श्रद्धा-वेश्मन्य् आस्तृते सच्छमाद्यैर्
वैराग्योद्यद्-वित्ति-सिंहासनाढ्ये ।
धर्म-प्राकारञ्चिते सर्व-दात्री
प्रेष्ठा विष्णोर् भाति विद्येश्वरीयम् ॥
१। पुरुषार्थाधिकरणम्
॥ ३.४.१ ॥
पूर्वस्मिन् पादे ध्यानोपासनादि-शब्द-वाच्या ब्रह्म-विषया सपरिकरा विद्या दर्शिता । अथास्मिन् पादे तस्याः स्वातन्त्र्यं कर्मणस् तद्-अङ्गत्वं तद्-अधिकृतानां त्रैविध्यं चेत्य् एवम् आदयोऽर्थाः प्रकाश्यन्ते । तत्र क्रतु-भेदात् विद्यार्थिनस् त्रेधा सम्भवन्ति । केचित् लोक-वैचित्री-दिदृक्षवो वर्णाश्रम-धर्मान् परिनिष्ठयाचरन्तः सनिष्ठा उच्यन्ते । केचित् तु लोक-सञ्जिघृक्षयैव तान् आचरन्तः परिनिष्ठिताः । ते चैते चोभये साश्रमाः । परे तु प्राग्-भवीयैर् धर्मैः सत्य-तपो-जपादिभिश् च विशुद्धा निरपेक्षाः । तत्र ते निराश्रमाः । इत्य् एवं त्रैविध्यं व्यक्तं भावि । तत्रादौ विद्यायाः स्वातन्त्र्यम् उच्यते । तरति शोकम् आत्मवित्, ब्रह्म-विद् आप्नोति परम् इत्य् एवम् आदीनि वाक्यानि श्रूयन्ते । एतद् ध्य् एवाक्षरं ज्ञात्वा यो यद् इच्छति तस्य तत् इति काठके च ।
इह संशयः—विद्या मोक्षस्यैव हेतुर् उत स्वर्गादेश् चेति । विदुषोऽन्यत्र स्पृहाभावान् मोक्षस्यैवेति प्राप्ते—
पुरुषार्थोऽतः शब्दाद् इति बादरायणः ॥
सर्वोऽपि पुरुषार्थोऽतो विद्यात एव स्याद् इति भगवान् बादरायणो मन्यते । कुतः ? शब्दात् । उक्त-श्रुतेर् इत्य् अर्थः । विद्यया परितुष्टो हरिः स्व-भक्ताय आत्मानं ददाति । कर्दमादिवत् फलान्तरेच्छायां तु तयैव कर्म-परिकरतया तच् चार्पयतीति ॥१॥
र्प्च्- ११.१८.३५, ११.११.१०-१२
**ह्द्स्- **११.१८.२८, ११.१८.३६।
॥ ३.४.२ ॥
अत्र जैमिनिः प्रत्यवतिष्ठते—
**शेषत्वात् पुरुषार्थ-वादो यथान्येष्व् इति जैमिनिः **
इज्यस्य विष्णोर् यजमानस्य स्वस्य च स्वरूप-सम्बन्धौ विज्ञाय तद्-उक्तेषु तद्-आराधनात्मकेषु कर्मसु जीवः स्वयं प्रवर्तते । तैर् असौ निवृत्त-कल्मषोऽदृष्ट-द्वारा स्वर्ग-मोक्ष-रूपं फलं भजतीति विद्यायाः कर्म-शेषत्वात् । तस्यां या फल-श्रुतिः, सा पुरुषार्थ-वादः पुरुष-सम्बन्ध्य्-अर्थ-वादः स्यात् । यथान्येषु द्रव्य-संस्कार-कर्मसु, पर्ण-मयी जुहूर् भवति न स पापं श्लोकं सृणोति [कृ।य।वे। ३.३.५.७], यदाङ्क्ते चक्षुर् एव भ्रातृव्यस्य वृङ्क्ते [कृ।य।वे। ६.६.१.१], यत् प्रयाजानूयाजा इज्यन्ते, वर्म वा एतद्-यज्ञस्य क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै [कृ।य।वे। २.२.६.१] इत्य् एवं-विधा फल-श्रुतिर् अर्थ-वादः, तद्वद् इति जैमिनिर् मन्यते । यद् उक्तं द्रव्य-संस्कार-कर्मसु परार्थत्वात् फल-श्रुतिर् अर्थ-वादः स्याद् इति । यावज्-जीवं गृहि-धर्मान् यज्ञादीन् अनुतिष्ठतः शम-दमाद्य्-उपेतस्य ब्रह्म-प्राप्तिः श्रूयते—आचार्य-कुलाद् वेदम् अधीत्य इत्य् आदिना ब्रह्म-लोकम् अभिसम्पद्यते न च पुनर् आवर्तते [छा।उ। ८.१५.१] इत्य् अन्तेन । स्मर्यते च—
वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुर् आराध्यते पन्था नान्यत् तत्-तोष-कारणम् ॥ इति ।
एवम् अन्यच् च । त्याग-वाक्यं तु कर्मानर्ह-पङ्ग्व्-अन्ध-विषयम् इति ॥२॥
र्प्च्- ११.५.३७-३८
ह्द्स्- ११.१८.२९, ११.१८.३१।
॥ ३.४.३ ॥
इतोऽपि कर्माङ्गम् आत्म-विद्येत्य् आह—
आचार-दर्शनात् ॥
जनको ह वैदेहो बहु-दक्षिणेन यज्ञेनेजे, यक्षमाणो ह वै भगवन्तोऽहम् अस्मि इति बृहद्-आरण्यकादिषु विद्वद्-वरिष्ठानाम् अपि कर्माचार-वीक्षणात् । केवलया विद्यया पुमर्थ-सिद्धौ क्रिया-प्रयासस् तेषां न स्यात् । तद् एके चेद् इत्य् आदि न्यायात् ॥३॥
र्प्च्- १०.४७.२४
ह्द्स्- ५.१.२३
॥ ३.४.४ ॥
तच्-छ्रुतेः ॥
यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव विर्यवत्तरं भवत् इति छान्दोग्ये तस्याः कर्म-शेषत्व-श्रवणात् ॥४॥
र्प्च्:** **११.१०.१-२
ह्द्स्: ७.११.७, ११.३.४६।
॥ ३.४.५ ॥
समान्वारम्भणात् ॥
तं विद्या-कर्मणी समन्वारभेते पूर्व-प्रज्ञा च [बृ।आ।उ। ४.४.२] इति बृहद्-आरण्यके विद्या-कर्मणोः फलारम्भे साहित्य-दर्शनाद् इत्य् अर्थः ॥५॥
र्प्च्: ११.१८.४५
ह्द्स्: ११.४.४३-४५
॥ ३.४.६ ॥
तद्वतो विधानात् ॥
ब्रह्मिष्ठो ब्रह्मा दर्शपौर्णमासयोस् तं वृणीते [तै।सं] इति तैत्तरीयके ब्रह्म-ज्ञानवतो ब्रह्मत्वेन वरण-विधानात् । ब्रह्म-ज्ञानस्य आर्त्विज्याधिकार-सम्पादकत्वात् कर्माङ्गा विद्येत्य् अर्थः ॥६॥
र्प्च्: ६.७.२७
ह्द्स्: ११.४.४८, ६.७.३२
॥ ३.४.७ ॥
नियमाच् च ॥
ईशावास्योपनिषदि,
कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ [ईश।उ। २]
इत्य् आत्म-विदो यावज्-जीवं कर्मानुष्ठान-नियमाच् च । एतेन क्वचित् त्याजक-वाक्य-श्रवणात् विधान-त्यागयोर् विकल्प इत्य् अपास्तम् । तस्य पङ्ग्व्-आद्य्-अशक्त-विषयत्वात् । वीरहा वा एष देवानां योऽग्निम् उद्वासयते [कृ।यजुः १.५.२] इति तैत्तरीयक-श्रुत्या त्यागस्य विगीतत्वाद् इति ॥७॥
र्प्च्: १०.२४.१२-१३।
ह्द्स्: ११.४.४५, ११.२०.९
॥ ३.४.८ ॥
इत्थं विद्यायाः कर्माङ्गत्वात् फल-साधने स्वातन्त्र्यं नेति प्राप्ते निरस्यति—
अधिकोपदेशात् तु बादरायणस्यैव तद्-दर्शनात् ॥
तु-शब्दात् पूर्व-पक्षो व्यावृत्तः । कर्मणः सकाशाद् अधिका तद्-उद्देश्यत्वेन तत्-प्रधान-भूता विद्येति मन्तव्यम् । कुतः ? एवं बादरायणस्योपदेशात् । न च तद्-उपदेशो विनिर्मूल इत्य् आह—तद्-दर्शनाद् इति । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिशन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन चैतम् एव विदित्वा मुनिर् भवत्य् एतम् एव प्रव्राजिनो लोकम् अभीप्सन्तः प्रव्रजन्ति [बृ।आ।उ। ४.४.२२] इति बृहद्-आरण्यके विद्या-फलकानि कर्माणि विधीयन्ते । जातायां च तस्यां तानि पुनः परित्याज्यन्ते । परत्र तेषां नैरर्थक्यात् साधनात् फलं किल प्रधानम् ॥८॥
र्प्च्: ११.५.१६-१७, ११.२३.५०, ११.२८.३८, ११.३.४५, ११.३.४७, ११.२०.९, ११.१४.१९, ११.१२.८, ११.१२.१३
ह्द्स्: ११.२०.२६, ११.२०.३२-३३, ११.२०.९
॥ ३.४.९ ॥
यत् तु विद्वद्-वरिष्ठानां कर्माचार-दर्शनात् तच् छ्रेयो विद्येत्य् उक्तं तन्-निरासायाह—
तुल्यं तु दर्शनम् ॥
