त्वज्-जाताः कलितोत्पाताः मत्-प्राणाः सन्त्य् अमित्रभित् ।
एतान् शाधि तथा देव यथा सत्-पथ-गामिनः ॥
१। प्राणोत्पत्त्य्-अधिकरणम्
॥ २.४.१ ॥
भूत-विषयः श्रुति-विरोधः परिहृतस् तृतीय्-पादे । चतुर्थे तु प्राण-विषयः स परिह्रियते । गौण-मुख्य-भेदेन द्विविधाः प्राणाः । गौणाश् चक्षुर्-आदीन्य् एकादशेन्द्रियाणि मुख्यास् तु प्राणापानादयः पञ्चेति । तेषु गौणः परीक्ष्यन्ते । एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च इत्य् आदि श्रूयते । इम् अत्र जीववद् इन्द्रियाणाम् उत्पत्तिर् उत खादिवद् इति संशये—असद् वा इदम् अग्र आसीत् तद् आहुः किं तद् आसीद् इति ऋषायो वाव ते असद् आसीत् तद् आहुः के ते ऋषयः इति प्राणा वाव ऋषयः [शतपथ-ब्राह्मण ६.१.१] इत्य् अत्र ऋषि-प्राण-शब्दितानाम् इन्द्रियाणां सृष्टेः प्राक्-सत्त्व-श्रवणात् जीववद् इति पठति—
तथा प्राणाः ॥
यथा खादयः परस्माद् उत्पद्यन्ते तथा प्राणा इन्द्रियाणि चेत्य् अर्थः । प्राक्-सृष्टेर् एकत्वावधारणात्, मनः सर्वेन्द्रियाणि चैतस्मात् जायन्त1 इति श्रुतेश् च । अ च जीवोत्पत्तिवद् इन्द्रियोत्पत्तिर् भवितुम् अर्हति जीवानां चैतन्य-रूपाणां शब्दाभ्यां भाविव तत्र ग्राह्यम्, तयोः सार्वज्ञ्य-प्राणनाभिधायित्वात् ॥१॥
र्प्च्- २.५.३१, ११.२४.७, २.१०.१५
**ह्द्स्- **२.१०.१५
॥ २.४.२ ॥
ननु ऋषयः प्राणा इति बहुत्वानुपपतिः, तत्राह—
गौण्य्-असम्भवात् ॥2
बहुत्व-श्रुतिर् गौणी । कुतः ? स्वरूप-नानात्वाभावेन बह्व्-अर्थासम्भवात् । तथा च स्पर्शाभिप्रायं तत्र बहुत्वं भविष्यति । एक एवासौ वैदूर्यवद् अभिनेतृ-नटवच् च बहुधावभासते । एकं सन्तं बहुधा दृश्यमानं3, एकानेक-स्वरूपाय [वि।पु। १.२.३] इत्य् आदि श्रुति-स्मृतिभ्यश् च ॥२॥
र्प्च्- ८.५.२६।
**ह्द्स्- **२.१०.३६।
॥ २.४.३ ॥
तत् प्राक् श्रुतेश् च ॥
न च तदानीम् अनपीताः कतिचित् पदार्थाः स्यु तैर् बहुत्वोपपत्तिर् इति शक्यं शङ्कितुं सृष्टेः पूर्वम् एकत्वावधारण-श्रवणात् । अतश् च सा गौणीत्य् अर्थः ॥३॥
**र्प्च्- —
ह्द्स्- **२.१०.४३-४४।
॥ २.४.४ ॥
प्राण-शब्दस्य ब्रह्म-परत्वे युक्तिम् आह—
तत् पूर्वकत्वाद् वाचः ॥
वाचः सूक्ष्म-शक्ति-ब्रह्मान्य-विषयस्य नाम्नः प्रधान-महद्-आदि-सृष्टि-पूर्वकत्वात् तदा नाम-रूपताम् अभावेन तद्-उपकरणाम् इन्द्रियाणाम् अप्य् अभावात् प्राण-शब्दस् तत्र ब्रह्माभिधायीत्य् अर्थः । तद् धेदं तर्हि [बृ।आ।उ। १.४.७] इति श्रुतिः सृष्टेः पूर्वं नाम-रूपिणाम् अभावम् आह । तस्माद् इन्द्रियाणि खादिवद् उत्पन्नानीति ॥४॥
