मन्त्राद् यस्य पराभूताः परा भूतादयो ग्रहाः । नश्यन्ति स्व-लसत्-तृष्णः स कृष्णः शरणं मम ॥
१। वाग्-अधिकरणम्
॥ ४.२.१ ॥
परस्मिन् पादे देव-यानं पन्थानं विवक्षुर् अस्मिन् पादे विदुषो देहाद् उत्क्रान्ति-प्रकारं विचारयन्ति । छान्दोग्ये श्रूयते—
अस्य सोम्य पुरुषस्य प्रयतो वाङ् मनसि सम्पद्यते मनः प्राणे प्राणस् तेजसि तेजः परस्यां देवतायाम् [छा।उ। ६.८.६] इति ।
तत्र संशयः—किम् इह वृत्त्या वाक्-सम्पत्तिर् उत स्वरूपेणेति मनसो वाक्-प्रकृतित्वाभावाद् वाग्-आदीनां मनोऽधीन-वृत्तिकत्वाच् च वृत्त्यैवेति प्राप्ते—
वाङ्-मनसि दर्शनाच् छब्दाच् च ॥
स्वरूपेणैव मनसि वाक् सम्पद्यते । कुतः ? उपरतायां वाचि मनसः प्रव्ट्ति-दर्शनात् । वाङ्-मनसि सम्पद्यते [छा।उ। ६.८.६] इति शब्दाच् च । इतरथा शब्द-स्वारस्य-भङ्गः । न च मानान्तरेण तत्र वाग् अवगम्यते येन वृत्ति-सम्पत्तिः कल्प्यतेति भावः ।
ननु मनसो वाक्-प्रकृतित्वाभावान् न तत्र तस्या स्वरूप-सम्पत्तिः, किं तु वृत्ति-सम्पत्तिर् एव स्याद् अप्रकृताव् अपि वारिणि वह्नि-वृत्ति-सम्पत्ति-दर्शनाद् इति चेद् उच्यते—मनसा वाक् संयुज्यते, न तु संलीयत इति । अर्थाद् अप्रकृताव् अपि तस्मिन् स्वरूप-संयोगो भवतीति ॥१॥
र्प्च् : १.१५.४१, ११.२४.२५
**ह्द्स् : **११.१६.४२, ११.१६.४४
॥ ४.२.२ ॥
**अत एव सर्वाण्य् अनु ॥ **
यतो वाचो मनस्य् एव संयोगो नाग्नौ, अतः सर्वाणि श्रोत्रादीन्य् अपि तत्रैव संयुज्यन्त इति मन्तव्यम् । अनु वाक् सम्पत्त्य्-अनन्तरम् । प्रश्नोपनिषदि—तस्माद् उपशान्त-तेजाः । पुनर् भवम् इन्द्रियैर् मनसि सम्पध्यमानैः । यच् चित्तस् तेनैष प्राणमायाति [प्र।उ। ३.९-१०] इति। यथ गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस् तेजो-मण्डल एकीभवन्ति । ताः पुनः पुनर् उदयतः प्रचरन्त्य् एवं ह वै तत् सर्वं परे देवे मनस्य् एकीभवति [प्र।उ। ४.२] इति ॥२॥
र्प्च् : १.१५.४१
**ह्द्स् : **१.१५.४१
—ओ)०(ओ—
२। मनोऽधिकरणम्
॥ ४.२.३ ॥
मनः प्राण इति विचारयति । मनश् चन्द्रे प्राणे वा सम्पद्यत इति संशये मनश् चन्द्रम् इति श्रुतेश् चन्द्र इति प्राप्ते—
**तन्-मनः-प्राण उत्तरात् ॥ **
तत् सर्वेन्द्रिय-सहितं मनः प्राणे [छा।उ। ६.८.६] सम्पद्यते । कुतः ? मनः प्राणे इत्य् उत्तरस्मात् वाक्यात् । यत्रास्य पुरुषस्य मृतस्याग्निं वाग् अप्य् एति इत्य् आदि वाक्यं तु स्वार्थ-परं न भवतीत्य् उक्तं भगवता सूत्र-कारेणैव । अग्न्य्-आदि-गति-श्रुतेर् इति चेत्, न, भाक्तत्वाद् इति ॥३॥