तद्-छेषत्व-सम्भावनानिरासाय तु-शब्दः । विद्यायाः कर्मानङ्गत्वेऽपि तुल्यं दर्शनम् अस्ति । एतद् ध स्म वै तद्-विद्वांसः आहुर् ऋषयः कावषेयाः किम्-अर्था वयम् अध्येष्यामहे, किम्-अर्था वयं यक्ष्यामहे, एतद् ध स्म वै तत् पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रिरे1, एतं वै तम् आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति [बृ।आ।उ। ३.५.१] इति तत्रैव विद्या-निष्ठानां कर्म-त्याग-दर्शनाद् अनैकान्तिकं तल्-लिङ्गम् इति । कर्माचार-दर्शनम् अप्य् अत्र न बाधकं सत्त्व-शोधाय लोक-सङ्ग्रहाय चापेक्ष्यत्वात् ॥९॥
॥ ३.४.१० ॥
तच् छ्रुतेर् इति निराह—
असार्वत्रिकी ॥
यद् एव विद्ययेति श्रुतिर् असार्वत्रिकी न सर्व-विद्या-विषया प्रकृतोद्गीथ-विद्या-विषयत्वात् । तेन सर्वासां विद्यानां न कर्माङ्गतेति ॥१०॥
र्प्च्: ११.१९.१७, ११.२९.३२
ह्द्स्: ११.२०.७-९
**॥ ३.४.११ ॥
विभागः शतवत् **
तं विद्या-कर्मणीत्य् अत्र विद्या-कर्म-कृतस्य फलारम्भस्य विभागो द्रष्टव्यः । विद्ययैकं फलम् आरभ्यते कर्मणा त्व् अन्यद् इति । तत्र दृष्टान्तः शतेति । यथा धेनु-च्छाग-विक्रयिणं शतम् अन्वेतीत्य् उक्तौ धेन्वा नवति-रूपा दीयन्ते, छागेन तु दशेति शतस्य विभागस् तथेहाप्य् उभयोर् भिन्न-फलत्वात् ॥११॥
र्प्च्: १०.८०.८, ६.१६.३०
ह्द्स्: ११.२०.३७, ११.२१.१-२
॥ ३.४.१२ ॥
अध्ययन-मात्रतः ।
तत्र वेदाध्ययन-मात्र-निष्ठस्यैव, न तु ब्रह्मज्ञस्य ब्रह्मत्वेन वरणम् अतः कर्माङ्गत्वं तस्या प्रत्युक्तम् इत्य् अर्थः । तथा हि ब्रह्मिष्ठो ब्रह्मेत्य् अत्र ब्रह्म-शब्दो वेदार्थको, न तु पर-तत्त्वार्थकः, तदात्मकेन नैष्कर्म्य-श्रवणात् । ततश् चाविकृत-शब्द-रूपं वेदं विज्ञाय सर्वदा तद्-अध्ययन-मात्रं यः करोति, न तेन किञ्चिद् इच्छति स ब्रह्मिष्ठ उच्यते, प्रत्ययेनेष्टेनातथार्थ-बोधनाद् इति । ब्रह्म-विदो ब्रह्मत्वेनानुमतिर् अत्र कर्म-स्तुत्य्-अर्थेति केचित् ।
नन्व् अध्ययन-मात्रवतः कर्माधिकारो न तु ज्ञानवत इत्य् उक्तम् । अज्ञानस्य तद्-असम्भवात् अध्ययनस्य चार्थ-बोध-पर्यन्तत्वात् । तथा च वेदान्तर्गतोपनिषत्-सम्भूतात्म-ज्ञानस्यावर्जनीयत्वेन तस्या पुनस् तद्-अङ्गत्वम् इति चेत्, उच्यते—नहि शब्द-ज्ञानिनो ब्रह्म-वित्त्वं, किन्तु तद्-अनुभाविन एव । न च मधु मधुरम् इति शाब्दी-प्रतीतिम् उपेतस् तन्-माधुर्य-विद् भवति । तथा सति मत्ततादि-तत्-कार्योदय-प्रसङ्गात् । न चैवम् अस्ति । अत एव यद् वेत्थ तेन मोपसीदेति पृष्टेन नारदेन ऋग्-वेदादि-स्वाधीतम् उक्त्वा, सोऽहम् मन्त्रविद् एवास्मि नात्मवित् इति निर्दिष्टम् । तथा च शाब्द-ज्ञानाद् अन्यैवोपासना । भक्त्य्-अनुभव-पद-वाच्या विद्या पुरुषार्थ-हेतुः । उक्तं च तैत्तरीयके—
वेदान्त-विज्ञान-सुनिश्चितार्थाः सन्न्यास-योगात् यतयः शुद्ध-सत्त्वाः । ते ब्रह्म-लोके तु परान्त-काले परामृतात् परिमुच्यन्ति सर्वे ॥ इति ।
शाब्द-ज्ञानं तु वैराग्यम् इव तत्-परिकर-भूतम् ।
तच् छ्रद्दधाना मुनयो ज्ञान-वैराग्य-युक्तया । पश्यन्त्य् आत्मनि चात्मानं भक्त्या श्रुत-गृहीतया ॥ [भा। १.२.१२] इति स्मृतेः ।
ननु काय-वाङ्-मनो-व्यापार-रूपा भक्तिः । तत्र मानसस्य ध्यानस्यानुभवत्वं भवेत् । काय-वाग्-व्यापार-रूपस्यार्चन-जपादेस् तत्त्वं कथम् इति चेद्, उच्यते–ह्लादिनी-सार-समवेत-संविद्-रूपा भक्तिः, सच्चिदानन्दैक-रसे भक्ति-योगे तिष्ठति [गो।ता।उ। २.७८] इति श्रुतेः । इतरथा भगवद्-वशीकार-हेतुर् असौ न स्यात् । तथाभूतायास् तस्या भक्त-कायादि-वृत्तिस् तादात्म्येन आविर्भूताया क्रियाकारात्ववद् अवसेयम् । श्रुतेस् तु शब्द-मूलत्वात् इति न्यायेनालौकिकेऽचिन्त्येऽर्थे तर्कस् तु निराकृतः ॥१२॥
र्प्च्: ३.२.६, १.२.१२, १.५.३४-३५, १.५.१२, ६.७.३०, ९.९.६
ह्द्स्: १.२.१२, ६.३.३२।
॥ ३.४.१३ ॥
नियमाच् चेति प्रत्याह—
**नाविशेषात् ॥ **
यावज् जीवं विदुषः कर्मानुष्ठानं तया श्रुत्या नियन्तुम् अशक्यम् । कुतः ? अविशेषात् । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः इति तैत्तरीयक-श्रुत्य्-अपेक्षया तस्या प्रामाण्ये विशेषाभावात् । आश्रम-भेदेन तु श्रुति-द्वयं व्यवतिष्ठते ॥१३॥
र्प्च्:** **११.१०.४, ११.१४.९, ११.१२.८, ११.१२.१६, ११.२०.९।
ह्द्स्: १.५.३३-३५
॥ ३.४.१४ ॥
एवं चाद्यं परिहृत्य तद्-वाक्यार्थम् आह—
स्तुतयेऽनुमतिर् वा ॥
वेत्य् अवधारणे । विद्या-स्तुत्य्-अर्थम् इयं यावज्-जीवं कर्मानुष्ठानानुमतिः ईशावास्यम् इति तत् प्रकरणात् । ईदृशी खलु विद्या यन्-महिम्ना सर्वदा कुर्वन्न् अपि कर्म न तेन विद्वान् विलिप्यते इति सा स्तूयते । एवं त्वयि नान्यथेतोऽस्ति [ईशो। २] इति वाक्य-शेषोऽपि तथाह । तथा च कर्माङ्गा विद्येति निरस्तम् ॥१४॥
र्प्च्:** **११.२९.१७-१८।
ह्द्स्: ८.१.८-१०, ८.१.१४-१५।
–ओ)०(ओ–
२। काम-काराधिकरणम्
॥ ३.४.१५ ॥
एवं विद्या-स्वातन्त्र्यम् अभिधायेदानीं महिमातिशयाद् अपि तद् उच्यते—एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् [बृ।आ।उ ४.४.२३] इति वाजसनेयके श्रूयते । तत्र विद्या-विशिष्टानां यथेष्टाचारः स्यान् न वेति संशये, यथेष्टाचारे विहित-त्यागेन प्रत्यवाय-सम्भवात् न स्यात्, इति प्राप्ते—
काम-कारेण चैके ॥
काम-कारेण लोकानुग्रह-फलेन स्वेच्छा-पूर्वक-कर्मानुष्ठानेन जायमानयोर् गुण-दोषयोः सम्बन्धो ब्रह्म-विदि न स्याद् इत्य् एतद्-अर्थिकाम् एव नित्यो महिमेत्य् आदि श्रुतिम् एके शाखिनो यत् पठन्ति, अतः काम-चारेऽपि प्रत्यवायास्पर्शात् स स्याद् इति । ब्राह्मणो ब्रह्मआनुभवी । अत्र विहिते कर्मण्य् अनुष्ठिते न गुण-सम्बन्धस् त्यक्ते च तस्मिन् न दोष-सम्बन्धोऽपि । पुष्कर-पत्रे वारिधि-बिन्दोर् इव तत्र कर्मणोऽश्लेषात् प्रदीप्त-वह्नौ तृण-मुष्टोर् इव दोषस्य भस्मी-भावाच् च । अतः पुरु-प्रभावा सेति ॥१५॥
**र्प्च्- **११.१८.३५, ११.७.९, ११.१४.१८, १०.३३.३४
**ह्द्स्- **११.२१.२, ११.१४.१९।
॥ ३.४.१६ ॥
एवम् अर्थः स्फुटयति—
उपमर्दं च ॥
भिद्यते हृदय-ग्रन्थिः इत्य् आद्या श्रुतिः । यथैधांसि समिद्धोऽग्निर् भस्मसात् कुरुतेऽर्जुन इति, ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा इति स्मृतिश् च विद्यया सर्व-कर्म-विनाशं दर्शयति । तस्माच् च तथा । अत्र सामि-भुक्तस्य प्रारब्धस्यापि तया विनाशे जाते तद्-उत्तर-कालिक-विहित-त्यागो दोषो न स्याद् इति न चित्रम् ।