र्प्च्- २.५.३१, ११.२४.७, ३.६.७ ६.४.२८, २.१०.३५।
**ह्द्स्- **१.२.३३।
—ओ)०(ओ—
॥ २.४.५ ॥4
एवम् इन्द्रिय-विषयकं श्रुति-विरोधम् निरस्य तत्-सङ्ख्या-विषयकं तं निरस्ययति ।
सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्त होमाः । सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ [मु।उ। २.१.८] इति मुण्डके ।
दशेमे पुरुषे प्राणा आत्मैकादशः [बृ।आ।उ। ३.९.४] इति च बृहद्-आरण्यके श्रूयते । तत्र सप्तैव प्राणा उतैकादशेति संशये पूर्वपक्षम् आह—
सप्त गतेर् विशेषितत्वाच् च ॥
प्राणाः सप्तैव । कुतः ? गतेः । समानम् एव जीवेन सह सञ्चार-रूपाया गतेः श्रवणात् ।
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश् च न विचेष्टते ताम् आहुः परमां गतिम् ॥ [क।उ। २.३.१०]
इति काठके योग-दशायां ज्ञानानीति विशेषितत्वाच् च । श्रोत्रादि-पञ्चक-बुद्धि-मनांसि सप्तैव जीवस्येन्द्रियाणि भवन्ति । यानि तु वाक्-पाण्य्-आदीनि श्रूयन्ते, तेषां जीवेन सह गत्य्-अश्रवणाद् ईषद्-उपकार-मात्रेणेन्द्रियत्व-भणितिर् गौणीति ॥५॥
र्प्च्- ११.२२.२।
**ह्द्स्- **३.६.७, ३.६.९।
—ओ)०(ओ—
२। हस्तादयाधिकरणम्5
॥ २.४.६ ॥
एवं प्राप्ते सिद्धान्तयति—
**हस्तादयस् तु स्थितेऽतो नैवम् **
तु-शब्दश् चोद्य-निरासार्थः । हस्तादयः सप्तातिरिक्ताः प्राणा मन्तव्याः । कुतः ? जीवे देह-स्थिते तेषाम् अपि तद्-भोग-साधनत्वात् कार्य-भेदाच् च । तथा च बृहद्-आरण्यके पठ्यते—हस्तौ वै ग्रहः स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोति [बृ।आ।उ। ३.२.८] इत्य् आदि । अतः सप्तातिरेकाद् एव हेतोर् नैवं मन्तव्यं सप्तैवेति किन्तु पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि एकम् अन्तर् इन्द्रियम् इत्य् एकादशैवेन्द्रियाणि ग्राह्याणि । आत्मैकादशेत्य् अत्रात्मान्तर्-इन्द्रियं प्रकरणात् । इदम् अत्र बोध्यम् । शब्द-स्पर्श-रूप-रस-गन्ध-विषयाः पञ्च-ज्ञान-भेदास् तद्-अर्थानि पञ्च ज्ञानेन्द्रियाणि श्रोत्र-त्वक्-चक्षू-रसन-घ्राणाख्यानि । वचनादान-विहरणोत्सर्गानन्दाः पञ्च कर्म-भेदाः, तद्-अर्थानि च पञ्च कर्मेन्द्रियाणि वाक्-पाणि-पाद-पायूपस्थाख्यानि । सर्वार्थ-विषयं त्रि-काल-वर्त्य्-अन्तः-करणम् एकम् अनेक-वृत्तिकम् । तद् एव सङ्कल्पाद्यवसायाभिमान-चिन्ता-रूप-कार्य-भेदात् क्वचिद् भेदेन व्यपदिश्यते मनो बुद्धिर् अहङ्कारश् चित्तं चेति । तथा चैकादशैवेन्द्रियाणीति ॥६॥
र्प्च्- ११.२२.१४-१५, २.५.३०-३१।
**ह्द्स्- **३.२६.१२-१३।
—ओ)०(ओ—
३। प्राणाणुत्वाधिकरणम्
॥ २.४.७ ॥