र्प्च् : १.१५.४१
**ह्द्स् : **१.१५.४१
—ओ)०(ओ—
३। अध्यक्षाधिकरणम्
॥ ४.२.४ ॥
प्राणस् तेजसीत्य् अत्र विचारः । स सेन्द्रिय-मनाः प्राणः किं तेजसि सम्पद्यते किं वा जीवे इति वीक्षायां प्राणस् तेजसीत्य् उक्तेस् तेजस्य् एवेति प्राप्ते—
**सोऽध्यक्षे तद्-उपगमादिभ्यः ॥ **
स प्राणोऽध्यक्षे देहेन्द्रियाद्य्-अधिष्ठातरि जीवे सम्पद्यते । कुतः ? तद् इति । बृहद्-आरण्यके—
तद् यथा राजानं प्रयियासन्तम् उग्राः प्रत्येनसः सूत-ग्रामण्यो ऽभिसमायन्त्य् एवम् एवेमम् आत्मानम् अन्त-काले सर्वे प्राणा अभिसमायन्ति यत्रैतद् ऊर्ध्वोच्छ्वासी भवति । [बृ।आ।उ ४.३.३८]
इति प्राणस्य सेन्द्रियस्य जीवोपगामित्वादि श्रवणाद् इत्य् अर्थः । न चैवं प्राणस् तेजसीति श्रुति-विरोधः । जीवेन संयुज्य पश्चात् तेजसीति वक्तुं शक्यत्वात् । गङ्गया संयुज्य सागरं गच्छन्ती यमुना तं गच्छतीति शक्यते वक्तुम् ॥४॥
र्प्च् : १.१५.४१-४३, २.२.१५-१६, ११.१६.४२-४४
**ह्द्स् : **१.१५.४२
—ओ)०(ओ—
४। भूताधिकरणम्
॥ ४.२.५ ॥
तेजसीत्य् एतद् विचार्यते । स प्राणो जीवस् तेजसि सम्पद्यते उत संहतेषु भूतेष्व् इति संशये प्राणस् तेजसीत्य् उक्तेस् तेजस्य् एवेति प्राप्ते—
**भूतेषु तच्-छ्रुतेः ॥ **
जीवे पञ्चसु भूतेषु सम्पद्यते । न केवले तेजसि । कुतः ? तत्रैव जीवस्याकाश-मयो वायुमयस् तेजो-मय आपो-मयः पृथिवी-मयः इति सर्व-भूत-मयत्व-श्रवणात् ॥५॥
र्प्च् : ३.२१.४४
**ह्द्स् : **२.९.३८, १०.१.३९-४०
—ओ)०(ओ—
५। आसृत्य्-उपक्रमाधिकरणम्
॥ ४.२.६ ॥
किं च—
**नैकस्मिन् दर्शयतो हि ॥ **
एकस्मिन् तेजस्य् एव जीवस्यावस्थानं न मन्तव्यम् । हि यस्माद् एतम् अर्थं प्रश्न-प्रतिवचने निरूपयतः । प्रतिपादितं चैतत् तद्-अनन्तर-प्रतिपत्ताव् इत्य् आदिना प्राक् । तथा च तेजः-प्रभृतिषु भूतेषु प्राण-सम्पत्तिर् जीव-द्वारेति सिद्धम् ॥६॥
र्प्च् : २.५.३१, २.५.३३
**ह्द्स् : **१०.२.२७
—ओ)०(ओ—
॥ ४.२.७ ॥
अथ तस्मिन्न् एव वाक्ये विमर्शान्तरम् । इयम् उत्क्रान्तिर् अजस्यैव भवेद् विज्ञस्यापि वेति संशये,
यदा सर्वे प्रमुच्यन्ते कामा येऽन्ये हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥
इति बृहद्-आरण्यक-श्रुत्या विज्ञस्यात्रैवामृतत्वाभिधानेनोत्क्रान्त्य्-अभावाद् अज्ञस्यैवेति प्राप्ते—
