परया निरस्य मायां गुण-कर्मादीनि यो भजति नित्यम् ।
देवश् चैतन्य-तनुर् मनसि ममासौ परिस्फुरतु कृष्णः ॥
१। सर्व-वेदान्त-प्रत्ययाधिकरणम्
॥ ३.३.१ ॥
भगवद्-गुणोपासनास्मिन् पादे प्रदर्श्यते । इयम् अत्र प्रक्रिया । स्वयंरूपे पर-ब्रह्मणि पुरुषोत्तमे अनादि-सिद्धानि विचित्राणि रूपाणि वैदूर्य-मणाव् इव नित्याविर्भूतानि विभान्ति । तत्-तद्-रूप-विशिष्टोऽसौ निर्विशेष-शुद्धि-पूर्ति-भाग् इति विज्ञाय तेष्व् एकतमेन निजाभीष्टेन रूपेण विशिष्टो येनोपास्यते तेन तद्-अन्यतमेन रूपेण विशिष्टे तस्मिन् पठिता गुणः स्वोपास्ये पठिताश् चेद् उपसंहार्या एव । येन तु मनः-प्रभृतीनि विभूति-रूपाणि ब्रमेत्य् उपास्यन्ते तेन शाखान्तरस्थाश् च तत्-तद्-उपासन-प्रकरण-पठिता एवोपसंहार्या नेतरे तद्-रूपम् अधिकृत्य तेषां पाठात् । अपरे त्व् एवम् आहुः—इदम् एव पारम्योपेतं ब्रह्म-स्थितांस् तत्-तद्-भावान् अभिनेतृ-दिव्य-नटवत् प्रकाश्य तत्-तन्-नाम-भाक् तत्-तद्-धामावच्छेद एव तत्-तद्-गुण-कर्माण्याविष्कारोतीत्य् एकत्र श्रुतानाम् अन्यत्रोपसंहारः सम्भवतीति ।
नन्व् एकस्मिन् प्रकाशे श्रुता गुणाअ अन्यस्मिंश् चिन्त्याः स्युर् एकस्यैव तथा तथाभावेन प्राकट्यात् । ननु माधुर्यैश्वर्य-भोग-शान्ति-तपः-क्रौर्यादीनां मिथो विरोधात् वंश-शाङ्खारि-शर-चापादेर् मीनादौ शृङ्ग-पुच्छ-सटा-दंष्ट्रादेश् च नृलिङ्गे विभावने,
योऽन्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥ [म।भा। १.६८.२६]
इति स्मृति-व्याकोपाद् विद्वद्-अनुभव्णनुपलम्भाच् च नोपसंहारो युक्त इति चेत् अत्रोच्यते । गुणानाम् उपसंहार्यत्वम् उपासनायाम् उपादेयत्वम् । एकस्मिन्न् उपासने पठितानाम् अन्यस्मिन्न् अपठितानां तेषां तत्र चिन्तनं सत्त्वेन धी-मात्रं वा । आद्यं स्व-निष्ठानाम् अन्तिमं त्व् एकान्तिकानाम् इति यावत् । परस्मिन् पादे स्व-निष्ठादयस् त्रिविधा विद्याधिकारिणो दर्शयिष्यन्ते । तेषु प्रायेणाधिकृताः स्वनिष्ठाः सर्वेषु रूपेषु समप्रीतयः । ते हि सर्वत्र सर्वान् गुणान् उपसंहरन्ति । न चैकस्मिन्न् अनेक-विरुद्ध-गुण-चिन्तनम् असमञ्जसम् । समय-भेदेन वैदूर्य-मणाव् इवैकत्र तस्मिन् रूप-भेदानां ग्रहीतुं शक्यत्वात् । परिनिष्ठिता निरपेक्षाश् चोभयेऽप्य् एकान्तिनो विषम-प्रीतयः । ते हि स्वेष्ट-रूपाभिव्यक्तान् एव गुणान् विचिन्तयन्ति पश्यन्ति च । तद्-अन्य-रूपाभिव्यक्तांस् तेभ्योऽन्यांस् तु तस्मिन् सत्त्वेन ज्ञातान् अपि न चिन्तयन्ति न च पश्यन्ति । तेषां तत्रानाभिव्यक्तेर् अनभीष्टत्वाच् चेति पराधिकरणे व्यक्तीभविष्यति । योऽन्यथेति तु चिन्-मात्र-वादि-क्षेपकम् ।
किं च, तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यम् [छा।उ। ८.१.६] इति ब्रह्म-गुणानां मुमुक्षु-मृग्यत्वाभिधानात्, आनन्दो ब्रह्मणो विद्वान् न बिभेति कुतश्चन [तै।उ। २.४.१] इति गुण-वेदिनोऽभय-फलोक्तेश् च सगुणे ब्रह्मणि शास्त्र-तात्पर्यम् । आनुवादिका व्यवहारिकाश् च गुणा इति तु कल्पनैव । मानान्तराप्राप्तानाम् अनुवादासम्भवात् व्यवहारिक-पदादर्शनाच् च । वाचं धेनुम् उपासीत इत्य् आदिवद् उपासनायै गुणाः कल्प्या इति च दुर्धीर् एव । तथा सत्यात्मेन्त्य् एवोपासीत इत्य् अत्रापि तद्-आपत्तेः । आनन्दादयः प्रधानस्य, व्यतिहारे विशिंषन्ति हीतरवत् इत्य् अत्रानन्दआदेर् जीवेशाभेदस्य चोपास्यत्वेऽपि तात्त्विकत्व-स्वीकाराच् च । निर्गुण-वाक्यं तु प्राकृत-गुण-निषेधकम् इत्य् उक्तम् । गुणानां गुण्य-भेदाभ्युपगमाच् च न किञ्चिच् चोद्यम् । ध्येया गुणा द्वेधा बोध्याः । अङ्गि-निष्ठत्वाद् अङ्ग-निष्ठत्वाच् चेति स्फुटीभावि । तत्रादौ गुणोपसंहार-सिद्धये भगवतः सर्व-वेद-वेद्यत्वं निगद्यते । तथा हि निखिलानि साधन-वाक्यान्य् अत्र विषयः । तत्र स्व-शास्त्रोक्तैः साधनैर् ब्रह्म वेद्यम् उत सर्व-शाखोक्तैस् तैर् इति संशये प्रतिशाखम् अर्थ-भेदात् स्व-शाखिओक्तैस् तैर् इति प्राप्ते–
सर्व-वेदान्त-प्रत्ययं चोदनाद्य्-अविशेषात् ॥
इहान्त-शब्दो निश्चयार्थः । उभयोर् दृष्टोऽन्तः इत्य् अत्र तथा प्रत्ययात् । सर्व-वेद-निर्णयोत्पाद्य-ज्ञानं ब्रह्म । कुतः ? चोदनेति । आदि-शब्दाद् युक्तिर् गृह्यते । आत्मेत्य् एवोपासीत इत्य् आदि-विधेस् तद्-उक्त-युक्तेश् च सर्वत्र साम्यात् । यथा माध्यन्दिनानां विधिर् एष दृष्टस् तथा काण्वानां च ॥१॥
र्प्द्: १०.८७.३१ (त्वयि त इमे), १०.८७.३७ (यच् छ्रुतयस् त्वयि), १०.८७.११ (बृहद्-उपलब्धम्), १०.८७.१५ (अथ वितथा…), २.५.१५-१६, २.५.२५-२६, २.६.२९, ११.२१.४१-४२। ४.७.४९-५०, १०.८७.११ (अत ऋषयो दधुस्)।
ह्द्स्: १.२.२८ (वासुदेव-परा वेदाः), ११.२१.४२-४३
॥ ३.३.२ ॥
ननु क्वचिद् विज्ञानम् आनन्दं ब्रह्म इति क्वचन यः सर्वज्ञः सर्व-विद् इत्य् एवं प्रतिशाखम् अर्थ-भेदान् नैकाधिकारि-विषयाः सर्व-शाखाः स्युर् इति चेत् तत्राह—
भेदान् नेति चेन् नकस्याम् अपि ।1
मैवम् । एकस्याम् अपि शाखायां सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्म इत्य् आदि दर्शनात् । तथा च सर्वत्र तैस् तैः शब्दैर् एकम् एव ब्रह्म-स्वरूपम् अभिहितं, अतो न विरोधः ॥२॥
र्प्द्: १०.४०.४-१० १०.१३.५४
ह्द्स्: १०.१३.५४
॥ ३.३.३ ॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच् च ।2
स्वाध्यायोऽध्येतव्यः इति विधेस् तथात्वेन सर्व-साधारण्येन प्रवृत्तेः वेदः कृत्स्नोऽधिगन्तव्यः स-रहस्यो द्विजन्मना इति स्मृतेश् च । समाचारे सर्वस्मिन् कर्मणि सत्यां शक्तौ सर्वेषाम् अधिकाराच् च । स्मृतिश् चैवम् आह—
सर्व-वेदोक्त-मार्गेण कर्म कुर्वीत नित्यशः । आनन्दो हि फलं यस्माच् छाखा-भेदो ह्य् अशक्तिजः ॥ सर्व-कर्म-कृतौ यस्माद् अशक्ताः सर्व-जन्तवः । शाखा-भेदं कर्म-भेदं व्यासस् तस्माद् अचीकॢपद् ॥3 इति ।
तथा च सर्व-शाखोक्तैः साधनैर् ब्रह्म वेद्यं सत्यां शक्ताव् इति स्थितम् ॥३॥
र्प्द्: वि।पु। ३.३.५-६, भा। १२.६.३९-४४।
ह्द्स्: १.२.२८-२९
॥ ३.३.४ ॥
व्यतिरेके दृष्टान्तम् आह—
सववच्4** च तन्-नियमः ।**
सवाः सप्त सौर्यादयः शतौदन-पर्यन्ता होम-विशेषा यथार्वणिकानाम् एव नियम्यन्ते तद् उक्तैकाम्नि-सम्बन्धात् । एवं ब्रह्मोपासना सार्व-वैद्यानाम् इति । सलिलवच् चेति पाठे तु, यथा प्रतिबन्धाभावे सर्वाणि सलिलानि समुद्रं प्रयान्ति, तथा सर्वाण्य् अपि वचांसि ब्रह्मावेदयन्तीति नियमः शक्त्य्-अपेक्षया ।
यथा नदीनां सलिलं शक्त्या सागरतां व्रजेत् । एवं सर्वाणि वाक्यानि पुं-शक्त्या ब्रह्म-वित्तये ॥ इति स्मरणात्5 ॥४॥
र्प्द्: १०.४०.१०।
ह्द्स्: १०.७८.३१
॥ ३.३.५ ॥
वाचनिकम् आह—
दर्शयति च ॥
सर्वे वेदा यत् पदम् आमनन्ति [क।उ। १.२.१५] इति श्रुतिः सर्व-वेद-वेद्यत्वं श्री-हरेर् दर्शयति । च-शब्दः सत्यां शक्ताव् इत्य् आह । तथा च शक्तैः सर्व-शाखोक्तैः साधनैर् ब्रह्मोपास्यम् । अशक्तैस् तु स्व-शाखोक्तैस् तैर् इति सर्व-वेद-वेद्यं तत् । यद्यपि तत् तु समन्वयात् [वे।सू। १.१.४] इत्य् अनैतत् प्राग् वर्णितं तथाप्य् अत्र गुणोपसंहारोपयोगाय विधान्तरेण प्रपञ्चितम् । स्थैर्य-फलकत्वाच् च पौनरुक्तं न दोषः ॥५॥
र्प्द्:** **१०.४०.४-१०, ४.७.४-५० ११.२१.४१, २.५.१५-१६, २.६.२५-२६।
ह्द्स्: १०.८७.१५
–ओ)०(ओ–
२। उपसंहाराधिकरणम्
॥ ३.३.६ ॥
यद्-अर्थं सर्व-वेद-वेद्यत्वं समर्थितं तम् इदानीं गुणोपसंहारे दर्शयति । तथा हि अथर्व-शिरःसु क्वचिद् गोप-रूपं तमाल-श्यामलं पीतवासः कौस्तुभ-भूषणं पिञ्छावतंसं वंशकमनीयं गो-गोप-गोपी-विशिष्टं गोकुलाधिदैवतं ब्रह्म-स्वरूपं पठ्यते । तद् उ होवाच हैरण्यः । गोप-वेशम् अभ्राभं [गो।ता।उ। १.८] इत्य् आदिना । क्वचिज् जानकी-मण्डित-वाम-भागं कोदण्ड-करं दशास्य्-आदि-रक्षोघ्नम् अयोध्याधिपं तत् पठ्यते ।
प्रकृत्या सहितः श्यामः पीतवासा जटाधरः । द्विभुजः कुण्डली रत्न-माली धीरो धनुर्धरः ॥ इत्य् आदिना ।
क्वचिद् अतिकराल-वक्त्रं वित्रासित-द्रुहिणादिकं नृसिंह-वपुस् तत् पठ्यते । तन्-मन्त्रस्थ-भीषण-पद-व्याख्याने, अथ कस्माद् उच्यते भीषणम् इति । यस्माद् यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि भीत्या पलायन्ते, स्वयं यतः कुतश्चिन् न बिभेति ।
भीषास्माद् वातः पवते, भीषोदेति सूर्यः । भीषास्माद् अग्निश् चन्द्रश् च मृत्युर् धावति पञ्चमः ॥ [तै।उ। २.८] इत्य् अनेन ।
ऋचि तु त्रिविक्रम-रूपं पठ्यते ।
विष्णोर् नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि । यो अस्कम्भयद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः ॥ [ऋ।वे। १.१५४.१] इति ।
अत्र द्रव्य-देवता-भेदात् याग-भेदवत् गुण-भेदाद् उपासनानि भिन्नानीति प्रतीयते ।
इह संशयः—एकस्मिन्न् उपासने श्रुता गुणाः परस्मिन्न् उपसंहार्या न वेति । एकत्र पठितैर् गुणैर् विद्योपकारकत्व-सम्भवाद् इतरत्रोक्तास् ते नोपसंहार्याः फलानतिरेकाद् विरोधाच् चेति प्राप्ते—
उपसंहारोऽर्थाभेदाद् विधि-शेषवत् समाने च ॥
च-शब्दोऽवधारणे । उपासने समाने सति शुद्ध-ब्रह्मैक-विषयत्वेन तुल्य-रूप एव सत्य् एकत्रोक्तानां गुणानाम् इतरत्रोपसंहारः कार्यः । कुतः ? अर्थाभेदात् । अर्थस्य ब्रह्म-लक्षणस्योपास्यस्य सर्वत्राभेदाद् ऐक्यात् । अत्र दृष्टान्तो विधीयते । विधि-शेषाणाम् अग्निहोत्रादि-धर्माणां क्वचिद् उक्तानाम् अन्यत्रानुक्तानां च तेषां यथा भवेद् उपसंहारस् तद् एवेदम् अग्निहोत्रादि कर्म सर्वत्रेति तद्वत् । अथर्व-शिरसि, यो वै रामचन्द्रो स भगवान् ये मत्स्य-कूर्माद्य्-अवतारा भूर् भुवः स्वस् तस्मै नमो नमः इति श्री-रामचन्द्रे मत्स्यादि-रूपत्वम् उपसंहृतम् । एकोऽपि सन् बहुधा योऽवभाति इति श्री-कृष्णे रामादित्वम् । नमस्ते रघु-वर्याय रावणान्त-कराय च इत्य् आद्या स्मृतिर् अप्य् एवम् आह । इत्थम् अन्यत्र चान्यत् ॥६॥
र्प्द्: रा।ता।उ। २.९-१०, गो।ता।उ। १.१९, गीता ७.२३, भा। १०.४०.१, १०.४०.१७-२१, ११.२.३५, ११.२.३१, ११.६.९।
ह्द्स्: १.२.११, १.७.७, १०.४०.९-१०
–ओ)०(ओ–
३। अन्यथात्वाधिकरणम्
॥ ३.३.७ ॥
ननु आत्मेत्य् एवोपासीत इत्य् आदि वाक्याद् अन्यथात्वम् उपसंहारस्य प्रतीतम् इति चेत्, तत्राह—
अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् ॥
अन्यथात्वं गुणोपसंहाराभावः स चात्मेत्य् एवेति वाक्यात् प्रतीयते इति चेत्, न । कुतः ? अविशेषात् । एते गुणा नोपास्या इति विशेष-वचनाभावात् । एवं सत् एव-कारोऽप्य् अनात्मत्वम् एव निवर्तयति, न तु गुणान्तराणि । न हि राजैव दृष्ट इत्य् उक्तौ तदीयं छत्रादि व्यावर्त्यते । तस्माद् यथा-शक्ति-गुणाश् चिन्त्या इति सिद्धस् तद्-उपसंहारः ।
इदम् उक्तं भवति । परस्मिन् ब्रह्मणि वैदूर्य-वदनादि-सिद्धानि बहूनि रूपाणि सन्ति । तत्-तद्-रूप-विशिष्टं तत् पूर्णं शुद्धं च भवति । क्वचित् कृत्स्नान् गुणान् प्रकटयति क्वचित् त्व् अकृत्स्नान् इति तत्त्ववित् तत् सर्व-रूपे तस्मिन् यत्र क्वापि पठितान् गुणान् विचिन्तयेद् इति स्व-निष्ठस्य तद्-उपसंहारो निरूपितः ॥७॥
र्प्द्: १०.२.२९, १०.२.३४, १०.१४.२०, १०.३३.३६, ११.१.१०
ह्द्स्: ५.११.१३-१४
–ओ)०(ओ–
३। प्रकरण-भेदाधिकरणम्
॥ ३.३.८ ॥