प्राणानां परिमाणं चिन्तयति । प्राणा व्यापिनोऽणव वेति संशये दूर-श्रवण-दर्शनाद् एवानुभवाद् व्यापिन एवेति प्राप्ते—
अणवश् च ॥
चो निश्चये । अणव एवैकादश प्राणाः । दूर-श्रवणादिकं तु गुण-प्रसारात् सिद्धम् । जीवस्येव शिरोऽङ्घ्रि-व्यापित्वम् । एतेन प्राण-व्याप्ति-वादिनः साङ्ख्या निरस्ताः ॥७॥
र्प्च्- ११.३.४०
**ह्द्स्- **३.२६.३१, ३.२६.३४, ३.२८.५, ३.२८.३, ३.२८.९
—ओ)०(ओ—
४। प्राण-श्रेष्ठाधिकरणम्
॥ २.४.८ ॥
अथ एतस्माज् जायते प्राणः [मु।उ। २.१.३] इत्य् अत्र मुख्यः प्राणः परीक्ष्यते । श्रेष्ठः प्राणो जीववद्य् उत्पद्यते स्वादिवद् वेति विषये, नैव प्राण उदेति नास् तम् एति इत्य् आदि श्रुतेः ।
यत् प्राप्तिर् यत् परित्याग उत्पत्तिर् मरणं तथा । तस्योत्पत्तिर् मृतिश् चैव कथं प्राणस्य युज्यत ॥
इति स्मृतेश् च जीववद् इति प्राप्ते—
श्रेष्ठश् च ॥
श्रेष्ठः प्राणोऽपि खादिवद् उत्पद्यते, जायते प्राणः [मु।उ। २.१.३] इति श्रुतेः । स इदं सर्वम् असृजत इति प्रतिज्ञानुपरोधाच् चेति शेषः । एवं सत्य् अनुत्पत्तिर् आपेक्षिकी । श्रैष्ठ्यं चास्य काय-स्थिति-हेतुत्वात् वदन्ति । पृथग्-योग-करणम् उत्तर-चिन्तार्थम् ॥८॥
र्प्च्- ७.९.४७, २.१०.१५
**ह्द्स्- **२.१.२४, २.१०.१५
—ओ)०(ओ—
५। वायु-क्रियाधिकरणम्
॥ २.४.९ ॥
अथ तस्य स्वरूपं परीक्ष्यते । स किं वायुर् एव केवलः किं वा तत् स्पन्द-रूपा क्रियाथवा देशान्तर-गतो वायुर् इति विचिकित्सा । किं प्राप्तम् ? बाह्यो वायुर् एवेति । योऽयं प्राणः स वायुः [बृ।आ।उ। ३.१.५] इति बृहद्-आरण्यक-श्रुतेः । वायु-क्रिया वा प्राणः उच्छ्वास-निश्वास-रूपायां तत्-क्रियायां तच्-छब्दस्य प्रसिद्धेः । वायु-मात्रे तस्या प्रसिद्धेश् चेति प्राप्ते—
न वायु-क्रिये पृथग्-उपदेशात् ॥
श्रेष्ठः प्राणो न वायुर् न च तत्-स्पन्दः । कुतः ? पृथग् इति । एतस्माज् जायते प्राणः [मु।उ। २.१.३] इत्य् आदौ वायोः सकाशात् प्राणस्य पृथग्-उक्तेः । यदि वायुर् एव प्राणस् तर्हि तस्मात्, तस्य सा न स्यात् । यदि वा वायु-स्पन्दः प्राणस् तदापि वायोः सकाशात् तत्-क्रिया-रूपस्य प्राणस्य न सा सम्भवेत् । न ह्य् अग्न्य्-आदेः क्रिया तेन साकं पृथग्-उक्ता दृश्यते । योऽयं प्राणः स वायुः [बृ।आ।उ। ३.१.५] इति तु वायुर् एव किञ्चित् विशेषम् आपन्नः प्राणो, न तु ज्योतिर्-आदिवत् तत्त्वान्तरम् इति ज्ञापनार्थम् । यत् तु सामान्य-करण-वृत्तिः प्राणाद्या वायवः पञ्च [साङ्ख्य-कारिका २९] इति साङ्ख्यैः सर्वेन्द्रिय-व्यापारः प्राण इत्य् उक्तं तन् न एक-रूप-प्राणस्य विजातीय-नानेन्द्रिय-व्यापारत्वायोगात् ॥९॥
