दत्त्वा विद्यौषधं भक्तान् निरवद्यान् करोति यः ।

दृक्-पथं भजतु श्रीमान् प्रीत्यात्मा स हरिः स्वयम् ॥

१। आवृत्त्य्-अधिकरणम्

॥ ४.१.१ ॥

विद्या-फल-विचारोऽयम् अध्यायः । यद्यप्य् अत्र कतिपयैः सूत्रैर् आदितः साधन-विचारोऽस्ति, तथापि फल-प्राधान्यात् फलाध्यायो भण्यते । आत्मा वा अरे द्रष्टव्यः [बृ।आ।उ। ४.५.६] इत्य् आदि श्रूयते । एतद् विहितस्य श्रवणादेर् आवृत्तिः कार्या न वेति संशये सकृद् अनुष्ठिताद् अग्निष्टोमादेः स्वर्गादिवत् सकृत् कृताद् अपि श्रवणादेर् आत्म-दर्शनं स्याद् अतो नेति प्राप्ते—

आवृत्तिर् असकृद् उपदेशात् ॥

श्रवणादेर् आवृत्तिर् आवश्यकी । कुतः ? स य एषोऽणिमा, ऐतदात्म्यम् इदं सर्वं, तत् सत्यं, स आत्मा, तत्त्वम् असि [छा।उ। ६.८.७] इति श्वेतकेतुं प्रति नव-कृत्वः कथनात् । न च सकृत्-कृतेन कृतः शास्त्रार्थ इति न्याय-विरोधः । तस्यादृष्ट-फल-विषयत्वात् । अत्रात्म-साक्षात्कार-लक्षणस्य दृष्ट-फलस्य सम्भवात् वैतुष्य-दृष्ट-फलकावघातादिवत् फल-पर्यन्तं श्रवणाद्य्-आवर्तनीयम् इति॥१॥

र्प्च्: गीता ६.१५, भागवत ५.१२.१३, १०.४४.१५, ११.२०.२९-३०, ३.२९.११-१२।

ह्द्स्: भा।पु। १.१.३।

॥ ४.१.२ ॥
लिङ्गाच् च ॥

तद् विज्ञाय पुनर् एव वरुणं पितरम् उपससार [तै।उ। ३.२] इति भृगोर् आवृत्ति-लिङ्गाच् च सा सिद्धा । इदम् आवृत्ति-विधानम् अपराध-सत्त्वापेक्षयेति बोध्यम् ॥२॥

र्प्च्: ११.१४.२६, १०.२९.१५, १०.४४.३९, ७.१.२५*

ह्द्स्: १.२.२२, १.८.३६।

—ओ)०(ओ—

२। आत्मत्वोपासनाधिकरणम्

॥ ४.१.३ ॥

अथ तत्रैव विचारान्तरम् । इदम् उपासनम् ईश्वर-बुद्ध्यात्म-बुद्ध्या इति । जुष्टं यदा पश्यत्य् अन्यम् ईशम् [श्वे।उ। ४.७] इति श्रुतेर् ईश्वर-बुद्ध्येति प्राप्ते—

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥

तु-शब्दोऽवधारणे । स ईश्वर आत्मेत्य् एवोपास्यः । यत् कारणं तम् आत्मत्वेनोपगच्छन्ति तत्त्व-ज्ञाः, येषां नोऽयम् आत्मायं लोकः [बृ।आ।उ। ४.४.२२] इत्य् आदिना । तथा शिष्यान् अपि ग्राहयन्ति च, आत्मेत्य् एवोपासीत [बृ।आ।उ। १.४.७] इत्य् आदिना । इहात्म-शब्देन पुरुषाकारं विज्ञानान्द-स्वरूपं विभवस् तु बोध्यते । स्व-सत्ता-प्रदत्त्वादिना स्वात्म-भूतम् इत्य् अपरे। यत् तु जीवस्यैवाविद्या-विनिइर्मुक्तस्य ब्रह्मत्वाद् आत्म-धिया तच्-चिन्तनम् इत्य् आह तद् असत् प्रागे एव प्रत्याख्यानात् ॥३॥