अथैकान्तिनोऽधीत-बहु-शाखा अपि परिशीलित-स्वेष्टोपनिषदस् तद्-व्यक्तान् एव गुणान् ध्यायन्ति, न तु ज्ञातान् अप्य् अन्यान् इति पूर्वापवादेनारभ्यते । इह श्री-गोपालादि-तापिन्या विषयः । तत्रैवं सन्देहः । एकान्त्य्-उपासने सर्व-गुणोपसंहारः स्यान् न वेति । सम्भवति सामर्थ्ये श्लाघ्यत्वात् स्याद् एवेति प्राप्ते—
न वा प्रकरण-भेदात् परोवरीयस्त्वादिवत् ॥
वेति निश्चये । ये यस्मिन् रूपे एकान्तिनस् ते तद्-अन्य-रूप-व्यक्तान् गुणान् नोपसंहरन्ति । यथा कृष्णादि-रूपैकान्तिनो नृसिंहादि-निष्ठान् सटा-दंष्ट्रा-भीषणत्वादीन् । यथा च नृषिंहाद्य्-एकान्तिनः कृष्णादि-निष्ठान् वंश-वेत्र-चन्द्रकादीन् इति । कुतः ? प्रेति । प्रकरणं प्रकृष्ट-क्रिया । तद्-एक-तात्पर्या भक्तिर् इति यावत् । तस्या भेदाद् विशेषाद् इत्य् अर्थः । स्व-निष्ठ-भक्तेर् एकान्ति-भक्तिर् गाढावेशाद् वरीयसी । दृष्टान्तम् आह—पर इति । यथादित्यान्तर्वर्ति हिरण्मय-पुरुषैकान्तिनः स्वोपास्ये तस्मिन् परोवरीयस्त्वादीन् गुणान् उद्गीथ-निष्ठान् अपि नोपसंहरन्ति, तद्वत् । परस्मात् परश् च वराच् च वरीयान् इति परोवरीयान् उद्गीथस् तस्य भावस् तत्त्वं तदादिवद् इत्य् अर्थः ॥८॥
र्प्द्:** **१०.३१.११, १०.३१.१३, १०.३१.१९, १०.४७.१७, १०.९.११, (श्री-नाथे जानकी-नाथे अभेदः परमात्मनि । तथापि मम सर्वस्वो रामः कमल-लोचनः ॥), कृ।क। ३.९४ (विहाय कोदण्ड-शरान् मुहूर्तं गृहाण पाणौ मणि-चारु-वेणुम् । मायूर-बर्हं च निजोत्तमाङ्गे सीता-पते त्वां प्रणमामि पश्चात् ॥)
ह्द्स्: ११.३.४७-४८
–ओ)०(ओ–
४। सञ्ज्ञातोऽधिकरणम्
॥ ३.३.९ ॥
ननूभयेषां ब्रह्मोपासकादि-सञ्ज्ञा समैवात् एकान्तिभिर् अपि स्व-निष्ठैर् इव सर्वे गुणाः सर्वत्र चिन्त्याः स्युः, यथा विप्र-सञ्ज्ञानां गायत्र्य्-उपासना निर्विशेषा दृष्टेति चेत् तत्राह—
सञ्ज्ञातश् चेत्, तद् उक्तम्, अस्ति तु तद् अपि ॥
शङ्का-निवारकस् तु-शब्दः । सञ्ज्ञैक्यात् सर्व-गुणोपसंहारो युक्त इत्य् अत्र यद् उत्तरं, तत् तु न वा प्रकरण-भेदाद् इत्य् अनेनवोक्तम् । सामान्य-सञ्ज्ञापेक्षया विशेष-भूतैकान्तितायाः श्रैष्ठ्यान् न तैस् ते सर्वे विचिन्त्या इत्य् अर्थः । इतरथा श्रैष्ठ्य-क्षतिः । रूप-विशेषाभिशक्त-चित्तत्वेन ह्य् एकान्तिनः साधारणेभ्यः स्व-निष्ठेभ्यो ज्येष्ठा भवन्ति । न च निखिल-गुणान् उपसंहर्तुं स्व-निष्ठोऽपि क्षमः । विष्णोर् नु कं वीर्याणि प्रावोचम् [ऋ।वे। १.१५४.१] इत्य् आदि श्रुतेः । नान्तं गुणानाम् अगुणस्य जग्मुर् योगेश्वरा ये भव-पाद्म-मुख्याः [भा।पु। १.१८.१४] इत्य् आदि स्मरणाच् च । सञ्ज्ञैकस्य हेतोर् अन्वय-व्यभिचारं दर्शयति अस्तीति । प्रमित-भेदेष्व् अपि परोवरीयो हिरण्मयाद्य्-उपासनेषूद्गीथोपासनम् इति सञ्ज्ञैक्यम् अस्तीत्य् अर्थः । तथा च स्व-निष्ठाः सर्वान् गुणान् उपसंहृत्योपासीरन्न् एकान्तिनस् तु गुण-विशेषान् इत्य् अधिकरणाभ्यां निर्णीतम् ॥९॥
र्प्द्: १.१८.१४, ११.४.२, १०.९.२१, ११.१४.१९-२०, १०.२९.३२ (यत् पत्य्-), ११.२९.६।
ह्द्स्: १.१८.१५, ८.२३.२९
॥ ३.३.१० ॥
अथ बाल्यादीन् गुणान् भगवत्य् उपसंहर्तुम् आरभते । तास्व् एव, कृष्णाय देवकी-नन्दनाय ओं तत् सद् भूर् भुवः स्वस् तस्मै नमो नमः [गो।ता।उ। २.८९] इति । कृष्ण-शब्दस् तु तमाल-नील-त्विषि यशोदा-स्तनधये रूढिर् इति नाम-कौमुदी-कारः ।
ओं चिन्-मयेऽस्मिन् महा-विष्णौ जाते दाशरथे हरौ । रघोः कुलेऽखिलं राति राजते यो मही-स्थितः ॥
इति चैवम्-आदिषु बाल्यादयो ब्रह्म-धर्माः श्रूयन्ते । स्मर्यन्ते च तथा स्मृतिषु । ते किं चिन्त्या न वेति वीक्षायां तैर् विग्रहे न्यूनाधिक्य-भावापत्तेर् ऐकरस्य-श्रुति-व्याकोपान् न चिन्त्या इति प्राप्ते—
व्याप्तेश् च समञ्जसम् ॥
बाल्यादि-धर्मिणस् तस्य भगवतो व्याप्तेर् विभुत्वाद् बाल्यादिना तद्-भावाभावात् समञ्जसं तत्र तद् इत्य् अर्थः । प्रपञ्चितं चैतद् अनेन सर्व-गतत्वम् इत्य् आदिना । न चैवं जन्माख्यो विकारः । अजायमानो बहुधा विजायत इति पुरुष-सूक्तात् । जनि-शून्यस्यैवाभिव्यक्ति-मात्रं जन्मेति तद्-अर्थः । च-कारात् रसो वै सः इति रसात्मक-श्रवणात् । स्वोपासकानां यादृशेन रूपेण लीला-रसानुभवस् तादृशं रूपम् अचिन्त्यया शक्त्या प्रकटयतीति समुच्चितम् । तद्-उपासकाश् च नित्यम् उक्तादयोऽनन्ताः । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः इत्य् आदि श्रुति-सिद्धा बोध्याः । एक एव नाना-वयांसि तत्-तद्-उपासकेषु युगपद् व्यनक्ति । सुर-मनुष्यासुरेषु दशाब्दतैव नानार्थान्य् इत्य् अन्ये । तथा च बाल्यादिमतोऽपि विभुत्वेनैकरस्याच् चिन्त्यास् तत्र बाल्यादय इति ॥१०॥
र्प्द्: १०.३.१८, १०.९.१३-१४, ३.९.११, १०.६९.४२, ६.४.२९, ४.३.२१, १०.२.१८, १०.२.१६, १०.३.९, गीता १६.१०, १६.१९, ६.४०; भा। ४.२९.७६, ११.२३.३८-३९, ब्रह्म-बिन्दूपनिषद् २ (मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥), महोपनिषद् ४.६७ (मनसा भाव्यमानो हि देहतां याति देहकः । देह-वासनया मुक्तो देह-धर्मैर् न लिप्यते ॥), भा। ११.२३.४१, ११.२३.४३।
ह्द्स्: १०.१४.१, १०.९.१३-१४
–ओ)०(ओ–
५। सर्वाभेदाधिकरणम्
॥ ३.३.११ ॥
ननु बाल्यादि-कर्मणाम् अपि भगवद्-धर्मत्वान् नित्यत्वं तेषु तत्-तत्-परिकर-योगेन च भाव्यम् इति वाच्यम् । तत्रैकस्य तत्-परिकरस्य पूर्वोत्तर-भावेनानेक-कर्म-सम्बन्धोऽभिमतः । पूर्वस्य कर्मणो नित्यत्वे तत्-सम्बन्धिनः परिकरस्यापि तत्र नित्य-सम्बन्धो वाच्यः । तम् अन्तरा तत्-स्वरूपासिद्धेः । एवं सत्य् उत्तर-कर्म-सम्बन्धस् तस्य दुरुपपादः । उत्तरस्मिन् सम्बन्धे स्वीकृते तु पूर्वस्य नित्यत्वं व्याहन्येत । नित्यत्वे चोत्तर-कर्म-सम्बन्धिनस् तस्यान्यत्वं भवेत् । तद् इदम् अनुभवेन शास्त्रेण च निरूप्यते । तथा कर्म खलु पूऋवापरि-भूतांशं प्रत्यंशम् अप्य् आरम्भ-समाप्तिभ्यां सिद्ध्येद् वीक्ष्यते । ते विना न तत् स्वरूपं सिद्ध्येत् । न च तेन क्रमेण रसानुभवः । ततः कथं तन् नित्यत्वं ? चित्र-लिखितवत् सदैक-रस्ये हि नित्यता प्रतीता । किं च, प्रकाश-भेदैर् आरम्भे प्रत्येकं बहुत्वात् स्याद् अविच्छेदः । पृथग्-आरम्भाद् अन्यत्वं तु दुर्निवारम् । ततश् च तद् एवेदम् इति प्रतीत्य्-अनुदयात् कथं तन् नित्यत्वं प्रत्येतव्यम् ? तस्मात् कर्म-नित्यत्वम् असमाधेयम् इत्य् एवं प्राप्ते तन्त्रेणोत्तरम् आह—
सर्वाभेदाद् अन्यत्रेमे ॥
ये हरि-तत्-परिकरास् तत्-कर्माञ्चा वा पूर्वस्मिन् काले कर्माणि वा सन्ति त एवेमेऽन्यत्रोत्तरस्मिन् कर्मणि काले वा स्युर् इति मन्तव्यम् । कुतः ? सर्वाभेदात् । सर्वेषां पूर्वोतर-वर्तिनां हरि-तत्-परिकर-प्रकाशानां तत्-कर्मांशानां वा भेदाभावाद् इत्य् अर्थः । एकस्य हरेर् बहुत्वं, एकोऽपि सन् बहुधा योऽवभाति, एकानेक-स्वरूपाय इति श्रुति-स्मृति-सिद्धम् । एकस्य तत्-परिकरस्य च तन् मन्तव्यम् । भूम-विद्यायां मुक्तस्य तद्-उक्तेः । महिष्य्-उद्वाहादौ यथा स्मरणात् च । तुल्यात्मनां कर्मणां काल-भेदेनोदितानाम् अप्य् ऐक्यम् । द्विः पाकोऽनेन कृतो न तु द्विधा पाकः कृतः इति विद्वत्-प्रतीतेः । द्विर् गो-शब्दोऽयम् उच्चरितो न तु द्वौ गो-शब्दौ इति शब्दैक्यवत् । इत्थं च श्री-हरेस् तज्-जनानां तद्-धाम्नां च प्रकाश-बाहुल्यात् तद्-विशेषैः कर्मणाम् आरम्भात् समाप्तेश् च पृथग्-आख्यानां तेषाम् ऐक्याच् चस्वरूप-नित्यत्वे सिद्धे । तत्-क्रमानुभव-हेतुको विचित्र-रसोदयश् चैतेनैव व्याख्यातः । न चैतद् अमूलं, यद् गतं भवच् च भविष्यच् च इति बृहद्-आरण्यकात्, एको देवो नित्य-लीलानुरक्तः इत्य् अथर्व-वाक्यात् । जन्म कर्म च मे दिव्यं [गीता ४.९] इत्य् आदि भगवद्-वाक्याच् च । ईदृक्-प्रत्ययः खलु तत्-कृपयैव।
यावान् अहाम् यथा-भावो यद्-रूप-गुण-कर्मकः । तथैव तत्त्व-विज्ञानम् अस्तु ते मद्-अनुग्रहात् ॥ [भा। २.९.३५] इति तद्-उक्तेः ।
तस्मान् नित्यं तत्-कर्मेति । किं च स्वरूपेण चिच्-छक्त्या च कृतं कर्म नित्यं, तेन पोरकृति-कालाभ्यां च कृतं त्व् अनित्यम् । तच् च स्वर्गादिकम् एवान्यथा लयोक्ति-व्याकोपः ॥११॥
र्प्द्: १०.६९.११, १०.६९.२०, १०.६९.२६, १०.१४.१८, २.९.३१, १०.१४.२८, ३.१५.४९, १०.१४.३०, ६.११.२३, १०.१६.३७,
ह्द्स्: १०.६९.१
–ओ)०(ओ–
६। आनन्दाद्य्-अधिकरणम्
॥ ३.३.१२ ॥
अथेदं विचारयति । वेदान्तेषु पूर्णानन्दादयो ब्रह्म-धर्माः श्रूयन्ते । ते सर्वेषु तद्-उपासनेषूपसंहार्या न वेति वीक्षायाम् अनारभ्याधीतानाम् उपसंहारे प्रमाणाभावाद् आराभ्याधीतानाम् एवोपसंहारः । सर्व-गुणोपसंहार्यानियमाच् च । तस्मान् नोपसंहर्यास् त इति प्राप्ते—
आनन्दादयः प्रधानस्य ॥
प्रधानस्य धर्मिणः परमात्मनो ये पूर्णानन्द-बोध-स्वाश्रित-वात्सल्यादयो धर्माः श्रूयन्ते ते सर्वत्रोपसंहार्यास् तत्-तृष्णा-हेतुत्वात् ॥१२॥
र्प्द्: १०.८७.१६, १०.१३.५४, ४.१३.७, १०.१६.३६, ७.९.४७।
ह्द्स्: २.१.३९, १०.१३.५४
–ओ)०(ओ–
७। प्रिय-शिरस्त्वाद्य्-अप्राप्त्य्-अधिकरणम्
॥ ३.३.१३ ॥
आनन्द-मयस्य श्री-विष्णोः प्रिय-शिरस्त्वादयो धर्माः श्रुताः । तस्य प्रियम् एव शिरः [तै।उ। २.५.२] इत्य् आदिना । तेऽपि सर्वत्रोपसंहार्या न वेति विषये आनन्दादीनां सर्वत्रोपसंहार्य-त्वाभिधानात् तेषाम् अप्य् आनन्दत्वाविशेषात् स्यात् सर्वत्रोपसंहार इति प्राप्ते—
प्रिय-शिरस्त्वाद्य्-अप्रापितिर् उपचयापचयौ हि भेदे ॥
प्रिय-शिरस्त्वादीनां धर्माणाम् अप्राप्तिः सर्वत्रोपसंहारो न स्यात् । आनन्द-मयस्य विष्णोः पुरुष-विधस्य पक्षि-रूपत्वाभावात् । किं च तस्मिन् वाक्ये प्रमोद-मोद-शब्दाभ्यासानन्द-गताव् उपचयापचयौ वृद्धि-ह्रासौ प्रतीतौ । तौ च भेदे सति सम्भवेताम् । न चैवम् अस्ति । स्वगत-भेदस्यापि प्रत्याख्यानात् । तस्मान् नोपसंहार्यास् ते ॥१३॥
र्प्द्, ह्द्स्: १०.८७.१७
॥ ३.३.१४ ॥
इतरे त्व् अर्थ-सामान्यात् ॥
तस्माद् वा एतस्माद् [तै।उ। २.१] इत्य् आदिना सोऽकामयत [तै।उ। २.६] इत्य् आदिना भीषास्माद् [तै।उ। २.८] इत्य् आदिना च तस्माद् वाक्यात् प्राग् ऊर्ध्वं च ये प्रिय-शिरस्त्वादिभ्य इतरे विभुत्व-चित्-सुखत्व-जगत्-कारणत्व-पारमैश्वर्यादयस् तस्यानन्द-मयस्य ब्रह्मणो धर्माः पठ्यन्ते तेतूपसंहार्या एव । कुतः ? अर्थेति । फलैक्याद् इत्य् अर्थः । वेदान्तोदितैर् वीर्य-सम्भूति-सर्व-सौहृद-शारणत्व-मोचकत्वादिभिश् चिन्तितैर् गुणैर् यो मोक्ष-लक्षणेऽर्थस् तस्यैव एतैर् अपि तथा-भूतैः सम्भवाद् इत्य् अर्थः ॥१४॥
र्प्द्: १०.२८.१३, १०.१४.२२।
ह्द्स्:** **१०.२८.१५, ४.१७.३३
॥ ३.३.१५ ॥
ननु आनन्द-मयस्य ब्रह्मणः पक्षि-भावेन रूपकं किम्-अर्थम् ? अन्यत्र हि—आत्मानं रथिनं विद्धि [क।उ। १.३.३] इत्य् आदिभिर् उपासकस्य तच्-छरीरादेश् च रथि-रथादि-भावेन रूपकम् उपास्त्य्-उपकरण-शरीरेन्द्रियादि-वशीकारार्थं दृष्टम् । न चात्र तादृशं किञ्चित् फलं दृश्यते । न हि फलम् अनुद्दिश्य तथात्वेन रूपके वेदस्य प्रवृत्तिर् युक्ता वक्तुम् इत्य् आशङ्क्य तस्य फलम् आह—
आध्यानाय प्रयोजनाभावात् ॥
