न विना साधनैर् देवो ज्ञान-वैराग्य-भक्तिभिः ।

ददाति स्व-पदं श्रीमान् अतस् तानि बुधः श्रयेत् ॥

१। तद्-अनन्तर-प्रतिपत्त्य्-अधिकरणम्

॥ ३.१.१ ॥

पूर्वाध्याय-द्वयेन विश्वैक-हेतुं निर्दोष-गुण-रत्नाकरं सच्-चिद्-आनन्दात्मकं पुरुषोत्तमं मुमुक्षु-ध्येयतया सर्वो वेदान्तः प्रतिपादयतीत्य् एतत् सर्वाविरुद्धम् इत्य् उक्तेर् ब्रह्म-स्वरूपं निरूपितम् । अथास्मिन् तृतीयेऽध्याये तत्-प्रापकाणि साधनानि निरूप्यन्ते । तेषु मुख्यं तावत् प्राप्येतर-वैतृष्ण्यं प्राप्य-तृष्णा चेति तत्-सिद्धये पूर्व-पाद-द्वयम् आरभ्यते । तत्र प्रथमे पादे पञ्चाग्नि-विद्याम् आश्रित्य नानावस्थस्य जीवस्य लोक-गत्या गति-रूपा दोषाः प्रकाश्यन्ते लोक-विरागाय । द्वितीये तु प्राप्यानुराग-हेतवः तन्-महिमादयो गुणा वक्ष्यन्ते । छान्दोग्ये श्वेतकेतुर् हारुणेयः पाञ्चालानां समितिम् इयाय [छा।उ। ५.३.१] इत्य् आदिना पञ्चाग्नि-विद्या पठिता । तत्र जीवः पर-लोकं गच्छति तस्मात् पुनर् इमं लोकम् आगच्छतीति प्रतीयते । इह संशयः । पर-लोकं गच्छन् जीवः सूक्ष्म-भूतैर् वियुक्तः परिष्वक्तो वा गच्छतीति । तत्रापि तेषा सौलभ्याद् वियुक्तो गच्छतीति प्राप्ते—

तद्-अनन्तर-प्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्न-निरूपणाभ्याम् ॥

तच्-छब्देन देहः परामृष्टः । पूर्वं तस्य मूर्ति-शब्दितस्य प्रक्रमात् । देहाद् देहान्तर-प्राप्तौ भूत-सूक्ष्मैः सम्परिष्वक्तो जीवो रंहति गच्छति । कुतः ? वेत्थ यथेत्य् आदि-रूपात् प्रश्नात् । असौ वावेत्य् आदि-रूपात् तद्-उत्तराच् च । तत्रेयम् आख्यायिका । प्रवाहणो नाम क्षत्रियः पञ्चालाधिपतिर् निजान्तिका-गतं श्वेतकेतुं विप्र-कुमारं पञ्चार्थान् पप्रच्छ । कर्मिणां गन्तव्य-देशम्, पुनर्-आवृत्ति-प्रकारम्, अमुष्ज्ञान लोकस्याप्राप्तारं देवयान-पितृयानयोर् भेदकं रूपं च वेत्थेति वेत्थ यथा पञ्चम्य्-आहुता वापः पुरुष-वचसो भवन्ति [छा।उ। ५.३.३] इति च । स च कुमारः प्रश्न-पाराज्ञानाद् विमनाः पितरं गौतमम् उपेत्य परिदेवयामास । पिताप्य् अविदित-प्रष्टव्यस् तद्-बुभुत्सया प्रवाहणम् आगत्य कृतार्हणं वित्त-दित्सुं च तं प्रति तान् एव पञ्च प्रश्नान् विभिक्षे । स च तम् अन्तिमं प्रश्नं प्रति ब्रुवन्न् आह असौ वाव लोको गौतमाग्निः [छा।उ। ५.४.१] इत्य् आदि । तत्र हि द्यु-पर्जन्य-पृथिवी-पुरुषयोषाः पञ्चाग्नितया निरूपिताः । तेषु पञ्चस्व् अग्निषु श्रद्धा-सोम-वृष्ट्य्-अन्न-रेतो-रूपाः क्रमात् पञ्चाहुतयः पठिताः । होतारः सर्वत्र देवाः । होमस् तु भूत-सूक्ष्म-परिवेष्टितस्य जीवस्य स्वर्-भोगादि-लाभाय देवैः कृतो द्यु-लोकादिषु प्रक्षेपः । मृतस्य जीवस्य इन्द्रियाणि खलु देवाः कथ्यन्ते । ते हि द्यु-लोकाग्नौ हुतो वर्षं भवति । तच् च वर्षं भवतीत्य् उक्त्वाह – इति तु पञ्चम्याम् आहुता वापः पुरुष-वचसो भवन्ति [छा।उ। ५.९.१] इति । इत्य् उक्त-क्रमेण रेतो-रूपायां पञ्चम्याम् आहुतौ हुतायाम् आपः पुरुष-वचसः पुरुष-शब्द-वाच्या देह-रूपा भवन्तीत्य् अर्थः । इह याभिर् अद्भिर् युक्तो दिवं गतस् तासाम् एवोक्त-रीत्या स्त्रीम् आपन्नानां पुरुष-रूपतेति प्रतीतेः सूक्ष्म-भूत-परिष्वक्तो रंहतीति सिद्धम् ॥३.१.१॥