र्प्च्: ११.१४.२५, १०.२९.१५, १०.४४.३९, ७.१.२५।

ह्द्स्: १०.१४.५५

—ओ)०(ओ—

३। प्रतीकाधिकरणम्

॥ ४.१.४ ॥

छान्दोग्यादौ मनो ब्रह्मेत्य् उपासीत [छा।उ। ३.८.१] इत्य् आदीन्य् उपासनानि श्रूयन्ते । तत्र संशयः—ईश्वरवत् मन आदाव् आत्म-धीः कार्या न वेति । मनो ब्रह्मेत्य् अभेद-प्रतीतेः कार्येति प्राप्ते—

न प्रतीके न हि सः ॥

न खलु प्रतीके मन आदौ तद्-धीः कार्या । हि यस्मात् । प्रतीके ईश्वरो न भवति । किन्तु तस्याधिष्ठानम् एवेति । स्मृतिश् च—

खं वायुम् अग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् । सरित्-समुद्रांश् च हरेः शरीरं यत् किं च भूतं प्रणमेद् अनन्यः ॥ [भा।पु। १०.२.४१] इत्य् आद्या ।

तथा च सप्तम्य्-अर्थे प्रथमेय्म इति सिद्धान्तः ॥४॥

र्प्च्: ११.२.४१, ३.२९.२१-२५, ७.१४.३७-४०, ७.७.५३, ४.३०.२२ *

ह्द्स्: ११.२.४१

—ओ)०(ओ—

४। ब्रह्म-दृष्ट्य्-अधिकरणम्

॥ ४.१.५ ॥

ईश्वरे दर्शितात्म-दृष्टिः प्रतीके प्रतिषिद्धा । अथ तस्मिन्न् ईश्वरे ब्रह्म-दृष्टिः कार्या न वेति विच्यार्यते । ईश्वर-पराणि ब्रह्म-शब्दवन्ति वाक्यानि विषयः । अत्र विहिता ब्रह्म-दृष्टिर् न कार्या पूर्वम् आत्म-दृष्ट्य्-अवधारणाद् इति प्राप्ते—

ब्रह्म-दृष्टिर् उत्कर्षात् ॥

ईश्वरे तस्मिन्न् आत्म-दृष्टिर् इति ब्रह्म-दृष्टिश् च नित्यं कार्या । कुतः ? उत्कर्षात् । अनन्त-कल्याण-गुणोपस्थापकत्वेन तस्याः श्रैष्ठ्यात् । श्रुतिश् च—अयम् आत्मा ब्रह्म सर्वानुभूतिः [बृ।आ।उ २.५.१९] इत्य् उभयं दर्शयति । अथ कस्माद् उच्यते ब्रह्मेत्य् आदिना तथैव निर्वक्ति च ॥५॥

र्प्च्: ११.२.४५, ११.२.५२*

ह्द्स्: १.५.१४, ११.२९.१५

—ओ)०(ओ—

५। आदित्यादिमत्य्-धिकरणम्

॥ ४.१.६ ॥

चन्द्रमा मनसो जातश् चक्षोः सूर्यो अजायत । मुखाद् इन्द्रश् चाग्निश् च प्राणाद् वायुर् अजायत ॥ [ऋग्-वेद १०.९०.१९]

इति पुरुष-सूक्ते श्रूयते । अत्र भगवच्-चक्षुर् आदिष्व् आदित्यादि-हेतुता-बुद्धयः प्रतीयन्ते । ताः कार्या न वेति वीक्षायां पङ्कजादि-प्रख्येष्व् अतिसुकुमारेषु तेषूग्र-हेतुता-बुद्धीनाम् अनर्हत्वान् न कार्येति प्राप्ते—

आदित्यादि-मतयश् चाङ्ग उपपत्तेः ॥

पूर्व-पक्ष-निरासार्थश् च-शब्दः । विष्णोश् चक्षुर्-आदिष्व् अङ्गेषु तद्-बुद्धयः कार्याः । कुतः ? उपपत्तेः । ताभिर् उत्कर्ष-सिद्धेः । सूर्य-जनक-चक्षुष्ट्वादिकं हि तद्-उत्कर्षकं भवति । तादृशानाम् अपि तेषां तद्-धेतुता तु श्रौतत्वाद् अलौकिकत्वाच् चप्रतिपत्तव्या ॥६॥

र्प्च्: १०.६३.३५, १०.६३.३८, १०.८.३६-३९, १२.१२.१४, १०.२.२६

ह्द्स्: ८.५.३४-३६।

—ओ)०(ओ—

६। आसीनाधिकरणम्

॥ ४.१.७ ॥

त्रिर् उन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य । ब्रह्मोडुपेन प्रतरेत विद्वान् स्तोत्रांसि सर्वाणि भयावहानि ॥ [श्वे।उ। २.८]

