वित्तिर् विरक्तिश् च कृताञ्जलिः पुरो

यस्याः परानन्द-तनोर् वितिष्ठते ।

सिद्धिश् च सेवा-समयं प्रतीक्षते

भक्तिः परेशस्य पुनातु सा जगत् ॥

१। सन्ध्य्-अधिकरणम्

॥ ३.२.१ ॥

अथास्मिन् पादे प्राप्यानुराग-हेतु-भूता भक्तिर् उच्यते । प्राप्यस्य ब्रह्मणोर् भक्त्य्-अर्हत्वाय स्वप्नादि-सृष्टि-कर्तृत्व-रूपो महिमा तदाविर्भावानाम् ऐक्यम् आत्म-मूर्तित्वं भजद्-भेदः प्रत्युक्त्वं तथापि भक्त्य्-एक-ग्राहत्वम् उभयाव् अभासित्वं परानन्दत्वं भावानुसारि-प्रकाशत्वं सर्व-परत्वं सर्व-दातृत्वं चेति गुण-निचयो निरूप्यते । भक्तीच्छुः खलु तत्-तत्-सम्प्रतीतौ तस्यां प्रवर्तते, नेतरथा । तत्रादौ स्वप्नादि-सृष्टि-कर्तृत्वम् उच्यते । तद्-इतरस्य तत्-कर्तृत्वे ब्रह्मणः सर्व-कर्तृत्व-बाधात् । किञ्चित् कर्तरि तस्मिन् भक्तिर् नोद्भवेद् अतस् तत्-कर्तृतया तन्-महिमा प्रदर्श्यते । बृहद्-आरण्यके श्रूयते—

न तत्र रथा न रथ-योगा न पन्थानो भवन्ति, अथ रथान् रथ-योगान् पथः सृजते । न तत्राऽऽनन्दा मुदः प्रमुदो भवन्ति, अथाऽऽनन्दान् मुदः प्रमुदः सृजते । न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति, अथ पुष्करिण्यः स्रवन्त्यः सृजते, स हि कर्ता [बृ।आ।उ। ४.३.१०] इति ।

तत्रेयं स्वाप्निकी रथादि-सृष्टिर् जीव-कर्तृका परमात्म-कर्तृका वेति संशयं जीव-कर्तृका स्यात् । तस्यापि प्रजापति-वाक्ये सत्य-सङ्कल्पत्व-श्रवणाद् इति प्राप्ते—

सन्ध्ये सृष्टिर् आह हि ॥

सन्ध्यं स्वप्नः, सन्ध्यं तृतीयं स्वप्न-स्थानम् [बृ।आ।उ। ४.३.९] इति तत्रैव श्रवणात् । गागर-सुषुप्ति-मध्य-भवत्वाच् च । तत्र या रथादि-सृष्टिः सा परमात्म-कृतैव । कुतः ? हि यतः । स हि कर्ता इति श्रुतिर् एव स्वप्ने रथादि-सृष्टिं तत्-कृताम् आह । अयं भावः—अल्पाल्प-कर्मानुसारि-फल-भोगाय स्वप्न-द्रष्टृ-पुं-मात्रानुभाव्यांस् तावन्-मात्र-समयान् रथादीन् परमात्मा सृजति । तस्मात् स हि कर्तेति सत्य-सङ्कल्पस्याचिन्त्य-शक्तेः तादृश-कर्तृत्वं सम्भवत्य् एवेत्य् अर्थः । स्वप्नान्तम् इत्य् आदि श्रुत्य्-अन्तराच् चेति । जैवी सत्य-सङ्कल्पता तु मोक्षे स्याद् अतो न तया स्वप्न-सृष्टिः ॥१॥

र्प्च् :

**ह्द्स् **: ६.१६.५५।

॥ ३.२.२ ॥
निर्मातारं चैके पुत्रादयश् च ॥

यत एके कठाः परमात्मानम् एव स्वाप्निकानां कामानां निर्मातारम् आमनन्ति, य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण [क।उ। २.२.८] इति । एषु जीवेषु ते च कामाः पुत्रादय एव न त्व् इच्छा-मात्रम् । सर्वान् कामान् छन्दत्तः प्रार्थयस्व शतायुषः पुत्र-पौत्रान् वृणीष्व [क।उ। १.१.२५] इति तेषाम् एव काम-शब्देन प्रकृतत्वात् । एतस्माद् एव पुत्रो जायते, एतस्माद् भ्राता । एतस्माद् भार्या, यद् एनं स्वप्ने नाभिहन्ति [गौपवन-श्रुति] इति स्मृत्य्-अन्तराच् च ॥२॥

र्प्च् : —

**ह्द्स् **: ११.१३.३२।

॥ ३.२.३ ॥

स्वाप्निक-पदार्थ-निर्मातुर् भगवतः कारणम् आह—

माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात् ॥

स्वप्न-सृष्टावतर्क्या मायैव करणम् । न तु पञ्चीकृतानि भूतानि चतुर्मुखादयश् च । कुतः ? कृत्स्न्येनेत्य् आदेः सर्वानुभाव्यतयानभिव्यक्तेर् इत्य् अर्थः । तस्मात् परमात्म-कृता स्वप्न-सृष्टिर् इति सिद्धम् ॥३॥

र्प्च् : ७.१३.२३, ११.३.३६।

**ह्द्स् **: ११.१३.३२।

–ओ)०(ओ–

२। स्वप्नाधिकरणम्

॥ ३.२.४ ॥

अथ सा सत्योत मिथ्येति विशये बोधोत्तरं बाधात् मिथ्येति प्राप्तौ—

सूचकश् च हि श्रुतेर् आचक्षते च तद्-विदः ॥

हि यतः स्वाप्नः पदार्थः शुभाशुभयोर् मन्त्रादेश् च सूचकोऽतः सत्यः स्वप्न-सर्गः । कुतस् तत्-सूचकत्वम् ? श्रुतेः ।

यदा कर्मसु काम्येषु स्त्रियं स्वप्नेऽभिपश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्न-निदर्शने ॥ इति छान्दोग्यात् [५.२.९] ।

अथ स्वप्ने पुरुषं कृष्णं कृष्ण-दन्तं पश्यति स एनं हन्ति इति कौषीतकी-ब्राह्मणाच् च। तद्-विदः स्वप्न-ज्ञाश् च स्वप्नं शुभादि-सूचकम् आचक्षते । स्वप्ने गजारोहणं शुभस्य, खरारोहणं त्व् अशुभस्य सूचकम् इत्य् आदि ।

आदिष्टवान् यथा स्वप्ने राम-रक्षाम् इमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुध-कौशिकः ॥

इति स्वप्ने स्तोत्र-लाभं स्मरन्ति । एवं च भावि-सत्यार्थ-सूचकत्वे क्वचिन् मन्त्रौषधि-प्राप्ति-दर्शनेन सूचक-सत्यत्वे च सिद्धे सत्यता-प्रययात् साक्षात् स्वप्न-दृष्ट-कर्तृक-हनन-श्रवणाच् च जाग्रत्-सृष्टिर् इति सत्या स्वप्न-सृष्टिः ॥४॥

**र्प्च्, ह्द्स् **: १०.४२.३०।

॥ ३.२.५ ॥

यत् तु बोधोत्तरं बाधान् मिथ्येत्य् उक्तम्, तत्राह—

पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्ध-विपर्ययौ ॥

परस्येश्वराभिध्यानात् सङ्कल्पात् तिरोहितं स्वाप्निकं रथादि, न तु शुक्ति-रजतवत् तस्य बाधः । हि यतोऽस्य जीवस्य ततः परेशाद् एव बन्ध-मोक्षौ भवतः । सम्षार-बन्ध-स्थिति-मोक्ष-हेतुर् इत्य् आदि-श्रुतेः । बन्ध-मोक्ष-कर्तुः स्वप्न-तत्-परिहार-कर्तृत्वं न चित्रम् इति भावः । ततश् च तस्यापि तस्माद् एवाविर्भाव-तिरोभावी मन्तव्यौ ।

स्वप्नादि-बुद्धि-कर्ता च तिरस्कर्ता स एव तु । तद्-इच्छया यतो ह्य् अस्य बन्ध-मोक्षौ प्रतिष्ठितौ ॥ इति स्मृतेश् च ।

तस्मात् सत्या स्वप्न-सृष्टिर् ऐश्वरीति ॥५॥

र्प्च् : ३.२६.६-७, ११.११.३-४, ११.३.४१, ११.२०.३०।

**ह्द्स् **: ३.७.१२।

–ओ)०(ओ–

३। देह-योगाधिकरणम्

॥ ३.२.६ ॥

अथ जागर-कर्तृत्वम् ईश्वरस्यैवेत्य् उच्यते । कठ-वल्ल्यां पठ्यत्—

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति ॥ [क।उ। २.१.४] इति ।

तत्र जीवस्य श्रूयमाणो जागरः परेश-कर्तृको न वेति संशये कालाद्य्-अधीनत्व-दर्शनान् नेति प्राप्ते—

**देह-योगाद् वा सोऽपि ॥ **

देह-योगेन वा यो जागरः स परेशाद् एव स्वप्नान्तम् इत्य् आदि श्रुतेः कालादेर् जाड्याच् च । सुषुप्ति-मूर्च्छयोर् अप्य् अवस्थयोः सृष्टिर् ईश्वर-कर्तृकैवेत्य् अपि-शब्देन समुच्चितम् । तस्यैव सर्व-कर्तृकत्व-श्रवणात् ॥६॥