**समाना चासृत्य्-उपक्रमाद् अमृतत्वं चानुपोष्य ॥ **
आद्यश् चोऽवधारणे । अज्ञस्य विज्ञस्य च समानेवोत्क्रान्तिर् आसृत्य्-उपक्रमाद् आगत्य्-आरम्भान् नाडी-प्रवेशात् प्राग् इत्य् अर्थः । तत्-प्रवेश-दशायां त्व् अस्ति विशेषः । अज्ञस्य नाडी-शतेनोत्क्रम्य गतिर् विज्ञस्य तु शताधिकया । तथा हि छान्दोग्याः पठन्ति— शतं चैका च हृदयस्य नाड्यास् तासां मूर्धानम् अभिनिःसृतैका । तयोर्ध्वम् आयन्न् अमृतत्वम् एति विष्वग् अन्या उत्क्रमणे भवन्ति [छा।उ। ८.६.६] इति । एतच् छ्रुत्यैकार्थेन, तस्य हैतस्य हृदयस्याग्रम् इत्य्-आदि-श्रुताव् अपि मूर्ध्व-निष्क्रमणं विज्ञ-विषयम् अन्यच् चाविज्ञ-विषयं बोध्यम् । यत् तु विज्ञस्यात्रैवामृतत्व-श्रवणं तत् किल देह-सम्बन्धम् अनुपोष्यादग्ध्वैव पूर्वोत्तराघ-विश्लेष-विनाश-रूपं यद् उक्तम् ॥७॥
र्प्च् : १०.८७.१८, २.२.२१
**ह्द्स् : **१०.८७.१८
—ओ)०(ओ—
॥ ४.२.८ ॥
उत्कं विशदयति—
**तद् आ-पीतेः संसार-व्यपदेशात् ॥ **
अदग्ध-शरीर-सम्बन्धस्य विज्ञस्य निष्पाप-रूपं तद्-अमृतत्वं मन्तव्यम् । कुतः ? आपीतेर् इति । आब्रह्म-साक्षात्कारात् शरीर-सम्बन्ध-लक्षणस्य संसारस्योक्तेर् इत्य् अर्थः । तत्-साक्षात्कारः खलु देवयानेन, यथा संव्योम-पदं गत्वैवेति वेदान्तेषु प्रसिद्धम् ॥८॥
र्प्च् : ११.२०.२९-३०, ११.२९.१२, ११.२९.१८
**ह्द्स् : **१०.१४.५८, १.२.१५
—ओ)०(ओ—
॥ ४.२.९ ॥
सूक्ष्म-प्रमाणतश् च तथोपलब्धेः ॥
नात्र विदुषः शरीर-सम्बन्धो दग्धः । सूक्ष्मं शरीरं यद् अनुवर्तते । कुतः ? प्रमाणेति । देवयान-वर्त्मना गच्छतो विदुषः, तं प्रति ब्रूयात् सत्यं ब्रूयात् इति चन्द्रमसा संवाद-वचनेन शरीर-सद्-भावो ह्य् उपलभ्यते । अतोऽदग्ध-देह-सम्बन्धस्यैव तद्-अमृतत्वम् ॥९॥
र्प्च् : ६.१.३१
**ह्द्स् : **३.३१.४३-४४
॥ ४.२.१० ॥
नोपमार्देनातः ॥
अतो हेतो, यदा सर्वे इति श्रुतिर् देह-सम्बन्धोपमर्देनामृतत्वं वक्तुं न प्रभवति ॥१०॥
र्प्च् : ६.१.३१
**ह्द्स् : **२.८.४-६
॥ ४.२.११ ॥
तस्यैव चोपपत्तेर् उष्मा ॥
मृत्योः प्राक् स्थूल-देहे यः संस्पर्शेनोष्मोपलभ्यते, सोऽस्य सूक्ष्मस्यैव देहस्य धर्मो न तु स्थूलस्य । कुतः ? उपपत्तेः । तद्-युक्त-तद्-वियुक्तयोर् जीवन्-मृत-देहयोर् उष्मोपलम्भानुपलम्भाभ्यां सूक्ष्म-देहस्यैवायम् उष्मेति युक्तेर् इत्य् अर्थः । मानान्तराय च-शब्दः । तथा चोष्मनुमित-सूक्ष्म-देह-युक्तो विज्ञोऽपि उत्क्रामतीति ॥११॥
