अर्चिर्-आदयः स-निष्ठा हिरण्यगर्भं प्रापयन्ति इति बादरि-मुनेः सिद्धान्तः ॥११॥
र्प्च् : ३.३२.८-१०
ह्द्स् : ३.३२.१०** **
॥ ४.३.१२ ॥
परं जैमिनिर् मुख्यत्वात् ॥
परम् एव ब्रह्म तद्-ध्यातृन् स गमयतीति जैमिनिर् मन्यते । कुतः ? मुख्यत्वात् । ब्रह्म-शब्दस्य तद्-अभिधायकत्वात् । न च गत्य्-अनुपपत्तिः । स्व-भक्तानां सर्वोपाधि-विनिवृत्ति-पूर्वक-स्व-पदाप्ति-ख्यातये भगवता यथा-गत्य्-अनुमननात् ॥१२॥
र्प्च् : ३.२७.२७-२९
ह्द्स् : ३.३२.११, ३.३२.२९-३१** **
॥ ४.३.१३ ॥
दर्शनाच् च ॥
दहर-विद्यायाम् अथ य एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय २.३] इत्य् आदि श्रुतम् । एषा गतिः पर-ब्रह्म-कर्मिकैव । गन्तव्यस्य तस्यामृतत्वादि-धर्म-दर्शनात् । गन्तुः स्वरूपाभिनिष्पत्ति-दर्शनात् च । न चैवं सर्वं कार्य-ब्रह्म-पक्षे सङ्गच्छते । नापि तस्यैतत् प्रकरणं, किन्तु परस्यैवेति । काठकेऽपि शतं च [क।उ। २.३.१६] इत्य् आदिना गतिः पठिता । सापि पर-कर्मिकैवामृतत्व-श्रुतेर् अन्यत्र धर्माद् इति तस्यैव प्रकरणात् च ॥१३॥
र्प्च् : २.२.२१
**ह्द्स् : **१०.८७.१८
॥ ४.३.१४ ॥
किं च,
न च कार्ये प्रत्यभिसन्धिः ॥
प्रतिपत्तिर् ज्ञानम् । अभिसन्धिर् इच्छा । न हि विदुषो ज्ञान-पूर्विका इच्छा कार्य-ब्रह्म-विषयास्ति अपुमर्थत्वात् । अपि तु पर-ब्रह्म-विषयैव । यद्-विषया सा भवेत्, तद् एव प्राप्तं तत्-क्रतु-न्यायात् । तथा वामानवः पुरुषः पुरुषोत्तमम् एव तद्-उपासकान् नयतीति जैमिनेः सिद्धान्तः ॥१४॥
र्प्च् : २.४.२०
**ह्द्स् : **३.३३.३
—ओ)०(ओ—
८। अप्रतीकालम्बनाधिकरणम्
॥ ४.३.१५ ॥
अथ स्व-मतम् आह—
अप्रतीकालम्बनान् नयतीति बादरायण उभयथादोषात् तत्-क्रतुश् च ॥3
नामाद्य्-उपासकाः प्रतीकालम्बनास् तद्-भिन्नाः सनिष्ठादयो ब्रह्मोपासका अप्रतीकालम्बनास् तान् सर्वान् नयतीति भगवान् बादरायणो मन्यते । कार्योपासकान् वा नयतीत्य् अन्यतर-नियमं न स्वीकार्तोतीत्य् अर्थः । कुतः ? उभ्यथेति । मत-द्वयेऽपि विरोधाद् इत्य् अर्थः । आद्ये परं ज्योतिर् इत्य् आदि विरोधः । द्वितीये तु पञ्चाग्नि-विद्यावताम् अर्चिर् आदि गति विरोधः । तत्-क्रतु-न्यायो4ऽप्य् एतम् अर्थं दर्शयति, यथा क्रतुर् इत्य् आदिना । नामादि-प्रतीकोपासकानां तु नार्चिर्-आदिना पर-प्राप्तिः तत्-क्रतु-विरहात् । किन्तु शब्द-शास्त्रादि-लक्षण-नामादिषु स्वातन्त्र्यादि-प्राप्तिर् भवति । स यो नाम ब्रह्मेत्य् उपास्ते यावन् नाम्नो गतः तत्रास्य कामचारः [छा।उ। ७.१.५] इत्य् आदि छान्दोग्य-वाक्यात् । पञ्चाग्नि-विद्यावतां तेन वर्त्मना सत्य-लोक-प्राप्तिस् तु स्वात्मानुसन्धि-प्रभावात् । तद्-उपर्य्-अपीति न्यायेन तल्-लोके तेषां ब्रह्म-विद्या-सिद्धेः । तद्-वर्त्मना गतानाम् अनावृत्ति-श्रुतिः सङ्गता ॥१५॥