**र्प्च्- **११.२२.३६, ३.३२.४३-४४, ६.१.५१, ११.२५.३५-३६, २.२.२३।

**ह्द्स् : **३.३२.४३-४४।

॥ ३.१.२ ॥

नन्व् आपः पुरुष-वचस इत्य् उक्तेः सर्वेषां भूतानां परिष्वङ्गः कथम् इति तत्राह—

त्र्य्-अत्मकत्वात् तु भूयस्त्वात् ।

शङ्का-निवृत्तये तु-शब्दः । त्रिवृत्-कृतानाम् अपां त्रिभ्टीरूपत्वात् तासां गतौ त्रयाणाम् अपि गतिर् अनुमतेत्य् अर्थः । तथाप्य् अप्-शब्द-प्रयोगः । शुक्र-शोणित-रूपे देह-बीजे द्रव-भूम्ना तासां भूयस्त्वात् । तापापनोदो भूयस्त्वम् अम्भसो वृत्तयस् त्व् इमा [भा।पु। ३.२६.४१] इति स्मृतेश् च । भूम्ना हि व्यपदेशा भवन्ति ॥२॥

र्प्च्- ३.२६.५३, ३.२६.४१

ह्द्स्- ३.२६.४१, ५.२०.२३।

॥ ३.१.३ ॥
प्राण-गतेश् च ॥

देहान्तराप्तौ प्राणानां गतिः श्रूयते बृहद्-आरण्यके—तम् उत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणम् अनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति [बृ।आ।उ। ४.४.२] इत्य् आदिना । सा खलु निराश्रया न सम्भवेद् अतस् तद्-आश्रय-भूतानां भूतानां गतिः स्वीकार्येत्य् अर्थः ॥३॥

र्प्च्-

ह्द्स्- ११.१५.२४।

॥ ३.१.४ ॥
अग्न्य्-आदि-गति-श्रुतेर् इति चेन्, न, भाक्तत्वात् ॥

ननु,

यत्रास्य पुरुषस्य मृतस्याग्निं वाग् अप्य् एति, वातं प्राणश्, चक्षुर् आदित्यं, मनश् चन्द्रं, दिशः श्रोत्रं, पृथिवी शरीरम्, आकाशम् आत्मौषधीर् लोमानि, वनस्पतीन् केशा, अप्सु लोहितं च रेतश् च निधीयते [बृ।आ।उ। ३.२.१३] इति ।

तत्रैव वाग्-आदीनाम् अग्न्य्-आदीन् प्रति गति-श्रुतेर् न तेषां जीवेन सह गतिः । अत उक्त-श्रुतिर् अन्यथैव नेया, इति चेत्, न । कुतः ? भाक्तत्वात्। औषधीर् लोमनि वनस्पतीन् केशा इत्य् आदिना श्रुताया लोमादि-गतेः प्रत्यक्षेण बाधात् भाक्तेयम् अग्न्य्-आदि-गति-श्रुतिः । तत्-सहपाठात् न स्वार्थ-परेत्य् अर्थः । न हि लोमान्य् उत्प्लुत्यौषधीर् गच्छन्तीत्य् आदि दृष्टम् । ततश् च मृति-काले वाग्-आदीनाम् उपकार-निवृत्ति-मात्रापेक्षया तथोक्तिर् गतेर् अपि श्रुतत्वात् ॥४॥

र्प्च्- ७.१२.२४-२६

ह्द्स्- ४.२३.१३, ४.२३.१५।

॥ ३.१.५ ॥
प्रथमेऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः ॥

ननु यद्य् आपः पञ्चाप्य् आहुतयः स्युस् तदा पञ्चम्याम् इति वाक्याद् अद्भिः परिष्वक्तो यातीति शक्यं वदितुम् । न च तथास्ति प्रथमेऽग्नौ तासाम् अहुतित्वाश्रवणात् । तत्र हि श्रद्धैवाहुतिर् उक्ता । तस्मिन्न् अग्नौ देवाः श्रद्धां जुह्वति [छा।उ। ५.४.२] इति तस्या मनो-वृत्ति-रूपत्वेन प्रसिद्धेर् नाप्त्वं सम्भवति । सोमादीनां च कथञ्चित् सम्भवेत्, अतो नास्माद् वाक्याद् भूत-परिष्वङ्गो गच्छतो मृतस्येति चेन्, न । हि यतः प्रथमेऽप्य् अग्नौ ता एवापः श्रद्धा-शब्देनोच्यते । कुतः ? उपपत्तेः प्रश्नोत्तरयोर् इति शेषः । वेत्थ यथेति प्रश्ने पञ्चस्व् अग्निष्व् आपो होम्या विवक्षिताः । तस्योत्तरारम्भे प्रथमेऽग्नौ श्रद्धा होम्योक्ता । तत्र श्रद्धा-शब्देन चेन् नापो वाच्यास् तदा तयोर् वैरूप्यापत्तिर् इत्य् अर्थः । अपां पञ्चम-होम-सम्बन्धो हीतर-होम-चतुष्टय-सम्बन्ध एवोपपद्यते । श्रद्धा-कार्यं च सोम-वृष्ट्य्-आदि स्यूलीभवद्-अब्-बहुलं वीक्ष्यते । कारणानुरूपं च कार्यम् इति श्रद्धाया अप्त्वे युक्तिश् च । तस्मात् तत्र श्रद्धा-शब्देनापो ग्राह्याः । श्रद्धा वा आप [कृ।य।वे। १.१.६.८]1 इति श्रुतेश् च । मनो-वृत्तिस् तु न स्यात्, मनसो निष्कृष्य तस्या होमानुपपत्तेः । तस्माद् अद्भिः परिष्वक्तो यातीति ॥५॥