र्प्च् : ११.११.१०, ११.१३.२४-२५, ३.३१.४३-४४।

**ह्द्स् **: ११.१३.३२।

–ओ)०(ओ–

४। तद्-अभावाधिकरणम्

॥ ३.२.७ ॥

अथ सुषुप्ति-स्थानं चिन्त्यते । तत्रैताः सुषुपित्-विषयाः श्रुतयः । आसु तदा नाडीषु सृप्तो भवति [छा।उ। ८.६.१] इति छान्दोग्ये । ताभिः प्रत्यवसृप्य पुरीतति शेते [बृ।आ।उ। २.१.१९] इति । य एषोऽन्तर् हृदय आकाशस् तस्मिञ् शेते [बृ।आ।उ। ४.४.२२] इति च बृहद्-आरण्यके । एवम् अन्यत्र च । इह आकाश-शब्दो ब्रह्म-वाचकः । अत्र नाड्यः पुरीतद् ब्रह्म च सुषुप्त्य्-आधारतया श्रूयन्ते । किम् एषां विकल्पः समुच्चयो वेति वीक्षायां तुल्यार्थानां मिथोऽपेक्षादर्शनात्, तुल्यार्थस् तु विकल्पेरन् इति न्यायाच् च विकल्पः स्यात् । इति प्राप्ते—

तद्-अभावो नाडीषु तच्-छ्रुतेर् आत्मनि च ॥
र्प्च्
: ११.१३.२६, ११.२५.१९, १२.११.१८-१९।

**ह्द्स् **: ६.१६.५५-५६।

॥ ३.२.८ ॥
अतः प्रबोधोऽस्मात् ॥

यतो ब्रह्मैव सुप्ति-स्थानं नाड्य्-आदीनां तु द्वार-मात्रतातोऽस्माद् ब्रह्मणः सकाशाद् एव स्वापोत्तरं प्रबोधः श्रूयते छान्दोग्ये—सतश् चागत्य न विदुः सत आगच्छामहे [छा।उ। ६.१०.२] इति । विकल्पे तु कदाचिन् नाडीभ्यः कदाचित् पूरीततः कदाचिच् च ब्रह्मणः स श्रूयते, न च तथास्ति । तस्माद् ब्रह्मैव तत् ॥८॥

र्प्च् : ८.१.७, ८.१.९

**ह्द्स् **: १२.४.२१।

–ओ)०(ओ–

५। कर्मानुस्मृति-शब्द-विध्य्-अधिकरणम्

॥ ३.२.९ ॥

अथ सतश् चागत्य न विदुः [छा।उ। ६.१०.२] इत्य् अत्र विचारान्तरम् । सुप्त एवोत्तिष्ठेद् उतान्य एवेति संशये ब्रह्म-सम्पन्नस्य प्राचीन-देहादि-सम्बन्धासम्भवात् अन्य एवेति प्राप्ते—

स एव तु कर्मानुस्मृति-शब्द-विधिभ्यः ॥

तु-शब्दः शङ्का-क्षेपाय । सुप्त एवोत्तिष्ठति नान्यः । कुतः ? कर्मादिभ्यः । सुप्ति-प्राग्-अनुष्ठित-शेष-लौकिक-कर्म-समापनं कर्मा-शब्दार्थः । अनुस्मृतिर् योऽहं सुप्तः स एव प्रतिबुद्धोऽस्मि प्रत्यभिज्ञा । शब्दस् तु–इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद् यद् भवन्ति तदा भवन्ति [छा।उ। ६.१०.२] इति छान्दोग्य-श्रुतिः । व्याघ्रादयो जीवाः सुप्तेः प्राग् यद् यच् छरीरं प्राप्तास् त एव प्रतिबुद्धास् तत् तद् एवाप्नुवन्तीति तत्रार्थः । विधिश् च, आत्मानम् एव लोकम् उपासीत [बृ।आ।उ। १.४.१५] इति बृहद्-आरण्यक-दृष्टो मोक्ष-विषयः । सोऽपि सुप्तस्य मुक्तत्वेऽर्थकः स्यात् । अयं भावः—यथा लवणाम्बु-पूर्णः पिहित-मुखः कुम्भो गङ्गायां निक्षिप्तः पुनर् उद्ध्रियते, तथा वासनावृतो जीवः सुप्तो विरत-समस्त-करणो विश्वास-स्थानं ब्रह्म सम्पद्यापि पुन-भोगायोत्तिष्ठति । न च निर्वासनवत् तत्-सारूप्यम् उपैति । तद् एतच् च कर्मादिभ्योऽवगतम् इति ॥९॥

र्प्च् : ११.३.४०, ११.१३.३१, ११.२८.१५, ११.२५.१९।

**ह्द्स् **: ११.१३.२७-२८, ११.३.३९

–ओ)०(ओ–

६। मुग्धाधिकरणम्

॥ ३.२.१० ॥

प्रसङ्गद् इदं चिन्त्यते—मूर्च्छायां ब्रह्मणि सम्प्राप्तिर् अर्द्ध-प्राप्तिर् वा जीवस्येति विषये तस्याः सुप्ति-विशेषत्वात् तद्वत् सम्प्राप्तिर् एवेति प्राप्ते—

मुग्धेऽर्ध-सम्पत्तिः परिशेषात् ॥

मुग्धे मूर्च्छिते सति पुरुषे तस्य ब्रह्मण्य् अर्ध-प्राप्तिर् भवति । कुतः ? परिशेषात् । दृश्सर्वानुसन्धानात् न सुप्तिवत् तत्-सम्प्राप्तिः । विषयादर्शनाज् जागरादिवन् नाप्राप्तिः । किन्तु पारिशेष्याद् अर्ध-प्राप्तिर् एवेत्य् अर्थः ।

हृदय-स्थात् पराज् जीवो दूरस्थो जाग्रद् एष्यति । समीपस्थस् तथा स्वप्नं स्वपित्य् अस्मिन् लयं व्रजन् । अत एवं त्रयोऽवस्था मोहस् तु पारिशेषतः । अर्ध-प्राप्तिर् इति ज्ञेयो दृश्सर्व-मात्रं प्रति स्मृतेः ॥ इति हि स्मृतिः1

दूरस्थोऽक्षिस्थः समीपस्थः कण्ठस्थः ।

ननु देहस्थस्य जीवस्य तिस्रोऽवस्थाः श्रूयन्ते । जागरः स्वप्नः सुषुप्तिर् इति । नातोऽन्या क्वचिद् ईक्षते । तस्मान् मूर्च्छा नाम पृथग्-अवस्था नास्तिति, तिसृणाम् अन्यतमैव सेति चेन् न, अन्यत्वात् । तथा हि, न तावज् जागरो मूर्च्छा इन्द्रियैर् विषयावीक्षणात् । नापि स्वप्नः निःसञ्ज्ञत्व्त् । न च सुप्तिः मुख-प्रसाद-निष्कम्पत्वाद्य्-अभावात् । तस्माद् अवस्थान्तरम् एव परिशेषाद् अवसीयते । सा चेयं लोके वैद्यके च प्रसिद्धेति । तथा च जागर-स्वप्नादि-निखिल-कर्तृत्व-रूपो यस्य महिमा स हरिर् एव सेव्य इति प्रकरणाभिप्रायः ॥१०॥

र्प्च् : वि।पु। ६.५.८४-८५

**ह्द्स् **: ६.१६.६१-६२, ३.३०.२३, ३.३१.६

–ओ)०(ओ–

७। उभय-लिङ्गाधिकरणम्

॥ ३.२.११ ॥

एवं निखिल-नियामकतया भगवतो महिमा दर्शितः । इदानीं बहुधावभातोऽप्य् ऐक्यं स्वस्मिन् न त्यजतीत्य् अविचिन्त्य स्वरूपता तस्य दर्श्यते । यद्यपि प्रकाशादिवन् नैवं परः इत्य् आदिना उक्तम् एतत् तथापि युगपद् बहु-भावेन भेद-प्रतीतो न समाहितम् अतोऽत्राचिन्त्यत्वेन तत्-समर्थनम् । एकोऽपि सन् बहुधा योऽवभाति इत्य् आदि श्रुतम् ।

तत्र संशयः—नाना-विधेषु स्थानेषु स्थितानि भगवतो बहूनि रूपाणि मिथो भिन्नानि न वेति । स्थान-भेदेन स्थानिनोऽपि भेदाद् भिन्नानि तानि । नहि मिथो विलक्षण-स्थान-संस्थान-गुणादीनि वस्तून्य् अभेदं लब्धुम् अर्हन्ति । एकोऽपि सन्न् इति तु सामान्याभिप्रायं भावि । ततश् च वस्तुनो भिन्नेषु बहुष्व् अनेकेश्वरतापत्तिस् तस्यां च सत्यां बहु-विषया भक्तिर् एकस्यासम्भाविनीति । एवं प्राप्ते—

न स्थानतोऽपि परस्योभय-लिङ्गं सर्वत्र हि ॥

परस्य भगवतः स्वरूपं स्थानतोऽपि नोभय-लिङ्गम् उभय-लक्षणम् । स्थान-भेदेऽपि स्थानि विशेष्यं न भिद्यते इत्य् अर्थः । हि यस्माद् एकम् एव स्वरूपम् अचिन्त्य-शक्त्या युगपत् सर्वत्रावभाति, एकोऽपि सन्न् इति श्रुतेः । स्थानानि भगवद्-आविर्भावास्पदानि तद्-विविध-लीलाश्रय-भूतानि संव्योम-शब्दितानि । विविध-भाववन्तो भक्ताश् च । तेषु सर्वेष्व् एकम् एव स्वरूपं विभाति ॥११॥

र्प्च् : १.१०.२१-२२, १.१०.२४, १.९.३९, ८.१.११, ८.३.२४।

**ह्द्स् **: १०.३३.१९, १०.३३.१६, ३.३२.३३

–ओ)०(ओ–

॥ ३.२.१२ ॥
न भेदाद् इति चेन् न प्रत्येकम् अतद्-वचनात् ॥

बहुधावभातस्यापि तात्त्विकत्वेन भेदाभेद-प्राप्तेः पूर्वोक्तं न युक्तम् इति चेन्, न । कुतः ? प्रतीत्य्-आदेः इन्द्रो मायाभिः पुरु-रूपः ईयते युक्ता ह्य् अस्य हरयः शतादशेत्य् अयं वै हरयोऽयं वै दश च सहस्राणि च बहूनि चानन्तानि च तद् एतद् ब्रह्मापूर्वम् अनपरम् अनतरम् अबाह्यम् अयम् आत्मा ब्रह्म सर्वानुभूतिर् इत्य् अनुशासनम् [बृ।आ।उ। २.५.१९] इति बृहद्-आरण्यके सर्वेषां रूपाणाम् ऐक्योक्तेर् इत्य् अर्थः ॥१२॥