ननु, देहारम्भकस्य कर्मणो भोगं विना विनाशो नाङ्गीकृत इति चेद् अत्रोच्यते—यद्यपि सर्वाणि कर्माणि निर्दग्धुं विद्या समर्था तथापि तत्-सम्प्रदाय-प्रचारार्थायेश्वरेच्छयैव देहारम्भकं कर्म न निर्दहति । तच् च दग्ध-पटादिवत् विद्वांसम् अनुवर्तत इति प्रारब्धस्य भोग-नाश्यत्व-वाक्योपपत्तिः । वक्ष्यति चैवं—अनारब्ध-कार्ये एव तु पूर्वे तद्-अवधेः इति ॥१६॥
र्प्च्- १.२.१९, ११.१४.१९।
ह्द्स्- १.२.२१, ११.२०.३०, ३.४.१५
॥ ३.४.१७ ॥
ऊर्ध्व-रेतःसु च शब्दे हि ॥
परिनिष्ठित-विशेषेष्व् एवोर्ध्व-रेतःसु यतिषु महा-विद्येषु यस्मात् यथेच्छं कर्माचारः शब्दे प्रतीयते । अतः स्वतन्त्रा विद्येत्य् अङ्गीकार्यम् । शब्दः खलु बृहद्-आरण्यक-श्रुतिः—तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिर् अमौनं च मौनं च निर्विद्याथ ब्राह्मणः । स ब्राह्मणः केन स्याद् येन स्यात् तेनेदृशः [बृ।आ।उ। ३.५.१] इति । निर्विद्य लब्ध्वा ।
सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-सङ्ग्रहम् ॥ [गीता। ३.२५]
इत्य् आदि तु प्रतिष्ठित-परिनिष्ठित-गृहि-विषयम् । तथा च कामचारेऽपि प्रत्यवायास्पर्शो विद्या-महिमेति ॥१७॥
र्प्च्- ११.१८.२७-२९, ११.२०.३६
ह्द्स्- ११.१८.२९
॥ ३.४.१८ ॥
अस्याः श्रुतेर् जैमिनि-मतेनार्थान्तरं दर्शयति—
परामर्शं जैमिनिर् अचोदना चापवदति हि ॥
नियमात् विहित-कर्मणाम् एव स्वेच्छया करणं काम-चार इत्य् एव श्रुत्य्-अर्थः । हि यतः श्रुतिर् एव विदुषः कर्म-परामऋशं करोति कर्म-त्यागम् अपवदति च । तस्माद् अचोदना विद्वान् कर्माणि त्यजेद् इति विध्य्-अभाव इत्य् अर्थः । अयं भावः—कुर्वन्न् एवेह कर्माणि इत्य् आदि श्रुत्या विदुषाम् कर्म-विधानात् वीरहा वा इत्य् आदि-श्रुत्या कर्म-त्यागापवादाच् च तत्-त्यागे विधिर् न सम्भवेत् । युगपत् विधान-त्यागयोर् विरोधात् । न च त्याजक-वाक्यानां निर्विषयता, तेषां परङ्-वाद्य-शक्त-विषयत्वेनोपपत्तेः । तथा च विदुषां श्रौत-स्मार्तानि कर्माण्य् अङ्गीकृत्यैव तत्र केन स्यात् इत्य् आदि कामचारो, न त्व् अन्यथेति जैमिनिर् मन्यते इति ॥१८॥
**र्प्च्- **—
**ह्द्स्- **११.२.३५
**॥ ३.४.१९ ॥ **
एवं तस्य वाक्यस्य जैमिनि-मतानुसारेण सदाचार-विधित्वम् उक्त्वाथ स्व-मते यथेच्छ-करणानुज्ञां तावत् तद्-अर्थं दर्शयति—
अनुष्ठेयं बादरायणः साम्य-श्रुतेः ॥
अनुष्ठेयम् एव कर्म यथेच्छं किञ्चिच् चरणीयं किञ्चिच् च नेति भगवान् बादरायणो मन्यते । कुतः ? साम्य-श्रुतेः । केन स्यात् येन स्यात् तेनेदृशः इति श्रुत्या केनापि प्रकारेण वृत्ताव् अपि ज्ञानिनः साम्य-श्रवणाद् इत्य् अर्थः । जैमिनि-मतेन सर्व-चरण-पक्षे साम्योक्तिर् अनुवाद-मात्रं स्यात् विहित-कर्मणां सर्वेषां चरणे साम्य-सम्भवात् । केषाञ्चित् परित्यागेऽपि साम्योक्तिर् असम्भव-निवृत्त्य्-अर्थत्वाद् उपपद्यत इति । कर्म-परामर्शस्य स्व-निष्ठ-विषयत्वाद् अविज्ञम् आदाय वीर-घात-श्रुत्य्-उपपत्तेश् च चोद्यं परिहृतम्, न च त्याग-श्रुतेर् अशक्त-विषयता तद्-बोधक-पदाभावात् न कर्मणा न प्रजयेत्य् आदौ मुक्त्य्-असाधनतया तत्-त्यागावगमाच् च ॥१९॥
र्प्च्- ११.२३.५०, ३.१६.२६, ११.५.३७-३८, ११.२८.३१-३२, ना।उ। ५.१२.३, गीता ३.१७।
ह्द्स्- ११.५.४१।
॥ ३.४.२० ॥
विधिर् वा धारणवत् ॥
केन स्याद् इत्य् आदिको विधिर् वा ज्ञानि-विषयः धारणवत् । यथा वेद-धारणं त्रैवर्णिकानां विधीयते एवं केन स्याद् इति यथेच्छं कर्माचरणं ज्ञानिनाम् एव परिनिष्ठितानां विधीयते नान्येषाम् इत्य् अर्थः ।
शौचम् आचमनं स्नानं न तु चोदनयाचरेत् । अन्यांश् च नियमान् ज्ञानी यथाहं लीलयेश्वरः ॥ २०॥
र्प्च्- ११.१८.३५, ११.११.१०-१२
ह्द्स्- ११.१८.२८, ११.१८.३६
**॥ ३.४.२१ ॥ **
उक्तम् आक्षिप्य समादधाति—
स्तुति-मात्रम् उपादानाद् इति चेत्, न, अपूर्वत्वात् ॥
ज्ञानिनः स्तुति-मात्रम् एवैतत्, न तु विधिः । यथा प्रीति-पात्रं कञ्चित् प्रत्युच्यते यथेष्टं कुर्व् इति तेन तस्य स्तुतिर् एव स्यात्, न तु यथेष्ट-कृति-विधानं, तथैतद् अपि ज्ञानिनोऽपि कर्म-विधि-स्वीकाराद् इति चेत्, न । कुतः ? अपूर्वत्वात् । ब्रह्मानुभविनि यथेष्टं कर्माचारस्य अपूर्व-विधित्वात् न स्तुति-मात्रं तद् इत्य् अर्थः ॥२१॥
**र्प्च्- **११.५.३७-३८
ह्द्स्- ११.१८.२९, ११.१८.३१
॥ ३.४.२२ ॥
भाव-शब्दाच् च ॥
मुण्डके—
प्रणो ह्य् एष यः सर्व-भूतैर् विभाति विजानन् विद्वान् भवते नातिवादी । आत्म-क्रीड आत्म-रतिः क्रियावान् एष ब्रह्म-विदां वरिष्ठः ॥ [मु।उ। ३.१.४]
इति भाव-वाचक-शब्दोपेतान् वाक्याद् इत्य् अर्थः । भावो रतिः प्रेमा चेति पर्याय-शब्दाः । अयं भावः—ब्रह्म-रतस्य परिनिष्ठितस्य तत्-समय-लाभात् लोक-सङ्ग्रहायैव कथञ्चित् किञ्चित् कर्मानुष्ठानम् इति स्वतन्त्रा ब्रह्म-विद्या ॥२२॥
र्प्च्- ११.२१.११, ११.१४.२३-२४
ह्द्स्- ११.१८.२८, ११.१८.३५
–ओ)०(ओ–
३। पारिप्लवाधिकरणम्
॥ ३.४.२३ ॥
अथ प्रकारान्तरेणाशङ्क्य समाधत्ते—
पारिप्लवार्थो इति चेन्, न, विशेषितत्वात् ॥
बृहद्-आरण्यकादिषु—अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर् मैत्रेयी च कात्यायनी च [बृ।आ।उ। ४.५.१] इति । भृगुर् वै वारुणिः । वरुणं पितरम् उपससार । अधीहि भगवो ब्रह्मेति [तै।उ। ३.१] । प्रतर्दनो ह वै दैवोदासिर् इन्द्रस्य प्रियं धामोपजगाम [कौषी।उ। ३.१] इति, जानश्रुतिर् ह पौत्रायणः श्रद्धादेयो बहु-दायी बहु-पाक्य आस [छा।उ। ४.१.१] इति चैवम् आदिभिर् उपाख्यानैः श्रुतिभिर् ब्रह्म-विद्या निरूप्यते । ताश् च पारिप्लवार्था उत ब्रह्म-विद्या प्रतिपत्त्य्-अर्था इति वीक्षायां पारिप्लवार्था इति विज्ञायते—सर्वाण्य् आख्यानानि पारिप्लवे शंसन्ति इति श्रवणात् । शंसने च शब्द-मात्रस्य प्राधान्येनार्थ-ज्ञानस्य अतथात्वाद् आख्यान-प्रतिपन्ना ब्रह्म-विद्या मन्त्रार्थ-वादार्थवद् अप्रयोजिकैवेति कर्म-शेषता तस्या नाख्यातुं शक्यातः प्रधानता तु सुदूरोत्सारिता धर्मिण एवासिद्देर् इति चेन्, न । कुतः ? विशेषित्वात् । पारिप्लवम् आचक्षीतेति प्रकृत्य तत्र प्रथमेऽहनि मनुर् वैवस्वतो राजेति, द्वितीयेऽहनीन्द्रो वैवस्वतो राजेति, तृतीयेऽहनि यमो वैवस्वतो राजेत्य् आख्यान-विशेषास् तत्र तत्र विनियुज्यन्ते । तत्राख्यान-सामान्य-ग्रहे दिवस-विशेषे आख्यान-विशेष-विधिर् अनर्थकः स्यात् । ततश् च सर्वाणीति तत्-प्रकरण-पठितान्य् एव ज्ञेयानि । तस्मात् वेदान्ताख्यानानि पारिप्लव-प्रयोगार्थानि नेत्य् अर्थः ॥२३॥