प्रयोजनस्यान्यस्याभावाद् आध्यानायैव रूपकोपदेशः कृतः । आध्यानं सम्यग् अनुचिन्तनम् । अयम् अर्थः—ब्रह्मविद् आप्नोति परं [तै।उ। २.१] इत्य् उपक्रान्तम् एकं ब्रह्म स्वयं-रूपत्वेन विलासत्वादिना च द्वेधावतिष्ठते । तच् च स्वयं-भगवान् नारायण-वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्ध-सञ्ज्ञं स्वरूपतो गुणतो नामादितश् च विभु-चित्-सुखात्मकं स्थूल-धियाम् आदौ दुर्विभाव्यम् अतस् तद् एकम् आनन्द-मयं ब्रह्म प्रिय-मोदादि-रूपेण विभज्य शिरः-पक्षादि-भावेन रूपयित्वोपदिश्यते, तेषां सुबोधत्वाय । इत्थं च तस्य बुद्ध्य्-आरोहणे सति वेदन-शब्दोदितं ध्यानं सम्यग् भवति । यथा ह्य् अन्नयमयस्य पुरुषस्यास्य देहस्य शिरः पक्षादि-रूपकेण बुद्धावरोहणं, तस्येदम् एव शिरः इत्य् आदिना । यथा च प्राण-मय-मनोमय-विज्ञान-मयानां तथा-रूपकेण तत् क्रियते, तस्य प्राण एव शिरः इत्य् आदिभिः ।
तथैवैतेभ्योऽर्थान्तर-भूतस्यानन्द-मयस्य च पुरुषस्य तेन तत्, तस्य प्रियम् एव शिरः इत्य् आदिना । तथा च पञ्चावयव-विशुद्ध-ब्रह्मोपलक्षणार्थत्वात् तेषां सर्वत्रोपसंहारो नेति सुष्ठूपपादितम् । न चैवम् एव ब्रह्म पञ्चावयवम् इत्य् अमूलम् । एकोऽपि सन् बहुधा योऽवभाति [गो।ता।उ। १.१९] इति, एकं सन्तं बहुधा दृश्यमानं6 इति, स शिरः स दक्षिणः पक्षः स उत्तरः पक्षः स आत्मा स पुच्छः7 इति च श्रुत्य्-अन्तरात् ।
शिरो नारायणः पक्षो दक्षिणः सव्य एव च । प्रद्युम्नश् चानिरुद्धश् च सन्देहो वासुदेवकः । नारायणोऽथ सन्देहो वासुदेवः शिरोऽपि वा । पुच्छं सङ्कर्षणः प्रोक्तः एव एव तु पञ्चधा ॥ अङ्गाङ्गित्वेन भगवान् क्रीडते पुरुषोत्तमः । ऐश्वर्यान् न विरोधश् च चिन्त्यस् तस्मिन् जनार्दने । अतर्क्ये हि कुतस् तर्कस् त्व् अप्रमेये कुतः प्रमा ॥ इति8 ॥१५॥
र्प्द्: ८.१७.५, १०.२.३५-३७, १०.१४.१९, १०.४०.४, १०.४०.१०।
ह्द्स्: ३.२४.३१, १०.४०.१३
॥ ३.३.१६ ॥
आत्म-शब्दाच् च ॥
आत्मानन्द-मय इति तस्यात्म-शब्देन निर्देशाद् आत्मनः पक्षिवत् पुच्छादिकम् असम्भवीत्य् अतः सौबोध्याय रूपक-मात्रं तद् इत्य् अवगम्यते ॥१६॥
**र्प्च् **: १०.१३.२७, १०.२.२३, १०.१०.३०, १०.१४.२२, १०.१४.५५, १०.२७.११।
ह्द्स् : १०.१४.५५
–ओ)०(ओ–
॥ ३.३.१७ ॥
आत्म-गृहीतिर् इतरवद् उत्तराद् ॥
ननु, अन्योऽन्तर आत्मा वा प्राण-मयः [तै।उ। २.२] इत्य् आदिषु जडाणु-चेतनेष्व् अप्य् आत्म-शब्दस्य प्रयोगात्, अन्योऽन्तर आत्मानन्द-मयः [तै।उ। २.५] इत्य् अत्र तस्य विभु-चेतन-परत्वं कथं निश्चितम् इति चेद् इहोच्यते । तत्रात्म-शब्दः परमात्मानम् एव विभु-चेतनं गृह्णाति इतरवत् । आत्मा वा इदम् एक एवाग्र आसीत् [बृ।आ।उ १.४.१] इत्य् आदि वाक्ये यथा । एतच् च कुतः ? उत्तरात् । सोऽकामयत बहु स्याम् इत्य् आदिकानन्द-मयात्म-विषयाद् उत्तरस्माद् वाक्याद् इत्य् अर्थः । न चानन्द-मयाद् इत्य् अर्थः । न चानन्द-मयात्मनः परमात्मत्वाभावे तद् इदम् अभिध्यानं सङ्गच्छते । तस्य तद्-असाधारणत्वात् ॥१७॥
**र्प्च् **: १०.८५.२२-२३।
ह्द्स् : १०.४०.३, १०.४०.१२
–ओ)०(ओ–
॥ ३.३.१८ ॥
अन्वयाद् इति चेत्, स्याद् अवधारणात् ॥
ननूत्तर-वाक्यात् तत्रात्म-शब्देन विभु-चेतनो निश्चेतुं न शक्यते । पूर्वत्र प्राण-मयादिषु जडाणु-चेतनेष्व् आत्म-शब्दान्वयाद् इति चेत् स्यात् तत्रात्म-शब्देन विभु-चेतनस्य परमात्मनो निश्चयः स्याद् एव । कुतः ? अवेति । पूर्वं तस्माद् वा एतस्माद् आत्मनः इति तस्यैव बुद्ध्यावधारितत्वात् । इतरथानन्द-मय-विषयकम् अभिध्यान-वचनं पीड्येत । प्राण-मयादिष्व् आत्मस्व् अवतीर्णापि पूर्वावधारिता परमात्म-बुद्धिर् आनन्द-मय एव विश्राम्यति । तद् अन्यस्यात्मनोऽनिरूपणात् । तस्माद् अरुन्धती-दर्शन-न्यायम् आश्रित्य पूर्व-पूर्व-परित्यागेनोत्तरत्रैव तस्मिंस् तद्-बुद्धेः पर्यवसितिर् अत उत्तरस्माद् वाक्यात् तस्य तत्-परत्वं निश्चेयम् इति सर्वं निरवद्यम् ॥१८॥
**र्प्च् **: १०.८७.१३।
ह्द्स् : १०.८४.२३-२४
–ओ)०(ओ–
॥ ३.३.१९ ॥
८। अपूर्वाधिकरणम्
अथ पितृत्वादीन् धर्मानुपसंहर्तुम् आरभते । माता पिता भ्राता निवासः शरणं सुहृद् गतिर् नारायणः इति श्रूयते । जितन्ते-स्तोत्रेऽप्य् एवं स्मरन्ति—
पिता माता सुहृद् बन्धुर् भ्राता पुत्रस् त्वम् एव मे । विद्या धनं च कामश् च नान्यत् किञ्चित् त्वया विना ॥ इत्य् आद्येऽध्याये । जन्म-प्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते । त्वं च स्वामी गुरुर् माता पिता च मम माधव ॥ इति मध्येऽन्ते च ।
तत्रैवं संशयः । पितृत्व-पुत्रत्व-सखित्व-स्वामित्व-रूपं धर्म-जातं भगवति चिन्त्यं न वेति । आत्मेत्य् एवोपासीतेति श्रुतेर् न चिन्त्यम् इति प्राप्ते—
कार्याख्यानाद् अपूर्वम् ॥
पूर्वं पूर्णानन्दत्वादि । तत्-सदृशम् अपूर्वं पितृत्वादि । तच् चिन्त्यम् एव तत्-तद्-उपासकैः । कुतः ? कार्याख्यानात् । कार्यस्य तत्-तद्-भाव-वश्यता-लक्षणस्य फलस्य भाव-ग्राह्यम् अनीडाख्यम् इत्य् अनेनाभिधानाद् इत्य् अर्थः । आह चैवं श्री-भगवान् येनाहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टः इति । तस्मात् पूर्णानन्दत्वादिवत् पितृत्वादिकम् अपि तस्मिन् विचिन्त्यं भावुकैः । आत्मेत्य् एवेत्य् एतत् तु प्राग् एव समाहितम् ॥१९॥
**र्प्च् **: श्वे।उ। ५.१४, ३.२५.३५, ८.२४.३१, ११.८.३४, १२.८.३४, ७.१.२९, ७.१.२५, ७.९.१०।
ह्द्स् :** **३.६.३८, ११.१२.८
–ओ)०(ओ–
९। समानाधिकरणम्
॥ ३.३.२० ॥
अथ विग्रहत्वं ब्रह्मण्य् उपसंहर्तुम् आरभते । आत्मेत्य् एवोपासीत [बृ।आ।उ १.४.७], आत्मानम् एव लोकम् उपासीत [बृ।आ।उ १.४.१५] इति क्वचित् पठ्यते, क्वचित् तु तद् उ होवाच हैरण्यो गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितं तद् इह श्लोका भवन्ति सत्-पुण्डरीकं [गो।ता।उ। १.८-९] इत्य् आदि, चिन्त्ययंश् चेतसा कृष्णं मुक्तो भवति संसृतेः [गो।ता।उ। १.११] इत्य् अन्तम् ।
इह संशयः—आत्म-मात्रत्वेनात्म-विग्रहत्वेन वोपासनया मुक्तिर् इति । किं प्राप्तम् ? आत्म-मात्रत्वेनोपासनयेति, तस्यैवैकरस्यात् । एक-रसात्मोपासनया खलु मुक्तिर् उक्ता । विग्रहस्य तु मिथो विलक्षण-चक्षुर्-आदि-वैशिष्ट्येनानैकरस्यान् नासौ तद्-उपासनयेत्य् एवं प्राप्ते—
समान एवं चाभेदात् ॥
अप्य्-अर्थे च-शब्दः । एवम् अपि चक्षुर्-आदीनां वैलक्षण्येन भानेऽपि समान एक-रसः स एव हिरण्य-प्रतिमादिवद् भगवान् बोध्यः । कुतः ? अभेदात् । चक्षुर्-आदीनाम् आत्मानतिरेकाद् इत्य् अर्थः । तस्माद् विग्रह-भूतात्मोपासनयैव मोक्षः । एवं च चिन्तयंश् चेतसा एत्य् आदि-वाक्य-व्याकोपः । सत्य-ज्ञानानन्तानन्द-मात्रैक-रस-मूर्तयः [भा।पु। १०.१३.५४] इति स्मृतिस् तु वैचित्र्या विभातस्य तद्-विग्रहस्यैकरस्यम् आह । अरूपवद् इत्य् अनेन चिन्तितम् अप्य् एतद्-विधान्तरेण चिन्तितम् । कृपालुर् आचार्यो दुष्प्रवेशम् अर्थम् असकृद् विमृशति सुप्रवेशत्वाय ॥२०॥
र्प्च्: १०.१३.५४, १०.१४.२१-२२
ह्द्स् :
॥ ३.३.२१ ॥
तद् एवं साक्षाद्-रूपेषु भगवद्-आविर्भावेषु तत्-तद्-गुणोपसंहृतिर् उक्ता । अथ जीव-भूतेष्व् आवेशावतारेषु सा विमृश्यते । अधीहि भगव इति होपससाद सनत्कुमारं नारदस् तं होवाच [छा।उ। ७.१.१] इति । तं मां भगवान् शोकस्य पारं तारयतु [छा।उ। ७.१.३] इति चैवम्-आदि छान्दोग्यादौ पठितम् । अत्र भगवतो ज्ञान-शक्त्यादि-निज-धर्मैर् आविष्टाः कुमारादयो जीवास् तस्यावेशो भवन्तीति भगवच्-छब्दात् प्रतीयते । तेषु तद्-भक्तैर् निखिल-भगवद्-धर्मा उपसंहार्या न वेति संशये विकल्पं स्थापयति । तत्रादौ विधि-पक्षम् आह—
**सम्बन्धाद् एवम् अन्यत्रापि **
अन्यत्र भगवद्-आविष्टेषु कुमारादिष्व् एवं निखिल-तद्-धर्मोपसंहारो भवति । कुतः ? सम्बन्धात् । अयः पिण्डेषु वह्नेर् इव तेषु तस्यावेशात् ॥२१॥ \
र्प्द्: ६.७.२४, ११.१७.२२, ११.२९.६, ११.२७.९।
ह्द्स्:** **१०.१०.३४
॥ ३.३.२२ ॥
अथ निषेध-पक्षम् आह—
न वा विशेषात् ॥
न तेषु निखिल-भगवद्-धर्मोपसंहारो भवति । कुतः ? अविशेषात् । सत्य् अपि तद्-आवेशे जीवत्व-लक्षणे धर्मे विशेषाभावात् । वा-शब्दात् तत्-प्रेष्ठत्वादिना तत्रादर-विशेषात् ॥२२॥
र्प्द्: १.३.२६, १.३.२८, ७.५.२४-२५, ५.१२.१२, ११.२६.२७-२९।
ह्द्स्:** **१०.८७.२८
॥ ३.३.२३ ॥
दर्शयति च ॥
तं मां भगवान् इत्य् आद्या श्रुतिस् तद्-आविष्टस्यापि श्री-नारदस्य जिज्ञासुतां दर्शयति । अतो न तत्र सर्व-धर्मोपसंहारः ॥२३॥
र्प्द्: ११.२.३७-३८।
ह्द्स्: २.५.१-२, २.५.८
॥ ३.३.२४ ॥
सम्भृति-द्यु-व्य्âप्त्य् अपि चातः ॥
सम्भृतिश् च द्यु-व्याप्तिश् च तयोः समाहारस् तथा । एतच् च तेषु नोपसंहार्यम् । इह पूर्वोक्तं हेतुम् अतिदिशति—अत इति । जीवत्वाद् एवेत्य् अर्थः । अयम् अर्थः—एणायनीयानां खिलेषु पठ्यते । ब्रह्म-ज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवम् आततान । ब्रह्म-भूतानां प्रथमं तु जज्ञे । तेनार्हति ब्रह्मणा स्पर्धितुं कः इति । अत्र वीर्य-सम्भृत्-द्यु-व्याप्ति-प्रमुखो ब्रह्म-महिमा प्रकीर्तितः । न स तेषु जीवेषूपसंहार्यस् तस्य परेश-साधारणत्वाद् इति ॥२४॥
र्प्द्: २.७.३९।
ह्द्स्: ७.९.२०, ७.९.८
॥ ३.३.२५ ॥
अनुपसंहारे हेत्व्-अन्तरम् आह—
पुरुष-विद्यायाम् इव चेतरेषाम् अनाम्नात् ॥
कुमाराद्य्-उपाख्यानेष्व् इतरेषां सर्व-भूतोपादानत्व-सर्व-नियामकत्वादीनां धर्माणाम् अनाम्नानाच् च न तेषु सर्व-तद्-धर्मोपसंहारः । व्यतिरेकी दृष्टान्तः पुरुषेति । पुरुष-सूक्तेषु च-शब्दात् गोपाल-तापिन्य्-आदिषु यथा ते निरूप्यते न तथा तद्-उपाख्यानेष्व् इत्य् अर्थः। इदम् अत्र निष्कृष्टम् । ईशाविष्टेषु तप्तायः-पिण्डवद्-अंश-द्वयम् अस्ति । ये वह्न्य्-अंशम् इवेशांशं पश्यन्ति ते निखिल-तद्-धर्मास् तेषु भावयन्ति । ये खल्व् अयोऽंशम् इव जीवांशं ते तु न, किन्तु तत्-प्रेष्ठत्वादीन् धर्मास् तेषु चिन्तयन्ति । ईशस् तु स्व-प्रेष्ठानुवृत्ति-परितुष्टस् तान् स्वीकरोति । श्री-भगवतादिभिर् अपि शास्त्रैस् तेषु भगवद्-आदि-शब्दाः प्रयुज्यन्ते । जीव-धर्माश् च दैत्याभिधानेन प्रकाश्यन्ते । तत्राप्य् एवम् एव सङ्गतिर् इति ॥२५॥
र्प्द्: १०.४०.२, १०.४०.१०, १०.४०.१३, १०.४०.२९, ३.१५.४९।
ह्द्स्: ८.१२.४-५
–ओ)०(ओ–
१०। वेधाद्य्-धिकरणम्
॥ ३.३.२६ ॥9
स्व-शाखोक्त-गुण-विशिष्टं ब्रह्मोपास्यम् इत्य् उक्तम् । अथ तद्-उक्ता अपि केचिद् गुणा मुमुक्षुणा नोपासाया इत्य् उच्यते । अग्ने त्वं यातुधानस्य भिन्द तं प्रत्यञ्चम् अर्चिषा विध्य मर्म इति श्रुतम् अथर्वणि । इह वेधादि-गुण-जातम् उपास्यं न वेति संशये दुष्ट-निग्रहस्यापेक्षत्वाद् उपास्यम् इति प्राप्ते—
वेधाद्य्-अर्थ-भेदात् ॥
नेत्य् अनुवर्तते । वेधादिकं तेनोपास्यं न । कुतः ? अर्थ-भेदात् । अर्थः फलम् । हिंसात्मके तस्मिन् निवृत्ताधिकाराद् इत्य् अर्थः । यद् उक्तं—श्री-भगवता । अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिर् आर्जवम् इति । निवृत्तं कर्म सेवेत प्रवृत्तं मत्-परस् त्यजेत् इति च ॥२६॥
र्प्द्: गीता १३.८, भा। ११.१०.४।
ह्द्स्: ११.१०.४, ११.११.३२, ११.११.३९
–ओ)०(ओ–
११। हान्य्-अधिकरणम्
॥ ३.३.२७ ॥
श्वेताश्वतराः पठन्ति—
ज्ञात्वा देवं सर्व-पाशापहानिः क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः । तस्याभिध्यानात् तृतीयं देह-भेदे विश्वैश्वर्यं केवल आप्त-कामः ॥ [श्वे।उ। १.११] इति ।