र्प्च्-

ह्द्स्- १.१५.३९।

॥ ३.१.६ ॥

नन्व् आपो गच्छेयुः श्रुतत्वात् न तु तद्-युक्तो जीवः अश्रुतत्वाद् इत्य् आशङ्क्य परिहरति—

अश्रुतत्वाद् इति चेन् न इष्टादि-कारिणां प्रतीतेः ॥

अश्रुतत्वम् असिद्धम् । तत्रैव छान्दोग्ये चन्द्रं प्रतीष्टादि-कृतां गति-प्रत्ययात् । अथ य इमे ग्राम इष्टा-पूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्ति [छा।उ। ५.१०.३] इत्य् आदिना, आकाशाच् चन्द्रमसम् एषा सोमो राजा [छा।उ। ५.१०.४] इत्य् अन्तेन । तत्रेष्टादि-कारिणां चन्द्रं प्राप्य सोम-राजाख्या भवन्तीत्य् अवगम्यते । तथा द्यु-लोकाग्नौ देवाः श्रद्धां जुह्वति । तस्याः आहुतेः सोमो राजा सम्भवति इत्य् अत्रापि तदैकार्थ्यात् श्रद्धा-शरीर-युक्तः सोम-शरीर-युक्तो भवतीति अवसीयते । शरीरस्य जीवैकाश्रयत्व-स्वाभाव्यात् तद्-वाचकस्य शब्दस्य जीवे पर्यवसानम् इति तत्-परिष्वक्तोऽसौ यातीति स्थिरम् ॥६॥

र्प्च्- ३.३२.१-४, ७.१५.४०, ११.११.४६, ७.१५.२९।

ह्द्स्- ३.३२.२-३।

॥ ३.१.७ ॥

ननु, एष सोमो राजा देवानाम् अन्नं तं देवा भक्षयन्ति [छा।उ। ५.१०.४] इति सोम-राज-शब्दितस्य देव-भक्ष्यत्व-श्रवणात् न स जीवः शक्यो वक्तुम् । तस्य भक्षयितुम् अशक्यत्वाद् इति चेत्, तत्राह—

भाक्तं वानात्मवित्त्वात्, तथा हि दर्शयति ॥

वेति शङ्का-हानौ । सोम-राज-शब्दितस्य जीवस्य देवान्नत्वं भाक्तम् । अन्नवत् तद्-भोग-हेतुत्वाद् उपचरितम् इत्य् अर्थः । तद्-धेतुत्वं तत्-सेवकत्वात् । तच् चानात्मवित्त्वात् । श्रुतिर् अप्य् अनात्मज्ञस्य देव-सेवकतां दर्शयति । अथ योऽन्यां देवताम् उपास्ते अन्योऽसाव् अन्योऽहम् अस्मीति न स वेद, यथा पशुर् एव स देवानाम् [बृ।आ।उ। १.४.१०] इति बृहद्-आरण्यके । अयं भावः—अन्नवद्-भक्षण-सम्भवात् तद्वद् भोग-साधनत्वाच् च जीवस्य देवान्नत्वं तत्रोपचर्यते । विशोऽन्नं राज्ञां पशवोऽन्नं विशाम् इत्य् औपचारिक-प्रयोग-दर्शनाच् च । मुख्यत्वे तु ज्योतिष्टोमादि-विधि-वैयर्थ्यापत्तिः । देवाश् चेच् चन्द्रलोक-गतं भक्षयेयुः किम्-अर्थं जनस् तत्र गच्छेत्, किम्-अर्थं वा तत्-प्रापकं ज्योतिष्टोमादि-प्रयासं कुर्याद् इति । तस्माद् अद्भिः परिष्वक्तो यातीति सिद्धम् ॥७॥