र्प्च् : ८.१.१३-१४, ८.५.१९, ५.११.१२-१३

**ह्द्स् **: १०.६९.२

॥ ३.२.१३ ॥
अपि चैवम् एकम् ॥

अपि चेति किं चेत्य् अर्थः । अमात्रोऽनन्त-मात्रश् च [माण्डूक्य-कारिका २९] इत्य् एके शाखिन एवम् अभेदेनानन्त-रूपत्वेन चैनं पठन्ति । अमात्रः स्वांश-भेद-शून्यः । अनन्त-मात्रोऽसङ्ख्येय-स्वांशः ।

एक एव परो विष्णुः सर्वत्रापि न संशयः । ऐश्वर्याद् रूपम् एकं च सूर्यवद् बहुधेयते ॥ इति स्मृतेश्2 च ।

अयं भावः—यथैक एव वैदूर्य-मणिर् द्रष्टृ-भेदाद् रूप-भेदान् दधानोऽपि, यथा वाभिनेता नटः स्व-स्थितान् भावान् प्रकटयन् बहुधावभातोऽप्य् ऐक्यं स्वस्मिन् न विमुञ्चति, एवं ध्यातृ-भाव-भेदात् कार्य-भेदाच् चानेकतया प्रतीतोऽपि हरिः स्वरूपैक्यं स्वस्मिन् न मुञ्चति ।

मणिर् यथा विभागेन नील-पीतादिभिर् युतः । रूप-भेदम् अवाप्नोति ध्यान-भेदात् तथाच्युतः ॥ [विष्णु-तन्त्र] यत् तद् वपुर् भाति विभूषणायुधैर् अव्यक्त-चिद्-व्यक्तम् अधारयद् धरिः । बभूव तेनैव स वामनो वटुः सम्पश्यतोर् दिव्य-गतिर् यथा नटः ॥ [भा।पु। ८.१८.१२]

इत्य् आदि स्मृतिभ्यः । मणिर् अत्र वैदूर्यः । नटोऽभिनेता । तथा चैकस्यैव सतोऽविचिन्त्य-शक्तेर् विरुद्ध-गुणाश्रयस्य युगपद् बहुधावभासोऽपि तस्मिन् विरुद्ध-धी-विषयो गुण एवेति । तस्मिन्न् एकस्मिन्न् एवाविचिन्त्य-शक्तिके सर्वेश्वरे भक्तिर् उपपन्नेति ॥१३॥

र्प्च् : ११.११.६-७

**ह्द्स् **: ९.१८.१२।

–ओ)०(ओ–

८। अरूपवद्-अधिकरणम्

॥ ३.२.१४ ॥

अथात्म-विग्रहत्वं भगवतः प्रतिपाद्यते । विग्रहस्यात्मनो भेदे सत्यात्मोपसर्जने तस्मिन् भक्तिर् अप्य् उपसर्जनी-भावम् आसीद् इति चेन्, न चैवम् अस्ति । तत्रैव तस्या प्राधान्येनानुभवात् । तथा हि—सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कारिणे [गो।ता।उ। १.२], तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् [गो।ता।उ। १.२९] इत्य् आद्कम् अथर्व-शिरसि श्रूयते । तत्र ब्रह्म विग्रहवन् न वेति संशये सच्-चिद्-आनन्दो रूपं यय्सेति बहुव्रीह्य्-आश्रयणाद् विष्णोर् मूर्तिर् इत्य् आदि व्यपदेशाच् च विग्रहवत् तद् इति प्राप्ते—

अरूपवद् एव हि तत्-प्रधानत्वात् ॥

रूपं विग्रहस् तद्-विशिष्टं ब्रह्म न भवतीति, अरूपवद् इत्य् उच्यते विग्रहस् तद् इत्य् अर्थः । युक्ति-निरासार्थम् एव-शब्दः । कुतः ? तद् इति । तस्य रूपस्यैव प्रधानत्वाद् आत्मत्वात् । विभुत्व-ज्ञातृत्व-प्रत्यक्-वादि-धर्मित्वाद् इत्य् अर्थः ॥१४॥

र्प्च् : ८.५.१५-१६, ६.८.३०, १०.१४.१८, पञ्चरात्र—निर्दोष-पूर्ण-गुण-विग्रह आत्म-तन्त्रो निश्चेतनात्मक-शरीर- गुणैश् च हीनः । आनन्द-मात्र-कर-पद-मुखोदरादि सर्वत्र च स्वगत-भेद-विवर्जितात्मा ॥

**ह्द्स् **: १०.२७.११।

॥ ३.२.१५ ॥

ननु चिन्त्यमानेन ज्ञानानन्देन परमात्म-वस्तुना जड-दृश्सर्व-रूपत्वेन तद्-विरुद्धा प्रकृतिर् निवर्तेतैव तादृशि ब्रह्मणि विग्रहवत्त्वं सूत्र-कृता कथम् अब्युपेयते इति चेत्, तत्राह—

प्रकाशवच् चावैयर्थ्यात् ॥

शङ्का-निरासाय च-शब्दः । सप्तम्य्-अन्ताद् इवार्थे वतिः । प्रकाशैक-रूपेऽपि रवौ विग्रहवत्त्वस्य यथा ध्यान-हेतुत्वाद् अवैयर्थ्यं तथा ज्ञानानन्दैक-रसेऽपि ब्रह्मणि तस्य तन् मन्तव्यम् । तद्-धेतुत्वाद् एव । इतरथा ध्यानानुपपत्तिः । ध्यायति कान्तं विरहिणी इत्य् आदौ विग्रह-विषयं तद् दृष्टम् ॥१५॥

र्प्च् : २.७.४१, १०.१४.२९, १०.६३.३९, १.२.११

**ह्द्स् **: १०.३.१३, १०.३.२४।

॥ ३.२.१६ ॥

न च ध्यानार्थम् असद् एव तत्त्वं तत्र कल्प्यते । यत् तत्र प्रमाणम् अस्तीत्य् आह—

आह च तन्-मात्रम् ॥

अवधृतौ मात्र-शब्दः । तं विग्रहम् एव यस्मात् परमात्मानम् आह श्रुतिर् अतः प्रमेयं तत्त्वम् इत्य् अर्थः । तत्रैव श्रूयते—

सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् । द्वि-भुजं ज्ञान-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥ [गो।ता।उ। १.९]

अत्र पुण्डरीकाक्षत्वादि-धर्मा स-विग्रह एव ईश्वर इति विस्फुटम् । देह-देहि-भिदा चैव नेश्वरे विद्यते क्वचित् इति स्मृतिश् च । तथाह—अत्र देहाद् भिन्नो देहीत्य् एवं भिदेश्वर-वस्तुनि नास्ति । किं तु देह एव देहीति लब्धम् ॥१६॥

र्प्च् : १०.१३.५४, १.१८.२३, १२.८.४३

**ह्द्स् **: १०.१३.५४-५५, १.१.१ (सत्यं परं धीमहि)

॥ ३.२.१७ ॥
दर्शयति चाथो अपि स्मर्यते ॥

साक्षात्-प्रकृति-परो योऽयम् आत्मा गोपालः कथं त्व् अवतीर्णो भूम्यां हि वै [गो।ता।उ। २.२३] इति तत्रैवोत्तरत्र पठिता श्रुतिः परमात्मानम् एव विग्रहं दर्शयति । गोपाल-शब्दः खलु परम-कमनीय-पाद-मुखादि-सन्निवेशिन्य् अभ्र-श्यामे सर्वेशे वस्तुनि मुख्यः । पूर्वत्र–गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम्, सत्-पुण्डरीक-नयनं [गो।ता।उ। १.८-९] इत्य् आदि श्रवणात् । स्मर्यते चात्मैव विग्रह इति ।

ईश्वरः परमः कृष्णः सच्-चिद्-आनन्द-विग्रहः । अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥ इत्य् आदिभिः ।

अथो-शब्दः कार्त्स्न्ये । सूत्राभ्यां व्यतिहारो दर्शितः । विग्रह एवात्मा । आत्मैव विग्रह इति । तथा च श्रीय्-आदि-गम्येऽविचिन्त्येऽर्थे तर्कानवताराद् आत्म-विग्रहत्वं सिद्धम् । तेन परैव तत्र भक्तिः स्याद् इति । विज्ञानानन्दस्यात्मनो मूर्तत्वम् अलौकिक-वस्तुत्वात् श्रुति-मात्रात् प्रतिपत्तव्यम् । तन्-मूर्तत्वं खलु भक्ति-भावित्वेन हृदा ग्राह्यं गान्धर्व-वासितेन श्रोत्रेण राग-मूर्तित्वम् इव । अन्यथा विज्ञान-घनानन्द-घनेति श्रुतिर् व्याकुप्येत् । तद् एवं प्रत्यक्त्वादयो धर्माः श्रीइ-विग्रहस्यैव । तस्मिन्न् अन्यथा विभानं तु माययैव भवति।

एतत् त्वया न विज्ञेयं रूपवान् इति दृश्यते । इच्छन् मुहूर्तान् नश्येयम् ईशोऽहं जगतो गुरुः । मात्रात्म ह्य् एषा मया सृष्टा यन् मां पश्यअसि नारद । सर्व-भूत-गुणैर् युक्तं नैव त्वं ज्ञातुम् अर्हसि ॥ इति स्मृतेः ।