अत्र देव-ज्ञानाद् देह-गेहादि-ममता-पाश-हानिर् भवति । जन्म-मृत्यु-कृत-क्लेशाभावात् तत्-प्रहाणिश् चेति शास्त्रेण देव-ज्ञान-महिमोक्तेः । ततो ज्ञात-अयतिआथात्म्यस्य तस्य देवस्याभिध्यानान् निरन्तर-विचिन्तनाद् देह-भेदे लिङ्ग-क्षये सति चान्द्र-ब्राह्मोभयापेक्षया तृतीयं भागवतं पदं देवज्ञो विन्दति । कीदृशं तत् ? विश्वैश्वर्यं पूर्ण-विभूतिकम् । केवलम् अमायिकम् । तत आप्त-कामः पूर्ण-मनोरथो भवतीति । अत्र शास्त्रीय-ज्ञान-गम्यत्वं देवस्योक्तम् । तच् चिन्तनं नियतम् ऐच्छिकं वेति वीक्षायां परिनिष्ठा-विवृद्धया मनो-निवेश-हेतुत्वान् नियतं तद् इति प्राप्ते—
हानौ तूपायन-शब्द-शेषत्वात्,
कुशा-च्छन्दः-स्तुत्य्-उपगानवत् तद् उक्तम् ॥
पूर्व-पक्ष-निरासार्थस् तु-शब्दः । देव-ज्ञानेन पाश-हानौ सत्यां देवानुरक्तस्य विदुषः तच्-छास्त्र-गम्यत्व-रूप-देव-धर्म-चिन्तनं कुशाच् छन्द-स्तुत्य्-उपगानवद् उक्तम् । यथा नियत-स्वाध्यायानन्तरं कुश-ग्रहण-पूर्वकम् आच्छन्देन सम्यग्-ईषद्वेच्छया स्तुत्य्-उपगानं भवति तद्वत् तद्-धर्म-चिन्तनम् । तस्याभिध्यानाद् इत्य् अनेन तथैव व्यञ्जनाद् इत्य् अर्थः । तत्र हेतुर् उपायनेति । उपायनं सामीप्य-लाभस् तद्-अनुरक्तिर् इति यावत् । तच्-छन्दस् तद् आवेहि वाक्यम् । तच्-छेषत्वात् तद्-अनुयायित्वात् सर्वेषां वाक्यानाम् । यद् उक्तं—तम् एव धीरः इत्य् आदि ।
पूर्तेन तपसा यज्ञैर् दानैर् योगैः समाधिना । ब्राह्मं निश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् ॥ [भा।पु। ३.९.४०] इत्य् आदि ।
तस्माद् ऐच्छिकं तच्-चिन्तनम् । अयं भावः—दुरधिगमार्थक-श्रुति-युक्तिभ्यां दुष्करस् तत्रापि बहु-विषयकत्वेन बहु-शाखश् च तत्त्व-विमर्शः । स चानन्द-रूप-भगवद्-विभावनोपनत-मार्दवे तद्-एकानुरक्ते चेतसि नावृत्तिम् अर्हति कार्कश्य-करत्वात् । किन्तु वैयुत्थानिक एव कदाचित् तद्-भावानुभावतया प्रवर्तत इति ॥२७॥
र्प्द्: ३.९.४०, ११.२९.३०, १.७.१०, मैत्रेयोपनिषद् (अन्तः शून्यो बहिः शून्यः शून्यो कुम्भ इवाम्बरे । अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे ॥), कृष्ण-कर्णामृत १०७ (भक्तिस् त्वयि…)
ह्द्स्:** **३.९.३१, ३.९.२२, ३.९.४१
॥ ३.३.२८ ॥
तत्र युक्तिं प्रमाणं चाह—
साम्पराये तर्तव्याभावात् तथा ह्य् अन्ये ॥
सम्परायो भगवान् सम्परायन्ति तत्त्वान्य् अस्मिन्न् इति व्युत्पत्तेः । तद्-विषयकः प्रेमा साम्परायः कथ्यते । तत्र भव इत्य् अण् स्मरणात् । तस्मिन् सत्यैच्छिकस् तत्त्व-विमर्शो न नियतः । कुतः ? तर्तव्याभावात् । तदानीं तेन तरणीयस्य छेद्यस्य पाशस्याभावात् । तथा ह्य् अन्ये वाजसेयिनः पठन्ति—
तम् एव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद् बहूञ् शब्दान् वाचो विग्लापनं हि तत् ॥ [बृ।आ।उ। ४.४.२१] इति ।
एवम् एवोक्तं श्री-भगवता—
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ [भा। ११.२०.३१] इति ॥२८॥
र्प्द्: ११.२०.३०
ह्द्स्: १.७.४, ११.२०.३१
–ओ)०(ओ–
१२। उभयाविरोधाधिकरणम्
॥ ३.३.२९ ॥
ब्रह्मोपासनं गुणवद् इत्य् उक्तम् । तद् इदानीं द्विविधम् इति दर्शयितुम् आरभते । तद् उ होवाच हैरण्यो गोप-वेशम् अभ्राभं [गो।ता।उ। १.८] इत्य् आदेः, प्रकृत्या सहितः श्यामः [रा।ता।उ। १.४.७] इत्य् आदि, स वा अयम् आत्मा सर्वस्य वशी सर्वस्येशानः [बृ।आ।उ ४.४.२२] इत्य् आदि च श्रूयते । अत्र क्वचिन् माधुर्य-ज्ञान-प्रवृत्त्या रुचि-भक्तिस् तत्-प्राप्ति-हेतुः प्रतीयते । क्वचित् त्व् ऐश्वर्य-ज्ञान-प्रवृत्ता विधि-भक्तिश् चेति । ततश् च विषय-वैलक्षण्येन तत्-तद्-भक्तेर् अपि वैलक्षण्यात् कतमा सा तद्-धेतुउर् इत्य् अनिश्चयात् तल्-लिप्सोस् तत्र प्रवृत्त्य्-असम्भवः स्याद् इति प्राप्ते—
छन्दत उभयाविरोधात् ॥
मण्डूक-प्लुत्या नेत्य् अनुवर्तते । छन्दतस् तादृश-सत्-प्रसङ्गानुयायि-भगवत्-सङ्कल्पाद् एवोभय-विधानां जीवानाम् उभय-विधायां भक्ताव् आस्थेति न प्रवृत्त्य्-असम्भवः । एवं कुतः ? तत्राहोभयेति । उभय-विधयोर् वाक्ययोर् अनुरोधाद् इत्य् अर्थः । अयं भावः—अनादि-सिद्ध-द्विविध-भगवद्-गुणोपासना खलु तन् नित्य-पार्षद्-वृन्दाद् आरभ्य साधकेभ्यः सुरसरित्-प्रवाहवत् प्रचरति । तस्माद् विश्व-वर्तिनां जीवानां यादृच्छिके सत्-प्रसङ्गे सति तद्-देशिक-सद्-उपास्येषु स्व-गुणेषु भक्ति-रसिकः श्री-हरिः सत्-प्रसङ्गिनस् तान् प्रवर्तयितुम् इच्छति ते तु तेन वर्त्मना तम् अनुवर्तन्त इति । अनुग्राही साधकस् तु मध्यमो ग्राह्यः ।
ईश्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च । प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ [भा।पु। ११.२.४६] इत्य् उक्तेः ।
इत्थं च श्री-हरौ वैषम्याद्य्-अप्रसङ्गः ॥२९॥
**र्प्च् **: ११.२.४४ (ईश्वरे तद्-), ११.२.५१, ११.२.४३, ७.१.२९-३०, १०.८७.२३ (निभृत-मरुन्-), १०.७४.४६।
ह्द्स् : १.५.२८, ११.१२.१३, ११.२.४६ (ईश्वरे तद्-अधीनेषु)
–ओ)०(ओ–
॥ ३.३.३० ॥
गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः ॥
एवं स्वीकारे सति गतेस् तत्-प्राप्तेर् उभयथार्थवत्त्वम् । माधुर्य-गुणक-भगवत्-कर्मतया पारमैश्वर्य-गुणक-तत्-कर्मकतया च सार्थत्वम् । अर्थः पुरुषार्थः पुरुषोत्तमस् तद्-विशिष्टम् इत्य् अर्थः । अन्यथेत्थम् अस्वीकारे विरोधस् तयोर् वाक्ययोर् व्याकोपापत्तिः स्यात् । हि-शब्दस् तयोः समं प्रामाण्यं सूचयति । न चोपसंहार-सूत्राद् उभयोः प्राप्त्योर् व्यतिकरः । एकान्तिषु स्वेष्टेतर-गुणाप्रकाशात् । वक्ष्यति चैवम् उपरिष्टात् । व्यतिरेकस् तद्-भावेत्य् आदि ॥३०॥
**र्प्च् **: गीता १८.५५, ११.१२.१२, १०.२९.१२-१५, ११.५.३८ (स्व-पाद-मूलं), १०.१४.३-४, ११.२०.७-८, १०.१४.३६, १०.२२.२६, १०.४७.५९ (क्वेमाः)।
ह्द्स् : ७.१.२९-३०
–ओ)०(ओ–
१३। उपपन्नाधिकरणम्
॥ ३.३.३१ ॥
अथ रुचि-भक्तेः श्रैष्ठ्यं प्रतिपादयति । विधि-वर्त्मनानुवृत्तः श्रेष्ठ उत रुचि-वर्त्मनेति संशये विधि-परिष्कारेणाभ्यर्हणाद् विधि-वर्त्मनानुवृत्तः श्रेष्ठ इति प्राप्ते—
उपपन्नस् तल्-लक्षणार्थोपलब्धेर् लोकवत् ॥
रुचि-वर्त्मना हरिं भजन्न् उपपन्नः श्रैष्ठ्यम् उपेतस् तस्मिन्न् उपपत्ति-युक्तो वा । कुतः ? तद् इति । तत् तादृशास्व् अभक्तैकरतत्वं लक्षणं यस्य स चासाव् अर्थश् च माधुर्य-गुणकः पुरुषोत्तमः । तस्योपलब्धेः स्वाधीनत्वेन लाभाद् इत्य् अर्थः । दृष्टान्तेन विशदयति लोकेति । लोके यथा सर्वाधिकस्यापि राज्ञः स्वजनानुवृत्ति-रसिकस्य कश्चिज् जनस् तद्-एक-हित-निपुणस् तं स्वाधीनं कुर्वन् प्रशस्येत् तद्वत् । न च प्रभोः पारतन्त्र्यं दोषः। तादृशस्य स्वीय-स्नेहाधीनताया गुणत्वात् । अयं भावः—पुरुषोत्तमः खलु प्रीति-रसिको रुचि-भक्तेषु स्व-माधुर्यं प्रकाश्य तद्-अनुरक्तैस् तैः कृतं स्वार्पणं स्वीकुर्वन् परिक्रीतस् तान् तत्-प्रीत्या प्रधानीकरोति स्व-समनुभवाय । तम् अन्यथा तथानुभवितुं न ते प्रभवः । यद् आह श्रीमान् शुकः—
नायं सुखापो भगवान् देहिनां गोपिका-सुतः । ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह ॥ [भा।पु। १०.९.२१] इत्य् आदि ।
यद्यपि सर्व-भक्त-साधारणी तस्य वश्यता तथापि एषु तस्याः पराकाष्ठेति सर्व-श्रैष्ठ्य-सिद्धिः । तस्माद् रुचि-वर्त्मनानुवृत्तः श्रेयान् इति ॥३१॥
**र्प्च् **: ९.४.४६, ९.४.४८, ३.२९.११, ३.२५.२९, ३.१३.४८, ४.९.१०, ६.११.२३, १०.१६.३७, ३.१५.४९, ३.१५.४३।
ह्द्स् : १०.९.२१
–ओ)०(ओ–
१४। अनियमाधिकरणम्
॥ ३.३.३२ ॥
अथेदम् उपासनम् एकानेकाङ्गतया द्विविधम् इति दर्शयितुम् आरभते । अथर्व-शिरःसु—ओं मुनयो ह वै ब्रह्माणम् ऊचुः इत्य् आदिना, सकलं परं ब्रह्म इत्य् अन्तेनाष्टादशार्ण-स्वरूपं निरूप्य पठ्यते । एतद् यो ध्यायति रसति भजति, सोऽमृतो भवति इति । तत्र संशयः—ध्यानादीनि समुदित्य मोक्ष-साधनानि प्रत्येकं वेति तान्य् उक्त्वामृतत्वोक्तेः समुदित्येति प्राप्ते—
अनियमः सर्वेषाम् अविरोधः शब्दानुमानाभ्याम् ॥10
ध्यानादीनां सर्वेषां समुदितानां मुक्ति-साधनेनेति न नियमः किन्तु प्रत्येकं तत्-साधनतेति । कुतः ? शब्दानुमानाभ्यां सह, तस्याः श्रुतेर् अविरोधात् ।
चिन्तयंश् चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ [गो।त।उ। १.११] पञ्च-पदं जपन् पञ्चाङ्गं द्यावाभूमी सूर्याचन्द्रमसौ साग्नी तद्-रूपतया ब्रह्म सम्पद्यते [गो।त।उ। १.१२] इत्य् आदि श्रुत्या, कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् [भा।पु। १२.३.५१] एकोऽपि कृष्णाय कृतः प्रणामो दशाश्वमेधावभृथैर् न तुल्यः । दशाश्वमेधी पुनर् एति जन्म कृष्ण-प्रणामी न पुनर्-भवाय ॥ [नार्।पञ्।, भ।र।सि। १.२.१२९]
इत्य् आदि स्मृत्या च साकम् एतद् यो ध्यायतीत्य् आदि श्रुतेर् विरोधाभावात् । इतरथा प्रतिभक्ति-मुक्ति-विरोधिकाभ्यां ताभ्यां सहासौ विरुध्येत । इत्थं च सोऽमृतो भवतीत्य् अस्य ध्यायतीय् आदिषु प्रत्येकं सम्बन्धः । समुदितानां तथात्वे तु कैमुत्यं व्यक्तम् । उपलक्षणम् अदः श्रवणादीनां नवानां च ।
ननु ध्यानोत्तरैव मुक्तिः श्रूयते । आत्मा वा अरे द्रष्टव्यः इत्य् आदिषु । कथम् अत्र जपाद्य्-उत्तरा साम्भुपगतेति चेद् उच्यते । जपादिकं ध्यानं च मिथोऽनुस्यूतम् । जपादौ ध्यानं, ध्याने च जपादीति प्राग् उक्तं सुस्थिरम् ॥३२॥
**र्प्च् **: ११.१२.७, ११.९.२२-२३, १२.१२.४१, १२.१२.३४।
ह्द्स् : १२.३.५१, ७.५.२३-२४
–ओ)०(ओ–
॥ ३.३.३३ ॥
ननु ब्रह्म-विद्यायां सत्यां विमुक्तिर् इत्य् अयुक्तम् । सिद्ध-विद्यानाम् अपि ब्रह्म-रुद्रेन्द्रादीनां चिरं प्रपञ्चावस्थिति-भगवत्-प्रातिकूल्यादि-दर्शनाद् इति चेत् तत्राह—
यावद्-अधिकारम् अवस्थितिर् आधिकारिकाणाम् ॥
न खलु सर्वेषां ब्रह्म-विदां विद्यासिद्धौ सत्यां विमुक्तिर् इत्य् अस्माभिर् उच्यते । किन्तु येषां सञ्चितस्य कर्मणो विद्यया विनाशः, क्रियमाणस्य तया विश्लेषः, शरीरारम्भकस्य तु तस्य भोगेन सङ्क्षयस् तेषाम् एव तस्यां सेति । ब्रह्मादीनां त्व् आधिकारिकाणां विनष्ट-विश्लिष्ट-सञ्चित-क्रियमाण-कर्मणाम् अप्य् अधिकारारम्भकं कर्म यावद् अधिकारं न क्षीयतेऽतस् तेषां तावत् प्रपञ्चेऽवस्थितिर् भवेत् । तद्-आरम्भकस्य तस्य समाप्तौ तु ते विमुच्य परं पदं विशन्तीति । इदं तु बोध्यं—अचिराधिकारा मघवादयोऽधिकारान्ते चिराधिकारं ब्रह्माणं गच्छन्ति । तद्-अधिकारान्ते तस्मिन् विमुक्ते तेन सह विमुच्यन्त इति । वक्ष्यति चैवम्—कार्यात्यये तद्-अध्येक्षेण इत्य् आदिना । भगवति तेषां प्रातिकूल्यं तु तल्-लीला-पोषात् तद्-इच्छानुगुणम् एवेत्य् अदोषः । विषयावेशोऽप्य् एषाम् आभास-रूप एव विद्या-निष्ठत्वात् । तस्माद् अधिकारि-भिन्नानां तत्त्व-विदां विद्याधिगमे विमुक्तिर् इति न कापि शङ्का॥३३॥
**र्प्च् **: ८.१४.२, ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मनः प्रविशति परं पदम्॥)
ह्द्स् : ५.१७.२३, ११.२९.६
–ओ)०(ओ–
१५। अक्षराधिकरणम्
॥ ३.३.३४ ॥