र्प्च्- ११.१०.२२, ११.१०.२५-२८, ११.२५.२०-२१, ११.२५.२९, ११.१०.३१-३२।

ह्द्स्- ४.२९.४८, ४.२९.३१।

–ओ)०(ओ–

२। कृतात्ययाधिकरणम्

॥ ३.१.८ ॥

अयं य इमे ग्राम इत्य् आदिना केवल-कर्मिणां धूमादि-मार्गेण स्वर्ग-प्राप्तिम् अभिधाय तद्-अन्ते पुनर्-आवृत्तिः पठ्यते तत्रैव छान्दोग्ये— तस्मिन् यवात् सम्पातम् उषित्वाथैतम् एवाध्वानं पुनर् निवर्तन्ते [छा।उ। ५.१०.५] इति । तत्र संशयः—स्वर्गाद् अवरोहन् निरनुशयः सानुशयो वेति । यावत् सम्पातम् उषित्वेत्य् उक्तेः—प्राप्यान्तं कर्मणस् तस्य इत्य् आद्य्-उक्तेश् च निरनुशयोऽवरोहतीति । सम्पातः कर्म सम्पतन्त्य् अनेन स्वर्गम् इति व्युत्पत्तेः। अनुशयो भुक्त-शिष्टं कर्म । अनुशेते कर्तारं फल-भोगायेति व्युत्पत्तेः । तच् च कृत्स्न-फल-भोगे सति नावशिष्यते । एवं प्राप्ते पठति—

कृतात्ययेऽनुशयवान् दृष्ट-स्मृतिभ्याम् ॥2

चन्द्र-लोके सुख-भोगाय यत् कर्म कृतं तस्येष्टादेस् तत्र भोगेनात्यये क्षये सति तद्-भोग-क्षय-जात-शोकानल-विलीन-भोग-देहोऽनुशयवान् अवरोहति । कुतः ? दृष्टेति ।

तद् य इह रमणीय-चरणा अभ्याशो ह यत् ते रमणीयां योनिम् आपद्येरन् ब्राह्मण-योनिं वा क्षत्रिय-योनिं वा वैश्य-योनिं वाथ य इह कपूय-चरणा अभ्याशो ह यत् ते कपूयां योनिम् आपद्येरञ् श्व-योनिं वा सूकर-योनिं वा चाण्डाल-योनिं वा [छा।उ। ५.१०.७] इति तत्रैव दर्शनात् ।

रमणीय-चरणा रमणीय-कर्माणः । भुक्त-शिष्ट-पक्व-सुकृतवन्त इत्य् अर्थः । अभ्यासोऽभ्यागन्तारः अभ्यापूर्वादसेः क्विपि रूपम् । ह स्फुटम् । यद् यदा । तदेत्य् अर्थात् । इह पुनर् भवे ते उभय-शेषाभ्यां निविशन्ति इति स्मृतेश् च । तस्मात् सानुशयोऽवरोहति यावत् सम्पातम् इत्य् आदि वाक्यं तु फलार्पण-प्रवृत्त-कर्म-विशेष-परम् इत्य् अविरोधः ॥८॥

र्प्च्- १०.८७.५०, ११.२५.२९-३१, नारायणोपनिषद् ३४।

ह्द्स्- ४.२९.२७-२८।

॥ ३.१.९ ॥

अवरोहे प्रकार-विशेषं दर्शयति—

यथेतम् अनेवं च ॥

चन्द्राद् अवरोहन्न् अनुशायी यथेतम् अवरोहत्य् अनेवं च । यथेतं यथा-गतम् । अनेय्वं तद्-विपर्ययेण । धूमाकाशयोर् अवरोहेऽपि सङ्कीर्तनाद् यथेतम् इति प्रतीयते । रात्र्याद्य्-असङ्कीर्तनाद् अभ्राद्य्-उपसङ्ख्यानाच् चानेवं चेति ॥९॥

र्प्च्-

ह्द्स्- ११.१०.२६।

॥ ३.१.१० ॥
चरणाद् इति चेन् न तद्-उपलक्षणार्थेति कार्ष्णाजिनिः ॥

ननु स्वर्गात् प्रच्युतोऽनुशयाद् योनिं प्राप्नोतीति न युज्यते । रमणीय-चरणा इत्य् आदि श्रुत्या चरणात् तदापत्त्य्-अभिधानात् । न चानुशय-चरण-शब्दयोर् ऐकार्थ्यम् । यथाकारी यथाचारी तथा भवति इति बृहद्-आरण्यके तयोर् भिन्नार्थत्वोक्तेः । कर्म-शेषोऽनुशयश् चरणं त्व् आचार इति चेन् नायं दोषः । यतोऽनुशयोपलक्षणार्थैषा चरण-श्रुतिर् इति कार्ष्णाजिनिर् मन्यते । कर्मणः सर्वार्थ-हेतुतया शास्त्रार्थ-प्रसिद्धेर् इति भावः ॥१०॥

र्प्च्- ३.३०.३२-३३

ह्द्स्- ४.२९.७४-७५, ४.२९.७८

॥ ३.१.११ ॥
आनर्थक्यम् इति चेन् न तद्-अपेक्षत्वात् ॥

ननु कर्मणः सर्वार्थ-हेतुत्वे वैफल्यम् आचारस्य ततश् च तद्-विधिर् व्यर्थ इति चेन्, न । कुतः ? कर्मणोऽप्य् आचार-सापेक्षत्वात् । न हि सद्-आचार-विहीनः कर्मण्य् अधिक्रियते । सन्ध्या-हीनोऽशुचिर् नित्यम् अनर्हः सर्व-कर्मसु3 इत्य् आदि स्मृतेः । तथा च साचारस्य कर्मणः फल-हेतुत्वात् तया कर्मोपलक्ष्यते इति कार्ष्णाजिनेर् मतम् ॥११॥