इति श्वेताश्वतरैः पठ्यते । तत्रेदम् आसन-विधानम् आवश्यकं न वेति संशये मानस-व्यापारं स्मरणं प्रति देह-स्थित-विशेषस्यानुपयोगात् नावश्यकम् इति प्राप्ते—

आसीनः सम्भवात् ॥

आसीनः कृतासन एव श्री-हरिं स्मरेत् । कुतः ? तस्यैव तत्-सम्भवात् । शयनोत्थान-गमनेषु चित्त-विक्षेपस्य दुर्वारत्वात् तद्-असम्भवः ॥७॥

र्प्च्: ३.२८.८, ७.१५.३१-३२*

ह्द्स्: ११.१४.३२, ७.१५.३१

॥ ४.१.८ ॥

ते ध्यान-योगानुगता अपश्यन् [श्वे।उ। १.३] इत्य् आदिभिस् तल्-लिप्सोर् ध्यानं तैः पठ्यते । तच् च कृतासनस्य सम्भवति नान्यस्येत्य् आह—

ध्यानाच् च ॥

विजातीय-प्रत्ययान्तराव्यवहितम् एक-चिन्तनं ध्यानम् । तच् च स्वापादितम् अतो न सम्भवेद् अतः कृतासन इति ॥८॥

र्प्च्: ३.२८.१२, ४.८.५२, ११.१४.४५*

ह्द्स्: ४.८.४५-४६, ४.८.५२

—ओ)०(ओ—

॥ ४.१.९ ॥
अचलत्वं चापेक्ष्य ॥

चोऽवधृतौ । छान्दोग्ये निश्चलत्वम् एवापेक्ष्य ध्यायतेः प्रयोगः, ध्यायतीव पृथिवी [छा।उ। ७.६.१] इति । अतो लिङ्गाद् अप्य् आसीनः स्यात् । ध्यायति कान्तं प्रोषित-रमणीति लोकेऽपि ॥९॥

र्प्च्: ११.९.२२-२३, ११.१४.४३*

ह्द्स्: ११.१४.४६

॥ ४.१.१० ॥
स्मरन्ति च ॥

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । नात्युच्छ्रितं नातिनीचं चैलाजिन-कुशोत्तरम् ॥ तत्रैकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः । उपविश्यासने युञ्ज्याद् योगम् आत्म-विशुद्धये ॥ समं काय-शिरो-ग्रीवं धारयन्न् अचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् ॥ [गीता ६.११-१३]

इत्य् आदिषु ध्यातॄणां देहेन्द्रिय-मनसां नैश्चल्यं स्मरन्ति । तच् चासनाद् विना न सम्भवेद् अतः सासनेनैव भाव्यम् इति तथैवोक्तम् ॥१०॥

र्प्च्: ४.१२.१७

ह्द्स्: ३.२८.८

॥ ४.१.११ ॥

अथ आत्मा वा अरे द्रष्टव्यः [बृ।आ।उ। ४.५.६] इत्य् आदिषु प्राग्-उक्तेषु वाक्तेषु विचारान्तरम् । उपासनेऽस्मिन् दिग्-देश-काल-नियमः स्यान् न वेति वीक्षायां वैदिके कर्मणि तनि-नियमस्य दर्शनाद् उपासनस्य च वैदिकत्वाविशेषाद् इति प्राप्ते—

यत्रैकाग्रतो तत्राविशेषात् ॥

यत्र दिग्-आदौ चित्तैकाग्रता स्यात् तत्रैवोपासीत हरिं नास्त्य् अत्र दिग्-आदि-नियम इत्य् अर्थः । कुतः ? अविशेषात् तद्वद् अत्र विशेषस्याश्रवणात् । स्मृतिश् चैवम् आह—

तम् एव देशं सेवेत तं कालं ताम् अवस्थितिम् । तान् एव भोगान् सेवेत मनो यत्र प्रसीदति ॥ न हि देशादिभिः कश्चित् विशेषः समुदीरितः । मनः-प्रसादनार्थं हि देश-कालादि-चिन्तनम् ॥ [वराह-पुराण] इति ।

नन्व् अस्ति देश-विशेष-नियमः ।

समे शुचौ शर्करा-वह्नि-बालुका- विवर्जिते शब्द-जलाश्रयादिभिः । मनोऽनुकूले न तु चक्षु-पीडने