अथास्थौल्यादि-धर्मानुपसंहर्तुम् आरभते—एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् [बृ।आ।उ। ३.८.८] इत्य् आदि श्रूयते । अथ परा यया तद् अक्षरम् अधिगम्यते यत् तद् अद्रेश्यम् अग्राह्यम् अगोत्रम् अवर्णम् अचक्षुः-श्रोत्रम् इत्य् आदि च । इह भवति वीक्षा । अक्षर-शब्दित-पर-ब्रह्म-विषयाः स्थौल्यादि-प्रतिषेध-बुद्धयः सर्वासूपासनासु नेया न वेति । समान एवं चाभेदात् इत्य् त्र विग्रहात्मक-ब्रह्मोपासनाया निरूपणात् तादृशे ब्रह्मण्य् एतासाम् असम्भवान् न, इति प्राप्ते—
**अक्षर-धियां त्व् अवरोधः सामान्य-तद्-भावाभ्याम्
औपसदवत्, तद् उक्तम् ॥ **
तु-शब्दात् पूर्व-पक्षो निवर्त्यते । अक्षर-ब्रह्म-सम्बन्धिनीनाम् आसाम् अस्थौल्यादि-धियां सर्वासु तास्व् अवरोधः सङ्ग्रहः कार्यः । कुतः ? सामान्येति । सर्वे वेदा यत् पदम् आमनन्ति इति श्रुतेः । सर्वत्रोपास्यस्य ब्रह्म-स्वरूपस्य सामान्याद् ऐकरूप्यात् । तत्र विग्रहेऽस्थौल्यादीनां भावाच् च ।
अयं भावः—ज्ञात्वा देवम् इत्य् आदि श्रुतेर् ज्ञानान् मोक्षः । तच् च ज्ञानं तम् असाधारण्येन गृह्णीयात्, न तु साधारण्येन । अन्यत्रातिप्रसङ्गात् । ततश् चास्थौल्यादि-विशेषित-विभु-ज्ञानानन्दाभिन्न-विग्रह-रूपत्वेन ज्ञानम् असाधारण्याय स्यात् तद्-इतर-निखिल-भेदानुमापकत्वात् । इत्थं च सकल-हेय-प्रत्यनीकत्वं तद्-विग्रहस्य सिद्धम् ।
स वै न देवासुर-मर्त्य-तिर्यङ् न स्त्री न षण्डो पुमान् न जन्तुः । नायं गुणः कर्म न सन् न चासन् निषेध-शेषो जयतद् अशेषः ॥
इति स्थौल्यादि-विहीनत्वेनाभ्यर्थितं वस्तु तादृग्-विग्रहात्मनाविर्भूतम् इति स्मर्यते, हरिर् आविरासीत् इति । अत्रैतादृशाविर्भावम् अर्थयमाने गजेन्द्रे येन रूपेणाविर्भूतं तत् खलु तादृग् एव भवेद् इति विस्फुटं तत्त्वम् । इतरथा ज्ञान-मात्रं तच् चेतस्य् अवभासते । इह प्रापञ्चिकं देवत्वादि प्रतिषिध्यते । स्वरूप-निष्ठं देवत्वं पुरुषत्वं चास्त्य् एव तथैव प्राकट्यात् । गुणानां प्रधानानुगामित्वे निदर्शनम् औपसदवद् इति । उपसदाख्य-कर्माङ्ग-भूत-मन्त्रवद् इत्य् अर्थः । यथा जामदग्न्येऽहीने पुरोडाशिनीषूपसत्स्व् अग्नेर् वै होत्रम् इत्य् आदिकाः पुरोडाश-प्रदान-मन्त्राः साम-वेद-पठिता अपि प्रधानानुगामितया याजुर्वेदिकैर् अध्वर्युभिर् अहिसम्बध्यन्ते । तत्-प्रदानस्य तत्-कार्यत्वात् । एवं क्वाचिक्योऽपि तद्-बुद्धयः प्रधानेनाक्षरेण सह सर्वत्र सम्बध्यन्ते । तासां तद्-अनुगामित्वाद् इति । तद् उक्तं विधि-काण्डे—गुण-मुख्य-व्यतिक्रमे तद्-अर्थत्वान् मुख्येन वेद-संयोगः इति ॥३४॥
**र्प्च् **: ८.३.२४, ८.३.२७, ८.३.२१, ८.३.२६, १०.३.२५।
ह्द्स् : ८.३.२४, ८.३.२६, ८.३.३०
॥ ३.३.३५ ॥
ननु तादृक् विग्रहत्वादि-धर्म-जातम् इव, सर्व-कर्मा सर्व-गन्धः इत्य् आदि प्रतिपन्नं सर्व-कर्मत्वादिकम् अप्य् अवश्यं सर्वत्र चिन्त्यं स्याद् इति चेत्, तत्राह—
इयद् आमननात् ॥
इयद् एव तादृक् विग्रहत्वादि-गुण-वृन्दम् एव तस्यावश्यं सर्वत्र चिन्तनीयम् । कुतः ? आमननात् । आमननम् आभिमुख्येन चिन्तनं तस्मात् । इयत्ता गुण-जातेन तस्यानुचिन्तनं भवेद् अतस् तद् अवश्यम् अनुचिन्त्यम् । सर्व-कर्मत्वादिकं तु चिन्तित-स्वरूपे तस्मिन्न् अनुवर्तेत तस्मान् न तच्-चिन्ता नियतेति ॥३५॥
**र्प्च् **: ८.१२.६, ८.१२.८
ह्द्स् : ३.२९.१६, ३.२८.२२
–ओ)०(ओ–
१६। अन्तराधिकरणम्
॥ ३.३.३६ ॥
अथ स्वात्मकाधिष्ठानत्वं धर्मम् उपसंहर्तुम् आरभते । मुण्डके श्रूयते—
यः सर्वज्ञः सर्व-विद्यस्य ज्ञान-मयं तपः । तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायाते ॥ [मु।उ। १.१.९] इत्य् आदि ।
ब्रह्मैवेदं विश्वम् इदं वरिष्ठम् इत्य् अन्तम् । तत्र संशयः—संव्योम-शब्दाभिहितं ब्रह्म-पुरं किं सामर्थ्यैश्वर्य-पर्यायस् तन्-महिमैव भवेद् उत विचित्र-प्रासाद-गोपुर-प्राकारादि-रूपं तद् इति । किं प्राप्तं तादृशस् तन् महिमैव तद् इति । स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि [छा।उ। ७.२४.१] इति स्व-महिमाधारत्व-श्रवणात् । तस्मान् महिमैव पुरत्वेन निरूपितः संव्योम-शब्दितश् च सः, तस्यानन्त्यात् । न खलु विभोर् अधिष्ठानं सम्भवेद् इत्य् उक्तं ब्रह्मैवेत्य् आदिना । एवं प्राप्ते पठति—
अन्तरा भूत-ग्रामवत् स्वात्मनः ॥
अन्तरा संव्योम-पुर-मध्ये स्वात्मनो भूत-ग्रामवद् विभाति । स्वात्मनः स्वीयत्वेन वृतस्य भक्तअस्ययेत्य् अर्थः । यम् एवैष वृणुते तेन लभ्यः [क।उ। १.२.२२] इत्य् आदि श्रुतेः । तत्रत्यं वस्तु-जातं ब्रह्मात्मकम् अपि पृथिव्यादि-निर्मितवत् स्फुरतीत्य् अर्थः । वच्-छब्देन भूत-ग्रामत्वं तस्य निरस्तम् । किन्तु स्वात्मकत्वम् उक्तम् ।
ब्रह्मैवेदम् अमृतं पुरस्तात् पश्चाच् च । ब्रह्म दक्षिणतश् चोत्तरेणाधश् चोर्ध्वं प्रसृतम् ॥ ब्रह्मैवेदं विश्वम् इदं वरिष्ठम् ॥ [मु।उ। २.२.११] इति ।
यथा विज्ञानानन्दे परमात्मनि पाणि-पाद-नखर-कुन्तलादि-मयं वैचित्र्यं तद्-भक्तस्य स्फुरति, तथा तद्-आत्म-भूते तल्-लोकेऽपि भूतोयादि-रूपं त्द् इत्य् अर्थः । एकम् अपि विचित्रं चन्द्रकादिवद् विभातीति ॥३६॥
**र्प्च् **: ३.१५.४७-४८, १०.२८.१४-१५, २.९.९-१७।
ह्द्स् : ११.९.२१, ११.३.३७, १०.७०.४३, ४.२९.४६
**॥ ३.३.३७ ॥
अन्यथा भेदानुपपत्तिर् इति चेन्, नोपदेशान्तरवत् ॥ **
अन्यथा भेदाभावे सत्य् अधिष्ठानाधिष्ठातृ-भेदानुपपत्तिर् इति चेन्, नैष दोषः । कुतः ? उपदेशान्तरवद् उपपत्तेः । आनन्दं ब्रह्मणो विद्वान् इत्य् आद्य् उपदेशान्तरे यथा सत्य् अप्य् अभेदे विशेष-बलाद् भेद-कार्यम् उपपद्यते तद्वद् इत्य् अर्थः ॥३७॥
**र्प्च् **: २.९.१७।
ह्द्स् : १०.१४.२२, १०.१३.५४
–ओ)०(ओ–
व्यतिहाराधिकरणम्
॥ ३.३.३८ ॥
लोक-लोकिनोर् उपास्य-भावं समम् इति व्यञ्जयति—
व्यतिहारो विशिंषन्ति हीतरवत् ।
आत्मानम् एव लोकम् उपासीत् [बृ।आ।उ। १.४.१५] इत्य् आद्याः श्रुतयो हि यस्माल् लोकत्वेन परमात्मानं विशिंषन्ति परमात्मत्वेन लोकम् । च अतो व्यतिहारः सिद्धः । परमात्मैव लोको, लोकः परमात्मेति । इतरवत् यथेतराः सत्-पुण्डारीक-नयनम् इत्य् आद्याः, साक्षात्-प्रकृति-परोऽयम् आत्मा गोपालः इत्य् आद्याश् च श्रुतयो विग्रहं परमात्मत्वेन विशिंषन्ति परमात्मानं च विग्रहत्वेनेति तद्वत् । तथा चानन्द-चिद्-विग्रहो हरिर् अचिन्त्य-शक्त्या स्वयं विचित्रस् तादृश-लोक-रूपश् च स्वभक्तस्य स्फुरति नान्यस्येति तद्-वत्सोऽपि ध्येय इति सिद्धम् ॥३७॥
र्प्च् : ९.५.३, ९.११.११, १०.८३.४, ११.६.३२, १२.५.१२।
ह्द्स्: १०.१३.५३-५४
–ओ)०(ओ–
१७। सत्याधिकरणम्
॥ ३.३.३९ ॥
अथोक्तार्थ-स्थैर्याय इदम् आरभ्यते । विशेष-बोधकानि वचांसि विषयः । विशेषा मायिकाः स्वाभाविका वेति संशयः । नेह नानास्ति किञ्चन । अथात आदेशो नेति नेति इत्य् आदि श्रवणान् मायिकास् त इति प्राप्ते पठ्यते—
सैव हि सत्यादयः ।
परास्य शक्तिर् इत्य् आदौ विष्णु-शक्तिः परा इत्य् आदौ च मायेतरा वह्न्य्-उष्णतेव स्वाभाविकी या पराख्या स्वरूप-शक्तिर् उक्ता, सैव हि यस्मात् सत्यादयो विशेषा भवन्त्य् अतस् तेन मायिका अपि त्व् आत्मानुबन्धिनः स्युर् इत्य् अर्थः । सत्यादीनां गुणानां परात्वे वक्ष्यमाणवायतनौ हेतू द्रष्टव्यौ । अत एव नेह नानास्ति किञ्चन इत्य् उक्तम् । अथात इत्य् आद्य् अर्थस् तु प्राग्-विवृतः । आदि-शब्दात् शौच-दया-क्षान्त्य्-आदयः सार्वज्ञ-सार्वैश्वर्यानन्द-सौन्दर्यादयश् च बोध्याः । अत एव श्रीमान् पराशरो भगवच्-छब्दस्य शुद्धो महा-विभूति-धर्मी परमात्मा वाच्य इत्य् उक्त्वा सम्भृतत्वादीन् पूर्णैश्वर्यादींश् च धर्मान् व्यस्त-समस्त-भूतस्य तस्य वाच्यान् अवोचत् । समस्तस्य तस्य पुनः शेष-ज्ञानादीन् धर्मान् वाच्यान् अभ्यधात्—
शुद्धे महा-विभूत्य्-आख्ये परे ब्रह्मणि शब्द्यते । मैत्रेय भगवच्-छब्दः सर्व-कारण-कारणे ॥ इत्य् आदिना । सम्भर्तेति तथा भर्ता भ-कारोऽर्थ-द्वयान्वितः । नेता गमयिता स्रष्टा ग-कारार्थस् तथा मुने ॥ ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञान-वैराग्ययोश् चापि षण्णां भग इतीङ्गना ॥ वसन्ति यत्र भूतानि भूतात्मन्य् अखिलात्मनि । स च भूतेष्व् अशेषेषु व-कारार्थस् ततोऽव्ययः ॥ ज्ञान-शक्ति-बलैश्वर्य इत्य् आदिना च ।
तथा च तत्-स्वरूपाभिन्ना परैव तत्र सत्यादयो विशेषा भवन्तीति ध्येयं धर्मि-निर्भेदम् इति सिद्धम् ॥३९॥
**र्प्च् **: १.१६.२४-२७, १०.२.३४-३६, ६.४.२९, चै।च। २.२१ (कृष्णेर मधुर रूप शुन सनातन)
ह्द्स् : १.१.१ (सत्यं परं धीमहि), ३.३३.३, १.१६.१७, १.१६.३०-३१, २.२.२६
–ओ)०(ओ–
१८। कामाद्य्-अधिकरणम्
॥ ३.३.४० ॥
अथ श्री-वैशिष्ट्यं गुणम् उपसंहर्तुम् आरम्भः । श्रीश् च लक्ष्मीश् च पत्नी [शु।य। ३१.२२] इति यजुषि श्रूयते । इह श्री रमा-देवी । लक्ष्मीर् भागवती सम्पद् इत्य् एके । श्रीर् वाग्-देवी, लक्ष्मीस् तु रमा-देवीत्य् अपरे । अथर्व-शिरसि च—कमला-पतये नमः रमामानस-हंसाय गोविन्दाय नमो नमः इति । रमाधाराय रामाय इति चैवम् आदि । अत्र भवति वीक्षा श्रीर् इयं प्राकृतत्वाद् अनित्योतपरात्वान् नित्येति । अथात आदेशो नेति नेति इति परमात्मनि निःशेष-विशेष-प्रतिषेधात्, न तत्र श्र्य्-आदि-रूपः कश्चिद् विशेषः सम्भवी । किन्तु स्वीकृत-मायो विशुद्ध-सत्त्व-मूर्तिस् तादृश्यापि श्रिया युज्यते इत्य् अनित्या तस्य श्रीर् इति प्राप्ते—
कामादीतरत्र तत्र चायतनादिभ्यः ॥
सैवेति पूर्वतोऽनुवर्तते । सैव परैव श्रीः सती तत्र प्रकृत्य्-अस्पृष्टए संव्योम्नि तस्माद् इतरत्र प्रपञ्चान्तर्गते तत्-प्रकाशे च स्वनाथस्य परमात्मनः कामादि वितनोतीति नित्य-श्रीकः सः । कामोऽत्र श्र्ङ्गाराभिलाषः । आदिना तद्-अनुगुणा तत्-परिचर्या च । श्रीः परैवेति । कुतः ? आयेति । आयाद् व्याप्तेः । तनाद् भक्त-मोक्षानन्द-विस्ताराच् च । उभयत्र सत्यादिवद् इति दृष्टान्तः । आदिना परैक्य-वाक्यं गृह्यते । तत्र परास्य शक्तिर् इत्य् आदौ स्वाभाविकीति परमात्माभेदाभिधानात् परा विभ्वी सैव हीति ज्ञान-कारुण्यादि-रूपत्वोक्तेर् मोक्षदा च । तद्-अभेदाद् एव श्रीश् च तथा । स्मृतं चैवं श्री-विष्णु-पुराणे—
नित्यैव सा जगन्-माता विष्णोः श्रीर् अनपायिनी । यथा सर्व-गतो विष्णुस् तथैवेयं द्विजोत्तम ॥ [वि।पु। १.८.१५] इति । आत्म-विद्या च देवि त्वं विमुक्ति-फल-दायिनी [वि।पु। १.९.११८] इति च ।
न च भेदे सतीदं द्वयं शक्यं वक्तुम् अपसिद्धान्तापत्तेः । श्रियः परैक्यं च स्मृतं तत्रैव ।
प्रोच्यते परमेशो यो यः शुद्धोऽप्य् उपचारतः । प्रसीदतु स नो विष्णुर् आत्मा यः सर्व-देहिनाम् ॥ इति ।
अत्र परैव मेति विस्फुटम् । आयादीनि प्रकृतेर् न सम्भवन्तीति तद्-अन्यत्वं श्रियः सुव्यक्तम् । तस्मात् परैव श्रीर् अतो नित्या सेति ॥४०॥
**र्प्च् **: वि।पु। १.८.१५, १.९.११८, भा। १०.४७.६०-६१, १०.८७.२३।
ह्द्स् : १०.५३.३७, १०.३३.१६, १०.३३.६, १०.३२.१४,
॥ ३.३.४१ ॥
ननु परैव चेत् श्रीस् तर्हि तद्-भक्तेर् विलोपापत्तिः । न हि स्वस्मिन् स्व-भक्तिः सम्भवेद् इति चेत् तत्राह—
आदराद् अलोपः ॥
सत्य् अप्य् अभेदे विचित्र-गुण-रत्नाकरत्वेन स्वमूलत्वेन च शिर्यः परस्मिन्न् आदरात् तद्-भक्तेर् अलोपः । न खलु वृक्षम् अनाद्रियमाणा शाखास्ति, न च चन्द्रं तत्-प्रभा । तद्-भक्तिश् चोक्त-श्रुतिभ्यः प्रतीयते—श्रीर् यत्-पदाम्बुज-रजश् चकमे तुलस्या लब्ध्वापि वक्षसि पदं किल भृत्य-जुष्ट [भा।पु। १०.२९.३७] इत्य् आदि स्मृतिभ्यश् च ॥४०॥