र्प्च् : —
**ह्द्स् : **३.३१.४४, ३.३०.१८, ३.३०.२०
॥ ४.२.१२ ॥
अथाशङ्क्य समाधत्ते—
प्रतिषेधाद् इति चेन्, न, शारीरात् ॥
विदुष उत्क्रान्तिर् न स्यात् । अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकामो भवति न तस्य प्राणा उत्क्रामन्ति [बृ।आ।उ। ४.४.६], ब्रह्मैव सन् ब्रह्माप्य् एति [बृ।आ।उ। ४.४.७] इति बृहद्-आरण्यके तस्य तत् प्रतिषेधाद् इति चेन्, न, अत्र देहात् प्राणानिष्क्रान्तिर् न प्रतिषिद्धः । किन्तु शारीराज् जीवाद् एव । देहात् तु तस्यासौ दर्शितास्ति ॥१२॥
र्प्च् : ११.१५.२४
**ह्द्स् : **३.३१.४४, ३.३२.६-७
**॥ ४.२.१३ ॥
स्पष्टो ह्य् एकेषाम् ॥ **
नैवात्र विवदितव्यम् । हि यस्माद् एकेषां माध्यन्दिनानां शारीरात् प्राणोत्क्रान्ति-प्रतिषेधः स्पष्टो दृश्यते । न तस्मात् प्राणा उत्क्रामन्त्य् अत्रैव समवनीयन्ते, ब्रह्मैव सन् ब्रह्माप्य् एति [बृ।आ।उ। ४.४.७] इति । अत्रैवेति पुरः प्राप्ये ब्रह्मण्य् एवेत्य् अर्थः । यत् तु काण्वाम्नाये आर्त-भाग-प्रश्ने विद्वत्-प्राणान् उत्क्रान्ति-परं याज्ञवल्क्योत्तरं दृश्यते, तत् किल परमार्तैकान्ति-परतया बोध्यम् । यच् च निर्विशेष-ब्रह्मात्मैक्य-ध्यायिनोऽनुत्क्रान्ति-परं तद् इत्य् आह, तन् मन्दं, तद्-अर्थावेदक-पदादर्शनात् निर्विशेषत्वाद्य्-असिद्धेश् च ॥१३॥
र्प्च् : ११.१५.२४
**ह्द्स् : **११.१५.२३-२४
॥ ४.२.१४ ॥
स्मर्यते च ॥
ऊर्ध्वम् एकः स्थितस् तेषां यो भित्त्वा सूर्य-मण्डलम् । ब्रह्म-लोकम् अतिक्रम्य तेन याति परां गतिम् ॥
इति स्मृतिश् च विदुषो मूर्धन्य् अनाडयोत्क्रान्तिम् आह । तथा च विदुषोऽप्य् उत्क्रान्तिर् अस्तीति सिद्धम् ॥१४॥
र्प्च् : २.२.१९-२२
**ह्द्स् : **१०.८७.१८
—ओ)०(ओ—
६। पर-सम्पत्त्य्-अधिकरणम्
॥ ४.२.१५ ॥
सेन्द्रिय-ग्रामः स-प्राणो जीव उक्त्रान्ति-काले तेजः-प्रभृतिषु सूक्ष्म-भूतेषु सम्पद्यते इत्य् अभिहितं सैषा सम्पत्तिर् विज्ञस्य न सम्भवेद् इत्य् आशङ्क्य परिहृतं च । अथेदं विमृश्यते । विदुषो वाग्-आदयः प्राणास् तद्-वपुर्-भूतानि सूक्ष्म-भूतानि च स्व-स्व-हेतौसम्पद्यन्ते परमात्मनि वेति संशये—यत्रास्य पुरुषस्य इत्य् आदि श्रुतेः स्व-स्व-हेताव् इति प्राप्ते—