र्प्च्- ७.९.४७,
**ह्द्स्- **२.१०.१५-१७
—ओ)०(ओ—
६। जीवोपकरणत्वाधिकरणम्
॥ २.४.१० ॥
सुप्तेषु वाग्-आदिषु प्राण एको जागर्ति, प्राण एको मृत्यु-नानाप्तः, संवर्गो वाग्-आदीन् संवृङ्क्ते [छा।उ। ४.३.३], प्राण इतरान् प्राणान् रक्षति मातेव पुत्रान् इति बृहद्-आरण्यके पठ्यते6 । तत्र संशयः—मुख्यः प्राणो जीव एवास्मिन् देहे स्वतन्त्र उत जीवोपकरणम् इति । बहु-विभूति-श्रवणात् स एव स्वतन्त्र इति प्राप्ते—
चक्षुर्-आदिवत् तु तत् सह शिष्ट्य्-आदिभ्यः ॥
तु-शब्दः शङ्का-हानाय । प्राणेऽपि चक्षुर्-आदिवत् जीव-करणम् एव । कुतः ? तत्-सहेति । प्राण-संवादेषु तैश् चक्षुर्-आदिभिर् जीव-करणैः सह प्राणस्य शासनात् । समान-धर्माणां हि सह-शासनं युक्तं बृहद्रथान्तरादिवत् । आदि-शब्दात्—अथ यत्र वायं मुख्यः प्राणः स एवायं मध्यमः प्राणः इत्य् आदिना प्राण-शब्द-परिगृहीतेष्व् इन्द्रियेषु विशिष्याभिधानं गृह्यते । संहतत्वादि च स्वातन्त्र्य-निराकृति-हेतुः ॥१०॥
र्प्च्- ११.१४.३२, ३.२८.५-७
**ह्द्स्- **११.३.३९
॥ २.४.११ ॥
ननु चक्षुर्-आदिवज् जीवोपकरणत्वे प्राणस्याङ्गीकृते तद्वज् जीवोपकार-क्रियापि स्यात्, न च तादृशी काचिद् अस्ति यद्-अर्थ-मयं द्वादशः प्राणस् ततो न चक्षुर्-आदि-तौल्यम् इत्य् आक्षिप्य समाधत्ते—
अकरणत्वाच् च न दोषस् तथा हि दर्शयति ॥
आक्षेप-निरासाय च-शब्दः । करणं क्रिया । अक्रियत्वात् जीवोपकार-क्रिया-विरहात् यो दोषः सम्भाव्यते, स न स्यात् शरीरेन्द्रिय-धारणादि-लक्षण-परमोपकार-सत्त्वाद् इति भावः हि यतस् तथा छान्दोग्य-श्रुतिर् दर्शयति—अथ ह प्राणा अहं श्रेयसि व्यूदिरे [छा।उ। ५॥७] इत्य् आदिना । तस्माज् जीवोपकरणम् एव मुख्यः प्राणः । जीवस्य कर्तृत्वं च भोक्ट्र्त्वं च प्रति चक्षुर्-आदीनि राज-पुरुषवत् करणानि । प्राणस् तु राज-मन्त्रिवत् सर्वार्थ-साधकतया मुखोपकरणम् इति नास्य स्वातन्त्र्यम् ॥११॥
र्प्च्- ३.२६.३०-३१
**ह्द्स्- **३.२६.३१
—ओ)०(ओ—
७। पञ्च-वृत्त्य्-अधिकरणम्
॥ २.४.१२ ॥
यः प्राणः स वायुः । स एष वायुः पञ्च-विधः प्राणोऽपानो व्यान उदानः समान [बृ।आ।उ। १.५.३] इति श्रुतम् । तत्र किम् एते अपानादयः प्राणाद् भिद्यन्ते उत तद्-वृत्तय एवेति वीक्षायां सञ्ज्ञा-भेदान् कार्य-भेदाच् च भिद्यन्त इति प्राप्ते—
पञ्च-वृत्तिर् मनोवद् व्यपदिश्यते ॥