**र्प्च् **: १०.२९.३७, ४.९.१०, १०.२.३२, १०.१४.४८, ब्र।वै।पु। ३.१११.५८ (मुर क्लेशे च सन्ताप-कर्म-भोगे च कर्मणाम् । दैत्य-भेदे ह्य् अरिस् तेषां मुरारिस् तेन कीर्तितः ॥), भा। १०.२२.२६, चै।च। २.२१ (रूप देखि आपनार, कृष्णेर हैल चमत्कार), १०.३३.१७, रमन्ते योगिनोऽनन्ते, कृषि भूर्-वाचकः, भा। ६.३.३२, ११.६.७, ११.६.१५।
ह्द्स् :** **१०.८९.३७
॥ ३.३.४२ ॥
ननु रवि-विषयाश्रय-भावेनालम्बन-विभाव-भेदे सति शृङ्गाराभिलाषः सम्भवेत् । निर्भेदे तु तत्त्वे नासौ सम्भावयितुं शक्य इति चेत् तत्राह—
उपस्थितेऽतस् तद्-वचनात् ॥
उपस्थितम् इति भावे निष्ठा । यद्यपि शक्ति-तद्-आश्रययोर् अस्त्य् अभेदस् तथापि शक्याश्रयस्य पुरुषोत्तमत्वेन शक्तेश् च युवती-रत्नत्वेनोपस्थितौ सत्यां स्वारामत्व-पूर्त्य्-आद्य्-अनुगुणं कामादि समुदेत्य् अतः सिद्धं तत् । इदं कुतः ? तद्-वचनात् । यो ह वै कामेन कामान् कामयते स कामी भवति । यो ह वै त्व् अकामेन कामान् कामयते सोऽकामी भवति [गो।ता।उ। २.२१] इत्य् अथर्व-शिरसि तादृश-कामाद्य्-अभिधानाद् इत्य् अर्थः । अकामेनेति सादृश्ये नञ् । काम-तुल्येन प्रम्णेत्य् अर्थः । तेनात्मानुभव-लक्षणेन विषय-कामानां खलु स्वारामत्वं पूर्णतां च नातिक्रामतीति । स्वात्मक-श्री-स्पर्शाद् उदग्रानन्दस् तु स्व-सौन्दर्य-वीक्षणादेर् इव बोध्यः । एतद् उक्तं भवति—पराख्य-स्वरूप-शक्ति-विशिष्टं खलु पर-तत्त्वं श्रुत्य्-आदिषु प्रतिपन्नं स्व-प्राधान्येन स्फुरत् तत् पुरुषोत्तम-सञ्ज्ञम् । पराख्य-शक्ति-प्राधान्येन स्फुरत् तु धर्मादि-सञ्ज्ञम् । परैव खलु ज्ञान-सुख-कारुण्यैश्वर्य-माधुर्याद्य्-आकरेण स्फुरन्ती धर्म-रूपा । शब्दाकारेणाह्वयोक्ति-रूपा । धराद्य्-आकारेण धाम-रूपा । ह्लादिनी-सार-समवेत-संविद्-आत्मक-युवती-रत्नत्वेन तु राधादि-श्री-रूपा चेति सामस्त्येन परेत्य् उक्ता । तथा चाभेदे सत्य् अपि विशेष-विजृम्भितेन भेद-कार्येण विभाव-वैलक्षण्य-विभानात् तद्-अभिलाषः सिद्ध इति । धर्मादि-रूपता तु न पश्चात्तनी किन्तु अनादि-सिद्धमतीति नकापि क्षतिर् अस्ति । तस्मात् परं तत्त्वं श्रीमद् एव ध्येयं तज्-जनानुयायिभिः ॥४२॥
**र्प्च् **: ११.२.३८, ७.४.२९-३१।
ह्द्स् : १०.२९.१३, १०.३३.२, १०.३३.१९, १०.३३.७
–ओ)०(ओ–
१९। तन्-निर्धारणानियमाधिकरणम्
॥ ३.३.४३ ॥
तत्रैव श्रूयते—तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं यजेत् तं भजेद् इति ओं तत् सद् इति [गो।ता।उ। १.४८] । अत्र संशयः । श्री-कृष्णत्वेन गुणेन श्री-हरेर् उपासनं नियतं न वेति । अवधारण-स्वारस्यात्तेन तन् नियतम् इति प्राप्ते—
तन्-निर्धारणानियमस् तद्-दृष्टेः पृथग् घ्य् अप्रतिबन्धः फलम् ॥
तेन निर्धारणेनानियमः श्री-कृष्णत्वेनैव धर्मेण श्रीहरिर् उपास्यो नान्येन श्री-रामत्वादिना इति नियमो नेत्य् अर्थः । श्री-कृष्णत्वं यशोदा-स्तनन्धयत्वे सति विभु-विज्ञानानन्द-वस्तुत्वम् । एवं कुतः ? तद्-दृष्टेः ।
यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः । रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ चतुः-शब्दो भवेद् एको ह्य् ओङ्कारस्यांशकैः कृतः ॥ इति ।
तत्रैव श्री-कृष्णात्म-भूतानां बलदेवादीनाम् अपि तद्वद् उपास्यत्व-प्रतीतेर् इत्य् अर्थः । तर्हि कृष्ण एवेत्य् अवधारणं विफलम् । तत्राह पृथग् इति । हि यस्मात् तत्-फलं पृथग् अस्तीत्य् अर्थः । तथा च शक्तौ रुचौ च सत्यां समुच्चित्योपासनं तद्-अभावे तु तेनैवेति स्थिरम् ॥४३॥
**र्प्च् **: ११.२.४३, ११.२.३९, ११.२९.३२, ११.२९.१७-१८, १२.८.४६, १०.४०.४-१०, ११.१.१०, ११.१.६, १०.३२.२, १०.३२.१३, १०.३२.२१, १०.३८.१३, ११.२९.४८, ३.११.३४-३७, ३.११.२२-२३, ६.६.२७।
ह्द्स् : १.३.२८, २.३.३०, १०.४०.९-१०।
–ओ)०(ओ–
२०। प्रदानाधिकरणम्
॥ ३.३.४४ ॥
अथ गुरु-गम्यत्वं गुणम् उपसंहर्तुम् आरभ्यते । विद्या-प्रदेशेषु श्रूयते ।
यस्य देवे परा भक्ति यथा देवे यथा गुरौ । तस्यैते कथिता ह्य् अर्थाह् प्रकाशन्ते महात्मनः ॥ [श्वेत्। उ। ६.२५ ॥
इति श्वेताश्वतरोपनिषदि । आचार्यवान् पुरुषो वेद [छा।उ। ६.१४.२] इति । तद्-विज्ञानार्थं स गुरुम् एवाभिगच्छेद् [मु।उ। १.२.१२] इति चान्यत्र । इह संशयः । गुरु-लब्धाच् छ्रवणाद् इतः फलं गुरु-प्रसाद-सहितात् तस्माद् वेति । तत्र श्रवणादितः फलाभिधानात् किं तत्-प्रसादेनेति प्राप्ते—
प्रदानवद् एव तद् उक्तम् ॥
यथा प्रसन्नेन गुरुणा ब्रह्माप्ति-हेतुः श्रवणादि-साधनं दत्तं तथैव तत्-प्राप्ति-रूपं फलं भवति । न तु श्रवणादि-मात्रेणेत्य् आवश्यकम् । तत्-गुर्व्-अनुग्रहावेक्षणम् उक्तम् । प्र-शब्दः प्रसादं व्यञ्जयति । आह चैवं श्री-भगवान् अरविन्दाक्षः । आचार्योपासनं शौचम् इति । तथा च तद्-अनुग्रह-सहिताच् छ्रवणादितस् तत्-प्राप्तिर् इति ॥४३॥
**र्प्च् **: १०.१४.२३, ११.३.२२, ११.१०.१२, ११.१२.२२, ११.२९.६,
ह्द्स् : ११.१०.५, ११.१२.२४, ११.१७.२७, ११.१७.२८, १०.८७.३३
–ओ)०(ओ–
२१। लिङ्ग-भूयस्त्वाधिकरणम्
॥ ३.३.४५ ॥
अथ स्व-प्रयत्नो बलवान् श्री-गुरु-प्रसादो वेति सन्देहेऽकृते प्रयत्ने तत्-प्रसादस्याकिञ्चित्करत्वात् स्व-प्रयत्नो बलवान् इति प्राप्ते—
लिङ्ग-भूयस्त्वात् तद् धि बलीयस् तद् अपि ।
ऋषभादिभ्यो ब्रह्म-श्रुतवता सत्य-कामेन भगवांस् त्व् एव मे कामं ब्रूयात् इति श्री-गुरुः प्रार्थ्यते । तथाग्निभ्यः श्रुत-विद्येनोपकोशलेन चेत्य् आदि-छान्दोग्यादि-दृष्ट-गुरु-प्रसादन-लिङ्ग-बाहुल्यात् तत्-प्रसादनम् एव बलिष्ठम् । तर्हि तावतालम् इत्य् अपि न मन्तव्यम् । किं तर्हि तद् अपि श्रवणादि च कर्तव्यम् । यस्य देवे परा भक्तिः, श्रोतव्यो मन्तव्यः इत्य् आदि श्रुतेः ।
गुरु-प्रसादो बलवान् न तस्माद् बलवत्तरम् । तथापि श्रवणादिश् च कर्तव्यो मोक्ष-सिद्धये ॥ इति स्मृतेश् च ॥४५॥
**र्प्च् **: ११.३.४९, १०.८७.३३।
ह्द्स् : ११.३.२१-२२
–ओ)०(ओ–
२२। पूर्व-विकल्पाधिकरणम्
॥ ३.३.४६ ॥
एवं गुणादि-विशिष्टस्य भगवत उपासनाद् देशिकानुग्रह-सह-कृतात् फलम् इत्य् आपादितम् । अथैतद् विरोधि-वाक्यार्थ-समाधिना परिपुष्यते । गोपाल-तापन्यां मुनिभिः सर्वाराध्यत्वादि-गुणकं वस्तु पृष्टः पद्म-योनिस् तथात्वेन श्री-कृष्णम् उद्दिश्य तत्-प्राप्ति-हेतुं तद्-भक्तिम् उपदिशति । तद् उत्तरत्र च—तस्माद् देवः परो रजसेति सोऽहम् इत्य् अवधार्यात्मानं गोपालोऽहम् इति भावयेत् । स मोक्षम् अश्नुते । स ब्रह्मत्वम् अधिगच्छति । स ब्रह्म-विद् भवति [गो।त।उ। २.३८-३२ ॥ इत्य् आदि पठ्यते । इह सोऽहम् इत्य् अभेदाभ्यासो दृश्यते । अत्र संशयः । परापरात्म-स्वरूपैक्य-विषयेयं सोऽहम् इति भावना किं वा पूर्वोपदिष्टाया भक्तेर् एव कश्चन प्रकार इति शब्द-स्वारस्यात् तद्-विषयासौ मोक्ष-हेतुर् इति प्राप्ते—
पूर्व-विकल्पः प्रकरणात् स्यात् क्रिया मानसवत् ।
पूर्वस्या भक्तेर् एव विकल्पो यः सोऽहम् इति भावः । कुतः ? प्रेति । भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् [गो।त।उ। १.१४] इति तस्याः पूर्वं प्रकृतत्वात् । सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [गो।त।उ। २.७८] इति तथैवोपसंहाराच् च प्रकार-विशेष एव नार्थान्तरम् इत्य् अत्र दृष्टान्तः क्रियेत । क्रिया परिचर्यार्चनादि-रूपा । मानसं च ध्यानम् । ते यथा भक्तेर् एव प्रकारौ, तथा सोऽहम् इति भावोऽपि पूर्वोपदिष्टाया भक्तेः प्रकार-विशेषो भवतीति । रागाद् भयाच् चगाढावेशे सति सोऽहम् इति भावोऽभ्युदेति । कृष्णोऽहम् इति सिंहोऽहम् इति च । एतद् उक्तं भवति पूर्व-विभागे—कः परमो देवः ? [गो।त।उ। १.२] इत्य् आदिना सर्वाराध्यत्व-संसार-निवर्तकत्व-सर्वाश्रयत्व-सर्व-कारणत्व-गुणकं परमार्थ-वस्तु मुनिभिः पृष्टो ब्रह्मा श्री-कृष्णो वै परमं दैवतम् [गो।त।उ। १.३] इत्य् आदिना तत्-तद्-गुणक-तादृश-वस्तुत्वं श्री-कृष्णस्याभिध्यायैतद् यो ध्यायति [गो।त।उ। १.६] इत्य् आदिना भजनीयस्य तस्य तद्-भक्तेश् च विशेष-प्रश्ने तैः प्रवर्तिते तद् उ होवाच हैरण्यः– गोप-वेशम् अभ्राभं [गो।त।उ। १.८] इत्य् आदिना सपरिकरं तत्-स्वरूपम् उपवर्ण्य रम्यं पुना रसनं [गो।त।उ। १.१२] इत्य् आदिना जपेन तेन प्राप्यं तत्-स्वरूपं फलम् उक्त्वा तच् च तम् एकं गोविन्दम् [गो।त।उ। १.३३] इत्य् आदिना ज्ञान-सुखात्मकं भवतीति निर्णयान्तेऽपि तस्माच् छ्री-कृष्ण एव परो देवः [गो।त।उ। १.४८] इति तथैवोपसंहरति ।
उत्तर-विभागे तु तत्-प्रेष्ठा गोप्यस् तेन सह विहृत्य पृष्टेन तेनाज्ञाप्तास् ता वरान्नेन दुर्वाससं मुनिं भोजयामासुर् इत्य् एकदा हि [गो।त।उ। २.१] इत्य् आदिना प्रकीर्त्यते । अथ तुष्टेन तेन दत्ताशीर्भिस् ताभिः श्री-कृष्ण-तत्त्वं पृष्टः स मुनिस् तल्-लीलाया लोक-विलक्षणत्वं विवक्षुर् अयं हि श्री-कृष्ण [गो।त।उ। २.१८] इत्य् आदिना तस्य सर्व-कारणत्व-विशुद्ध-स्नेह-वश्य-स्वभावत-नित्य-तत्-कान्तत्वादिकम् आचष्टे । अथ सा होवाच [गो।त।उ। २.२३] इत्य् आदिना तस्य जन्म-कर्म-मन्त्र-धामानि ताभिः पृष्टो मुनिः पूर्वार्थ एवाभ्यास-लिङ्गेन तात्पर्यं निर्णेतुं ब्रह्म-नारायऋष्णोपाख्यानम् उपक्षिपति स होवाच तं हि [गो।त।उ। २.२६] इत्य् आदिना । तत्र च श्री-कृष्णस्य पूर्णत्वं संसार-तारकत्वम् । तस्य मथुराख्यम् अधिष्ठानं तच् च ब्रह्मात्मकं चक्राधारकं वनैर् अनेकैर् उल्लसद् इति निरूप्य तस्माद् एवं परो रजसेति सोऽहम् [गो।त।उ। २.३८] इत्य् आदिना तद्-अभेदो भावो मोक्ष-हेतुर् इत्य् अभिधीयते । स चोक्त-हेतोर् भक्तेर् एव पूर्वोपदिष्टायाः प्रकार-भेदो भवितुं युक्तः । तस्माद् अश्रु-प्रलयादिवत् तद्-विशेषोऽयम् अहम् अस्मि ब्रह्माहम् अस्मीति तैत्तिरीयकादि-दृष्टः अभेद-व्यपदेशस् तु तद्-आयत्त-वृत्तिकत्वादिभिर् भेदे एव सति सङ्गच्छेतेति पुरैवाभिहितम् ॥४६॥
**र्प्च् **: १०.१०.३८ (वाणी), १०.४७.५८, ७.४.३०, १०.३०.१४
ह्द्स् : ७.४.३७-३८, १०.३०.२, १०.३०.१४
–ओ)०(ओ–
॥ ३.३.४७ ॥
सोऽहम् इति भावो भक्तेर् एव प्रकार-विशेषो मन्तव्यो न तु परापरात्म-स्वरूपैक्यानुसन्धिर् इत्य् अत्र हेत्व्-अन्तरम् आह—
अतिदेशाच् च ॥
तत्रैवोत्तरत्र—
यथा त्वं सह पुत्रैस् तु यथा रुद्रो गणैः सह । यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः ॥ [गो।त।उ। २.४९]
इति पद्मयोन्य्-आदेः पुत्रादि-साहित्यवत् स्वस्य स्व-भक्त-साहित्यातिदेशात् । च-शब्दात्
ध्यायेन् मम प्रियो नित्यं मोक्षम् अधिगच्छति । स मुक्तो भवति तस्मै आत्मानं च ददामि वै ॥ [गो।त।उ। २.७३]
इति तत्-पर-वाक्यं गृहीतम् । तत्र नित्य-प्रियत्व-स्वात्म-दान-सम्प्रदानत्वादि तद्-भक्तस्योच्यते । तद् एतच् च तद्-ऐक्ये न सम्भवेत् । तस्माच् च तद्-विशेषोऽसाव् इत्य् अधिगन्तव्यम् । इत्थं च श्री-राम-तापन्य्-आदि-दृष्टोऽपि सोऽहम् इति भावो व्याख्यातः । तथा च देशिकानुग्रह-सहकृतात् भगवद्-उपासनद् विमुक्तिर् इति न कापि क्षतिर् इति ॥४७॥
**र्प्च् **: ९.४.४९ (साधवो)
ह्द्स् : ९.४.६३-६४, ९.४.६८
–ओ)०(ओ–