गुहा-निवाताश्रयणे प्रयोजयेत् ॥ [श्वे।उ। २.१०]

इति श्वेताश्वतरोक्त्स् तीर्थ-सेवाया मोक्ष-हेतुत्व-प्रतिपादनाच् चेति चेत्, सत्यम् । सत्य् उपद्रवे तीर्थम् अप्य् असाधकं, असति तु तस्मिन् साधकतमं तत् । अत उक्तं मनोऽनुकूले इति ॥११॥

र्प्च्: ७.१५.३१, ४.१२.१७*

ह्द्स्: ११.१३.२, ११.१३.६

—ओ)०(ओ—

७। आप्रमाणाधिकरणम्

॥ ४.१.१२ ॥

स यो हैतत् भगवन् मनुष्येषु प्रायणान्तम् ओङ्कारम् अभिध्यायीत [प्रश्न।उ। ५.१] इति षट्-प्रश्न्यां, यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्म-वादिनश् च इति नृसिंह-तापन्यां च श्रूयते । अन्यत्र च एतत् सामगायन्न् आस्ते, तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः [ऋ।वे। १.२.२०] इत्य् आदि । इह मुक्ति-पर्यन्तं मुक्त्य्-अन्तरं चोपासनम् उक्तम् । तत् तथैव भवेद् उत मुक्ति-पर्यन्तम् एवेति संशये मुक्ति-फलत्वात् तत्-पर्यन्तम् एवेति प्राप्ते—

आ प्रायणात् तत्रापि हि दृष्टम् ॥

आप्रयाणात् मुक्ति-पर्यन्तम् उपासनं कार्यम् इति । तत्रापि मोक्षे च । कुतः ? हि यतः श्रुतौ तथा दृष्टम् । श्रुतिश् च दर्शिता । सर्वदैनम् उपासीत यावद् विमुक्तिः । मुक्ता अपि ह्य् एनम् उपासते इति सौपर्ण-श्रुतौ । तत्र तत्र च यद् उक्तं तत्राहुः । मुक्तैर् उपासनं न कार्यं विधि-फलयोर् अभावात् । सत्यं तदा विध्य्-अभावेऽपि वस्तु-सौन्दर्य-बलाद् एव तत् प्रवर्तते। पित्त-दग्धस्य सितया पित्त-नाशेऽपि सति भूयस् तदा स्वादवत् । तथा च सार्वांहकं भगवद्-उपासनं सिद्धम् ॥१२॥

र्प्च्: २.२.३६, ११.२०.२९, ११.२९.१७, ११.२०.७-९, १.५.१२, १०.१४.४, ११.१४.१९-२०, ११.१९.३-५

ह्द्स्: १.१.३, १.७.१०, १.२.२२

—ओ)०(ओ—

८। तद्-अधिगमाधिकरणम्

॥ ४.१.१३ ॥

एवं विद्या-साधनं विचार्य तत्-फलम् इदानीं विचारयति । छान्दोग्ये—यथा पुष्कर-पलाश आपो न श्लिष्यन्ते, एवम् एवं-विदि पापं कर्म न श्लिष्यते [छा।उ। ४.१४.३] इति । तद् यथेषीका-तूलम् अग्नौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते [छा।उ। ५.२४.३] इति च श्रूयते ।

इह संशयः–क्रियमाण-सञ्चित-पापे भोगेन क्षयणीये उत विद्या-प्रभावात् तयोर् अश्लेष-विनाशौ स्याताम् इति । नाभुक्तं क्षीयते कर्म कल्प-कोटि-शतैर् अपि [ब्र।वै।पु।प्र।ख। २६.७०] इति, अवश्यम् एव भोक्तव्यं कूटं कर्म शुभाशुभम् [] इति स्मृतेः, तेनापि ते भोगेन क्षपणीये । एवं सति श्रुत्य्-अर्थस् तु तद्-विदां प्राशस्त्यं लक्षयतीति प्राप्ते—

तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ, तद्-व्यपदेशात् ॥

तस्य ब्रह्मणोऽधिगमस् तद्-अधिगमः, ब्रह्म-विद्येत्य् अर्थः । तस्यां सत्याम् उत्तरस्य क्रियमाणस्य पापस्य अश्लेषःपूर्वस्य तु सञ्चितस्य विनाशो भवति । कुतः ? तद् इति । यथा इत्य्-आदिभ्यां वाक्याभ्यां तयोस् तथा-विधानाद् इत्य् अर्थः । न हि श्रुतेऽर्थे सङ्कोचः शक्यः कर्तुम् । नाभुक्तम् इत्य् आदिकं त्व् अज्ञ-विषयतया युक्तिमत् ॥१३॥