नश्येयम् अदृश्यः स्याम् इत्य् अर्थः ॥१७॥

र्प्च् : ८.३.२१, ८.३.२३, ७.९.४७, १०.२.३४-३७।

**ह्द्स् **: १०.१४.१-२

–ओ)०(ओ–

९। उपमाधिकरणम्

॥ ३.२.१८ ॥

अथ भजद्भ्यो भजनीयस्य भेदः प्रतिपाद्यते । इतरथा स्वाभेदावभासे स्वस्मिन्न् आराध्यत्व-बुद्धेर् अनुदयाद् भक्तिर् नोपजायेत । यद्यपि जीवान्यत्वं बहुकृत्वः प्रतिपादितं, तथापि प्रतिबिम्ब-शास्त्र-विभ्रान्तः कश्चित् तद्-अभेदम् आचक्षीत तत्-परिहाराय विद्यान्तरम् एतत् ।

बहवः सूर्यका यद्वत् सूर्यस्य सदृशा जले ।

एवम् एवात्मका लोके परात्म-सदृशा मता ॥ इत्य् आदि श्रूयते ।

इह भवति संशयः । आनन्द-चिन्-मूर्तिः परमात्मा पूर्वं निरूपितः । स एव किं कयाचिद् अवस्थया जीवः किं वा जीवाद् अन्योऽसाव् इति किं प्राप्तम् ? स एव जीव इति । असयिवाविद्यायां प्रतिबिम्बितस्य जीव-रूपत्वात् । प्रतिबिम्बो हि बिम्बान् नार्थान्तरम् अन्वय-व्यतिरेकाभ्यां तथा निश्चयात् । अत उक्तं—

दर्पणाभिहिता दृष्टिः परावृत्त्य स्वम् आननम् ।

व्याप्नुवत्याभिमुख्येन व्यत्यस्तं दर्शयेन् मुखम् ॥ इति ।

तस्मात् परमात्मैविद्या-योगाज् जीव इति प्राप्ते प्रतिविधत्ते—

अत एव चोपमा सूर्यकादिवत् ॥

यस्मात् परमात्मनोऽन्यो जीवोऽत एव सूर्यकादिवद् इति तस्योपमा श्रूयते । न ह्य् अभेदे बिम्ब-प्रतिबिम्ब-भावः । तथा सति वह्नि-च्छायया दाहः स्वङ्गाभासेन छेदश् च स्यात् । न च तस्मिन् सादृश्यं तस्य भेद-तन्त्रत्वात् । च-कारोऽन्यान् भेद-हेतून् समुच्चिनोति । तस्माज् जीव-विलक्षणः परमात्मेति ॥१८॥

र्प्च् : ११.१८.३१, १०.५४.४४, ३.२८.४३।3

**ह्द्स् **: ११.११.६, ६.१६.४६

॥ ३.२.१९ ॥

नन्व् अस्तु तयोपमया जीव-परयोर् भेदः । किन्तु चिद्-आभासत्वं जीवस्य ततः प्राप्तम् । यथाम्बुनि सूर्यस्याभासः सूर्यक उच्यते, तथाविद्यायां परस्याभासो जीव इति । एतन् निरस्यति—

अम्बुवद् अग्रहणात् तु न तथात्वम् ॥

तुर् अवधारणे । षष्ठ्य्-अन्तात् सप्तम्य्-अन्ताद् वा वतिः । अम्बुवद् बिम्ब-विप्रकृष्टस्योपाधेर् अग्रहणान् न तथात्वम् । परमात्मनो विभुत्वेन तद्-विदूर-पदार्थ-प्रसिद्धेर् उपमेय-कोटेर् उपमान-कोटि-तुल्यत्वं नेत्य् अर्थः । बिम्ब-विदूरे जलाद्य्-उपाधौ परिच्छिन्नस्य सूर्यादेर् आभासो गृह्यते, नैवं परमात्मनः तस्यापरिच्छेदात् । अतो न तथात्वम् इति वा, परमात्मनः प्रतिबिम्बो जीवो न भवति । अलोहितम् अच्छायम् इति श्रुतेः । किन्तु तद्वच् चेतन एव सः—नित्यो नित्यानां चेतनश् चेतनानाम् इति तदापत्तिः । न चात्र शब्दोऽपि दृष्टान्तः वैधर्म्यात् । तस्माद् विष्णोः प्रतिबिम्बो नेति ॥१९॥

र्प्च् :

**ह्द्स् **: ११.१.१४

॥ ३.२.२० ॥

अथ शास्त्रं सङ्गमयति—

वृद्धि-ह्रास-भाक्त्वम् अन्तर्भावाद् उभय-सामञ्जस्याद् एवम् ॥

प्रतिबिम्ब-शास्त्रेण मुख्यया वृत्त्या नायं दृष्टान्तः प्रयुज्यते, किन्तु गुण-वृत्त्यैव वृद्धि-ह्रास-भाक्त्वम् । साधर्म्यांशम् आश्रित्य उपलक्षणम् एतत् । कुतः ? अन्तर्भावात् । एतस्मिन्न् एवांशे शास्त्र-तात्पर्य-परिसमाप्तेर् इत्य् अर्थः । एवं सत्य् उभय-सामञ्जस्यात् । उपमानोपमेययोः सङ्गतेर् इत्य् अर्थः । अयं भावः—पूर्व-सूत्रे बिम्ब-प्रतिबिम्ब-भावस्य मुख्यस्य निरासात् किञ्चित् साधर्म्यम् आदाय प्रकृते तद्-भावः प्रकीर्त्यते । तच् चेत्थं बोध्यं—सूर्यो हि वृद्धि-भाक् जलाद्य्-उपाधि-धर्मैर् असम्पृक्तः स्वतन्त्रश् च तत्- प्रतिबिम्बाः सूर्यकास् तद्-ध्रास-भाजो जलाद्य्-उपाधि-धर्म-योजिनः परतन्त्राश् च भवन्त्य् एवं परमात्मा विभुः प्रकृटि-धर्मैर् असम्पृक्तः स्वन्तन्त्रश् च, तद्-अंशकाः जीवास् त्व् अणवः प्रकृति-धर्म-योगिनः पर-तन्त्राश् चेति । तस्माद् इयम् उपमा तद्-भिन्नत्व-तद्-अधीनत्व-तत्-सादृश्यैर् एव धर्मैः सिद्धा । न तूपाधि-प्रतिफलित-रूपाभासत्वेन धर्मेणेति । अत एव निरुपाधि-प्रतिबिम्बो जीव इत्य् आह पैङ्गि-श्रुतिः ।

सोपाधिर् अनुपाधिश् च प्रतिबिम्बो द्विधेष्यते । जीव ईशस्यानुपाधिर् इन्द्रचापो यथा रवेः ॥ इति ॥२०॥

र्प्च् :

**ह्द्स् **: ३.७.११

॥ ३.२.२१ ॥
दर्शनाच् च ॥

सिंहो देवदत्त इत्य् आदयः प्रयोगा विवक्षित-साधर्म्यांशम् आश्रित्य लोके प्रवृत्ता दृश्यन्ते । तस्माच् च गौण्यैव वृत्त्या शास्त्र-सङ्गतिर् इति भावः ॥२१॥

र्प्च् :

**ह्द्स् **: ३.७.१६

॥ ३.२.२२ ॥

ननु नैतद् उपपद्यते परमात्मवच् चेतनो जीव इति, किन्तु तद्-आभास एव सः । बृहद्-आरण्यके द्वे वाव [बृ।आ।उ। २.३.१] इत्य् आदिना तद्-अन्य-वस्तु-मात्र-प्रतिषेधात् । तथा हि—द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च इत्य् उपक्रम्य, द्वैराश्येन विभक्तानि पञ्च-भूतानि ब्रह्मणो रूपत्वेन परामृश्य, तस्य हैतस्य पुरुषस्य रूपं, यथा माहारजनं वासो यथा पाण्ड्व्-आविकं यथेन्द्रगोपो यथाऽअग्न्य्-अर्चिर् यथा पुण्डरीकं यथा सकृद्-विद्युत्तम् । सकृद् विद्युत्तेव ह वा अस्य श्रीर् भवति य एवं वेद [बृ।आ।उ। २.३.६] इत्य् अनेन पुनः पुरुष-शब्दोदितस्य तस्य माहारजनादीनि रूपाणि दर्शय्तिवेदम् आम्नायते—अथात आदेशो नेति नेति । न ह्य् एतस्माद् इति । नेत्य् अन्यत् परम् अस्ति । अथ नाम-धेयं सत्यस्य सत्यम् इति । प्राणा वै सत्यम् । तेषाम् एष सत्यम् इति । अस्यार्थः—अथ सप्रपञ्च-मूर्तामूर्तादि-रूप-निरूपणानन्तरं यस्मात् तत्-परिज्ञानान् निरतिशयं श्रेयो नास्ति, अतो नेति नेति इत्य् आदेशः । नेति नेतीत्य् उपदेश्यमानं ब्रह्मैव बोध्यम् इत्य् अर्थः । तत्र वासना-राशि-भूत-राश्योर् जड-चेतनयोर् वा तद्-अन्ययोः प्रतिषेधाय वीप्सा । आदेशार्थम् एवाह—न हीति । एतस्माद् ब्रह्मणोऽन्यन् न ह्य् अस्तीति नेतीत्य् उच्यते ।

ननु प्रपञ्चवद् ब्रह्मापि न स्यात् । नेत्य् आह—अन्यद् दृश्यात् प्रपञ्चाद् विलक्षणं परं स्वरूप्-भ्रमावधि-भूतं सन्-मात्रं ब्रह्म-स्वरूपम् अस्तीति । तथा च नेतीति ब्रह्मान्य-वस्तु-मात्र-निषेधात् तस्य भिन्नस् तद्वच् चेतनश् च जीव इति नोपयुक्ता भणितिर् इति तु ब्रह्मैवाविद्यायां प्रतिबिम्बितं जीव-रूपम् इति युज्यते । यत् तु जीव-परौ द्वाव् आत्मानौ भवतः तयोर् भेदे कारणम् अणुत्व-विभुत्वादि-धर्म-जातम् इत्य् उक्तं तत् किल घटाकाश-महाकाश-गतम् अल्पत्व-विभुत्वादिकम् इव तयोर् भेदाय नालं कल्पितत्वाद् इति चेत् तत्राह—