र्प्च्- ११.२१.३५, ११.२५.४१-४२, ११.२१.४१ (किं विधत्ते)
ह्द्स्- ११.२१.४३-४४ (किं विधत्ते)
–ओ)०(ओ–
॥ ३.४.२४ ॥
तथा चैक-वाक्योपबन्धात् ॥
तथा च वेदान्तोपाख्यानानाम् असति पारिप्लवार्थत्वे सन्निहित-विद्या-प्रतिपत्त्य्-उपयोगित्वम् एव न्याय्यम् । कुतः ? एकेति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यः [बृ।आ।उ। ४.५.६] इत्य् आदि सन्निहित-विद्याभिर् एक-वाक्यतयोपबन्धात् । यथा सोऽरोदीत् इत्य् आद्य् उपाख्यानां सन्निहित-कर्म-विधेः स्तुत्य्-अर्थता, न तु पारिप्लवार्थता, तथैतेषां सन्निहित-विद्या-स्तुत्य्-अर्थता स्यात् । अयं भावः—स्वतन्त्रैव पुमर्थ-हेतुर् विद्या, यद् अस्यां महान्तोऽपि महता प्रयासेन प्रवर्तन्त, इति प्ररोचनोपयोगात् प्रज्ञा-सौकार्योपयोगाच् चोपाख्यान-रीत्या विद्योपदेशः । तेन च आचार्यवान् पुरुषो वेद [छा।उ। ६.१४.२] इति श्रुत्य्-अनुग्रहश् च । तथा च स्वतन्त्रा सेति ॥२४॥
र्प्च्- ११.१२.१६, ११.१०.१२, ११.१०.५
ह्द्स्- ११.२१.४३
४। काम-काराधिकरणम्
॥ ३.४.२५ ॥
अत एव चाग्नीन्धनाद्य्-अनपेक्षा ॥
अतो विद्या-स्वातन्त्र्य-प्रतिपादनाद् एव हेतोस् तस्याः स्व-फले प्रकाश्येऽग्नीन्धनादीनां यज्ञादीनां यज्ञादि-कर्मणां नास्त्य् अपेक्षेति ज्ञान-कर्म-समुच्चय-व्युदासः ॥२५॥
र्प्च्- ११.१२.१३, ११.१४.१९
ह्द्स्- ७.७.५१-५२
–ओ)०(ओ–
५। सर्वापेक्षाधिकरणम्
॥ ३.४.२६ ॥
इत्थं विद्या-सामर्थ्याद्य् अभिधाय तद्-अधिकारिणं लक्षयितुम् आरभते । तम् एतं वेदानुवचनेन [बृ।आ।उ। ४.४.२२] इत्य् आदि । तस्माद् एवं-विच् छान्तो दान्त उपरतस् तितिक्षुः समाहितो [श्रद्धा-वित्तो] भूत्वाऽऽत्मन्य् एवाऽऽत्मानं पश्यति [बृ।आ।उ। ४.४.२३] इति च श्रूयते बृहद्-आरण्यके । अत्र यज्ञ-शमादि च विद्याङ्गतया प्रतीयते । तद् उभयम् आवश्यकं न वेति संशये आचार्यवान् पुरुषो वेद इत्य्-आदिषु गुरूपसत्त्यैव तद्-उत्पत्ति-प्रत्ययात् नेति प्राप्ते—
सर्वापेक्षा च यज्ञादि-श्रुतेर् अश्ववत् ॥
स्व-फल-प्रकाशे निरपेक्षापि विद्या स्वोत्पत्तौ **सर्वापेक्षा **सर्वान् यज्ञादि-धर्मान् अपेक्षते इत्य् अर्थः । कुतः ? **यज्ञ- **इति । तम् एतम् [बृ।आ।उ। ४.४.२२] इत्य् आदौ, तस्माद् एवम् [बृ।आ।उ। ४.४.२३] इत्य् आदौ च, विद्यार्थं यज्ञादेः शमादेश् च श्रवणाद् इत्य् अर्थः । तत्र दृष्टान्त–**अश्व **इति । यथा गति-निष्पत्तये अश्वोऽपेक्ष्यते, न तु निष्पन्न-गतेर् ग्रामादि-प्राप्तौ ॥२६॥
र्प्च्- ११.२०.१०-११, ११.३.२९, १०.४७.२१
ह्द्स्- ११.१९.८
–ओ)०(ओ–
॥ ३.४.२७ ॥
ननु यज्ञादिनैव विद्यादि-सिद्धौ शमादिना किम् इति चेत्, तत्राह—
शम-दमाद्य्-उपेतः स्यात् तथापि तु तद्-विधेस् तद्-अङ्गतया तेषाम् अवश्यानुष्ठेयत्वात् ॥2
तु-द्वयं निश्चय-शङ्का-च्छेदयोः । यद्यपि यज्ञादिना विशुद्धस्य विद्या स्यात्, तथापि विद्यार्थी शमादिभिर् उपेत एव स्यात् । कुतः ? तद्-अङ्गतया तद्-विधेः । तस्माद् एवंविद् इत्य् आदिना विद्याङ्गतया शमादीनां विधानात् विहितानां तेषाम् अवश्यम् अनुष्ठेयत्वाच् च । तथा च वाक्य-द्वयस्थत्वाद् उभयं कार्यम् । तत्र यज्ञादि बहिरङ्गं शमादि त्व् अन्तरङ्गम् इति विवेचनीयम् । आदि-पदात् प्राग्-उक्तं सत्यादि चेत्य् अधिकारि-लक्षणं दर्शितम् ॥२७॥
र्प्च्- ११.२३.४१, ११.१०.५
ह्द्स्- ११.५.२४, ११.१८.१७
–ओ)०(ओ–
६। सर्वान्नानुमत्य्-अधिकरणम्
॥ ३.४.२८ ॥
अथ विदुषां निषिद्धाचारं निवारयति । यदि ह वा अप्य् एवंविन् निखिलं भक्षयीतैवम् एव स भवति इति श्रूयते । अत्र सन्देहः—विदुषः सर्वान्न-भुक्तौ विधिर् उताभ्यनुज्ञेति । सर्वान्न-भुक्तेर् मानान्तरेणाप्राप्तेर् विदुषोऽसौ विधीयत इति प्राप्ते—
सर्वान्नानुमतिश् च प्राणात्यये तद्-दर्शनात् ॥
च-शब्दोऽवधारणे । अन्नालाभ-प्रयुक्त-प्राणात्यय-काल एव सर्वान्न-भक्षणे अभ्यनुज्ञैव । कुतः ? तद्-दर्शनात् । छान्दोग्ये मटाचीहतेषु कुरुषु [छा।उ। १.१०.१] इत्य् आरभ्य, न वा अजीविष्यम् इमान् अखादन्न् इति होवाच कामो न उदपानं [छा।उ। १.१०.४] इति चाक्रायणाचार-वीक्षणाद् इत्य् अर्थः । तत्रेयम् आख्यायिका—इभ्योच्छिष्ठान् कुल्माषांश् चाक्रायणो नाम र्षिः प्राण-त्राणाय चखाद, जल-प्रतिग्रहम् इभ्येनाभ्यर्थितोऽप्य् उच्छिष्ट-भयात् यथेष्टं लाभाच् च न तज् जग्राह । पुनः परेद्युः स्व-परोच्छिष्टान् पर्युषितांस् तान् भक्षयामासेति । अन्यत्राप्य् एवम् एव व्याख्येयम् ॥२८॥
र्प्च्- ११.२१.३
ह्द्स्- ११.६.४६, ११.१८.३५।
॥ ३.४.२९ ॥
अबाधाच् च ॥
आपदि सर्वान्न-भक्षणेऽनुमतिश् चित्तम् अदूषयता तेन ज्ञाने बाधाभावात् ॥२९॥
र्प्च्- ११.२१.१६, ११.२१.११, ११.१८.३३
ह्द्स्- ११.१८.१८-१९।
॥ ३.४.३० ॥
अपि स्मर्यते ॥
जीवितात्ययम् आपन्नो योऽन्नम् अत्ति यतस् ततः । लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥ [मनु १०.२०४] इति स्मृत्या च ।
विपद्य् एव सर्वेषां सर्वान्न-भुक्तिर् उक्ता, न तु सर्वदा । अतस् तस्याम् अनुमति-मात्रम् एव, न तु विधिः प्रतिषेध-शास्त्राच् च ॥३०॥
र्प्च्- —
ह्द्स्- ११.१८.३४
॥ ३.४.३१ ॥
शब्दश् चातोऽकाम-कारे ॥
यस्माद् आपद्य् एव सर्वान्न-भक्षक्षेऽभ्यनुज्ञानम् अतोऽकामचारे विदुषा प्रवर्तितव्यम् । शब्दश् च, आहार-शुद्धौ सत्त्व-शुद्धिः, सत्त्व-शुद्धौ ध्रुवा स्मृतिः स्मृति-लम्भे सर्व-ग्रन्थीनां विप्रमोक्षः [छा।उ। ७.२६.२] इति छान्दोग्य-श्रुतिः कामचारं वारयति । तथा चापद्य् एव सर्वान्नाभ्यनुज्ञानाद् अनापदि शीयः समाचारः ॥३१॥
र्प्च्- ११.१८.१८
ह्द्स्- ७.१३.३८
–ओ)०(ओ–
७। विहितत्वाधिकरणम्
॥ ३.४.३२ ॥