**र्प्च्- **११.१०.३१, ११.२०.३०, १.७.४, ११.३.४३, ११.१४.२६।

**ह्द्स्- **१.२.२१।

–ओ)०(ओ–

९। इतराधिकरणम्

॥ ४.१.१४ ॥

बृहद्-आरण्यके श्रूयते—उभे उ हैवैष एते तरति [बृ।आ।उ। ४.४.२२] इति । अत्रोभयोः पुण्य-पापयोस् तीर्णतोच्यते । भवेद् इह संशयः । उत्तर-पूर्वयोर् अधयोर् इव पुण्ययोर् अपि तयोर् अश्लेष-विनाशौ स्यातां न वेति । पुण्ययोस् तौ न स्यातां वैदिकत्वेन तया सहाविरोधात्, किं तु ते भोगेनैव क्षपणीये । तथा च प्रतिबन्ध-सत्त्वात् विद्यायां सत्यां विमुक्तिर् इति रिक्तं वचः । एवअं प्राप्ते प्राग्-उक्तम् अतिदिशति—

इतरस्याप्य् एवम् असंश्लेषः पाते तु ॥

इतरस्योत्तर-पूर्व-रूपस्य पुण्यस्याप्य् एवं पापवद् अश्लेषो विनाशश् च विद्यया भवति । न च पुण्यं वैदिकत्वात् तया सहाविरुद्धम् । स्व-फल-हेतुत्वेन तत्-फल-प्रतिबन्धात् । न च तद्-वस्तुतः शुद्धम् । सर्वे पाप्मानोऽतो निवर्तन्ते इति छान्दोग्ये । तत्रापि पाप्म-शब्द-प्रयोगात् । अत एव यथैधांसि समिद्धोऽग्निः इत्य् आदौ सञ्चित-कर्म-मात्र-क्षयः स्मर्यते । तथा च पापय्र् इव पुण्ययोश् च तौ सिद्धौ । वक्तव्यम् आह पाते त्व् इति । तुर् निश्चये । प्रारब्ध-नाशे सति मुक्तिर् एवेति न रिकं तद्-वचः ॥१४॥

र्प्च् : १०.२९.९-१०

ह्द्स्- ११.१४.१९

–ओ)०(ओ–

१०। अनारब्ध-कार्याधिकरणम्

**॥ ४.१.१५ ॥ **

सञ्चितयोः पाप-पुण्यय्र् उभयोर् उभयोर् विद्यया तत्-कृतस्य देहस्यापि तदैव नाशापत्तिस् ततो ब्रह्म-विदाम् उपदेशाद्य्-असम्भव इत्य् आशङ्कां परिहर्तुम् अधिकरणम् आरभते । तथा हि सञ्चिते पाप-पुण्ये द्विविधे । अनारब्ध-फले आरब्ध-फले चेति । तयोर् द्विविधयोर् अपि विनाशः स्याद् उतानारब्ध-फलयोर् एवेति विषये उभे उ हैवेत्य् आदौ विशेषाश्रवणात् विद्यायाः सर्वत्र तौल्यात् तयोर् द्विविधयोर् अपीति प्राप्ते—

अनारब्ध-कार्य एव तु पूर्वे तद्-अवधेः ॥

तु-शब्दः शङ्का-च्छेदार्थः । पूर्वे सञ्चित् पाप-पुण्ये अनारब्ध-कार्ये अनुत्पादित-फले एव विद्यया विन्श्यतो न त्व् आरब्ध-कार्ये चोत्पादित-फले । कुतः ? तद्-अवधेः । तस्य तावद् एव चिरं यावन् न विमोक्ष्ये [छा।उ। ६.१४.२] इति श्रुतेः ।

त्वद्-अवगमी न वेत्ति भवद्-उत्थ-शुभाशुभयोर् गुण-विगुणान्वयांस् तर्हि देह-भृतां न गिरः [भा। १०.८७.४०] इति स्मृतेः ।