**तानि परे तथा ह्य् आह ॥ **
तानि तेजः परस्याम् इत्य् अत्र तेजः-शब्दितानि वाग्-आदि-प्राण-भूतानि परे सर्वात्म-भूते ब्रह्मणि सम्पद्यन्ते तस्यैव सर्वोपादानत्वात् । कुतः ? हि यस्मात्, तेजः परस्यां देवतायाम् इति श्रुतिर् एव तथाह । यत्रासेत्य् आदिकं तु जहत्-स्वार्थम् इत्य् अभाणि प्राक् ॥१५॥
र्प्च् : २.४.२२, २.६.१५, ८.३.३
**ह्द्स् : **१.१५.४१-४२
—ओ)०(ओ—
७। अविभागाधिकरणम्
॥ ४.२.१६ ॥
अथ तत्रैव पुनर् विमर्शान्तरम् । या खलु परमात्मनि विद्वत्-प्राणादि-सम्पत्तिर् उक्ता सा किं वाङ्-मनसीत्य् आदिवत् संयोगापत्तिः किं यथा नद्यः स्यन्दमानाः समुद्र इत्य्-आदिवत् तादात्म्यापत्तिर् इति सन्देहे पूर्व-स्वारस्य-प्राप्तेर् अविशेषाच् च तद्वत् संयोगापत्तिर् इति प्राप्ते—
**अविभागो वचनात् ॥ **
अथ अचिन्त्य-शक्ति-विशिष्टे परमात्मनि प्राणादेर् अविभागस् तादात्म्यापत्तिः । कुतः ? वचनात् । षष्ठे प्रश्ने—एवम् एवास्य परिद्रष्टुर् इमाः षोडश-कलाः पुरुषायणाः पुरुषं प्राप्यास् तं गच्छन्ति [प्र।उ। ६.५] इति प्राणादीनां कलानां परमात्मनि सम्पत्तिम् अभिधाय पुनर् भिद्येते चासां नाम-रूपे पुरुष इत्य् एवं प्रोच्यते स एषोऽमृतो भवति इति तासां नाम-रूप-भेदस्योक्तेः । आत्मअयतिस्थूल-शरीराद् उत्क्रान्तस्य जीवस्य विदुषः सूक्ष्मं शरीरं विद्यया विप्लुष्ट-कारीष-पिण्डवज् जीर्णम् अप्य् अनुवर्तते । अथाण्डाद् विनिष्क्रान्तस्य तस्याष्टमावरणे प्रकृतौ तद्-विकार-भूतं सूक्ष्मं तद् विलीयते । स तु विशुद्धः प्राप्त-ब्राह्म-वपुः प्रकृत्यापाश्रयेण तेन ब्रह्मणा सह संयुज्यत इति ॥१६॥
र्प्च् : ११.२६.३०, २.९.१०, ४.३.२९, १०.६४.२०, ३.९.११
**ह्द्स् : **१२.५.८-११
—ओ)०(ओ—
८। तद्-ओकोऽधिकरणम्
॥ ४.२.१७ ॥
अथ विद्वद्-उत्क्रान्तौ प्रतिज्ञातं विशेषं दर्शयितुम् आरम्भः । शतं चैका चेति वाक्ये शताधिकया विदुषो गतिर् अन्याभिस् तु अविदुष इत्य् एष नियमो युक्तो न वेति सन्देहे, नाडीनाम् अतिसौक्ष्म्यात् बाहुल्याच् च दुर्विवेचनतया पुरुषेण ग्रहीतुम् अशक्यत्वान् न युक्तः । तयोर्ध्वम् आयन्न् अमृतत्वम् एति इति यादृच्छिकोत्क्रान्त्य्-अनुवादो भविष्यतीत्य् एवं प्राप्ते—