प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥

न ह्य् एषा श्रुतिर् निर्विशेषम् एकम् एव ब्रह्मेति प्रतिपादयन्ती तद् अन्यद् वस्तु-मात्रं प्रतिषेधति । किं तर्हि रूप-विशिष्टं तद् ब्रुवन्टि प्रकृतैतावत्त्वं प्रतिषेधति । द्वे वाव [बृ।आ।उ २.४.१] इत्य् आदिना । यानि रूपाणि मूर्तामूर्तादीनि प्रकृतानि तैर् यद् ब्रह्मण एतावत्त्वम् इयत्ता तत् प्रत्याख्याति, न तु प्रकृतानि रूपाणीति । ततः प्रतिषेधानन्तरं भूयः प्रचुरं तस्य सत्य-नामादिकं रूपं ब्रवीति च । ततश् चायम् आदेश-वाक्यार्थः ।

अथ मूर्तादि-रूप-निरूपणानन्तरम् । यस्माद् अपरिमित-रूपं ब्रह्म, अतो नेति नेतीत्य् आदेशः । इति-शब्दस्य समाप्त्य्-अर्थकत्वात् । इति न पूर्वोक्त-मूर्तादि-लक्षणम् इयत्त्वावद् एव ब्रह्मणो रूपं नेत्य् अर्थः, किन्तु नेति स सत्य-नामादिकम् अनीयद् रूपम् अस्तीति । एतम् अर्थ्ं श्रुतिर् एव व्याचष्टे । न ह्य् एतस्माद् [बृ।आ।उ २.३.६] इत्य् आदिना ।

अस्यार्थः—एतस्मान् मूर्तादि-लक्षणाद् रूपात् परम् अन्यत् सत्य-नामादि-रूपम् इति इयद् एव न वाच्यम् । किं तर्हि ? नेति । तेन रूपान्तराणाम् उपलक्षणाद् अनियद् एव तद् वाच्यम् इत्य् अर्थः । तद् एव दिक्-प्रदर्शनार्थम् आह—अथ नाम-धेयम् इति, सत्यस्य सत्यम् इति । यन् नाम तच् च ब्रह्मणो रूपं ब्रवीति । तस्य निरुक्तिः प्राणो वै सत्यम् इति । प्राणाः प्राणिनः । रूपाण्य् अर विशेषाः । इह हि प्राकृताप्राकृतानन्त-विशेषण-वैशिष्ट्यं ब्रह्मणः प्रतिपाद्यते । न तु तद् अन्यत् वस्तु-मात्रं प्रतिषिध्यते । तत्र मूर्तामूर्तानि रूपाणि प्राकृतानि । माहारजनादीनि त्व् अप्राक्रियानीति बोध्यम् । प्राण-शब्दितानां जीवानां सत्य-शब्द-वाच्यत्वम् । खादिवत् स्वरूपान्यथाभावात्मक-परिणामाभावात् तेभ्योऽपि भाव्णोऽपि सत्यत्वं, तद्वज् ज्ञान-सङ्कोच-विकाशात्मकस्य परिणामस्य तस्मिन्न् अभावात् । तस्मान् नित्य-चैतन्यात्मको जीवस् तद्-विलक्षणोऽनन्त-कल्याण-गुण-गणः पूर्वात्मेत्य् उपपन्ना तस्मिन् भक्तिर् इति ।

इह रूप-मात्र-निषेधे श्रुत्य्-अभिमते सति माहारजनादि-सदृशं रूपम् अलोक-सिद्धं स्वयम् उपदिश्य पुनर् निषेध-कारिण्यास् तस्या उन्मत्त-प्रलपितापत्तिः । सूत्रकारोऽप्य् एतावत्त्वम् इति प्रयुञ्जानोऽसमीक्ष्य-कारितायै कल्प्यते । एतद्-रूपं प्रतिषेधतीत्य् एव सूत्रयेत् । तस्माद् यथोक्तम् एव साधीयः ॥२२॥

र्प्च् : १०.२.२६, १०.१४.७, १०.८७.३७, ८.३.२४, ११.३.३६-३७, १२.६.२७, १०.३.२५

**ह्द्स् **: ५.८.२६-२७, १०.२.२६ (सत्यस्य सत्यम्)

–ओ)०(ओ–

१०। अव्यक्ताधिकरणम्

॥ ३.२.२३ ॥

अथ प्रत्यग्-रूपत्वं प्रतिपाद्यते । अन्यथा घटादिवत् सर्व-सौलभ्ये भक्तिस् तस्मिन् न स्यात् । तथा हि सच्-चिद्-आनन्द-रूपायेत्य् आदि श्रूयते । तत्र विग्रहात्मकं परं ब्रह्म ग्राह्यं प्रत्यग् वेति संशये सुरासुर-मनुष्य-प्रत्यक्षत्वात् ग्राह्यम् इति प्राप्ते—

तद् अव्यक्तम् आह हि ॥

तद् ब्रह्म स्वतो व्यक्तं प्रत्यग् एव हि यस्मात्—न सदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् [क।उ। २.३.९] इति कठ-श्रुतिस् तथाह । अगृह्यो न हि गृह्यते [बृ।आ।उ ३.९.२६] इति श्रुत्य्-अन्तरं च । अव्यक्तोऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् [गीता ८.२१] इति स्मृतिश् च ॥२३॥

र्प्च् : ६.३.१६, १०.१०.३२

ह्द्स् : ८.५.२५

–ओ)०(ओ–

११। संराधनाधिकरणम्

॥ ३.२.२४ ॥

अथ प्रतीचोऽपि तस्य ज्ञान-भक्ति-लभ्यत्वं दर्शयति । सर्वथा दौर्लभ्ये नैराश्येन भक्तेर् अनुदयः । तथा हि श्रूयते कैवल्योपनिषदि—श्रद्धा-भक्ति-ध्यान-योगाद् अवैति इति । अत्र श्रद्धालुर् भक्तिमान् हरिं ध्यायन् प्राप्नोतीति प्रतीयते । इह मानसेन प्रत्यक्षेण ग्राह्यो हरिर् उत चक्षुर्-आदिना वेति वीक्षायां मनसैवेदम् आप्तत्वम्, मनसैवानुद्रष्टव्यम् इति सावधारणाद् बृहद्-आरण्यक-वाक्यात् मानसेनैव तेन ग्राह्य इति प्राप्ते—

**अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ **

अपिर् अत्र गर्हायाम् । गर्हितोऽयं पूर्व-पक्षः । संराधने सम्यग् भक्तौ सत्यां चाक्षुषादिना प्रत्यक्षेण ग्राह्योऽसौ भवति । कुतः ? श्रुति-स्मृतिभ्याम् इत्य् अर्थः ।

पराञ्चि खानि व्यतृणत् स्वयम्भूस् तस्मात् परां पश्यति नान्तरात्मन् । कश्चिद् धीरः प्रत्यग् आत्मानम् ऐक्षद् आवृत्त-चक्षुर् अमृतत्वम् इच्छन् ॥ [क।उ। २.१.१] इति काठके । ज्ञान-प्रसादेन विशुद्ध-सत्त्वस् ततस् तु तं पश्यते निष्कलं ध्यायमानः ॥ [मु।उ। ३.१.८] इति मुण्डाके च विद्वद्-भक्त-दृश्यत्व-श्रवणात् । नाहं वेदैर् न तपसा न दानेन न चेज्यया । शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा ॥ भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ [गीता ११.५३-५४] इत्य् आदि स्मरणाच् च ।

तस्मात् सम्यग्-भक्त्या ग्राह्यः श्री-हरिर् इति सिद्धम् । चक्षुर्-आदीनि तु तया भावितानि । अतस् तैः स वेद्यः । एवं सति एव-कारोऽयोग-व्यवच्छेदी भवेत् ॥२४॥

र्प्च् : गीता १८.६५-६६, १८.६१-६२, भा। ७.७.४३-४४, ३.२९.११-१२, भक्ति-रसायन १.३, गीता ११.५३-५४, भा। ११.१४.१९-२०, १०.८६.४६-४७, ३.९.११, ७.५.१८-१९, पद्या। _श्री-विष्णोः श्रवणे, _भा। १२.११.७, ९.४.४६-४९, गीता ४.१७-१८। _अनिच्छैव परं पदम् अक्रियैव परा पूजा । अचिन्तैव परं ध्यानं मौनम् एव परं तपः ॥ _(शङ्कर-धृतः)

ह्द्स् : ३.९.११

॥ ३.२.२५ ॥4

**प्रकाशादिवच् चावैशेष्यात् ॥ **

नेत्य् अनुवर्तते । प्रकाशो वह्निः स यथा सूक्ष्म-रूपेणाव्यक्तः, स्थूल-रूपेण तु दृश्यते एवम् ईश्वर इति चेत्, न । कुतः ? अग्निवत् सौक्ष्म्य-स्थौल्य-विशेषाभावात्, अस्थूलम् अनण्व् अह्रस्वम् [बृ।आ।उ ३.८.८] इति श्रुतेः ।

स्थूल-सूक्ष्म-विशेषोऽत्र न कश्चित् परमेश्वरे । सर्वत्रैव प्रकाशोऽसौ सर्व-रूपेष्व् अजो यतः ॥ इति स्मृतेश्5 च ॥२५॥

र्प्च् : १२.४.२९, ११.२८.३४-३५, ११.२०.२९-३०, ११.२५.२९-३५, ११.२.३४।

ह्द्स् : ३.९.३

॥ ३.२.२६ ॥

ननु सम्यग् भक्त्या साक्षात्कृतिर् अनुपपन्ना । तद्वत्स्व् अपि तद्-अदर्शनाद् इत्य् आशङ्क्याह—