परेशेच्छायाः प्रारब्ध-नाशावधि-भूतत्व-श्रवणाद् इत्य् अर्थः । एतद् उक्तं भवति । अतिबलिष्ठा खलु विद्या सर्व-कर्माणि निरवशेषाणि दहति प्रदीप-बहिर् अपि विविधान्य् एधांसीति । यद्यपि वाक्यात् प्रतीतं तथापि ब्रह्म-विदां देह-स्थिति-दर्शनात् तद्-आरम्भकं कर्म उपदेशादि-प्रचारिण्या तद्-इच्छयैव तिष्ठेद् इति स्वीकार्यम् । एवं च सति मण्य्-आदि-प्रतिबन्ध-शक्तेर् वह्नेर् इव विद्यायाः किञ्चित् कर्मादाहकत्वेऽपि न कापि क्षतिर् इति । यत् तु वदन्ति आरब्ध-फल-कर्माशयम् अनाश्रित्य विद्योत्पत्तिर् नोपपद्यते । आश्रिते तस्मिन् कुलाल-चक्रवत् प्रवृत्त-वेगस्य तस्य भवेद् एव वेग-नाशापेक्षा । यथा वेग-क्षये च चक्रं स्वयं शाम्येद् एवं फलेऽतीते तद्-आरम्भकं कर्म नश्यतीति । तन् न । अतिबलीयस्यास् तस्याः सर्वाणि तानि प्रसह्य निर्मूलयन्त्यास् तद्-इच्छां विना क्वचिद् अप्य् अवष्टम्भो न स्यात् । न हि गुरुतर-शिला-निपातए चक्रं पुनर् भ्रमितुम् अलम् । तस्मात् प्राग्-उक्तम् एव सुष्ठु ॥१५॥

**र्प्च्- **१०.८७.४०, ११.२८.३१

ह्द्स्- १०.८७.४०

–ओ)०(ओ–

११। अग्निहोत्राद्य्-अधिकरणम्

॥ ४.१.१६ ॥

विदुषः पुरातनं पुण्यं नश्यतीत्य् उक्तेः काम्यवन् नित्य-कर्मणोऽपि विनाशः प्राप्तस् तन्-निरासायेदम् आरभ्यते । उभे उहैवेष एते तरति [बृ।आ।उ। ४.४.२२] इत्य् अत्र काम्यवन् नित्य-कर्माप्य् अग्निहोत्रादि विद्यया विनश्यति न वेति विषये वस्तु-शक्तेर् विहन्तुम् अशक्यत्वात् तद् इव विनश्यतीति प्राप्ते—

अग्निहोत्रादि तु तत्-कार्यायैव तद्-दर्शनात् ॥

शङ्का-च्छेदाय तु-शब्दः । विद्योदयात् प्राग्-अनुष्ठितं नित्याग्निहोत्रादि तत्-कार्याय विद्या-रूपाय फलाय भवति । कुतः ? तद्-दर्शनात् । तम् एतं वेदानुवचनेन [बृ।आ।उ। ४.४.२२] इत्य् आदौ तथावगमाद् इत्य् अर्थः । तथा च नित्याग्निहोत्रादि-भिन्नं पुरातनं पुण्यं कर्म विनश्यतीत्य् अयम् इतरस्याप्य् एवम् इति सूत्रार्थः । तस्य नित्यस्य विनाशो नाभिधीयते जनित-फलत्वात् । न हि गृह-दाह-विप्लुष्टस्य ध्यानादेर् इव वापक्षीणस्य तस्यास्ति नाश-व्यवहारः । कर्मणा पितृ-लोकः इत्य् आदि बृहद्-आरण्यकात् स्वर्ग-प्रदांश-नाशस् तु स्याद् एव ॥१६॥

र्प्च् : ११.२०.११, ११.१८.४४

ह्द्स्- ७.१५.३८-३९, ११.१८.८-९

–ओ)०(ओ–

॥ ४.१.१७ ॥

विद्योपदेशादि-प्रवर्तकेनेश्वर-सङ्कल्पेनैव विदुषां प्रारब्धयोः पुण्य-पापयोः स्थिति-दर्शिता । अथ केषाञ्चिन् निरपेक्षाणां विनैव भोगात् तयोर् विनाशः स्यद् इति प्रदर्श्यते । तत् सुकृत-दुष्कृते विधुनुते तस्य प्रिया ज्ञातयः सुकृतम् उपयन्त्य् अप्रिया दुष्कृतं [कौ।उ। १.४] इति कौषीतकिनः पठन्ति, तस्य पुत्रा दायम् उपयन्ति सुहृदः साधु-कृत्यां द्विषन्तः प्रापकृत्याम् इति तु शाट्यायनिनः । अत्र संशयः । प्रारब्धयोर् अपि तयोर् भोगं विनापि विनाशः प्रतीतः स क्वचित् स्यान् न वेति । भोग्यैक-स्वभावत्वात् तम् अन्तरासो न स्याद् इति प्राप्ते—