**तद्-ओकोऽग्र-ज्वलनं तत्-प्रकाशित-द्वारो विद्या-सामर्थ्यात् तच्-छेष-गत्य्-अनुस्मृति-योगाच् च हार्दानुगृहीतः शताधिकया ॥ **
विज्ञः शताधिकया सुषुम्नयैव नाड्या निष्क्रामति । न चेयं नाडी तेन विवेक्तुम् अशक्या भवेत् । यद् अयं विद्या-सामर्थ्यादि-हेतुभ्यां हार्दानुगृहीतो भवति । विद्योपासना तस्या सामर्थ्यात् प्रभावात् । विद्या-शेष-भूता या गतिर् आतिवाहिकैस् तत्-पद-प्राप्तिस् तस्या स्मृति-सातत्याच् च । हार्देन हृदय-मन्दिरेण हरिणानुकम्पितो भवतीत्य् अर्थः । ततश् च तस्योपसंहृत-वाग्-आदि-करणस्योच्चिक्रमिषोर् जीवस्योक्तः स्थानं हृदयम् अग्र-ज्वलनं प्रकाशिताग्रं भवति । स तु जीवस् तत्-प्रकाशित-द्वारस् तेन हार्देन श्री-हरिणा प्रकाशितं द्वारं शताधिकया नाड्या मूलं यस्मै तादृशः सन् तां नाडीं विजानातीति । तया विदुषो गतिर् युक्तेति ॥१७॥
र्प्च् : ३.३२.१०, ११.२९.५, १०.६०.३७, १०.८०.११, २.२.२४, १२.११.८
**ह्द्स् : **२.२.२४
—ओ)०(ओ—
॥ ४.२.१८ ॥
रश्म्य्-अनुसाराधिकरणम् ॥
छान्दोग्ये—
अथ यत्रैतस्मात् शरीराद् उत्क्रामत्य् एतैर् एव रश्मिभिर् ऊर्ध्वम् आक्रमते । स ओम् इति वा होह म्रियते स यावत् क्षिप्येन् मनस् तावद् आदित्यं गच्छत्य् एतद् वै खलु लोक-द्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् । तद् एष श्लोकः । शतं चैका च [छा।उ। ८.६.५-६] इत्य् आदि श्रूयते ।
इहैतद् गम्यते मूर्धन्य् अनाड्या निष्क्रम्य रश्म्य्-अनुसारी सन् गच्छतीति । तत्र संशयः । अहन्य् एव मृतस्य रश्म्य्-अनुसारित्वम् उत निश्य् अपीति । निशि रवि-रश्म्य्-अभावात् मृतस्य तद् इति प्राप्ते—
रश्म्य्-अनुसारी ॥
यदा कदापि मृतो विद्वान् रश्म्य्-अनुसारी सन् गच्छति । विशेषाश्रवणाद् इति शेषः ॥१८॥
र्प्च्, **ह्द्स् : **३.३२.७
—ओ)०(ओ—
१०। निशाधिकरणम्
॥ ४.२.१९ ॥
निशि नेति चेन्, न, सम्बन्धस्य यावद्-देह-भावित्वाद् दर्शयति च ॥
ननु रात्रौ रवि-रश्म्य्-अभावात् तदानीं मृतस्य न तद्-अनुसारित्वम् इति चेन् न । कुतः ? सम्बन्धस्येति । शिरा-रश्मि-सम्बन्धस्य यावद्-देह-भावित्वात् । यावद्-देहोऽस्ति तावत् तत्-सम्बन्धश् चेति । यदा कदापि मृतस्य तद् घटते । अतश् च ग्रीष्म-क्षपासु देह-ज्वालोपलभ्यते । अन्यद् वा तु शीत-प्रतिबन्धान् नेति । न चेदं यौक्तिकम् इत्य् आह दर्शयति चेति । अमुष्माद् आदित्यात् प्रतायन्ते तथासु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्न् आदित्ये सृप्ताः इति छान्दोग्य-श्रुतिस् (८.६.२) तथा दर्शयति । संसृष्टा वा एते रश्मयश् च नाड्यश् च नैषां विभागो वावद् इदं शरीरम् अतः एतैः पश्यत्य् एतैर् उत्क्रमते एतैः प्रवर्तते इति श्रुत्य्-अनन्तरं च । तथा च विदुषस् तद्-अनुसारित्वं नियतम् इति ॥१९॥