पूर्व-सन्दर्भे स्वनिष्ठादि-भेदेन त्रेधा विद्याजुषो दर्शिताः । अथ तेषु लब्ध-विद्येषु वर्णाश्रमाचारः कथं स्याद् इत्य् एतत् व्यवस्थापयितुम् आरभ्यते । तत्र तावत् स्व-निष्ठः परीक्ष्यते । पश्यन्न् अपीमम् आत्मानं कुर्यात् कर्माविचारयन् यद् आत्मनः सुनियतम् आनन्दोत्कर्षम् आप्नुयात् इति कौषारव-श्रुतौ संशयः । लब्ध-विद्येन स्व-निष्ठेन कर्माणि कार्याणि न वेति । विद्या-लक्षणस्य तत्-फलस्य प्राप्तत्वात् फल-प्राप्तौ साधन-निवृत्तेर् दृष्टत्वात् न कार्याणीति प्राप्ते—
विहितत्वाच् चाश्रम-कर्मापि ॥
अपिर् वर्ण-कर्म-समुच्चयार्थः । तेन स्व-वर्णाश्रम-कर्माणि कार्याणि । कुतः ? विद्योपचितये । तं प्रति तेषां विहितत्वाद् एव ॥३२॥
र्प्च्- ११.१०.१, ११.१८.४५
ह्द्स्- ११.३.४४-४५
॥ ३.४.३३ ॥
ननु जातायाम् अपि विद्यायां पुनः कर्म-विधानात् किं ज्ञान-कर्मणोः समुच्चयोभिइमतो नेत्य् आह—
सहकारित्वेन ॥
विद्या-सहकारित्वेनैव तेन कर्माणि कार्याणि, न तु मुक्ति-हेतुत्वेन । तम् एव विदित्वा [श्वे।उ। ३.८] इत्य् आदौ तस्या एव तत्त्वाभिधानात् । एतद् उक्तं भवति । स्वनिष्ठेनादौ परमात्मानम् उद्दिश्य स्व-कर्माण्य् अनुष्ठितानि तेषु तद्-उद्देशेनैव विषोर्णादिवत् तद्-विषया विद्या समभूत् । तैर् असौ तासाम् आद्यापि तद्-विवृद्धये तान्य् अनुतिष्ठति । सा च स्वोत्तराणि तानि न विनाशयत्य् अविरोधात् । किन्तु स्वर्गादि-वैचित्रीम् अनुभावयितुं रक्षत्य् एव । ना हास्य कर्म क्षीयते [बृ।आ।उ १.४.१५] इति बृहद्-आरण्यकात् ।
न च तेषां तद्-अनुभव-फलकत्वात् काम्यत्वं, तेन तत्-कामनयाननुष्ठानात् । स्वनिष्ठो विद्वान् ब्रह्म प्राप्नुवन्न् अनुसङ्गात् स्वर्गादिकम् अनुभवति । ग्रामं गच्छंस् तृणं स्पृशतीति अत्र तृण-स्पर्शवत् । स्वर्गाद्य्-आनन्दानुभव-पूर्वकं ब्रह्म-प्रेप्सवे स्व-निष्ठाय विद्यैव स्व-परिकर-कर्म-द्वारा स्वर्गादिकम् अनुभावयति स्व-द्वारा तु ब्रह्म-पदम् इति श्रुतिश् चैवम् अभिप्रैति, तं विद्येत्य् आद्या । इत्थम् एव तस्य सङ्कल्पो बोध्यः । नैरपेक्ष्य-परीक्षायै क्वचित् स्व-द्वारापि स्वर्गादिकम् उपस्थापयति । सर्वं ह पश्यः पश्यति इत्य् आदि श्रुतेः । न चैवं तद्-अधिगम-न्याय-विरोधः, तस्य स्वनिष्ठेतर-विषयत्वेनोपपत्तेः । स्वनिष्ठस्य स्वर्गाद्य्-अर्पक-पुण्यांश-प्रारब्धांशौ तद्-इतरस्य परिनिष्ठितादेस् तु प्रारब्धांशम् एव विहायेतरत् सर्वं कर्म विनाशयतीति विद्यैव स्वतन्त्रा फल-हेतुः कर्म तु तस्या सहकारीति सिद्धम् ॥३३॥
र्प्च्- १०.४७.२१, ११.१८.४३-४४, ८.३.१९, ११.२९.३०-३१
ह्द्स्- ११.१८.४६-४७
–ओ)०(ओ–
८। सर्वथाधिकरणम्
**॥ ३.४.३४ **॥
अथ परिनिष्ठितः परीक्ष्यते । आत्म-क्रीड आत्म-रतिः क्रियावान् [मु।उ। ३.१.४] इत्य् आदि श्रूयते । अत्र परिनिष्ठितस्य लोकार्थं वर्णाश्रम-धर्माः कर्तव्यतया प्राप्ताः प्रीत्य्-अर्थं श्रवणादयो भगवद्-धर्माश् च । तेषाम् उभयेषां युगपत्-प्राप्तौ किं ते क्रमेणानुष्ठेयाः किं वाद्यान् विहायोत्तरे ते इति सन्देहे युगपद्-अनुष्ठान-सम्भवात् विहितानां त्यागे दोषाच् चानिर्णयेन भाव्यम् इति प्राप्ते—
सर्वथापि त एवोभय-लिङ्गात् ॥
अपिर् अवधारणे । सर्वथैव स्व-धर्मानुरोधम् अकृत्वैवेत्य् अर्थः । परिनिष्ठितेन तेन भगवद्-धर्मा एवानुष्ठेया । स्व-धर्मास् तु कथञ्चित् गौण-काले । एवं कुतः ? तत्राह—उभयेति । तम् एवैकं जानथ [मु।उ। ३.२.५] इत्य् आदि श्रुति-लिङ्गात् ।
महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः । भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥ सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः । नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते ॥ [गीता ९.१३-१४]
इत्य् आदि श्रुति-लिङ्गाच् च ॥३४॥
र्प्च्- १.८.३५, ११.१९.२, ११.१९.४-५, ११.२०.३२-३३।
ह्द्स्- ११.१२.१४-१५।
॥ ३.४.३५** ॥**
उपोद्बलकान्तरम् आह—
अनभिभवं च दर्शयति ॥
नैनं पाप्मा तरति सर्वं पाप्मानं तरति । नैनं पाप्मा तपति सर्वं पाप्मानं तपति [बृ।आ।उ ४.४.२३] इति बृहद्-आरण्यक-श्रुतिः श्रवणाद्य्-अनुरोधेन स्वाश्रम-धर्माकरणे तज्-जन्यैर् दोषैः परिनिष्ठितस्यानभिभवं दर्शयति । अतस्नात् हित्वा अ एव कार्या इत्य् अर्थः । वर्णाश्रमाचारेति श्री-विष्णु-पुराण-वाक्ये तु तादृशेन यत् तद्-आराधनं तद् एव तत्-तोष-करम् इत्य् एव मन्तव्यं, न तु कर्मैव तद्-आराधनम् इति । पूर्वत्र—
यज्ञेशाच्युत गोविन्द माधवानन्द केशव । कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥ इति राजाह भरतो हरेर् नामानि केवलम् । नान्यज् जगाद मैत्रेय किञ्चित् स्वप्नान्तरेऽपि च । एतत् पदं तद्-अर्थं च विना नान्यद् अचिन्तयत् ॥ समित्-पुष्प-कुशादानं चक्रे देव-क्रिया-कृते । नान्यानि चक्रे कर्माणि निःसङ्गो योग-तापसह् ॥ [वि।पु। २.१३.९-११]
इति भरते राज्ञि तद्-एक-निष्ठा-निगदात् ॥३५॥
र्प्च्- ११.२०.९, ११.११.३२, ११.५.३८, ११.२०.२५
**ह्द्स्- **१.८.३६
–ओ)०(ओ–
९। विधुराधिकरणम्
॥ ३.४.३६ ॥
एवं साश्रमेषु विद्या दर्शिता तद्-उत्तरानुष्ठितिश् च । अथ निराश्रमेषु निरपेक्षेषु ते द्वे दर्श्येते । तथैव निराश्रमापि गार्गी ब्रह्मवित् पठ्यते । अथ वाचक्रव्य् उवाच—ब्राह्मणा भगवन्तो हन्ताहम् एनं याज्ञवल्क्यं द्वौ प्रश्नौ प्रक्ष्यामि [बृ।आ।उ ३.८.१] इत्य् आदिना । इह संशयः—निराश्रमेषु विद्या सम्भवेन् न वेति विद्योत्पत्ति-हेतुतया विश्रुतानाम् आश्रम-धर्मानं तेष्व् अभावान् नेति प्राप्ते—
अन्तरा चापि तु तद्-दृष्टेः ॥
तु-शब्दः कर्माग्रह-निरासार्थः । च-कारो निश्चयार्थः । अन्तरा च विनैवाश्रम-धर्मान् विद्यमानेष्व् औत्पत्तिक-विरक्तिषु प्राग् भवानुष्ठितैर् धर्मैः सत्य-तपो-जपादिभिश् च परिशुद्धेषु तेष्व् अपि विद्या उदयते । कुतः ? तद्-दृष्टेः । तादृश्या गार्ग्या ब्रह्मवित्त्व-दर्शनात् । अयं भावः—प्राग्-भवीयानां धर्माणां फलोत्पत्तेः पूर्वम् एव देह-निपातात् न फल-सम्बन्धः, परत्र तु तैर् विशुद्धानां सत्-सङ्ग-मात्रेण सविरागा साविर्भवतीति ॥३६॥
**र्प्च्- **७.१३.८-९, ११.१८.२७-२८, गीता ६.४०
ह्द्स्- ११.१२.१-२
॥ ३.४.३७ ॥
बलवता सत्-सङ्गेन कषाय-पाके विद्या भवतीत्य् आह—
अपि स्मर्यते ॥
पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवण-पुटेषु सम्भृतम् । पुनन्ति ते विषय-विदूषिताशयं व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥ [भा।पु २.२.३७] इत्य् आदौ,