अतोऽन्यापि ह्य् एकेषाम् उभयोः ॥

ब्रह्मैक-रतानां परमातुराणां केषाञ्चिन् निरपेक्षाणां विनैव भोगम् उभयोः प्रारब्धयोः पाप-पुण्ययोर् विश्लेषः स्यात् । तत्र हेतुर् अन्येति । हि यस्मात् अत ईश्वरेच्छया स्थितारब्ध-निरूपक-श्रुतेर् अन्या च श्रुतिर् एकेषां शाखायां पठ्यते । तत्-सुकृत-दुष्कृते इत्य् आद्या तस्य पुत्रा दायम् इत्य् आद्या च । आत्मअयतिज्ञान-भोगाभ्यां कर्म-विनाशं प्रकाशयन्त्या श्रुत्या सहैतस्या श्रुतेर् अविरोधाय विषय-भेदोऽअश्यं वाच्यः । न चैषा काम्य-कर्म-विषया । तद्-अधिगमादि-सूत्राभ्यां प्रारब्धातिरिक्तयोर् निखिलयोः पाप-पुण्ययोर् विनाश-निरूपणात्, पाप-कृत्यायां काम्यत्वाभावाच् च । तस्माद् अतिप्रेयसां स्वं द्रष्टुम् आर्तानां केषाञ्चित् भक्तानां स्वाप्ति-विलम्बम् असहिष्णुर् ईश्वरस् तत्-प्रारब्धानि तदीयेभ्यः प्रदाय तान् स्वान्तिकं नयतीति विशेषाधिकरणे वक्ष्यते । तैश् च तेषां भोगात् तानि भोग्य-स्वभावानीति स्व-कृत-संस्था च सिद्धेति ।

ननु तयोर् अमूर्तत्वाद् अकृताभ्यागम-प्रसङ्गाच् च नैतद् युक्तम् इति चेन्, न, ईश्वरत्वेनान्यथा विधाने सामर्थ्यात् । तस्मात् केषाञ्चित् परमातुराणां विनैव भोगात् प्रारब्धानि विश्लिष्यन्तीति ॥१७॥

र्प्च् : —

ह्द्स्- ११.१४.१९, ३.२५.३३

॥ ४.१.१८ ॥

तेषां तान्य् अन्यगामीनि भवेयुर् इत्य् अत्रासम्भावना-निरासायाह—

यद् एव विद्ययेति हि ॥

तद् एव विद्यया करोति इत्य् आद्या श्रुतिर् जैव-ज्ञान-सम्बन्धात् कर्मणि वीरातिशयं दर्शयति । हि यस्मात् अतो विद्या-सामर्थ्याप्रतिबन्ध-रूपात् पारमेश्वरात्प्रसादान् निर्भोगारब्धाभाव-रूपोऽतिशयो जीवेऽपि क्वचिद् भवेद् इति न चित्रम् ॥१८॥

र्प्च् : ११.२०.३२-३४, ११.२६.३०, कर्णामृत १०७ (भक्तिस् त्वयि)

ह्द्स्- ३.२५.२७, ३.२५.३७

–ओ)०(ओ–

१२। इतर-क्षपणाधिकरणम्

॥ ४.१.१९ ॥

ततः किम् ? तद् आह—

भोगेन त्व् इतरे क्षपयित्वा सम्पद्यते ॥

प्राप्तव्य-पार्षद्-अशरीराद् इतरे स्थूल-सूक्ष्म-शरीरे क्षपयित्वा विहायाथ पार्षद् अवपुः प्राप्त्य्-अनन्तरं भोगेन, सोऽश्नुते सर्वान् कामान् [तै।उ। २.१] इत्य् आदि श्रुत्य्-उक्तेन सम्पद्यते सम्पन्नो भवतीत्य् अर्थः ॥१९॥

र्प्च् : ५.१.१६

ह्द्स्- ४.१.१९, ३.२५.३३, ३.२५.३५

—ओ)०(ओ—

(४.२)