२३। विद्याधिकरणम्
॥ ३.३.४८ ॥
शास्त्र-ज्ञान-पूर्वकम् उपासनं विद्योच्यते । तया मुक्तिर् इत्य् एतत् परिष्कर्तुम् आरभ्यते । तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यतेऽयनाय [श्वे।उ। ३.८] इति । पुरुष-सूक्ते11 तम् एव विद्वान् अमृत इह भवति इत्य् आदि चान्यत्र पठ्यते । तत्र कर्म मोक्ष-हेतुर् उत समुच्चिते विद्या-कर्मणी, किं वा विद्येति संशयः । किं प्राप्तं ? कर्मेति । शेषत्वात् पुरुषार्थत्वेति षट्-सूत्री-निर्णयात् । विद्या तु तच्-छेषो भवेत् समुच्चिते विद्या-कर्मणी वा तद् धेतुर् न तु तयोर् एकतरं तं विद्या-कर्मणी इति श्रवणात् । यद् उक्तम् उभाभ्यां व पक्षाभ्यां यथा खे पक्षिणो गतिः । तथैव कर्म-ज्ञानाभ्यां मुक्तो भवत् मानव इति । विद्या वा तद्-धेतुः । तम् एव विदित्वा [श्वे।उ। ३.८] इत्य् आदि श्रवणात् । तस्माद् अनिर्णयोऽस्तु । एवं प्राप्ते पठति—
विद्यैव तु तन्-निर्धारणात् ॥12
तु-शब्दः शाङ्का-च्छेदार्थः । विद्यैव मोक्ष-हेतुः, न तु कर्म । न च समुच्चिते विद्या-कर्मणी । कुतः ? तद् इति । तम् एव विदित्वा [श्वे।उ। ३.८] इत्य् आदौ तस्यास् तत्त्वावधारणात् । विद्या-शब्देन हि ज्ञान-पूर्विका भक्तिर् उच्यते । विज्ञाय प्रज्ञां कुर्वीत इत्य् आदौ तादृश्यास् तस्यास् तत्त्वाभिधानात् । स्मृतिश् चोभयत्र विद्या-शब्दं प्रयुङ्क्ते । विद्या-कुठारेण शितेन धीरः [भा।पु। ११.१२.१२] इति, राज-विद्या राज-गुह्या [गीता ९.१] इति च । तस्माद् असौ तन्त्रेण ते द्वे गृह्णीयात् । कौरव-शब्दवत् मीमांसक-शब्दवच् च । पूर्वो धार्तराष्ट्र-पाण्डवौ, परस् तु कर्मविद्-ब्रह्मविदौ तथा गृह्णाति ॥४८॥
**र्प्च् **: ११.१२.१२, १.२.२१, ११.२०.३०, ११.११.३।
**ह्द्स् : **११.१३.३४, ११.११.३-४
॥ ३.३.४९ ॥
स च मोक्षो विद्यया बहिः-साक्षात्कारात्मैवेत्य् आह—
दर्शनाच् च ॥
भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [मु।उ। २.२.८]
इति मुण्डके तेनैव तद्-वीक्षणाद् इत्य् अर्थः ॥४९॥
**र्प्च् **: —
**ह्द्स् : **१.२.२१
॥ ३.३.५० ॥
नन्व् एवं कर्मणा मुक्तिर् इति, ज्ञान-कर्माभ्यां मुक्तिर् इति च शास्त्रं विरुद्धं स्यात् । तत्राह—
श्रुत्य्-आदि-बलीयस्त्वाच् च न बाधः ॥
न खलु विद्यैव मुक्ति-हेतुर् इत्य् अस्य शास्त्रस्य ताभ्यां बाधः शक्यः । कुतः ? श्रुत्य्-आदीति । तम् एव विदित्वा [श्वे।उ। ३.८] इत्य् आदेः सावधारणायाः श्रुतेर् बलिष्ठत्वात् । आदि-शब्दो लिङ्ग-युक्ती सङ्गृह्णाति ।
इन्द्रोऽश्वमेधाच् छतम् इष्ट्वापि राजा ब्रह्माणम् ईड्यं समुवाचोपसन्नः । न कर्मभिर् न धनैर् नापि चान्यैः पश्येत् सुखं तेन तत्त्वं ब्रवीहि ॥ इति लिङ्गम्,
नास्त्य् अकृतः कृतेन [मु।उ। १.२.१२] इति युक्तिश् च । शेषत्वादि-षट्-सूत्री तु सूत्र-कृद्भिर् एव प्रत्याख्यास्यते । अधिकोपदेशात् त्व् इत्य् आदिभिः । विद्यया सर्व-कर्म-निर्मूल-निरूपक-वाक्य-सङ्ग्रहाय च शब्दः । त्ं विद्येत्य् आदि श्रुतिस् तु तैर् एव समाधास्यते । विभागः शतवद् इति । तस्मात् विद्यैव मोक्ष-हेतुर् इति स्थिरम् ॥५०॥
**र्प्च् **: ११.११.४, ११.१९.१७, ११.३.२१, ६.१.१०, ११.१४.१०
ह्द्स् : ११.११.४, १०.१४.४
–ओ)०(ओ–
२४। अनुबन्धाधिकरणम्
॥ ३.३.५१ ॥
अथ सद्-गम्यत्वं गुणम् उपसंहरते—अतिथि-देवो भव [तै।उ। १.११.२] इति तैत्तरीयके श्रुतम् । तत्र संशयः—सद्-उपासनं मोचकं न वेति । गुरु-प्रसाद-सहिताद् ईशोपासनाद् एव मोक्ष-सम्भवाद् अलं सद्-उपासनेनेति प्राप्ते—
अनुबन्धादिभ्यः ॥13
अनुबन्धो महद्-उपासना-निर्बन्धः । देव-भावेन तद्-उपासनम् इत्य् अर्थः । तस्माच् च तद्-अनुग्रहान् मोक्षः । इतरथेत्थं न ब्रूयात् । स्मरन्ति चैवं तत्त्वविदः—
रहूगणैतत् तपसा न याति न चेज्यया निर्वपणाद् गृहाद् वा । न च्छन्दसा नैव जलाग्नि-सूर्यैर् विना महत्-पाद-रजो-ऽभिषेकम् ॥ [भा।पु। ५.१२.१२] इत्य् आदिभिः ।
आह चैवं श्री-भगवान्—
नो रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥ व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः । यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥ [भा।पु ११.१२.१-२] इत्य् आदिभिः ।
अत्र स्वयं स्व-तत्त्वम् उपदिश्यापि सत्-सङ्गम् आदिशतीति तस्यान्तरङ्ग-साधनतां बोधयति । आदि-शब्दात् तत्-तीर्थ-सेवा-तद्-अन्य-निन्दा-परित्यागश् च ग्राह्यौ ।
शुश्रूषोः श्रद्दधानस्य वासुदेव-कथा-रुचिः । स्यान् महत्-सेवया विप्राः पुण्य-तीर्थ-निषेवणात् ॥ [भा।पु १.२.१६] हरिर् एव सदाराध्यः सर्व-देवेश्वरेश्वरः । इतरे ब्रह्म-रुद्राद्या नावज्ञेयाः कदाचन ॥ इत्य् आदि स्मृतिभ्यः ।
अत्राहुः—देशिक-सत्-प्रसङ्गस्यापीश-हेतुकत्वात् तद्-अनुग्रह एव मोचकोऽस्तु । शुभादृष्टं तु न तत्-प्रसङ्ग-हेतुः । तस्यापि तद्-धेतुकत्वात् । सर्वा च प्रवृत्तिर् ईश-हेतुकेति, परात् तु तच्-छ्रुतेः [वे।सू। २.३.४१] इत्य् अनेन निर्णीतम् । तस्माद् देशिकाद्य्-अनुग्रहस्यापि मुक्ति-कारणत्व-कल्पनम् अयुक्तम् इति ।
अत्रोच्यते—यद्यपि देशिकादेर् अनुग्रहेऽपीश-हेतुकत्वं सम्भाव्यं, तथापि तेभ्यो दत्तास्ति, अतस् तेषाम् एव तत्र स्वातन्त्र्यम् । तैर् अनुगृहीते तु जने सोऽपि तम् अनुप्रवर्तयतीति सर्वाणि वाक्यानि सास्पदानि स्युर् वैषम्याद्य्-अपनयश् चेति ॥५१॥
**र्प्च् **:
ह्द्स् : ५.१२.१२, ११.१२.१-२
–ओ)०(ओ–
२५। प्रज्ञान्तराधिकरणम्
॥ ३.३.५२ ॥
यथा क्रतुर् इत्य् आदि श्रुतौ संशयः । इदं ब्रह्मोपासनं देशिकाद्य्-उपास्ति-सहितं स्व-तारतम्यात् फल-तारतम्य-हेतुर् भवेन् न वेति । निरञ्जनः परमं साम्यम् उपैति इत्य् आदौ विशेषाश्रवणात्, न तद् धेतुर् भवेत् । न हि नाना-विधैर् वर्त्मभिर् उपेयं नगरं तद्-उपेतृभिर् वैविध्येन दृष्टम् इति शक्यं वक्तुम् इत्य् एवं प्राप्ते—
प्रज्ञान्तर-पृथक्त्ववद् दृष्टश् च तद् उक्तम् ।
विज्ञाय प्रज्ञां कुर्वीत [बृ।आ।उ। ४.४.२१] इति द्वे प्रज्ञे दृष्टे । तत्रैका शाब्दी, अन्या तूपासना । तस्याः पृथक्त्वं भेदः । तद्वद् एव तद्-उपासकानां तद्-दृष्टिर् भवति । तद् उक्तम् इति, यथा क्रतुर् [छा।उ। ३.१४.२] इत्य् आदौ तत् तारतम्यम् उक्तम् इत्य् अर्थः । तथा चोपासनाउयायि-भगवद्-दर्शनं ततो विमुक्तिर् इति । साम्य-पारम्यं तु नैरञ्जन्यांशेन बोध्यम् ॥५२॥
**र्प्च् **: ३.९.११, १०.६०.३६, १०.६४.२९, गीता ४.११, भा ३.३२.२८।
ह्द्स् : ३.३२.२६, ३.३२.३२, ३.३२.२२
॥ ३.३.५३ ॥
स्याद् एतत् । न च विद्यया विना दृष्टिः, नापि दृष्टिं विना विमुक्तिर् इत्य् उक्तम् । तद् उभयम् अयुक्तं भगवत्-प्राकट्यावसरे विद्या-शून्यैर् अपि तद्-दृष्टेर् लाभात् दृष्टिमद्भिर् अपि विमुक्तेर् अलाभाद् इति चेत्, तत्राह—
न, सामान्याद् अप्य् उपलब्धेर् मृत्युवन् नहि लोकापत्तिः ॥
अपिर् अवधारणे । सामान्यात् साधारण्येन योपलब्धिर् दृष्टिस् तस्या न मोचकत्वम् । यतो मृत्यु-मात्रस्य तन् नास्ति । किं तर्हि सामान्य-दृष्टेः फलं ? तत्राह—लोकापत्तिर् इति । यथा सुदर्शनस्य विद्याधरस्य लब्ध-सामान्य-दृष्टेर् यथा च मृगस्य राज्ञो लोकापत्तिः फलम् उक्तम् ।
ननु सैव मुक्तिर् इति चेत्, तत्राह—न हीति । दृष्टिः खलु लोकापत्तिः सेत्य् अर्थः । स्मृतिश् च—सामान्य-दर्शनात् लोका मुक्तिर् योग्यात्म-दर्शनात् इति14 । अयं भावः—दृष्टिः खलु द्वेधा—आवृत-विषयानावृत-विषया चेति । तत्राद्या पुण्योद्रेकेण जायमाना तत्-प्रभावेन स्वर्गादि-लोकान् प्रापयति । अन्तिमा तु ब्रह्म-विद्यया लिङ्गम् अङ्गे सति परम-प्रेष्टत्व-चित्-सुख-विग्रह-विषयतया जायमाना विमोचयतीति सर्वं सङ्गिमत् । यत् तु हतिकालिकं तद्-वीक्षणं मोक्षकं वदन्ति । तत्रापि तच्-चक्रादि-स्पर्श-महिम्ना लिङ्ग-पर्यन्त-विनाशात् । ततः प्रियत्वादिना तद्-दृष्टेः सेति बोध्यम् । इतरथा बहु-वाक्य-व्याकोपापत्तिः ॥५३॥
**र्प्च् **: गीता ९.११, भा। १०.८७.३९, १.३.३३-३४।
ह्द्स् : १०.२.३२
–ओ)०(ओ–
२६। ताद्विध्याधिकरणम्
॥ ३.३.५४ ॥
विद्यया दर्शनात् विमुक्तिर् इत्य् एतत् द्रढयितुम् आरम्भः । मुण्डके काठके च श्रूयते—
नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ [क।उ। २.२.२३, मु।उ। ३.२.३] इति ।
अत्र संशयः—भगवत्-कृताद् वरणाद् एव तत्-साक्षात्कार उत वित्ति-विरक्ति-युक्त-तद्-भक्ति-हेतुकाद् एव तस्माद् इति । शब्द-स्वारस्यात् केवलाद् एव तद्-वरणात् स इति प्राप्ते—
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः ॥
शब्दस्य वरणैक-लभ्यत्व-बोधकस्य तस्य वाक्यस्य ताद्विध्यं भक्ति-लभ्यत्व-बोधन-परत्वं परेण तद्-अव्यवधिना वाक्येन च शब्दाद् वाक्यान्तरेण च गम्यतेऽतो वरणाद् एव तत्-साक्षात्कार इति तस्य नार्थः । एतद् उक्तं भवति—
नायम् आत्मा बल-हीनेन लभ्यो न च प्रमादात् तपसो वाप्य् अलिङ्गात् । एतैर् उपायैर् यतते यस् तु विद्वांस् तस्यैष आत्मा विशते ब्रह्म-धाम ॥ [मु।उ। ३.२.४]
इति पर-वाक्यं मुण्डकेऽस्ति । इहैतैर् उपायैर् इति बलाप्रमादादि-साधन-क्रमो निर्दिष्टः । बलं खलु भक्तिर् एव तादृक् । वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा [भा।पु ९.४.६६], पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया [गीता ८.२२] इति वाक्यैकार्थ्यात् ।
नाविरतो दुश्चरितान् नाशान्तो नासमाहितः । नाशान्त-मानसो वापि प्रज्ञानेनैनम् आप्नुयात् ॥ [क।उ। २.२.२४] इति पर-वाक्यं काठके ।
इह सद्-आचार-निरतो जितेन्द्रियो हरिं ध्यायंस् तम् अनुभवतीति क्रमेण साधनान्य् अभिहितानि । तथा च पर-वाक्यैकार्थ्यात् पूर्वत्र भक्ति-हेतुकम् एव वरणम् अवसीयते । किं च वरणेनैव लभ्य इति पूर्व-वाक्यार्थः । तत्र प्रेष्ठ एव वर्णीयो वाच्यो नाप्रेष्ठः । प्रेष्ठत्वं च स्वस्मिन् भक्तिमत एव नाभक्तस्येति । यद् उक्तं स्वयम् एव—
तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः ॥ [गीता ७.१७]
इति श्रद्धा-भक्तीत्य् आदि-वाक्यान्तरेण चैतद् एवम् । इतरथा तद् व्याकुप्येत् । वैषम्यादि च भगवतीति ।
ननु वृतेनैव लभ्य इति निर्बन्धः कुतः ? तत्राह—भूयस्त्वाद् इति । तुर् अवधारणे । तत् साक्षात्कारं प्रति वरणस्याति-बहुत्वात् स इत्य् अर्थः । वरणाव्यवधानेन स यद् भवतीति । अयम् अत्र क्रमः—तया प्रेष्ठत्वेन वरणम् । ततस् तत्-साक्षात्कृतिर् इति ॥५४॥
**र्प्च् **: भक्ति-रसायन १.३३-३५, ९.४.४८, गीता ८.२२, ७.१७; भा। २.७.४१, ११.२९.९-१०, ११.२९.१२-१३, ११.२९.१७-१८।
ह्द्स् : १०.२.३३, १०.८७.३९
–ओ)०(ओ–
॥ ३.३.५५ ॥
२७। शरीरे भावाधिकरणम्
दास्य-सख्यादि-भावाः प्रारम्भाद् एव परमे व्योम्नि हरिम् उपासते, तत्रैव तं द्रक्ष्यन्तीति मतम् । अथ केचित् शान्ति-भावास् तम् आदौ जाठरादाव् उपासत इति दर्श्यते । अत्र जाठरादि-वाक्यानि विषयः । जाठरादौ हरिर् उपास्यो न वेति संशयः । प्राकृते तस्मिन्न् असत्त्वान् नोपास्यः किन्त्व् अप्राकृते परमे व्योम्न्य् एव नित्यं सत्त्वात् तत्रैवोपास्य इति प्राप्ते—
एक आत्मनः शरीरे भावात् ॥
एके केचिच् छाखिनः शरीरे देहे, जाठरे हृदि ब्रह्म-रन्ध्रे चेत्य् अर्थः, आत्मनो विष्णोर् उपासना कार्येति मन्यन्ते । कुतः ? भावात् । तत्रापि तस्य सत्त्वाद् इत्य् अर्थः । अक्के चेन् मधु विन्देत किम्-अर्थं पर्वतं व्रजेत् ? इति न्यायात् । प्रसादितस् तु दास्यत्य् एव क्रमेण निज-पदम् इति तद्-अभिप्रायः । स्मृतिश् चैवम् आह—