एक एव प्राणो हृदयादिषु स्थानेषु पञ्चधा वर्तमानो विलक्षणानि कृतार्याञ् आवहतीति पञ्च-वृत्तिः । स एव तथा व्यपदिश्यते । तस्मात् प्राण-वृत्तय एव ते, न ततो भिद्यन्ते । कार्य-भेद-निमित्तः सञ्ज्ञा-भेदः । स्वरूप-भेदस् तु नास्त्य् अतः पञ्चस्व् अपि प्राण-शब्दः । प्राणोऽपानो व्यान उदान समान इति । एतत् सर्वं प्राण एव [बृ।आ।उ। १.५.३] इति वचनाच् च । बृहद्-आरण्यके मनोवत्—कामः सण्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिर् अधृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव [बृ।आ।उ। १.५.३] इति । तत्रैव सञ्ज्ञा-भेदे कार्य-भेदेऽपि यथा कामादयो मनसो न भिद्यन्ते, किन्तु तस्य वृत्तय एव तद्वत् बहु-वृत्तित्व-मात्रेणायं दृष्टान्तः । योग-शास्त्रे मनोऽपि पञ्च-वृत्तिकम् उक्तम् । तद्-अभिप्रायेण वा निदर्शनम् इत्य् एके ॥१२॥
र्प्च्- ३.७.२३
**ह्द्स्- **३.६.७-८
—ओ)०(ओ—
८। श्रेष्ठाणुत्वाधिकरणम्
॥ २.४.१३ ॥
श्रेष्ठः प्राणो विभुर् अणुर् वेति वीक्षायां, सम एभिस् त्रिभिर् लोकैः इत्य् आदि श्रुतेर् विभुर् इति प्राप्ते—
अणुश् च ॥
श्रेष्ठोऽप्य् अणुर् एव उत्क्रान्ति-श्रुतेः । व्याप्ति-श्रुतिस् तु सर्वेषां प्राणिनां प्राणाधीन-स्थितिकतया नेया ॥१३॥
र्प्च्- २.२.२१
**ह्द्स्- **११.२८.१२, ११.२८.१७
—ओ)०(ओ—
९। ज्योतिर्-आद्य्-अधिकरणम्
॥ २.४.१४ ॥7
सुप्तेषु वाग्-आदिषु प्राण एको जागर्तीत्य् आदौ मुख्य-प्राणस्य प्रवृत्तिः श्रूयते । सप्त इमे लोका येषु चरन्ति प्राणा [मु।उ। २.१.८] इत्य् आदौ गौण-प्राणानां च तत्र तानि स-प्राणानि इन्द्रियाणि स्व-स्व-कार्याय स्वयं प्रवर्तेरन्न् उतैषां प्रेरकोऽन्योऽस्ति । स च देवता-गणो जीवः परो वेति वीक्षायां स्वयम् एव तानि प्रवर्तेरन् कार्य-शक्ति-योगात् देवता-गणो वा तत्-प्रवर्तकोऽस्तु । अग्निर् वाग् भूत्वा मुखं प्राविशत् [ऐ।उ। १.२.४] इत्य् आदि श्रुतेः । जीवो वा तद्-भोग-साधनत्वाद् इत्य् एवं प्राप्ते—
ज्योतिर्-आद्य्-अधिष्ठानं तु तद्-आमननात् ॥
तु-शब्दः शङ्का-निरासार्थः । ज्योतिर् ब्रह्मैव तेषाम् आद्य्-अधिष्ठानं मुख्य-प्रवर्तकम् । कर्तरि ल्युट् । कुतः ? तद् इति । अन्तर्यामि-ब्राह्मणे तस्यैव प्राणेन्द्रिय-प्रवर्तकत्वावगमात् । बृहद्-आरण्यके—यः प्राणेषु तिष्ठन् इत्य् आदिषु देवानां जीवस्य च तत्-प्रयोज्यानाम् एव प्रयोजकता न निवार्यते । स्वतः प्रवृत्तिस् तु न भवेत् जाड्यात् ॥१४॥
र्प्च्- २.५.३०
**ह्द्स्- **४.९.६-७
॥ २.४.१५ ॥
जीवस् तु तानि भोगार्थम् अधितिष्ठतीत्य् आह—
**प्राणवता शब्दात् ॥ **
प्राणवता जीवेन तानि स-प्राणानीन्द्रियाणि सङ्गृह्यन्ते भोगाय । एवं कुतः ? शब्दात् । स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथा-कामं परिवर्तेतैवम् एवैष एतत् प्राणान् गृहीत्वा स्वे शरीरे यथा-कामं परिवर्तते [बृ।आ।उ। २.१.१८] इति तत्रैव श्रवणात् । अयम् अत्र निष्कर्षः—परमात्मनाधिष्ठिता देवा जीवाश् चेन्द्रियानि अधितिष्ठन्ति । पूर्वे तत् प्रवर्तन-मात्राय, परे तु तैर् भोगाय । तत्रैव तत् सङ्कल्पाद् इति ॥१५॥