र्प्च् : गीता ८.२४, २.२.१७, ३.२५.३५, १०.४६.३२
**ह्द्स् : **११.२५.३०, ११.२५.३२
—ओ)०(ओ—
११। दक्षिणायनाधिकरणम्
॥ ४.२.२० ॥
अथेदं विचार्यते । दक्षिणायने मृतेन विदुषा विद्या-फलं प्राप्यते न वेति । उत्तरायणस्य ब्रह्म-लोक-मार्गत्वेन श्रुति-स्मृत्योः पाठात् भीष्मादीनां तत्-प्रतीक्षा-दर्शनाच् च नेति प्राप्ते—
**अतश् चायनेऽपि दक्षिणे ॥ **
अतो विद्यायाः पाक्षिक-फलत्वाभावात् तया प्रतिबन्धक-कर्मणां परिक्षयाच् च दक्षिणेऽप्य् अयने मृतो विद्वान् प्राप्नोत्य् एव विद्या-फलं पूर्व-पक्षस् तु मन्दः । उत्तरायण-शब्देनातिवाहिक-देवताया वक्ष्यमाणत्वात् । भीष्म-प्रतीक्षायाः पितृ-दत्त-स्वच्छन्द-मृत्युताख्यापनार्थत्वेनाचार-पालनार्थत्वेन वा अदूषकत्वाच् चेति ॥२०॥
र्प्च् : —
**ह्द्स् : **१.९.२९
—ओ)०(ओ—
॥ ४.२.२१ ॥
ननु,
यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ [गीता ८.२३] इत्य् उपक्रम्य, शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते । एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ॥ **[**गीता ८.२६] इत्य् उपसंहृतं भगवता ।
तत्र काल-प्राधान्येनोपक्रमाद् अहरादि-काल-विशेषा मोक्षाय निर्दिष्टाः प्रतीयन्ते । ततश् च रात्रौ दक्षिणायने च मृतस्याविशेषोऽसौ न भवेद् इतीमां शङ्कां परिहरति—
योगिनः प्रति स्मर्यते स्मार्ते चैते ॥
योगिनो ब्रह्म-निष्ठान् प्रति हेया चन्द्र-गतिर् उपादेया त्व् अर्चिर्-आदि-गतिस् तत्र स्मर्यते । यद् एते स्मार्ते स्मृत्य्-अर्हे भवतः—नैते सृती पार्थ जानन् योगी मुह्यति कश्चन [गीता ८.२७] इत्य् उक्तेः । ततश् च नात्र विदुषः काल-विशेषो नियन्तव्यः । काल-प्रधान्येनोपक्रमस् तु नास्ति । अग्न्य्-आदेः कालत्वासम्भवात् । किन्त्व् आतिवाहिका देवास् ते तत्-तच्-छब्दैर् अभिधीयन्ते । वक्ष्यति चैवं भगवान् सूत्रकारः आतिवाहिकास् तल्-लिङ्गाद् [४.३.४] इति ।
दिवा च शुक्ल-पक्षश् च उत्तरायणम् एव च । मुमुर्षतां प्रशस्तानि विपरीतं तु गर्हिते ॥ इत्य् आदिकं तु भवत्य् अज्ञ-विषयम् ।
विज्ञः खलु यत्र क्वापि त्यजन् वपुर् उपैति हरिम् ॥२१॥
र्प्च् : ७.१५.५१, ७.१५.५४-५६
**ह्द्स् : **२.२.१५
॥ इति श्रीमद्-ब्रह्म-सूत्र-भाष्ये चतुर्थाध्यायस्य द्वितीयः पादः ॥
॥ ४.२ ॥
—ओ)०(ओ—
(४.३)