र्प्च्- ११.१८.४२-४३, ११.१८.४५।

ह्द्स्- ३.३१.३२

॥ ३.१.१२ ॥
सुकृत-दुष्कृते एवेति तु बादरिः ॥

तु-शब्दः पूर्व-मत-निरासाय । चरण-शब्देन सुकृत-दुष्कृत एव वाच्ये इति बादरिर् मन्यते । पुण्यं कर्माचरतीत्य् आदौ कर्मणि चरतेः प्रयोगात् । मुख्ये सम्भवति लक्षणा न युक्ता । चरणम् अनुष्ठानं कर्मेति अनर्थान्तरम् । आचारोऽपि कर्म-विशेष एव । तथापि भेदोक्तिः कुरु-पाण्डव-न्यायेन । इदं स्व-मतम् इत्य् एव-शब्दः । तथा च चरण-शब्देन कर्म-विशेषोक्तेः सानुशयोऽवरोहतीति सिद्धम् ॥१२॥

र्प्च्- ११.१०.२२

ह्द्स्- ३.३१.४२-४३

॥ ३.१.१३ ॥4

इष्टादि-कारिणश् चन्द्रं गत्वा सानुशयास् तस्माद् अवरोहन्तीत्य् उक्तम् । इदानीम् अनिष्टादि-कारिणां पापिनाम् आरोहावरोहौ परीक्ष्येते ।

असूर्या5 नाम ते लोका अन्धेन तमसावृताः ।

तांस् ते प्रेत्याभिगच्छन्ति ये के चात्म-हनो जनाः ॥ [ईशो। ३]

इतीशावास्ये पठ्यते । अग्र पापिनश् चन्द्र-लोकं गच्छन्त्य् उत यम-लोकम् इति सन्देहे पूर्व-पक्षं सूत्रयति—

अनिष्टादि-कारिणाम् अपि च श्रुतम् ॥

इष्टादि-कृताम् इवानिष्टादि-कृताम् अपि चन्द्रे गमनं श्रुतम्—ये वै के चास्माल् लोकात् प्रयन्ति चन्द्रमसम् एव ते सर्वे गच्छन्ति [कौ।उ। १.२] इति कौषीतक्य्-उपनिषदि सर्वेषाम् अविशेषेण गति-श्रवणात्, तेऽपि तं गच्छन्तीति । एवं सत्य् उक्त-वाक्यं दुराचार-निवृत्ति-परतया नेयम् ।

ननु पुण्यवतां पापिनां च समानं फलम् । मैवम् । पापिनां तत्र भोगाभावात् ॥१३॥

र्प्च्-

ह्द्स्- ३.३२.२-३।

–ओ)०(ओ–

३। संयमनाधिकरणम्

॥ ३.१.१४ ॥

एवं प्राप्ते सिद्धान्तयति—

संयमने त्व् अनुभूयेतरेषाम् आरोहावरोहौ तद्-गति-दर्शनात् ॥

तु-शब्दः पूर्व-पक्ष-निरासार्थः । इतरेषाम् अनिष्टादि-कृतां संयमने यम-पुरे गमनम् । तत्र यम-दण्डम् अनुभूय पुनर् इहागमनं च स्यात् । एवं-भूतौ तेषाम् आरोहावरोहौ भवतः । कुतः ? तद् इति ।

न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्त-मोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर् वशम् आपद्यते मे ॥ [क।उ। १.२.६] इति ।

र्प्च्- ३.३०.३२-३३।

ह्द्स्- ३.३०.३३, ३.३२.१९, ३.३२.२१।

॥ ३.१.१५ ॥
स्मरन्ति च ॥

तत्र तत्र पतन् श्रान्तो मूर्च्छितः पुनर् उत्थितः । पथा पापीयसा नीतस् तरसा यम-सादनम् ॥ [भा।पु। ३.३०.२३]

इत्य् आदौ, सर्वे चैते वशं यान्ति यमस्य भगवन् इत्य् आदिषु च पापिनां यम-वश्यतां मुनयः स्मरन्तीति ॥१५॥

र्प्च्- ३.३०.१९-२१।

ह्द्स्- ३.३०.२३

॥ ३.१.१६ ॥
अपि सप्त ॥

रौरवोऽथ महांश् चैव वह्निर् वैतरणी तथा । कुम्भीपाकः इति प्रोक्तान्य् अनित्य-नरकानि तु ॥ तामिस्रश् चान्ध-तमिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ । इति सप्त प्रधानानि बलीयस्तूत्तरोत्तरम् ॥ इति भारते6

पापिनां फल-भोग-भूमित्वेन सप्त नरकाणि स्मर्यन्ते । तानि ते यान्तीत्य् अर्थः । अपि-शब्दात् पञ्चमान्त-स्मृतानि पराणि गृह्यन्ते ॥१६॥

र्प्च्-

ह्द्स्- ५.२६.७।

॥ ३.१.१७ ॥

नन्व् एवम् ईश्वर-कर्तृक-सर्व-नियमोक्तित्वाधस् तत्राह—

तत्रापि च तद्-व्यापाराद् अविरोधः ॥

चोऽवधारणे । तेषु यमादिषु दण्ड-कर्तृष्व् ईश्वर-कर्तृक-नियम-रूपाद् व्यापारात् तद्-उक्तेर् अबाध इत्य् अर्थः । ईश्वर-प्रयुक्ताः खलु यमादयः पापिनो दण्डयन्तीति पुराणेषु प्रसिद्धम् ॥१७॥