र्प्च्- १२.८.३४
**ह्द्स्- **६.४.२५
॥ २.४.१६ ॥
न चैतत् कदाचित् व्यभिचरतीत्य् आह—
तस्य च नित्यत्वात् ॥
तस्य सर्व-कर्मक-परमात्माधिष्ठानस्य तत् स्वरूपानुबन्धित्वेन नित्यत्वात् तत्-सङ्कल्पाद् एव तेषाम् अधिष्ठातृत्वम् । मुख्याधिष्ठातृत्वं तु तस्यैवेति मन्तव्यम् अन्तर्यामि-ब्राह्मणात् ॥१६॥
र्प्च्- १०.८७.४२
**ह्द्स्- **४.९.६
—ओ)०(ओ—
१०। इन्द्रियाधिकरणम्
॥ २.४.१७ ॥
अथ पूर्वस्मिन् विषये विमर्शान्तरम् । तत्र प्राण-शब्दिताः सर्वे इन्द्रियाण्य् उत श्रेष्ठेतरे इति संशये प्राण-शब्द-बोध्यत्वात् जीवोपकारित्वाच् च सर्व इति प्राप्ते—
त इन्द्रियाणि तद्-व्यपदेशाद् अन्यत्र श्रेष्ठात् ॥
ते प्राण-शब्दिताः श्रेष्ठेतरे एवेन्द्रियाणि । कुतः ? तद् इति । एतस्माद् इत्य् आदि श्रुतौ मुख्य-प्राणाद् इतरेषु श्रोत्रादिष्व् इन्द्रियत्व-वचनात् । इन्द्रियाणि दशैकं च [गीता १३.५] इत्य् आदौ स्मृतौ च । तथा प्राणो मुख्यः स त्व् अनिन्द्रियम् इति श्रुत्य्-अन्तराच् च ॥१७॥
र्प्च्- ३.६.९
**ह्द्स्- **२.१०.१६
॥ २.४.१८ ॥
ननु हन्तास्यैव से रूपम् असामेत्य् एतस्यैव सर्वे रूपम् अभवत् इति बृहद्-आरण्यकात् मुख्य-प्राणस्य वृत्ति-भेदानन्यान् प्राणान् अवधारयामस् तत् कथम् उक्त-व्यवस्थेति, तत्राह—
भेद-श्रुतेः ॥
प्राणो मनः सर्वेन्द्रियाणि च इति प्राणाद् इन्द्रियाणां भेद-श्रवणात् तत्त्वान्तराणि तानीत्य् अर्थः । न च भेद-श्रुतेर् मनसोऽनिन्द्रियत्वं शङ्क्यम् । मणः षष्टानीन्द्रियाणि [गीता १५.७] इति इन्द्रियाणां मनश् चास्मि [गीता १०.२२] इति च स्मृतेः ॥१८॥
र्प्च्- —-
**ह्द्स्- **२.१०.१५
**॥ २.४.१९ ॥
वैलक्षण्याच् च ॥ **
सुप्तौ प्राणस्य वृत्त्य्-उपलम्भो न तु श्रोत्रादीनाम् । तस्य देहेन्द्रिय-धारणं तेषां तु ज्ञान-कर्म-साधनत्वम् इति स्वरूपतः कार्यतश् च वैसादृश्यात् तानि तथा । मुख्य-प्राण-रूपता चैषां तद्-अधीन-वृत्तिकत्वादिना व्यपदिश्यते, यथा ब्रह्म-रूपता जीवानाम् ॥१९॥
र्प्च्- ६.३.२-४
**ह्द्स्- **२.१०.१६
—ओ)०(ओ—
११। सञ्ज्ञा-मूर्ति-कॢप्त्य्-अधिकरणम्
॥ २.४.२० ॥
भूतेन्द्रियादि-समष्टि-सृष्टिर् जीव-कर्तृका च परस्माद् इत्य् उक्तम् । इदानीं व्यष्टि-सृष्टिः कस्माद् इति परीक्ष्यते । छान्दोग्ये तेजोऽब्-अन्न-सृष्टिम् अभिधाय उपदिश्यते—