रहूगणैतद् [भा।पु ५.१२.१२] इत्य् आदौ च । अपिः समुच्चये ॥३७॥
र्प्च्- २.२.३७, ५.१२.१२, १.१८.१३, ४.३०.३३, ४.२४.५४, ११.१४.१५-१६
ह्द्स्- २.२.३७, १०.८३.३, ५.१२.१२
॥ ३.४.३८ ॥
सत्-सङ्गिषु निरपेक्षेषु परेशानुग्रह-विशेषात् विद्या सुलभेत्य् आह—
विशेषानुग्रहश् च ॥
मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् । कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥ तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥ [गीता १०.९-१०] इति ।
तेषु तत्-कृपा-विशेषो दृष्टः । नैरपेक्ष्यं च तद्-योग-सातत्याद् व्यक्तम् ॥३८॥
र्प्च्- २.७.४१, ९.४.४६-४८
ह्द्स्- १.६.२३-२५
–ओ)०(ओ–
१०। इतराधिकरणम्
॥ ३.४.३९ ॥
साश्रमा याज्ञवल्क्यादयो निराश्रमाश् च गार्ग्य्-आदयो विद्यावन्तो दर्शिताः । तेषु साश्रमाः श्रेष्ठा निराश्रमा वेति संशये, वैदिकाश्रम-धर्म-सम्पन्नत्वात् ब्रह्म-रतत्वाच् च श्रेष्ठा इति प्राप्ते—
अतस् त्व् इतरज्-ज्यायो लिङ्गाच् च ॥
शङ्का-निरासनाय तु-शब्दः । च-शब्दोऽवधारणार्थः । अतः साश्रमत्वाद् इतरन् निराश्रमत्वम् एव ज्यायः श्रेष्ठं विद्या-साधनं मन्तव्यम् । कुतः ? लिङ्गात् । गार्ग्या महा-विद्यत्व-श्रवणात् । आत्मअयतिअनादि-प्रवृत्ति-शीलानां प्रवृत्ति-सङ्कोचाय आश्रमाः शास्त्रेण विहिताः । अतस् तद्-विधाने न तस्य तात्पर्यं किं तु तत्-सङ्कोच एव । ता हि ब्रह्म-रति-प्रतिबन्धिका भवन्ति । ये तूपक्षीण-प्रवृत्तयो ब्रह्मैक-रतास् तेषां न किञ्चिद् आश्रमैः फलम् इति नैराश्रम्यं वरीयः । अत एव जाबालोपनिषदि क्रमेणाश्रमान् विधाय पुनर् विरक्तस्य तम् अपनिनाय सांवर्तकादीनां ब्रह्मैक-रतानां सन्न्यासं त्यागं चोवाचेति । अनाश्रमी न तिष्ठेत दिनम् एकम् अपि द्विजः3 इत्य् आदिकं तु सामान्य-विषयम् ॥३९॥
र्प्च्- ११.१७.३२, ११.३.४५, ११.२१.२३-२४, ११.२१.३५, ११.२१.४०-४१, ११.२.४९, ११.११.३२, ११.१९.१९-२३
ह्द्स्- ८.४.६३, ८.४.६७
॥ ३.४.४० ॥
स्याद् एतत् । ब्रह्मैक-रतत्वेन निरपेक्षाणां निराश्रमाणां श्रैष्ठ्यम् उक्तम्, न युज्यते तेषां सापेक्षतायाः सम्भवात् । तथा हि, विधिना परित्यक्तस्य गृहादेर् आश्रमस्य पुनर् ग्रहो निन्द्यः । तत्रैव शास्त्रात् तेषां पूर्वं तस्याप्राप्तेः । प्राप्तस्य विधिना परित्यागाद् वैदिकत्वेन श्लाघ्येष्व् आश्रम-धर्मेषु श्रद्धोदयाच् च पुनस् तत्-स्वीकारेण तद्-विक्षेपक-तद्-धर्म-प्राप्त्या तद्-एक-रत्य्-असम्भवात् श्रैष्ठ्यं हीयेत । स्व-निष्ठादीनां तु नियताश्रम-धर्म-परिमृष्ट-सत्त्वानाम् उत्तरोत्तर-तच्-चिन्ता-सन्तानाद् अबाधं तद् इति चेत्, तत्राह—
तद्-भूतस्य तु नातद्-भावो जैमिनेर् अपि नियमात् तद्-रूपाभावेभ्यः ॥
तुः शङ्का-च्छेदाय । तद्-भूतस्य नैरपेक्ष्येण ब्रह्मऐक-रतस्य नातद्-भावस् तद्-एक-रति-प्रच्युतिर् न भवतीति जैमिनेर् अपिना बादरायणस्य च मे मतम् । कुतः ? नियमाद् इति । नियमाद् अतद्-रूपाद् अभावाच् च । तद्-इन्द्रियाणां ब्रह्म-तृष्णा-नियमितत्वात् । रूपं वासना । ब्रह्मान्य-वासना-विनाशात् गार्ग्य्-आदीनां गृहादि-स्वीकाराभावात् चेत्य् अर्थः । स्मृतिश् चैवम् आह—
कामादिभिर् अनाविद्धं प्रशान्ताखिल-वृत्ति यत् । चित्तं ब्रह्म-सुख-स्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ [भा।पु। ७.१५.३५] इत्य् आदिका ।
यद्यपि कर्म-परो जैमिन्स् तथापि नैरपेक्ष्य-श्रुति-भीतः क्वचिद् एवं मन्यते प्राग्-भवानुष्ठित-कर्म-निष्कल्मषः कश्चिद् इहैवेदृशः स्याद् इति ॥४०॥
र्प्च्- ७.१५.२७ (=३५), १०.२.२१, ११.४.१०, १०.२७.७, १०.१४.१०
ह्द्स्- ११.२०.३५-३७, ७.१५.३५
**॥ ३.४.४१ **॥
अथ स्व-निष्ठेभ्यः श्रैष्ठ्यं दर्शयति । ननु सर्वं ह पश्यः पश्यतीत्य् आदौ विद्यया स्वर्गादेर् अपि प्राप्ति-श्रवणात् तल्-लब्धेन्द्रादि-लोक-भोग-प्रसक्तानां तेषां ब्रह्मैक-रतिर् विच्छेद्योतेत्य् आशङ्क्याह—
**न चाधिकारिकम् अपि पतनानुमानात् तद्-अयोगात् ॥ **
चोऽवधारणे । अपिर् ऐहिक-सुख-समुच्चये । आधिकारिकम् इन्द्रादि-पदम्ं तेषां नैवाकाङ्क्ष्यम् । कुतः ? पतनेति । आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनोऽर्जुन [गीता ८.१६] इत्य्-आदिषु ततः पात-स्मरणात् आरम्भतस् तत्-स्पृहाभावाच् चेत्य् अर्थः । स्मृतिश् चात्र मृग्या । तथा च विद्या-महिम्ना तस्मिन्न् अनुवृत्तोऽपि तद्-इच्छा-विरहात् न तेन तद्-एक-रतिर् विच्छिद्यतेऽतो निर्बाधं तत्त्वम् इति ॥४१॥
र्प्च्- ११.१९.१७, ११.१४.१३, ६.११.२३, १०.१६.३७, ३.१५.४७
ह्द्स्- ११.१४.१४, ११.१४.२७
॥ ३.४.४२ ॥
अथ परिनिष्ठितेभ्यः श्रैष्ठ्यं दर्शयति—
उपपूर्वम् अपि त्व् एके भावम् अशनवत् तद् उक्तम् ॥
अपिर् अवधारणे । तुर् विपरीत-भावना-च्छेदे । एके आथर्वणिका निरपेक्षाणाम् उपासनम् एवाभीष्टं तत्-सिद्धं भावं चाशनवद् भोग्यं पठन्ति । भक्तिर् अस्य भजनं तद् इहामुत्र [गो।ता।उ। १.१४] इत्य् आदि सच्-चिद्-आनन्दिक-रसे भक्ति-योगे तिष्ठति [गो।ता।उ। २.७८] इति च। केचिद् भागवता यत्र क्वापि हरिम् उपासीनास् तत् प्रमाणम् एव सोऽश्नुते सर्वान् कामान् इत्य् आदि-श्रुत-त्रिपाद्-गतानन्द-भोगवद् अनुभवन्तीत्य् अर्थः । स्मृतिश् चैतदर्थिका मृग्या ॥४२॥
र्प्च्- ११.२.४०-४१, ११.१४.१५-१६, ११.२०.३४-३५, ८.३.२०, ६.९.३६
ह्द्स्- ३.२५.३४, ३.२५.३७
॥ ३.४.४३** ॥**
तादृशानां सालोक्य-सामीप्य-लक्षणा मुक्तिर् अयत्न-सिद्धेति तत्रैव हेत्व्-अन्तरं व्यञ्जयति—
बहिस् तूभयथापि स्मृतेर् आचाराच् च ॥
तुर् अवधारणे । प्रपञ्चे स्थिता अपि ते तस्मात् बहिर् एव सन्तीति मन्तव्यम् । कुतः ? उभयथेति ।
विसृजति हृदयं न यस्य साक्षाद् धरिर् अवशाभिहितोऽप्य् अघौघ-नाशः । प्रणय-रसनया धृताङ्घ्रि-पद्मः स भवति भागवत-प्रधान उक्तः ॥ [भा।पु। ११.२.५५]
इत्य्-आदिषु मणि-स्वर्णवत् स्वामि-भृत्ययोर् मिथः संश्लेष-स्मरणात् तथाचाराच् च तैः सार्धम् । यद् उक्तं भगवता—
निरपेक्षं मुनिं शान्तं निर्वैरं सम-दर्शनम् । अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि-रेणुभिः ॥ [भा।पु। ११.१४.१६]
इत्य्-आदि-हेतुभ्याम् अन्तर् बहिश् च मिथः संश्लेषः समर्थितः । तथा च वैमुख्यम् एव संस्मृति-हेतुस् तत्-प्रणाशात् सिद्धा तेषां सेति ॥४३॥