प्रकाशश् च कर्मण्य् अभ्यासात् ॥

शङ्का-च्छेदाय च-शब्दः । तद्-ध्यान-निर्मिते कर्मण्य् अर्चनादिकेऽभ्यासात् तत्-प्रकाशो भवेद् एव । ध्यान-निर्मथनाभ्यासाद् देवं पश्येन् निगूढवत् इति ब्रह्मोपनिषदि6 तथा दर्शनात् । अभ्यासेन स्नेहताम् आपद्यते । ततो दर्शनम् ।

न तम् आराधयित्वापि कश्चिद् व्यक्तीकरिष्यति । नित्याव्यक्तो यतो देवः परमात्मआ सनातनः ॥ इति7

अत्र तु स्नेह-विहीनम् आराधनं बोद्यम् ॥२६॥

र्प्च् : पूर्व-सूत्रं द्रष्टव्यम्।

ह्द्स् : ३.९.४

॥ ३.२.२७ ॥

ननु प्रत्यङ्ङ् ईश्वरस् तस्य पुनर् अभिव्यक्तिर् इति इदम् अभिधानं विरुद्धम् । साक्षात्कार-साधनोक्ति-वैयर्थ्यात् प्रत्यक्त्व-प्रहाणाच् चेत्, तत्राह—

अतोऽनन्तेन तथा हि लिङ्गम् ॥

अतः प्रत्य्क्त्वे ध्यातृ-गोचरत्वे च प्रमाण-लाभाद् अनन्तेनापरिच्छिन्नेन प्रतीचापि भगवता भक्ति-प्रसनेन स्व-भक्तेषु स्व-स्वरूपम् अभिव्यज्यते निजाचिन्त्य-कृपा-शक्ति-योगाद् इति स्वीकारणम् । इदं कुतः ? तत्राह—तथेति । विज्ञान-घन आनन्द-घनः सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [गो।ता।उ। २.७८] इत्य् अथर्व-श्रुति-लिङ्गाद् इत्य् अर्थः । कृपयैव भजत्सु व्यक्तिः ।

नित्याव्यक्तोऽपि भगवान् ईक्षते निज-शक्तितः । ताम् ऋते परमात्मानं कः पश्येतामितं प्रभुम् ॥ इति स्मृतेः8

स्वयं चाप्य् एतद् व्यञ्जितम्—

अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः । परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम् ॥ [गीता ७.२४] इति ।

प्रेम्णा गोचरेऽपि प्रत्यक्त्वं न हीयते । तस्य स्वरूप-शक्ति-वृत्तित्वात् । प्रेम-विहीनेषु त्व् आभास-रूपेणैव व्यक्तिः । नाहं प्रकाशः सर्वस्य योग-माया-समावृतः [गीता ७.२५] इति तद्-उक्तेः । अत एव परमानन्दादि-रूपस्य तस्य दारुणत्वादिनावभासः । तथा च प्रेमेतर-करणाग्राह्यत्वम् एव प्रत्यक्त्वम् ॥२७॥

र्प्च् :** **रा।ता।उ। १.७ (चिन्मयस्याद्वितीयस्य निष्फलस्याशरीरिणः । उपासकानां कार्यार्थं ब्रह्मणो रूप-कल्पना ॥), भा। ३.९.११, १०.८७.१४, १०.८७.४६, २.७.४०, ८.५.१८, ८.५.३९, १०.६.७, १०.६९.११-२०, १०.६९.४२, बृ।आ।उ। ५.१.१, भा। १०.१४.२८, ६.४.२८-२९, ८.५.३८।

ह्द्स् : ३.९.५

१२। अहिकुण्डलाधिकरणम्

॥ ३.२.२८ ॥

अथ स्वरूपाद् गुणनाम-भेदः प्रतिपाद्यते । भेदे हि तस्मात् तेषां गौण्यात् तद्-भक्तेर् अपि तत् स्यान् न चैवम् अस्ति तेषु तस्याः प्राधान्येनानुभवात् । विज्ञानम् आनन्दं ब्रह्म [बृ।आ।उ ३.९.२८], यः सर्वज्ञः सर्ववित् [मु।उ। १.१.९, २.२.७], आनन्दं ब्रह्मणो विद्वान् [तै।उ। २.२.९] इत्य् आदीनि वाक्यानि श्रूयन्ते । तत्र संशयः—भजनीयं ब्रह्म ज्ञानानन्दो ज्ञानानन्दि वेएति । द्विविध-वाक्य-दृष्टेर् अनिर्णयेन भाव्यम् इति प्राप्ते—

उभय-व्यपदेशात् त्व् अहि-कुण्डलवत् ॥

ज्ञानानन्द-स्वरूपस्य ब्रह्मणो ज्ञानानन्दो धर्मत्वेन मन्तव्यः अहि-कुण्डलवत् । कुण्डलात्मनोऽप्य् अहेर् यथा कुण्डलं विशेषणत्वेन मन्यते तद्वत् । कुत एतत् तत्राह उभयेति । उक्त-श्रुतिषूभयाभिधानाद् इत्य् अर्थः । तु-शब्देन श्रुत्य्-एक-गम्यता दर्शिता । अविचिन्त्यत्वाद् इत्थं भाति । न च द्विविध-वाक्योपलम्भात् पाक्षिकं स्वरूपं, न वा स्वगत-भेदवद् इति ॥२८॥

र्प्च् : २.१.३९, ४.९.१६, १०.३.१४, १.५.२०, ११.२.३९, २.३.१०।

ह्द्स् : ४.११.३०, ३.२.१२

॥ ३.२.२९ ॥
प्रकाशाश्रयवद् वा तेजस्त्वात् ॥

ब्रह्मणस् तेजस्त्वाच् चैतन्य-स्वरूपत्वात् प्रकाशाश्रयवद् वा तस्य निर्णयः स्यात् । प्रकाशात्मा रविर् यथा प्रकाशाश्रयो भवत्य् एवं ज्ञानात्मा हरिर् ज्ञानाश्रय इत्य् अर्थः । अविद्या-विरोधि तिमिर-विरोधि च वस्तु तेजः कथ्यते ॥२९॥

र्प्च् : गीता ९.४-५, ७.९.२९, ८.३.३, ८.३.२३-२४, ६.४.२३, ६.९.३९।

ह्द्स् : १०.३.२४

॥ ३.२.३० ॥
पूर्ववद् वा ॥

यथा पूर्वः काल इत्य् एक एवावच्छेद्योऽवच्छेदकश् च प्रतीयते तद्वज् ज्ञानानन्दोऽर्थो धर्मो धर्मी च प्रत्येतव्यः आनन्देन त्व् अभिन्नेन व्यवहारः प्रकाशवत् । पूर्ववद् वा यथा कालः स्वावच्छेदकतां व्रजेद् इति यथोत्तरं दृष्टान्ताः सूक्ष्माः ॥३०॥

र्प्च् : १०.१४.५६-५७, ब्रह्म-पुराण (आनन्देन त्वद्-अभिन्नेन व्यवहारः प्रकाशवत् । पूर्ववत् वा यथा-कालः स्वावच्छेदकतां व्रजेत् ॥)

ह्द्स् : १०.३.१३

॥ ३.२.३१ ॥
प्रतिषेधाच् च ॥

चोऽवधारणे ।

मनसैवेदम् आप्तव्यं नेह नानाऽस्ति किञ्चन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ [क।उ। २.१.११] यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस् तान् एवानुविधावति ॥ [क।उ। २.१.१४] इति कठ-श्रुतौ । निर्दोष-पूर्ण-गुण-विग्रह आत्म-तन्त्रो निश्चेतनात्मक-शरीर-गुणैश् च हीनः । आनन्द-मात्र-कर-पाद-मुखोदरादिः सर्वत्र च स्व-गत-भेद-विवर्जितात्मा ॥ इत्य् आदि स्मृतौ च ।

गुण-गुणि-भेद-निषेधात् स्वरूपात् गुणा न भिद्यन्ते । अत एव ज्ञानादीनां धर्माणां भगवच्-छब्द-वाच्यता स्मर्यते—

ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः । भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ इति ।

तथा चैकस्यैव द्वेधा भणितिर् अम्बु-वीचिवत् विशेषाद् भवति । एवं रसावस्थस्य तस्य रसानन्दश् च स्वोल्लास-वपुर् अभ्युपेयः । नित्यश् चैषः कर्म-नित्यत्व-विनिर्णयात् । विशेषस् तु भेद-प्रतिनिधिर् भेदाभावेऽपि भेद-कार्यस्य धर्म-धर्मि-भावादेर् व्यवहारस्य निर्वर्तकः । अन्यथा सत्ता सती कालः सर्वदास्ति, देशः सर्वत्रेत्य् आद्य् अबाधित-व्यवहारानुपपत्तिः । न च सत्ता सतीत्य् आदि बुद्धिर् भ्रमः, सन् घटः इत्य् आदिवद् अबाधात् । न चारोपः सिंहो देवदत्तो नेतिवत् । सत्ता सती नेति कदाप्य् अव्यवहारात् । न च सत्ताद्य्-अन्तराभावेऽपि स्वभावाद् एव तद्-व्यवहारः । तस्यैवात्र तच्-छब्देनोक्तेः । तत्-सिद्धस् त्व् अर्थापत्तेर् यथोदकम् इति वाक्य-बलाच् च बोध्या । इह भगवद्-गुणान् अभिधाय तद्-भेदः प्रतिषिध्यते । न हि भेद-प्रतिनिधेस् तस्याप्य् अभावे गुण-गुणि-भावो गुण-बहुत्वे युज्येत । स च वस्त्व्-अभिन्नः स्व-निर्वाहकश् चेति नानवस्था । तथात्वं तु तस्य धर्मि-ग्राहक-मान-सिद्धम् ॥३१॥