र्प्च्- ५.२६.६, ४.२९.२३-३५, ४.२९.४७, १.२.१३, २.२.३६, २.३.१०, ४.३०.३२-३३, ३.१५.४९, १०.१४.८

ह्द्स्- ५.२६.६।

॥ ३.१.१८ ॥

ननु पापिनाम् अपि यम-दण्डानन्तरं चन्द्रारोहः स्यात् । ये वै के चास्माद् इत्य् आदौ सर्व-शब्दाद् इत्याक्षेप-निरासायाह—

विद्या-कर्मणोर् इति तु प्रकृतत्वात् ॥

तु-शब्दाद् अक्षेप-निवृत्तिः । नेत्य् आकृष्यम् । पापिनां चन्द्राप्तिर् नैवापपद्यते । कुतः ? देवयान-पितृयानयोः प्रतिपत्तौ विद्या-कर्मणोर् एव प्रकृतत्वात् । छान्दोग्ये तद् य इत्थं विदुः [छा।उ। ५.१०.१] इत्य् आदिना विद्यया देवयान-पन्थाः प्राप्यः प्रकीर्त्यते । अथ य इमे ग्राम [छा।उ। ५.१०.३] इत्य् आदिना तु कर्मणा पितृ-यानः पन्थाः प्राप्य इति । एवं सति स सर्व-शब्दोऽधिकृतापेक्षो भवेत् ॥१८॥

र्प्च्- ७.१५.४२-४३

ह्द्स्- ३.३२.३, ३.३२.५-७

॥ ३.१.१९ ॥

ननु चन्द्र-गत्य्-अभावे पापिनाम् इह देहोपलम्भो न स्यात् । तद्-धेतोः पञ्चमाहुतेर् असम्भवात् । तस्याश् चन्द्र-प्राप्ति-पूर्वकत्वात् । अतो देहोपलम्भाय सर्वेषां चन्द्र-गतिर् आवश्यकीति चेत्, तत्राह—

न तृतीये तथोपलब्धेः ॥

तृतीये स्थाने देह-लाभाय तत्-पूर्वक-पञ्चमाहुत्य्-अपेक्षा नास्ति । कुतः ? तथेति । श्रुतौ तथा प्रत्ययात् । अयम् अर्थः । तत्रैव—

अथैतयोः पथोर् न कतरेणचन तानीमानि क्षुद्राण्य् असकृद्-आवर्तीनि भूतानि जीवन्ति7 । जायस्व म्रियस्वेत्य् एतत् तृतीयं स्थानम् । तेनासौ लोके न सम्पूर्यते [छा।उ। ५.१०.८] इति ।

यानि भूतान्य् उक्तयोः देवयान-पितृयानयोः पथोर् मध्ये कतरेणचन केनापि पथा न गच्छन्ति तानीमानि क्षुद्राणि दंश-मशक-कीटादीन्य् असकृद्-आवृत्तीनि जायस्व मिर्यस्वेति भवन्ति । पुनः पुनर् जायन्ते म्रियन्ते चेत्य् अर्थः । एतत् तृतीयं स्थानम् इति । दंशादि-देहाः पाप-कर्माणः कथ्यन्ते । स्थानत्वं स्थान-सम्बन्धात् । तृतीयत्वं तु पूर्व-निर्दिष्ट-ब्रह्म-लोक-द्यु-लोकापेक्षया । ततश् च ये विद्यया देव-याने पथि नाधिकृता नापि कर्मणा पितृ-याने तेषाम् एव क्षुद्र-जन्तूनां दंश-मशकाद्य्-असकृद्-आवृत्तीनां तृतीयः पन्थास् तेनासौ लोको न सम्पूर्यत इति तेषां द्यु-लोकारोहावरोहाभावेन तल्-लोकासम्पूर्त्य्-उक्तेस् तृतीये स्थाने देहारम्भाय पञ्चमाहुतिर् नापेक्ष्येति ॥१९॥

र्प्च्-

ह्द्स्- ३.३०.३०, ३.३०.३३-३४।

॥ ३.१.२० ॥
स्मर्यतेऽपि च लोके ॥

लोके पुण्य-कर्मणाम् अपि द्रोण-धृष्टद्युम्नादीनाम् आहुति-सङ्ख्यानपेक्षो देहारम्भः स्मर्यते । अपि चेति किञ्चिद् अन्यद् उच्यत इत्य् अर्थः ॥२०॥

र्प्च्-

ह्द्स्- ९.२२.३।

॥ ३.१.२१ ॥
दर्शनाच् च ॥

येषां खल्व् एषां भूतानां त्रीण्य् एव बीजानि भवन्ति । अण्डजं जीवजम् उद्भिज्जम् [छा।उ। ६.३.१] इति ।