र्प्च्- ११.२.५३ (विसृजति…), कर्णामृत ३.९६, ११.२९.६।
ह्द्स्- ११.२.५५ (विसृजति…), ११.१४.१६।
–ओ)०(ओ–
११। स्वाम्य्-अधिकरणम्
॥ ३.४.४४ ॥
ब्रह्म-लोकान्त-सुख-वैतृष्ण्यम् उक्तम् । अथ साम्प्रत-सुख-वैतृष्ण्ञम् उच्यते । भर्ता सन् म्रियमाणो विभाति इति श्रुतं तैत्तिरीयके । तत्र संशयः—निरपेक्षाणां देह-यात्रा स्व-प्रयत्नाद् उतेश-प्रयत्नाद् इति तैस् तत् प्रयासस्यानुत्पाद्यत्वात् स्व-प्रयत्नाद् एवेति प्राप्ते—
स्वामिनः फल-श्रुतेर् इत्य् आत्रेयः ॥
स्वामिनः सर्वेश्वराद् एव तेषां देह-यात्रा सिध्यति । कुतः ? फल-श्रुतेः । भर्तेत्य् आदौ तस्यैव तद्-भर्तृत्व-श्रवणात् इत्य् आत्रेयो मन्यते ।
अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ [गीता ९.२२] दर्शन-ध्यान-संस्पर्शैर् मत्स्य-कूर्म-विहङ्गमाः । स्वान्य् अपत्यानि पुष्णन्ति तथाहम् अपि पद्मज ॥
इति तद्-वाक्याच् च तैस् तद्-वाक्याच् च तैस् तत्-प्रयासोऽनुत्पाद्य इति तु स्थूलं तेषां तथेच्छा-विरहात् सत्य-सङ्कल्पस्य तस्य तद्-अभावाच् च । स्व-देह-यात्रया तत्-सेवनात् तस्याः फलत्वम् । अत्त उक्तं म्रियमाण इति ॥४४॥
र्प्च्- १०.४६.३, ११.२६.२९, ११.२९.५
**ह्द्स्- **३.२५.३८-४०
॥ ३.४.४५ ॥
अथैतेषु तद्-भर्तृत्वम् एकान्तम् इति दृष्टान्तेन स्पष्टयति—
आर्त्विज्यम् इत्य् औडुलोमिस् तस्मै हि परिक्रियते ॥
इहेति शब्दः सादृश्ये । स्वामिनस् तस्य निरपेक्ष-स्व-भक्त-भरणम् आर्त्विज्य-सदृशम् ऋत्विक्-कर्म-तुल्यं भवति । हि यतो देह-यात्रादि-सम्पादनाय तैर् भक्त्या स परिक्रीयते ।
तुलसी-दल-मात्रेण जअस्य चुलुकेन च । विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः ॥ इत्य्-आदि-स्मृतेः ।
यजमानेनापि साङ्गाय कर्मणे दक्षिणया ऋत्विजः परिक्रियन्ते । औडुलोमेर् अस्य निर्गुणात्म-वादित्वाद् भक्तिर् इति रिक्ता भणितिः । तस्मान् निरपेक्षाः श्रेष्ठाः ॥४५॥
र्प्च्- _तुलसी-दल-मात्रेण, _६.१६.३०, ९.४.४८, १०.८०.८, ११.२.२९, १०.४८.२२, ७.१०.४-६
ह्द्स्- ९.४.६३-६६
॥ ३.४.४६ ॥
श्रुतेश् च ॥
यो वै काञ्चन यज्ञ ऋत्विज आशिषम् आशासत इति होवाचेति तस्माद् उ हैवं विद् उद्गतो ब्रूयात् कं ते कामम् आगायति [छा।उ। १.७.८-९] इति ऋत्विक्-सम्पादितस्य कर्मणः यजमान-गामि फलं दर्शयति । तस्माद् भगवतः स्व-भक्त-भरणम् ऋत्विजो यजमान-भरण-सदृशं भवतीति भावः ॥४६॥
र्प्च्- —
**ह्द्स्- **११.१४.१६, ११.१४.५५
–ओ)०(ओ–
१२। सहकार्यन्तर-विध्य्-अधिकरणम्
॥ ३.४.४७ ॥
अथैषां विद्याप्त्य्-अनन्तरम् अनुष्ठानं दर्शयति । तस्माद् एवं-विच् छान्तो दान्तः इत्य्-आदि, आत्मा वा अरे द्रष्टव्यः इत्य् आदि च श्रूयते । अत्र शमादीनि ध्यानान्तानि ब्रह्म-लिप्सोर् अनुष्ठेयान्य् उच्यन्ते । किम् एतानि सर्वाणि निरपेक्षेणानुष्ठेयान्य् उत तत्-स्वरूप-गुण-चरितानि स्मर्तव्यानीति सन्देहे सञ्जाताअपि विद्या शमादीन् विना स्थैर्यं नोपगच्छेद् अतस् तानि चानुष्ठेयानीति प्राप्ते—
सहकार्य्-अन्तर-विधिः पक्षेण तृतीयं तद्वतो विध्य्-आदिवत् ॥
इह सहकार्य्-अन्तराणि शमादीन्य् अभिधीयन्ते यज्ञादी शमादीनां च विद्या-सहकारित्वेन पूर्वं निरूपणात् । तेषां विधिः साश्रम-पक्षेण ग्राह्योऽपूर्वत्वात्, न तु निराश्रम-पक्षेण तत्र स्वतः सिद्धेः । किन्तु तत्-स्वरूपादीनि तेन स्मर्तव्यानीति । तद् इदम् आह तृतीयं तद्वत इति । तत्-प्रसाद-मात्र-कामवतो निरपेक्षस्य तृतीयं मानसिकम् एवानुष्ठेयं मनसैवेदम् आप्तव्यम् इति श्रुतेः । कायिक-वाचिकयोर् वापेक्षया मानसिकं ध्यानं तृतीयं भवति । आवश्यकत्वे दृष्टान्तो विध्य्-आदिवद् इति । यथा साश्रमस्य सन्ध्योपासनादि-विधिर् आवश्यकस् तद्वत् । तस्मात् सञ्जात-विद् येन निरपेक्षेण तत्-स्वरूपादि विचिन्त्यम् इति । न चास्य जपार्चनादिकं निवार्यते । ध्यानेनैव तस्यापि प्राप्तेः । तत्-प्रधानत्वाद् वा तद्-व्यपदेशः । तद् एवं त्रेधा विद्याजुषः सानुष्ठितयो निरूपिताः ॥४७॥
र्प्च्- ११.२०.१४, ११.२.५१, ११.३.४७
ह्द्स्- ११.१३.४०, ११.१०.१५
–ओ)०(ओ–
१३। कृत्स्न-भावाधिकरणम्
॥ ३.४.४८ ॥
स्व-निष्ठादिषु त्रिषु विद्याभाक्त्वं निर्णीतम् । तस्य स्थैर्यायारम्भः । छान्दोग्यान्ते श्रूयते—
आचार्य-कुलाद् वेदम् अधीत्य यथा-विधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायम् अधीयानो धर्मिकान् विदधद् आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य अहिंसन् सर्वाणि भूतान्य् अन्यत्र तीर्थेभ्यः । स खल्व् एवं वर्तयन् यावद् आयुषं ब्रह्म-लोकम् अभिसम्पद्यते न च पुनर् आवर्तते [छा।उ। ८.१५.१] इति ।
अत्र गार्हस्थ्येनोपसंहारात् तद् इतरेषु विद्या न भवतीति प्रतीयते । क्वचित् क्वचित् त्यागोक्तिस् तु स्तुति-परतया नेया । ईदृशं ब्रह्म यद्-अर्थं सर्वं त्याज्यम् इति । गृहस्थस्यैव यथोक्तानुष्ठातुर् ब्रह्म-सम्पत्तिर् इत्य् उपसंहारस्य तात्पर्य-ग्राहकत्वाद् इत्य् एवं प्राप्ते प्रतिविधत्ते—
कृत्स्न-भावात् तु गृहिणोपसंहारः ॥
शङ्काच्छेदाय तु-शब्दः । गृहस्थेनोपसंहारः तस्यैव यथोक्त-कर्तुर् मुक्तिर् इत्य् अभिप्रैतीति नार्थः, किं तु कृत्स्न-भावाद् एव तेन सः । गृहस्थं प्रति बहुलायासा बहवः स्वाश्रम-धर्माः कार्यत्वेनोपदिष्टाः । आश्रमान्तर-धर्माश् च यथायथम् अहिंसेन्द्रिय-संयमादयः । ततश् च कृत्स्नानां धर्माणां तव सत्त्वात् तेनासौ न विरुध्यत इति । तथा च स्मृतिः—
भिक्षा-भुजश् च ये केचित् परिव्राड् ब्रह्मचारिणः । तेऽप्य् अत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परः ॥ इत्य् आद्या ॥४८॥
र्प्च्- ११.१८.४१-४२
ह्द्स्- ५.१.१७-१८, ७.१५.६७
॥ ३.४.४९ ॥
यस्माद् आश्रमान्तराणि श्रूयन्ते अतो धर्म-कार्त्स्न्याद् एव गार्हस्थ्येनोपसंहारो मन्तव्य इत्य् आह—
मौनवद् इतरेषाम् अप्य् उपदेशात् ॥
मौनवद् इति सिद्धं कृत्वोक्तम् । अत्रैव पूर्वत्र—
त्रयो धर्म-स्कन्धाः । यज्ञो ऽध्ययनं दानं प्रथमस् तप एव द्वितीयो ब्रह्मचार्य-कुल-वासी तृतीयोऽत्यन्तम् आत्मानम् आचार्य-कुलेऽवसादयन् सर्व एते पुण्य-लोका भवन्ति ब्रह्म-संस्थोऽमृतत्वम् एति [छा।उ। २.२३.१] इति पठ्यते ।