र्प्च् :** **१०.८७.३७।

ह्द्स् : १०.२७.४, १०.२७.११

–ओ)०(ओ–

१३। पराधिकरणम्

॥ ३.२.३२ ॥

इदानीं परानन्दादित्वं श्री-हरेर् निरूप्यते । जीवानन्दादि-साम्ये तत्र भक्ते अनुदयः । तथा हि धर्म-बोधकानि वाक्यानि विषयः । ब्राह्म्यम् आनन्दादि जैवानन्दादेर् विलक्षणं न वेति सन्देहे लौकिकानन्दादि-पद-वाच्यत्वाद् अविलक्षणं तत् । न हि घट-पद-वाच्यं घट-विलक्षणं स्याद् इति प्राप्ते—

परम् अतः सेतून्मान-सम्बन्ध-भेद-व्यपदेशेभ्यः ॥

अतो जैवानन्दादेर् ब्रह्मानन्दादि परं जात्या परिमाणेन चोत्कृष्टम् । कुतः ? सेत्व् इत्य् आदेः । एष सेतुर् विधृतिर् [छा।उ। ८.४.१], य एष आनन्दः परस्य इति सेतुत्वस्य व्यपदेशात् । यतो वाचो निवर्तन्ते [तै।उ। २.८] इत्य् उन्मानस्य, एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति [बृ।आ।उ ४.३.३२] इति सम्बन्धस्य ।

अन्यज् ज्ञानं तु जीवानाम् अन्यज् ज्ञानं परस्य च । नित्यानन्दाव्ययं पूर्णं परं ज्ञानं विधीयते ॥ इति भेदस्य च ।

न हि सेतुत्वादिकं लौकिकानन्दादाव् अस्ति ॥३२॥

र्प्च् : ४.२.३०, १०.३.२१, ११.१४.१५, ९.४.४६।

ह्द्स् : १०.१४.२३

॥ ३.२.३३ ॥

ननु घट-पद-वाच्यं घट-विलक्षणं नेत्य् उक्तं, तत्राह—

**सामान्यात् तु ॥ **

तु-शब्दः शाङ्का-च्छेदाय । यथैक एव घट-शब्दो नाना-विधेषु घटेषु घटत्व-सामान्यम् आदाय वर्तते तथानन्दादि-शब्दोऽप्य् आनन्दत्वादि-सामान्यम् आदाय लौकिकालौकिकेष्व् आनन्दादिष्व् इति नैतावता व्यक्ति-सादृश्यं सर्वथा । अत एव,

पर-ज्ञान-मयोऽसद्भिर् नाम-जात्यादिभिर् विभुः । न योगवान् न युक्तोऽभून् नैव पार्थिव योक्ष्यति ॥

इति जीव-ज्ञानात् परं यज् ज्ञानं तन्-मय इत्य् उक्तम् ॥३३॥

र्प्च् : ४.२.३०।

ह्द्स् : १०.८७.३५, १०.४७.१८

॥ ३.२.३४ ॥

ननु जीव-जडात्मकात् प्रपञ्चाद् विलक्षणं चेद् धर्मि-भूतं ब्रह्म तर्हि सर्वं खल्व् इदं ब्रह्म तज्जलान् इति शान्त उपासीत [छा।उ। ३.१४.१] इत्य् उपदेशः कथं सङ्गच्छते ? तत्राह—

बुद्ध्य्-अर्थः पादवत् ॥

सोऽयम् उपदेशो बुद्ध्य्-अर्थः । सर्वत्र तदीयत्व-ज्ञानार्थः पादवत् । पादोऽस्य विश्वा भूतानि [ऋ।वे। १०.९०.३] इत्य् अत्र यथा विश्वस्य भगवत्-पादत्वोपदेशस् तद्वत् । एवं हि द्वेष-निहीनं मनस् तत्-प्रवणं भवति । न चैवं राग-प्राप्तिर् निहीनत्व-बुद्धेर् बाधकत्वात् ॥३४॥

र्प्च् : २.२.१३-१४, ३.२८.२०-३५

ह्द्स् : १.६.१९

–ओ)०(ओ–

१४। स्थान-विशेषाधिकरणम्

॥ ३.२.३५ ॥

अथ भक्ति-वैचित्र्याय भजनीयस्य श्री-हरेर् भान-वैचित्र्यं निरूप्यते । इतरथा भकि-वैचित्र्यानुपपत्तिः । भान-वैचित्र्यं तु स्थानानादित्वाद् अनादि-सिद्धम् । एकोऽपि सन् बहुधा यो विभाति इत्य् आदि श्रुतिम् आश्रित्य न स्थानतोऽपीत्य् आदि नाना-स्थानेषु स्थानी-भूतम् एकं ब्रह्म प्रकाशत इत्य् उक्तम् । अथ तेषु तत्-प्रकाशस्य तारतम्यं स्यान् न वेति वीक्षायां वस्त्व्-ऐक्यात् समान-शब्द-बुद्धि-बोध्यत्वाच् च न, इति प्राप्ते—

**स्थान-विशेषात् प्रकाशादिवत् ॥ **

यद्यप्य् एकम् एव ब्रह्म-स्वरूपं तथापि तत्-प्राकाट्य-स्थानानां तेषां धाम्नां भक्तानां च विशेषाद् ऐश्वर्य-माधुर्य-कृताच् छान्ति-दास्य-सख्यादि-कृताच् च तारतम्यात् तत्-प्राकट्यम् अपि तारतम्य-भाक् स्यात् प्रकाशादिवत् । यथा प्रकाशो द्वैपः स्फाटिकेषु कौरुबिन्देषु च मन्दिरेषु चाक्चिक्यारुण्याभ्यां तारतम्य-भाक्, यथा चैक-विधोऽपि शब्दः कम्बु-मृदङ्ग-वंश-प्रभृतिषु मन्द्रत्व-मधुरत्वादि-विशेष-भाक् तद्वद् इत्य् अर्थः । अयं भावः—यस्मिन् स्थाने भगवतः पारमैश्वर्याविष्कारस् तत्र तस्य भक्तिर् विधिना प्रवर्तते तया तीव्रः प्रकाशः स्फाटिक-निकेत-दीपवत् यत्र सत्य् अपि पारमैश्वर्ये माधुर्याविष्कारस् तत्र खलु रुच्या प्रवर्तते, तया मधुरः प्रकाशः कौरुबिन्द-निकेत-दीपवद् इति धाम्नां तच्-चिन्तकानां भक्तेश् च द्वैविध्यं साधितम् ॥३५॥

र्प्च् : ६.४.२८, ८.३.८, ३.२४.३०।

ह्द्स् : ३.२४.३१, १०.४८.२०

॥ ३.२.३६ ॥
उपपत्तेश् च ॥

एवं सति यथा क्रतुर् इत्य् आदि वाक्यम् उपपद्यए नान्यथा । तथा चैकस्य भाव-तारतम्यं स्थान-तारतम्याद् युक्तम् ॥३६॥

र्प्च् : २.७.४१, ३.२.२६, १०.१४.२८।

ह्द्स् : १०.१४.२

–ओ)०(ओ–

१५। अन्य-प्रतिषेधाधिकरणम्

॥ ३.२.३७ ॥

अथ भगवतः सर्व-परत्वम् उच्यते । ततोऽन्यस्य परत्वे तत्र भक्तिर् नोद्भवेत् । तथा हि श्वेताश्वतरैर् वेदाहम् एतम् [श्वे।उ। ३.८] इत्य् आदिना सर्वतो वरिष्ठं ब्रह्म-रूपं निरूप्य ततो यद् उत्तरतरम् इत्य् आदिना तस्माद् अपि परं वस्त्व् अस्तीति दर्शितम् । तत्र संशयः—उपास्याद् ब्रह्मणः परं वस्त्व् अस्ति न वेति । शब्द-स्वारास्याद् अस्तीति प्राप्ते—

**तथान्य-प्रतिषेधात् ॥ **

यथा ब्रह्मैव सर्वस्माच् छ्रेष्ठं न ततोऽन्यत् किञ्चित् । कुतः ? अन्येति ।

यस्मात् परं नापरम् अस्ति किञ्चिद् यस्मान् नाणीयो न ज्यायोऽस्ति कश्चित् [श्वे।उ। ३.९] इति ।

तैर् एव तद् अन्यस्य श्रेष्ठस्य निराकरणात् । अयम् अर्थः—

वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्तात् । तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यतेऽयनाय ॥ [श्वे।उ। ३.८]

इति महा-पुरुष-ज्ञानम् अमृतस्य पन्थास् ततो नान्योऽस्तीत्य् उपदिश्य तत्-प्रतिपादनाय यस्मात् परं नापरम् अस्तीत्य् आदिना तस्यैव परतरत्वं तद्-अन्यस्य तद् असम्भवं चोपपाद्य,

ततो यद् उत्तरतरं तद् अरूपम् अनामयम् । य एतद् विदुर् अमृतास् ते भवन्ति अथेतरे दुःखम् एवापि यन्ति ॥ [श्वे।उ। ३.१०]

इति प्राग् उक्तम् एव निगमयन्ति, न तु ततोऽपि श्रेष्ठं वस्त्व् अस्तीति वदन्ति । तथा सति तेषां मृषाभासितापत्तेः । एवं च स्वयम् आह—मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय [गीता ७.७] इति ॥३७॥

र्प्च् : १०.१४.१२, १०.१४.२२, १०.८७.३७, ११.१६.११, १०.१६.३९, १०.३.१७, ११.१४.१५, ९.४.४६, ११.१४.१५।

ह्द्स् : १०.८७.१५, २.९.३२

–ओ)०(ओ–

१६। सर्व-गतत्वाधिकरणम्

॥ ३.२.३८ ॥

अथोपास्य-सान्निध्यं वक्तुं तस्य व्याप्तिर् निरूप्यते । अन्यथा सन्निहिते तस्मिन्न् अनुत्साहाद् भक्तेः शैथिल्यं स्यात् । एको वशी सर्वगः कृष्ण ईड्यः [गो।ता।उ। १.१९] इत्य् अदि श्रूयते । तत्र ध्येयो हरिः परिच्छिन्नो व्यापको वेति संशये मध्यमाकारतयानुभवात् प्रपञ्चान्यस्य तस्य तद्-व्यावृत्तत्वावश्यम्-भावाच् च परिच्छिन्न इति प्राप्ते—