र्प्च् : ३.३२.१२-१५, ३.१५.४७, गीता ७.२३, ९.२५, १८.६५, ४.११, भा। ११.२५.२२, १०.१२९.१५, उन्क्नोअस्यन् (इहासने शुष्यतु मे शरीरं त्वग्-अस्थि-मांसं विलयं च यान्तु । अप्राप्य बोधिं _बहु-कल्प-दुर्लभं नैवासनात् कायः समुच्चलिष्यते _॥)
**ह्द्स् : **३.३३.७-८
—ओ)०(ओ—
९। विशेषाधिकरणम्
॥ ४.३.१६ ॥
अथ निरपेक्षाणां केषाञ्चित् स्वयं भगवतैव स्व-पद-प्राप्तिर् अभिधीयते ।
एतद् धि विष्णोः परमं पदं ये नित्योद्युक्ताः संयजन्ते न कामान् । तेषाम् असौ गोप-रूपः प्रयत्नात् प्रकाशयेद् आत्म-पदं तदैव ॥ [गो।ता।उ। १.२१] ओङ्कारेणान्तरितं ये जपन्ति गोविन्दस्य पञ्च-पदं मनुम् । तेषाम् असौ दर्शयेद् आत्म-रूपं तस्मान् मुमुक्षुर् अभ्यसेन् नित्य-शान्त्यै ॥ [गो।ता।उ। १.२३] इति ।
इह संशयः । निरपेक्ष्या अप्य् आतिवाहिकैर् एव परं पदं विशन्ति स्वयं भगवता वेति । द्वाव् एव मार्गाव् इत्य् आदौ ब्रह्म-विदाम् अर्चिर्-आदि-गति-विनिर्णयात् तेऽपि तैर् एव तद् विशन्ति । श्रुतिश् च । भगवतो हेतु-कर्तृत्वं विवक्षत्य् अविरुद्धम् एवं प्राप्ते ब्रवीति—
विशेषं च दर्शयति ॥
ब्रह्म-विदाम् आतिवाहिकैस् तत्-प्राप्तिर् इत्य् एतत् सामान्यम् । ये खलु निरपेक्षाः परमार्तास् तेषां तु स्वयं भगवतैव तत्-प्राप्ति-विलम्बम् असहिष्णुना सेति विशेषोऽस्ति । तं श्रुतिर् दर्शयति एतद्-विष्णोर् इत्य् आदिना ।
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्-पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ तेषाम् अहं समुद्धर्ता मृत्यु-संसार-सागरात् । भवामि न चिरात् पार्थ मय्य् आवेशित-चेतसाम् ॥ [गीता १२.६-७] इति स्मृतेश् च ।
तदैव तेषां तनु-भङ्गस् तनु-योगश् चेति च शब्दात् । न चार्चिर् आदि-निरपेक्षा गतिर् नास्तीति शक्यं वदितुम् ।
नयामि परमं स्थानम् अचिरादि-गतिं विना । गरुड-स्कन्धम् आरोप्य यथेच्छम् अनिवारितः ॥ इति वाराह-वचनात् ।
तस्माद् यथोक्तम् एव सुष्ठु ॥१६॥
र्प्च् : २.३.२-४; ४.१२.१९-२०, ४.१२.२७
**ह्द्स् : **६.२.१३, ९.४.६५, ४.१२.२४
—ओ)०(ओ—
॥ इति श्रीमद्-ब्रह्म-सूत्र-भाष्ये चतुर्थाध्यस्य तृतीयः पादः ॥
॥ ४.३ ॥
(४.४)
-
Oने ओफ़् थोसे स्च्रिप्तुरेस् ओन्ल्य् क्नोwन् थ्रोउघ् चिततिओन्स् इन् Mअध्वऽस् wरितिन्ग्स्। Tहे रेफ़ेरेन्चे हेरे इस् प्रोविदेद् ब्य् Vअसु। ↩︎
-
_स एतान् गमयति _इन् तेxत्।
कार्यं बादरिर् अस्य गत्य्-उपपत्तेः ॥ ↩︎ -
Tहिस् रेअदिन्ग् इस् फ़ोउन्द् इन् Sहन्कर अन्द् Vअल्लभ। Rअमनुज, Mअध्व अन्द् Bअलदेव रेअद् अप्रतीकालम्बनान् नयतीति बादरायण उभयधा च दोषात् तत्-क्रतुश् च । ↩︎
-
Vइदे। Cहान्दोग्य ३.१४.१। ↩︎