तत्रैव विनैवाहुति-सङ्ख्याम् उद्भिज्ज-स्वेदजयोर् भूतयोर् जन्म-श्रवणाच् च तद्-अनपेक्षोऽपि सः । तथा च येषां चन्द्रारोहावरोहौ सम्भवतस् तेषाम् एव तस्यां सत्यां तद्-आरम्भोऽन्येषां तु विनैव ताम् अद्भिर् एव स स्यात् प्रतिषेधकाभावाद् इति ॥२१॥

र्प्च्-

ह्द्स्- २.६.१५, २.१०.३९।

॥ ३.१.२२ ॥

ननु स्वेदजो न श्रूयते त्रीण्य् एवेति वचनाद् इति चेत्, तत्र समादधाति—

तृतीय-शब्दावरोधः संशोकजस्य ॥

उद्भिज्जम् इति तृतीय-शब्देन संशोकजस्य स्वेदजस्याप्य् अवरोधः सङ्ग्रहः कृतः । उभयोर् अपि भूम्य्-उदकोद्भेद-प्रभवत्वस्य साम्यात् । लोके भेदोक्तिस् तु जङ्गमत्वाद्य्-अवान्तर-भेदम् आदाय । तस्माद् अनिष्टादि-कारिणां चन्द्र-प्राप्तिर् नास्तीति सिद्धम् ॥२२॥

र्प्च्- ३.७.२८, २.१०.३८

ह्द्स्- ३.७.२७।

–ओ)०(ओ–

४। तत्-स्वाभाव्यापत्त्य्-अधिकरणम्

॥ ३.१.२३ ॥

इष्टादि-कृतः सूक्ष्म-भूत-युक्ताः सानुशयाश् चावरोहन्तीति दर्शितम् । तत्-प्रकारस् तु—

अथैतम् एवाध्वानं पुनर् निवर्तन्ते यथेतम् आकाशम् आकाशाद् वायुं वायुर् भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्य् अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति [छा।उ। ५.१०.५] इति ।

यथेतम् अनेवञ् चोक्तस् तत्रैव । इहावरोहतायाम् आकाशादि-भावः प्रतीयते । स किं तादात्म्यापत्तिर् उत सादृश्यापत्तिर् इति विषये सादृश्यापत्ति-पक्षे लक्षणाप्रसङ्गात् तादात्म्यापत्तिर् एवासाव् इति प्राप्ते—

तत्-स्वाभाव्यापत्तिर् उपपत्तेः ॥

तत्-सादृश्यापत्ति-रूपः स मन्तव्यः । कुतः ? उपपत्तेः । चन्द्र-लोके यद् अम्मयं वपुर् आरब्धं भोगाय तत् किल चण्डकर-वृन्देन तुषार-खण्डम् इव भोग-क्षये क्षणजेन शोकाग्निना विलीयमानं सौक्ष्म्याद् आकाश-तुल्यं भवति, ततो वायोर् वशम् एति, ततो धूमादिभिः सम्पृच्यते इत्य् एवोपपद्यते । अन्यस्यान्य-भावायोगात् तत्त्वेऽवरोहासम्भवाच् च ॥२३॥

र्प्च्-

ह्द्स्- ३.२६.३४।

–ओ)०(ओ–

५। नातिचिरेणाधिकरणम्

॥ ३.१.२४ ॥

आकाशादि-प्रवर्षणान्तराद् अवरोहो विलम्बेन त्वरया वेति संशये नियम-हेत्व्-अभावात् विलम्बेनेति प्राप्ते—

नातिचिरेण विशेषात् ॥

आकाशादितो नातिचिरेणावरोहः । कुतः ? विशेषात् । परत्र व्रीह्य्-आदि-भाव-प्राप्ताव् अतो वै खलु दुर्निष्प्रपतरम् इति विशेषोक्तेर् इत्य् अर्थः । त-लोपश् छान्दसः । दुर्निष्प्रपतरं दृश्सर्व-निष्क्रमणम् इत्य् अर्थः । व्रीह्य्-आदि-प्राप्तौ दृश्सर्व-निर्मोक्त्याकाशादि-प्राप्तौ त्वरया निर्गमो बोध्यते ॥२४॥

र्प्च्- ७.१५.४१

ह्द्स्- ३.३०.३४।

–ओ)०(ओ–

६। अन्याधिष्ठिताधिकरणम्

॥ ३.१.२५ ॥

प्रवर्षणानन्तरं, त इह व्रीहि-यवा ओषधि-वनस्पतयस् तिलमाषा इति जायन्ते [छा।उ। ५.१०.६] इति तत्रैव श्रूयते । इह संशयः—व्रीह्य्-आदिष्व् अनुशयिनां मुख्यं जन्मेति संश्लेष-मात्रम् इति । जायन्त इत्य् उक्तेर् मुख्यं जन्मेति प्राप्तौ—