उदरम् उपासते य ऋषि-वर्त्मसु कूर्प-दृशः परिसर-पद्धतिं हृदयम् आरुणयो दहरम् । तत उदगाद् अनन्त तव धाम शिरः परमं पुनर् इह यत् समेत्य न पतन्ति कृतान्त-मुखे ॥ [भा।पु १०.८७.१८] इति ॥५५॥
**र्प्च् **: १०.८७.१८
ह्द्स् : १०.८७.१८
–ओ)०(ओ–
२८। तद्-भाव-भावित्वाधिकरणम्
॥ ३.३.५६ ॥
यथा क्रतुर् [छा।उ। ३.१४.१] इत्य् आदिषु वाक्येषु माधुर्य-गुणकम् ऐश्वर्य-गुणकं चोपासनम् उक्तम् । तादृक् सत्-प्रसङ्गानुयायीश-सङ्कल्पात् तत्र तत्रैव जीवानां प्रवृत्तिस् तेन तेन प्राप्तिश् च तत्-तद्-गुण-स्वरूपेति च्छन्दत उबयाविरोधाद् इत्य् आदिभ्यां दर्शितम् । इह संशयः—येनोपासनेन यद्-गुणकं स्वरूपं ध्यातं तद्-गुणकम् एव तत्-प्राप्तुम् उतास्ति ध्यात-गुणाद् गुणातिरेक इति । उभयत्रापि ध्याने ध्येयैक्यात् गुणोपसंहार-न्यायाच् चास्तीति प्राप्ते—
व्यतिरेकस् तद्-भाव-भावित्वान्, न तूपलब्धिवत् ॥
तु-शब्दः शङ्का-च्छेदार्थः । नास्ति गुणातिरेकः । कुतः ? तद्-भावेति । तद्-भावस्य ध्यानानुयायि-गुणकत्वस्य तद्-धर्मस्य भावित्वात् । प्र्पताव् उद्देश्यत्वाद् इत्य् अर्थः । उपलब्धिवत् ज्ञानवत् । यथा ज्ञात्वा ध्यातं तत्रैव प्राप्ताव् उदियात् । यद्यपि तद्-विदुषां स्वोपास्येतर-गुणाधारकत्व-धीर् अस्ति तथापि तेषां तद्-इतरेषां प्राप्ताव् अनुदयो ध्यानाभावात् । इत्थं च यथा-क्रतु-श्रुत्य्-अव्याकोपः ॥५६॥
र्प्द्: ३.९.११, ६.४.२८, १०.६४.२०, १०.६०.२६, १०.४३.१७।
ह्द्स्: १.२.११, ३.९.११
॥ ३.३.५७ ॥
तादृशेन तत्-सङ्कल्पेनैव तत्र तथैव प्रवृत्तिस् तेन तेन तथा प्राप्तिर् इत्य् अत्र दृष्टान्तेन सूत्रम् आह—
अङ्गावबद्धास् तु न शाखासु हि प्रतिवेदम् ॥
तत्-तद्-ऋत्विग्-नियत-कर्तव्येष्व् अग्न्य्-आधानादिषु यज्ञाङ्गेषु यमनानेन सर्व ऋत्विजोऽवबद्धाः । अवबन्धनं नाम-करणम् एव । अध्वर्युं त्वां वृणे, होतारं त्वां वृणे, उद्गातारं त्वां वृणे, इत्य् आदि रूपम् । तस्माद् एव हेतोः सर्व-कर्म-निपुणानाम् अपि तेषाम् एकत्राधिकारो, न तु सर्वत्रेति नियमः । तथा-भूताश् च ते सर्वासु शाखासु विहितान्य् अङ्गानि कर्तुं न प्रभवन्ति । हि यतः प्रतिवेदम् अङ्गानि नियमितानि ऋचा हौत्रं यजुषाध्वर्य्यवं साम्नौद्गात्रम् अथर्वणा ब्रह्मत्वम् इति । अत्र यजमानेच्छैव यथर्त्विजां कर्म-विशेषं दक्षिणा-भेदे च प्रवर्तिका, तथा जीवानां तत्-तद्-उपासने तत्-तत्-स्वरूपे च तादृशीशेच्छैवेति ॥५७॥
र्प्द्: —
ह्द्स्: १०.४०.५, १०.४०.७, १०.४०.९, १०.२२.२५
॥ ३.३.५८ ॥
अथोद्धवादीनां विमिश्र-भाव-दर्शनाद् असन्तोषात् निदर्शनान्तरम् आह—
मन्त्रादिवद् वाविरोधः ॥
तत्-तद्-विषयक-भक्ति-प्रवर्तनाय तादृशस् तत्-सङ्कल्पो मन्त्रवत् । यथैक एव मन्त्रो बहुषु कर्मसु विनियुज्यते, कश्चित् तु द्वयोः, कश्चित् तु एकस्मिन्न् एवेति तथैव विधानात् । आदि-शब्दात् काल-कर्म-ग्रहः । यथैक एव कालः क्वचित् कुसुम-पत्रादेः, क्वचिन् निष्पत्रस्य च क्वचिद् बाल्यस्य क्वचित् तारुण्यस्य च हेतुः स्यात्, एवं वाविरोधः । तथा च यद्-गुणकं यत्-स्वरूपम् उपास्यते तद्-गुणकम् एव मोक्षे स्फुरतीति चिन्तित-गुणान् गुणान्तरातिरेको नेति सिद्धम् ॥५८॥
र्प्द्: ३.९.११
ह्द्स्: ८.३.२२, १०.२.३६-३७
–ओ)०(ओ–
२९। भूम-ज्यायस्त्वाधिकरणम्
॥ ३.३.५९ ॥
अथैतद् विचार्यते—एकोऽपि सन् बहुधा योऽवभाति इति, एकं सन्तं बहुधा दृश्यमानम् इति, अथ कस्माद् उच्यते ब्रह्म इत्य् आदि च श्रूयते । अत्र वैदूर्यादिवत् भगवति मिथो विलक्षणानि बहूनि रूपाणि सन्ति । तैर् विशिष्टोऽसाव् एकोऽपि बहुर् अभिधीयते, एवं-गुणेऽपि प्रकार-बाहुल्यात् तत्त्वम् अवसेयम् ।
इह संशयः—स्वरूप-गतं गुण-गतं च बहुत्वं श्रूयमाणं सर्वस्मिन्न् उपासने चिन्त्यं न वेति । आनन्दादेर् एव सर्वत्रापेक्षणात् । बहुत्वस्यैकस्मिन्न् अविरोधाच् च नेति प्राप्ते—
भूम्नः क्रतुवज् ज्यायस्त्वम्, तथा हि दर्शयति ॥
भूम्नो बहु-भावस्य यस्मात् सर्वेषु गुणेषु ज्यायस्त्वं क्रतुवत् सर्वत्र सह-भावाद् अतः सर्वत्रासौ चिन्त्यः । यथा क्रतुर् ज्योतिष्टोमस्य दीक्षाद्य्-अवभृथान्तेष्व् अनुवृत्तेर् ज्यायस्त्वं, तथा सर्वत्र स्वरूप-धर्मादिष्व् अनुवृत्तेर् भूम्नस् तत्-प्रमाणम् आह—तथा हीति । यो वै भूमा तत् सुखं नाल्पे सुखम् अस्ति भूमैव सुखम् [छा।उ। ७.२३.१] इति श्रुतिर् आनन्दादेर् भूमाविना-भावं दर्शयन्ती तस्यानुचिन्तनं सर्वत्रानुज्ञापयतीत्य् अर्थम् । येन विना कर्म-नित्यत्वं न सिध्येत् ॥५९॥
र्प्द्: १.१४.५, ९.१०.१३, १०.१४.६, ६.४.२३
ह्द्स्: २.१०.३६, २.७.३९
–ओ)०(ओ–
३०। शब्दादि-भेदाधिकरणम्
॥ ३.३.६० ॥
अथ तेषु बहुषु रूपेषु उपासनम् एक-विधं विविधं वेति सन्देहे उपास्य-स्वरूपाभेदाद् एक-विधम् इति प्राप्ते—
नाना-शब्दादि-भेदात् ॥
तेषु रूपेषु नानैवोपासनम्, प्रतिरूपं पृथक् तद् इत्य् अर्थः । कुतः ? शब्देति । तत्-तद्-वाचकानां नृसिंहादि-शब्दानां मन्त्राणाम् आकार-कर्मणां च वैलक्षण्याद् इत्य् अर्थः ।
कृतं त्रेता द्वापरं च कलिर् इत्य् एषु केशवः । नाना-वर्णाभिधाकारो ननैव विधिनेज्यते ॥ इति ।
तस्माद् भिन्ना पूजेति ॥६०॥
र्प्द्: ११.५.१९, गीत ६.५
ह्द्स्: ११.५.२०
॥ ३.३.६१ ॥
नृसिंहादि-पुरुषोत्तम-रूपोपासनानि विभिन्न-विधानीत्य् उक्तम् । अथ तानि तत्-तद्-उपासकैः समुच्चितानुष्ठेयानि विकल्प्य वेति वीक्षायां नियमे हेत्व्-अभावात् समुच्चित्येति प्राप्ते—
विकल्पोऽविशिष्ट-फलत्वात् ॥
तेषाम् अनुष्ठाने विकल्प एव । यादृक् सत्-प्रसङ्गानुयायि-भगवत्-सङ्कल्पाद् उपासनम् उपलभ्यते तद् एवानुष्ठेयं, न त्व् अन्यद् इत्य् अर्थः । कुतः ? अविशिष्टेति । तेषां सर्वेषाम् अविशिष्टं समानम् एव मोक्ष-साक्षात्कार-लक्षणं फलम् उक्तम् । एकेनैव तस्मिन् सिद्धे किम् अनेन्येत्य् अर्थः । यद्यपि तद्-विदुषाम् इत्य् आदिकं तु न विस्मर्तव्यम् एकान्ति-श्रैष्ठ्य-दाऋढ्यात् पौनरुक्तं न दोषः ॥६१॥
र्प्द्: रा।ता।उ।१.४.३ (यथा नामी)
ह्द्स्: १०.४०.७, १०.४०.९
–ओ)०(ओ–
॥ ३.३.६२ ॥
३१। काम्याधिकरणम्
मोक्ष-फलकानि नृसिंहाद्य्-उपासनानि तत्-तद्-एकान्तिनां नित्यानीत्य् उक्तम् । अथ कीर्ति-लोक-जय-सम्पस्यादि-फला ब्रह्मोपास्तयो बृहद्-आरण्यकादौ पठ्यन्ते । तासां विकल्पः समुच्चयो वेति वीक्षायां ब्रह्मोपास्तित्वाविशेषात् पूर्ववद् विकल्प इति प्राप्ते—
काम्यस् तु यथा-कामं समुच्छीयेरन् न वा पूर्व-हेत्व्-अभावात् ॥
काम्यास् तत्-साक्षात्कारानपेक्षाः कीर्त्यादि-तद्-अन्य-फलास् ता यथा-कामं सकामैस् तद्-उपासकैः समुच्चीयेरन् न वा ? कुतः ? पूर्वेति । फल-भेदाद् इत्य् अर्थः । सति तत्-तत्-फल-कामे सर्वास् ताः कार्याः । असति तु तस्मिन् कदाचिद् अपि नेत्य् अर्थः । इदम् अत्राकूतम् । यदि मुमुक्षुर् अपि कश्चित् फलान्तरम् इच्छेत्, तर्हि स तेन तत् पदं हरिम् एवोपासीत न देवतान्तरम् ।
अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः । तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भा।पु २.३.१०] इत्य्-आदि-स्मृतिभ्यः ।
एतेन दशार्णाद्य्-उपास्तयोऽपि व्याख्याआः । पूर्वानुमानं तु सोपाधिकं बोध्यम् ॥६२॥
र्प्द्: २.३.२-४, २.३.१०, ७.९.२६, १०.८८.८
ह्द्स्: २.३.१०
–ओ)०(ओ–
३२। यथाश्रय-भावाधिकरणम्
॥ ३.३.६३ ॥
एवम् अङ्गि-गुण-ध्यानम् अभिधायेदानीम् अङ्ग-गुणानभिधातुम् उपक्रमते । श्री-गोपालोपनिषदि पूर्व-तापिन्य्-अवसाने, तम् एकं गोविन्दम् इत्य् आरभ्य स-मरुद्-गणोऽहं परमया स्तुत्या तोषयामि इति प्रतिज्ञाय, ओं नमो विश्व-रूपाय इत्य् आदिभिः पद्यैर् विधेर् हरिं स्तुवन् तन्-मुख-नेत्रादिष्व् अङ्गेषु मन्द-स्मित-कृपा-वीक्षणादीन् गुणान् निरदिक्षत् । इह संशयः—मन्द-स्मितादयो मुखाद्य्-अङ्ग-गुणः पृथक् चिन्त्या न वेति । अङ्गि-गुण-ध्यानेनैव पुमर्थ-सिद्धेः पृथक् ध्यानेन फलानतिरेकाच् च ते न ध्येया भवन्तीति प्राप्ते—
अङ्गेषु यथाश्रय-भावः ॥
अङ्गेषु मुखादिषु यथाश्रयं भावश् चिन्तनं कार्यम् । यद् अङ्गं यस्य गुणस्याश्रयस् अत्र तस्य चिन्तनम् विधेयम् इत्य् अर्थः । मुखे मन्द-स्मितं प्रियभाषणं च, नेत्रयोः कृपा-वीक्षणं चेत्य् एवम् आदि ॥६३॥
र्प्द्: ३.२८.२०-३३, ४.८.३९-४५।
ह्द्स्: ३.२८.३१
॥ ३.३.६४ ॥
शिष्टेश् च ॥
स्तुत्य्-अन्ते, अथ हैवं स्तुतिभिर् आराधयामि तथा यूयं पञ्च-पदं जपन्तः कृष्णं ध्यायन्तः संसृतिं तरिष्यथ इति शिष्यान् प्रति विधिनाङ्ग-गुण-ध्यानोपदेशाच् च स स तत्र तत्र चिन्त्य इत्य् अर्थः ॥६४॥
र्प्द्: —
ह्द्स्: ३.२८.३३
॥ ३.३.६५ ॥
ननु, यथा कप्यासं पुण्डरीकम् एवम् अक्षिणी इत्य् अत्र कृपावलोक-मात्रम् उक्तं नान्यत् किञ्चिद् इति चेत्, तत्राह—
समाहारात् ॥
तृतीय-सूत्रात् नेत्य् आकृष्य सूत्र-द्वयेसम्बन्धनीयम् । तेनान्येषां सङ्ग्रहान् न किञ्चिद् ऊनम् इत्य् अर्थः ॥६५॥
र्प्द्: २.२.१३-१४, ३.२८.३४-३५
ह्द्स्: ३.२८.१७-१८
॥ ३.३.६६ ॥
तत्र तत्रिव तस्य तस्य चिन्तनं कार्यम् इत्य् एतद् आषिपति—
गुण-साधारण्य-श्रुतेश् च ॥
सर्वतः पाणि-पादं तत् इत्य् आदाव् अङ्गेषु गुण-साधारण्यात् तत्र तत्रैव तस्य तस्य चिन्तनम् इति सम्भवतीत्य् अर्थः । अङ्गानि यस्य सकलेन्द्रिय-वृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति तथा जगन्ति इत्य् आदिका स्मृतिर् अपि सर्वत्र सर्व-गुण-योगं वक्तीति च शब्दात् ॥६६॥
र्प्द्: —
ह्द्स्: १०.८.३०, ३.२८.२१
॥ ३.३.६७ ॥
निरस्यति—
न वा तत्-सहभावाश्रुतेः ॥
वेत्य् अवधारणे । अङ्गेषु गुण-साधरण्यं न चिन्त्यम् । कुतः ? तत्-सहेति । यस्मिन्न् अङ्गे यो गुणः पठितस् तत्-सह-भावोऽन्येषां गुणानां न श्रूयते, अतो न तच् चिन्त्यम्, किन्तु यथाश्रयं भावनम् । सर्वतः पाणीत्य्-आदिकं तु सर्वत्र सर्व-शक्तिर् अस्तीत्य् एव निवेदयद् गतार्थम् ॥६७॥
र्प्द्: ३.२८.२०-३३
ह्द्स्: ३.२८.२२
॥ ३.३.६८ ॥
दर्शनाच् च ॥
मुख्यादिष् एव मन्द-स्मितादीनां वर्णनं दृष्टम् अतश् च तथा ॥६८॥
र्प्द्: ४८.३९-४५
ह्द्स्: ३.२८.३२
–ओ)०(ओ–
॥ इति गोविन्द-भाष्ये तृतीयाध्यायस्य तृतीयः पादः ॥
॥ ३.३ ॥
(३.४)
-
Tहिस् रेअदिन्ग् इस् थे HDS, Kरिस्ह्नदस् वेर्सिओन्। _भेदाद् इति चेद् एकस्याम् अपि _(RPC) ।, भेदान् नेति चेन् नैकस्याम् अपि (Vअसु एदितिओन्) ↩︎
-
Tहिस् सूत्र इस् चोम्बिनेद् wइथ् थे फ़ोल्लोwइन्ग् सुत्र ब्य् Sहन्कर। ↩︎
-
Tअकेन् फ़्रोम् Mअध्वऽस् Bहाष्य। ↩︎
-
Mअध्वछर्य रेअद्स् सलिलवत्। ↩︎
-
Aग्नि-पुराण। ↩︎
-
Bरह्मोपनिषद् ? (Vअसु) ↩︎
-
Cअतुर्वेद-शिखा (Vअसु) ↩︎
-
Bऋहत्-संहिता (Vअसु) ↩︎
-
Rअमनुज रेअद्स् पुरुष-विद्यायाम् अपि चेतरेषाम् अनाम्नात् । ↩︎
-
Bअलदेव रेअद्स् अनियमः सर्वेषाम् अविरोधाच् छब्दानुमानाभ्याम् । ↩︎
-
RPC सय्स् थिस् इस् फ़्रोम् थे Yअजुर्वेद वेर्सिओन् ओफ़् Pऊरुष-सूक्त, बुत् गिवेस् नो नुम्बेर्स्। ↩︎
-
Rअमनुज रेअद्स् थिस् अन्द् थे नेxत् सुत्र अस् ओने। ↩︎
-
Sहन्कर रेअद्स् थिस् अन्द् थे नेxत् सुत्र अस् ओने। ↩︎
-
Nआरायण-तन्त्र (Vअसु) ↩︎