**अनेन सर्व-गतत्वम् आयाम-शब्दादिभ्यः ॥ **

अनेन परेण पुंसा मधमाकारेणापि सर्वगतत्वम् अवाप्तम् । मध्यमाकार एव सर्व-व्यापीति । कुतः ? आयामेति । आयाम-शब्दो व्याप्ति-वाची । आदि-शब्दाद् अविचिन्त्यत्व-धर्म-योगस् तद्-बोधिका युक्तिश् च । तत्र एको वशी सर्वगः कृष्ण ईड्यः [गो।ता।उ। १.१९] इत्य् उत्तर-वाक्यात्,

यच् च किञ्चित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः ॥

इति तैत्तिरीय-वाक्याच्9 च मध्यमस्यैव विभुत्वम् । मध्यमाकारस्यैव मम सर्वस्मात् परस्य सर्व-व्यापित्वम् अचिन्त्यैश्वर्य-शक्ति-योगाद् इति स्वयम् उक्तम् ।

मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः । न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । [गीता ९.४-५] इति ।

न च प्रपञ्चान्यस्य तत्-प्रदेश-वृत्तेः परिच्छेदः । बहिर् अन्तश् च व्याप्ति-श्रुतेः । अतस् तिलेषु तैल्ं दधिनीव सर्पिर् इति निदर्शितम् । तस्माद् उपास्यो हरिः सर्वग इति सिद्धम् । निरूपितं चेत्थं दामोदर-चरिते । तादृशस्यापि तथात्वे युक्तिश् च पुराभिहिता । अर्भकौकस्त्वाद् इत्य् अस्य व्याख्याने ॥३८॥

र्प्च् : १०.१.७, १०.७.३५-३६, १०.९.१३-१४, १०.४७.२९, १०.८७.४२।

ह्द्स् : १०.१४.५५-५६

–ओ)०(ओ–

१७। फलाधिकरणम्

॥ ३.२.३९ ॥

अथ सर्व-फलदत्वं तस्योच्यते । इतरथा-दातरि किञ्चिद् दातरि वा तस्मिन् कार्पण्याद् उपस्फुरणेन भक्तेर् अनुदयः स्यात् । तथा हि, पुण्येन पुण्यं लोकं नयति [प्र।उ। ३.७] इति श्रुतं बृहद्-आरण्यके । तत्र स्वर्गादि-फलं योगादेः परेशाद् वेति वीक्षायाम् अन्वय-व्यतिरेक-सिद्धे यागादेर् एव तत् फलम् इति प्राप्ते—

फलम् अत उपपत्तेः ॥

स्वर्गादि-रूपं यागादि-फलम् अतः परेशाद् एव । कुतः ? उपपत्तेः । तस्यैव नित्यस्य सर्वज्ञस्य सर्व-शक्तेः महोदरस्य यागादिनाराधितस्य कालान्तरित-तत्-तत्-फल-प्रदत्वम् उपपद्यते । न तु जडस्य क्षण-ध्वंसिनः कर्मण इत्य् अर्थः ॥३९॥

र्प्च् : १०.६.३९, ८.३.१९, ७.९.२६, ३.१३.४८, १०.८०.८, ६.१६.३०, १०.४८.२२, १०.६०.३७, ११.१५.३५।

ह्द्स् : २.३.१०, २.४.१७

॥ ३.२.४० ॥

अत्र प्रमाणम् आह—

श्रुतत्वाच् च ॥

विज्ञानम् आनन्दं ब्रह्म रातिर् दातुः परायणम् [बृ।आ।उ ३.९.२८], स वा एष महान् अज आत्मा अन्नादो वसुदानः [बृ।आ।उ ४.४.२४] इति तत्रैवाभ्युदय-फल-प्रदत्वं श्रूयते । दातुर् यजमानस्य । रातिः फल-प्रदम् ॥४०॥

र्प्च् : —

ह्द्स् : ८.२३.१५, ८.२३.१९, ३.२.३३ (अहो बकीयम्)

॥ ३.२.४१ ॥

मतान्तरम् आह—

**धर्मं जैमिनिर् अत एव ॥ **

अतः परेशाद् एव धर्मं जैमिनिर् मन्यते । यस्मात् फलं तत्-कर्मैवेश्वराद् भवति, एष एव साधु कर्म कारयति [कौ।उ। ३.८] इत्य् आदि श्रुतेः । तथा चान्वय-व्यतिरेकाभ्यां कर्मण एव फलार्पकत्वे सिद्धे न तद् ईश्वरस्य स्वीकार्यम् । तस्य कर्म-जनकत्वेनोपक्षीण-व्यापारत्वात् ।

ननु कर्मणः क्षण-विनाशिनः कालान्तर-भावि-फलानुपपत्तिः । अभावाद् भावोत्पत्त्य्-असम्भवाद् इति चेत्, न । विनश्यद् अपि कर्म स्व-कालम् एवापूर्वम् उत्पाद्य विनश्यति । तद् अपूर्वं कालान्तरे कर्मानुरूपं फलं पुरुषाय भोक्त्रे दास्यतीति कर्मैव फल-प्रदम् इति ॥४१॥

र्प्च् : ११.१०.१४-१५, ११.१०.३३।

ह्द्स् : १०.२४.१४-१५

॥ ३.२.४२ ॥

स्व-मतम् आह—

**पूर्वं तु बादरायणो हेतु-व्यपदेशात् ॥ **

शाङ्का-च्छेदाय तु-शब्दः । पूर्वोक्तं परेशम् एव भगवान् बादरायणः फल-प्रदं मन्यते । कुतः ? हेत्व् इति । पुण्येन पुण्यं लोकं नयति, पापेन पापम् इति तस्यैव फल-हेतुत्व-व्यपदेशाद् इत्य् अर्थः । कर्मणः करणत्वेनोपक्षयाच् च । कर्म-सत्तापि ब्रह्मायत्ता इत्य् उक्तम् । द्रव्यं कर्म च कालश् च इत्य् आदौ । तेन ब्रह्मैव कर्म-प्रवर्तकं सिद्धम् । यत् तु विनश्यद् अपि कर्मेत्य् आदि समाहितं तन् मन्दम् । काष्ठ-लोष्ट्रवद् अचेतनस्यादृष्टस्य तत्राक्षमत्वात् तस्याश्रवणाच् च ।

ननु यज्ञस्य देवार्चनत्वात् तद्-अर्चितानां देवतानां फलार्पकत्वम् अस्त्व् इति चेत्, उच्यते—पर-देवतया प्रयोज्यास् तास् तद् अर्पयन्तीति स्वीकार्यम् अन्तर्यामि-ब्राह्मणात् । अतः सैव तद्-अर्पिका । एवम् एवाह भगवान् पुण्डरीकाक्षः—

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति । तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥ स तया श्रद्धया युक्तस् तस्या राधनम् ईहते । लभते च ततः कामान् मयैव विहितान् हि तान् ॥ [गीता ७.२१-२२] इति ।

एवं च यागादिभिर् आराधितोऽभ्युदय-फलं ददातीत्य् उक्तम् । भक्त्या तोषितस् तु स्व-पर्यन्तं सर्वम् इति वक्ष्यति पुरुषार्थोऽतः शब्दाद् इति । तद् इत्थं जन्म-मरणादि-दृश्सर्वालयत्व-रूप-प्रपञ्च-दोषोक्त्या निखिल-निर्दोष-कीर्तनेन च निखिल-नियामकत्व-विशुद्ध-चिद्-विग्रहत्वादि-परमात्म-गुण-गण-निरूपणेन च ब्रह्म-तृष्णैव तद्-इतर-वितृष्णा-पूर्विका तत्-प्राप्ति-हेतुर् इति पादाभ्यां दर्शितं भवति ॥४२॥

र्प्च् : गीता ७.२२, ३.९.८, ३.२५.३९, ४.११.२, ५.१.१४, १०.८७.२४, ३.२९.३३, ८.३.२६, ७.९.४७, ११.१०.३३, २.५.१४, २.१०.१२।

ह्द्स् : २.६.१४, ३.१०.१२, १०.४७.२६

–ओ)०(ओ–

॥ इति गोविन्द-भाष्ये तृतीयाध्यायस्य द्वितीयः पादः ॥

॥ ३.१ ॥

(३.३)


  1. Vअराह-पुराण अच्चोर्दिन्ग् तो Vअसु। ↩︎

  2. Mअत्स्य-पुराण अच्चोर्दिन्ग् तो Vअसु। ↩︎

  3. Aच्चोर्दिन्ग् तो RPC, Bअलदेव फ़ोल्लोwस् Mअध्व इन् थिस् सुत्र, गिविन्ग् अ दिफ़्फ़ेरेन्त् इन्तेर्प्रेततिओन् फ़्रोम् ओथेर् चोम्मेन्तरिएस्। Tहे फ़िर्स्त् त्wओ Bहगवत क़ुओतेस् अरे इन् लिने wइथ् Sहन्करऽस् वेर्सिओन्। ↩︎

  4. Tहिस् सुत्र इस् रेअद् तोगेथेर् wइथ् थे फ़ोल्लोwइन्ग् इन् सोमे एदितिओन्स्, थोउघ् बोथ् Sहन्कर अन्द् Bअलदेव स्प्लित् थेम्। RPD रेअद्स् थेम् तोगेथेर्, सो थे वेर्सेस् हे क़ुओतेस् हेरे अप्प्ल्य् तो बोथ् थिस् अन्द् थे नेxत्। ↩︎

  5. Gअरुड-पुराण अच्चोर्दिन्ग् तो Vअसु। ↩︎

  6. Dह्यान-बिन्दु Uपनिषद्, १८ (S।C।Vअसु)। ↩︎

  7. Bरह्म-वैवर्त-पुराण (Vअसु) ↩︎

  8. Nआरायणाध्यात्मा (Vअसु)। ↩︎

  9. Nआरायनोपनिषद् १३ (RPC) ↩︎