अन्याधिष्ठिते पूर्ववद् अभिलाषात् ॥

अन्यैर् जीवैर् भोक्तृतयाधिष्ठिते व्रीह्य्-आदि-देहे तेषां संश्लेष-मात्रम् एव स्यात् । न तु ते भोगाय तत्र उत्पद्यन्ते । कुतः ? पूर्वेति । आकाशादि-भाववत् व्रीह्य्-आदि-भावस्याप्य् उक्तेर् इत्य् अर्थः । यथाकाशादिषु प्रवर्षणान्तेषु भोग-हेतुः कर्म नाभिलप्यते तथा व्रीह्य्-आदि-भावेऽपि । यत्र तु भागोऽभिमतस् तत्र, रमणीय-चरणा इत्य् आदिना तद् अभिलप्यते । तस्मात् संश्लेष-मात्रम् एव तत्, न तु मुख्यं जन्मेति ॥२५॥

र्प्च्- ७.१५.४१

**ह्द्स्- **३.३२.४४

॥ ३.१.२६ ॥
अशुद्धम् इति चेन् न शब्दात् ॥

नन्व् अन्यैर् अधिष्ठिते व्रीह्य्-आदि-देहे नौशयिनां संश्लेष-मात्रम् एव न तु भोगार्थं जन्म, भोग-हेतोः कर्मअर्णाभावात् इत्य् उक्तिर् अयुक्ता तद्-धेतोः सत्त्वात् । तथा हि, स्वर्गादि-फलकम् इष्टादि-कर्मैवाशुद्धम् अग्निसोमीयादि-पशु-हिंसा-मिश्रत्वात् । हिंसा तु पापम् एव। मा हिंस्यात् सर्वा भूतानि इति प्रतिषेधात् । ततश् च पूयांशः स्वर्गं दते पापांशस् तु व्रीह्य्-आदि-भावम् इति । शरीर-जैः कर्म-दोषैर् याति स्थावरतां नरः [मनु १२.९] इति स्मृतेश् च । अतो व्रीह्यादिषु मुख्यं जन्मेति चेन्, न । कुतः ? शब्दात् । अग्निषोमीयं पशुम् आलभेत इत्य् आदि-वेद-वाक्याद् इत्य् अर्थः । तथा च धर्मत्वाधर्मत्वयोर् वेदैक-गम्यत्वाद् उत्सर्गो हि सः । अग्निषोमीयम् इति त्व् अपवादः । उत्सर्गापवादयोर् व्यवस्थित-विषयत्वात् न किञ्चिच् चोद्यम् अस्ति। तस्माद् व्रीह्य्-आदिभिः संश्लेष-मात्रं जन्मेति ॥२६॥

**र्प्च्- **यजुः २.६.९.४९, भा।पु। ११.५.११, ११.५.१३।

ह्द्स्: ११.५.१३।

–ओ)०(ओ–

॥ ३.१.२७ ॥

इतोऽपीत्य् आह—

रेतः सिग्-योगोऽथ ॥

अथ व्रीह्य्-आदि-भावानन्तरम् अनुशयिनो रेतः-सिग्-योगस् तत्रैव श्रूयते । यो यो ह्य् अन्नम् अत्ति यो रेतः सिञ्चति तद् भूय एव भवति [छा।उ। ५.१०.६] इति । न च तस्य मुख्यं रेतः सिग्-रूपत्वम् । अन्यस्यान्य-रूपत्वासम्भवात् । तत्त्वे देहाप्त्य्-अयोगाच् च । तस्मात् संश्लेष-मात्रं तत्-स्वीकार्यम् । एवं सति व्रीह्यादाव् अपि तद् एवास्तु वैरूप्ये हेत्व्-अभावात् ॥२७॥

र्प्च्-

ह्द्स्- ३.३१.१।

॥ ३.१.२८ ॥
योनेः शरीरम् ॥

ल्यब्-लोपे कर्मणि पञ्चमी । पितृ-शरीरात् मातृ-योनिं प्रविश्य देहम् आप्नोत्य् अनुशय-फल-भोगाय, तद् य इह रमणीय-चरणाः [छा।उ। ५.१०.७] इत्य् आदेः । तस्माद् आकाशादि-प्राप्तिर् इव व्रीह्य्-आदि-प्राप्तिर् इति सिद्धम् । इत्थं च दुःख-सारे संसारे विरज्य हरिर् एवानन्द-मयो ध्येयः सुधियेति व्यञ्जितम् ॥२७॥

र्प्च्- ३.३१.१-४

**ह्द्स्- **३.३१.२

–ओ)०(ओ–

॥ इति गोविन्द-भाष्ये तृतीयाध्यायस्य प्रथमः पादः ॥

॥ ३.१ ॥

(३.२)


  1. तैत्तिरीय-संहिता १.६.८.१। ↩︎

  2. Sहन्कर अन्द् ओथेर्स् रेअद् थिस् अन्द् थे फ़ोल्लोwइन्ग् सुत्र तोगेथेर्। ↩︎

  3. Qउओतेद् ब्य् Rअमनुज इन् हिस् भाष्य। ↩︎

  4. अनिष्टादि-कार्य्-अधिकरणम् इन् Sहन्कर, एत्च्। Hअरिदस् Sहस्त्रि दिविदेस् थे अधिकरनस् अत् थे नेxत् सुत्र, थोउघ् थिस् दिविसिओन् सेएम्स् मोरे लोगिचल्। ↩︎

  5. असुर्या ↩︎

  6. Nओत् फ़ोउन्द् इन् Mअहाभारत। ↩︎

  7. भवन्ति ↩︎