तत्र एवम् एव विदित्वा मुनिर् भवत्य् एतम् एव प्रव्राजिनो लोकम् अभीप्सन्तः प्रव्रजन्ति [बृ।आ।उ। ४.४.२२] इत्य् अत्र पारिव्राज्यस्येवेतरेषां नैष्ठिकादीनाम् अप्य् उपदेशात् । तस्मात् तेन सः। बहुत्वं वृत्ति-भूम्नेत्य् आहुः । एवं जाबालोपनिषदि चाश्रमाश् चत्वारो विधीयन्ते—ब्रह्मचर्यं समाप्य गृही भवेत्, गृहिणां भूत्वा वनी भवेत्, वणी भूत्वा प्रव्रजेत्, यदि वनेरथा ब्रह्मचर्याद् एव प्रव्रजेत् गृहाद् वा वनाद् वा । अथ पुनर् अव्रती वा व्रती स्नातको वास्नातको वोत्सन् नाग्निर् अनग्निको या यद् अहर् एव विरज्येत् तद् अहर् एव प्रव्रजेत् [जा।उ। ४] इत्य् आदिना । उत्तरत्र च परमहंसानाम् इत्य् आदिना निरपेक्षाश् च पठ्यन्ते । तस्मात् गृहस्थेनोपसंहृतिर् धर्म-बाहुल्याद् एवेति सुष्ठूक्तम् यद् अहेर् एवेत्य् आदिना । विरागे सति गृह-त्याग-विधानाद् विशेषाद् उपसंहारात्म तात्पर्य-कल्पनं च निरस्तम् । अनुराग-विरागौ हि गृहारम्भ-तत्-त्यागयोर् हेतू सर्वत्राभिलप्येते । तद् एवं यथार्हं शम-दमोपरति-भूषणेषु निराश्रमेषु च विद्याभ्युदेतीति निरूपितम् ॥४९॥
र्प्च्- ३.१.४८, ७.९.९, ११.१८.२७, ११.१८.३५
ह्द्स्- १.१३.२६-२७
–ओ)०(ओ–
१४। अनाविष्काराधिकरणम्
**॥ ३.४.५० **॥
अथास्या रहस्यत्वम् उच्यते । श्वेताश्वतराः पठन्ति—
वेदान्ते परमं गुह्यं पुरा-कल्पे प्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ [श्वे।उ। ६.२२] इति ।
इह संशयः—विद्या यत्र क्वापि उपदेश्या न वेति । योग्यायोग्य-विमर्शस्य कारुण्यादि-विरोधित्वात् तद्वता देशिकेन सर्वत्रासौ प्रकाश्येति प्राप्ते—
अनाविष्कुर्वन्न् अन्वयात् ॥
विद्याम् अनाविष्कुर्वन्न् एवोपदिशेत् । कुतः ? अन्वयात् । उक्त-श्रुतौ तथैवोपदेश-प्रतीतेर् इत्य् अर्थः । एवम् एवाह भगवान् अरविन्दाक्षः—
इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ [गीता १८.६७]
इत्य् उपदेशो हि योग्येष्व् एव फलति नायोग्येषु । यस्य देवे परा भक्तिः [श्वे।उ। ६.२३] इत्य्-आदि-श्रुतेः । छान्दोग्ये च आत्मापहत-पाप्मा इत्य् आदिना महेन्द्र-विरोचनयोर् उपदेश-साम्येऽपि विरोचनस्य तत्त्व-ज्ञानं नाभूद् इति श्रवणात् । तथा च योग्येभ्य एव विद्योपदेश्या न त्वयोग्येभ्योऽपीति । योग्याश् च शास्त्र-प्रतिपाद्य-तत्पराः श्रद्धालवः ॥५०॥
र्प्च्- ११.१८.२८, ११.९.३, ११.२९.१६, १०.३३.१७
ह्द्स्- ३.३२.३९-४०, ११.२९.३०, १.५.२४, १.५.३०, १.११.२४
–ओ)०(ओ–
१५। ऐहिकाधिकरणम्
॥ ३.४.५१** ॥**
अथोत्पत्ति-कालस् तस्याश् चिन्त्यते । अत्र नचिकेतो जाबालादेर् उपाख्यानं वामदेवस्य च विषयः । इह भवति संशयः । पूर्वोक्त-साधना विद्यास्मिन् जन्मनि सञ्जायते जन्मान्तरे वेति । तत्-साधनेष्व् अनुष्ठीयमानेष्व् अस्मिन्न् एव जन्मनि सञ्जायते । इहैव मे स्याद् इत्य् अनुसन्धाय पुंसस् तत्र प्रवृत्तेर् इत्य् एवं प्राप्ते—
ऐहिकम् अप्रस्तुत-प्रतिबन्धे तद्-दर्शनात् ॥
प्रतिबन्धेऽप्रस्तुते सति ऐहिकं विद्या-जन्म प्रस्तुते तु तस्मिन् जन्मान्तरे तद् इत्य् अर्थः । कुतः ? तद्-दर्शनात् ।
मृत्यु-प्रोक्तां नचिकेतोऽथ लब्ध्वा विद्याम् एतां योग-विधिं च कृत्स्नम् । ब्रह्म-प्राप्तो विरजोऽभूद् विमृत्युर् अन्योऽप्य् एवं यो विदध्यात्मम् एव ॥ [क।उ। २.३.१८]
इत्य् आद्या श्रुतिर् ऐकभाविकी विद्योत्पत्तिं दर्शयति । गर्भस्य एव वामदेवः प्रतिपद्ये इत्य् आद्या तु भवान्तर-सञ्चितात् साधन-जातात् भावान्तरे तद्-उत्पत्तिम् । एतद् उक्तं भवति—कस्यचिद् एव लघु-प्रतिबन्धस्य साधन-वीर्य-विशेषात् तत्-प्रतिबन्ध-परिक्षये सत्य् अस्मिन् जन्मनि विद्योत्पद्यते । यथा नचिकेतसो यथा च सौवीर-राजस्य । गुरु-प्रतिबन्धस्य तु यज्ञ-दान-तपः-शम-दमादिभिर् उत्पद्यमानापि विद्या क्रमेण तत्-परिक्षयापेक्षया भवान्तर एवेति । एवम् एवोक्तं श्री-गीतासु—अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः [गीता ६.३७] इत्य् आदिना, अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् [गीता ६.४५] इत्य् अन्तेन । ऐकभाविकाभिसन्धिर् अपि न नियतः । इहामुत्र वा मे स्याद् इत्य् एवम् अपि तस्य दर्शनात् । तस्माद् अस्मिन् परस्मिन् वा जन्मनि विद्योदयः प्रतिबन्ध-क्षयानन्तरम् एवेति सिद्धम् ॥५१॥
र्प्च्- ९.४.१५-१७, ९.४.१४, ६.१.१३-१४, १०.२६.२९, ६.१६.३०, १०.४८.२२, १०.६०.३७, ९.४.४८, १०.८०.८, ११.२.२९
ह्द्स्- १०.१४.८
–ओ)०(ओ–
१६। मुक्ति-फलाधिकरणम्
॥ ३.४.५२ ॥
अथ विद्या-सम्पत्तौ मोक्षस्यावश्यकत्वं दर्शयति—तम् एव विद्वान् अमृत इह भवति [बृ।आ।उ। ४.४.१७], तम् एव विदित्वातिमृत्युम् एति [श्वे।उ। ३.८] इति श्रूयते । अत्र यच् छरीरे विद्योदिता तस्यैव प्राते मोक्षः स्यात् तद् अनस्य वेति संशये, हेतौ सति कार्यस्यावश्यकत्वात् तस्यैव पाते सतीति प्राप्ते—
एवं मुक्ति-फलानियमस्
तद्-अवस्थावधृतेस् तद्-अवस्थावधृतेः ॥
यथा विद्या-साधन-सम्पन्नस्य मुमुक्षोः विद्या-लक्षणे फले अस्मिन्न् एव जन्मनीति न नियमः, किन्तु प्रतिबन्ध-परिक्षयोत्तरम् एव सेति तथा विद्या-सम्पन्नस्य तस्य मोक्ष-लक्षणेऽपि फले तस्यैव पाते सतीति नियमः किन्तु प्रारब्ध-परिक्षयोत्तरम् एव स इति । तथा च प्रारब्धाभावे तस्यैव पाते सति तु प्रारब्धे सति तु प्रारब्धे तद् अन्यस्येति न पाक्षिको मोक्षः । कुतः ? तद् इति । आचार्यवान् पुरुषो वेद तस्य तावद् एव चिरं यावन् न विमोक्ष्ये अथ सम्पत्स्ये [छा।उ। ६.१४.२] इति छान्दोग्ये प्रारब्ध-क्षयोत्तरं विद्यवतो मोक्षावस्था-विनिश्चयाद् इत्य् अर्थः । स्मृतिश् चैवम् आह—
विद्वान् अमृतम् आप्नोति नात्र कार्या विचारणा । अवसन्नं यद् आरब्धं कर्म तत्रैव गच्छति । न चेत् बहूनि जन्मानि प्राप्यैवान्ते न संशयः ॥4 इति ।
यद्यपि विद्यया सर्व-कर्म-परिक्षयः स्यात् तथापीश्वरेच्छया प्रारब्धांशस् तिष्ठेद् इत्य् उक्तम् । वक्ष्यते च—पदाभ्यासोऽध्याय-पूर्तये ॥५२॥
र्प्च्- १०.१४.८, ११.२०.११, ५.१६.१८
ह्द्स्- ११.१३.२४
जनयित्वा वैराग्यं, गुणैर् निबध्नाति मोदयन् भक्तान् ।
यस् तैर् विद्धोऽपि गुणैर्, अनुरज्यति सोऽस्तु मे हरिः प्रेयान् ॥
॥ इति गोविन्द-भाष्ये तृतीयाध्यायस्य चतुर्थः पादः ॥
॥ ३.४ ॥
–ओ)०(ओ–
(४.१)