सेयं देवतैक्षत हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणीति । तासां त्रिवृतं त्रिवृतम् एकैकां करवाणीति सेयं देवतेमास् तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरोत् । तासां त्रिवृतं त्रिवृतम् एकैकाम् अकरोत् ॥ [छा।उ। ६.३.२-४] इति ।
इह नाम-रूप-व्यतिक्रिया जीव-कर्तृका स्याद् उतेश-कर्तृकेति विचिकित्सायां जीव-कर्तृकेति प्राप्तम्। अनेन जीवेन प्रविश्य व्याकरवाणीति तथा प्रत्ययात् । न च सहार्थेयं तृतीया । सम्भवन्त्यां कारक-विभक्त्याम् उपपद-विभक्तेर् अन्याय्यत्वात् । न च करणार्था सत्य-सङ्कल्पेश्वर-कार्ये जीवस्य साधकतमत्वाभावात् । न च प्रवेशो जीव-कर्तृकोऽस्तु व्याक्रिया त्व् ईश्वर-कर्तृका क्त्वा-प्रत्ययेनैक-कर्तृकत्व-बोधनात् । न चैतस्मिन् पक्षे व्याकरवाणीत्य् उत्तम-पुरुषानुपपत्तिः । चारेणानुप्रविश्य पर-सैन्यं सङ्कलयानीतिवद् उपपत्तेः । न चैतत् कपोल-कल्पनं, विरिञ्चो वा इदं विरेचयति विदधाति ब्रह्मा वाव विरिञ्च एतस्माद् धीमे रूप-नामनी इति श्रुत्य्-अन्तरात् । नाम-रूपं च भूतानाम् इत्य् आदि स्मरणाच् च । तस्मात् जीव-कर्तृका सेति प्राप्तौ—
सञ्ज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात् ॥
तु-शब्दाद् आक्षेपो व्यावृत्तः । सञ्ज्ञा-मूर्तौ नाम-रूपे तयोः कॢप्तिर् व्याक्रिया त्रिवृत् कुर्वतः परमेश्वरस्यैव कर्म, न तु जीवस्य । कुतः ? उपदेशात् । तस्यैव तत्-कॢप्ति-निगदात् । त्रिवृत्-करण-नाम-रूप-व्याकरणयोर् एक-कर्तृकत्वेनोक्तेर् इत्य् अर्थः । त्रिवृत्-करणं चोक्तम्—
त्रीण्य् एकैकं द्विधा कुर्यात् त्र्य्-अर्धानि विभजेद् द्विधा । तत्-तन्-मुख्यार्धम् उत्सृज्य योजयेच् च विरूपता ॥
पञ्चीकरणस्योपलक्षणम् एतत् । न च त्रिवृत्-कृतिश् चतुर्मुखस्य शक्त्या वक्तुम् । त्रिवृत्-कृत-तेजोऽब्-अन्न-निर्मिताण्ड-मध्य-जातत्वात् तस्य । तथा च स्मृतिः—तस्मिन्न् अण्डेऽभवद् ब्रह्मा सर्व-लोक-पितामहः [म।सं। १.९]8 इत्य् आद्या । तस्मात् सेयम् इत्य् अत्र नाम-रूप-व्याकृति-त्रिवृत्-कृत्योर् एक-कर्तृकत्वं विवक्षितं, न तु पौर्वापर्यम् अर्थ-क्रमेण पाठ-क्रमस्य बाधात् । पूर्वां त्रिवृत्-कृतिर् उत्तरा तु नाम-रूप-व्याकृतिर् इति । न चात्रिवृत्-कृतैस् तेजोऽब्-अन्नैर् अण्डोत्पत्तिः । अत्रिवृतां तेषां तत्रासामार्थ्यात् । तथा हि स्मृतिः—
यदैतेऽसङ्गता भावा भूतेन्द्रिय-मनो-गुणाः । यदायतन-निर्माणे न शेकुर् ब्रह्म-वित्तम ॥ तदा संहत्य चान्योन्यं भगवच्-छक्ति-चोदिताः । सद्-असत्त्वम् उपादाय चोभयं ससृजुर् ह्य् अदः ॥ [भा। २.५.३२-३३] इत्य् आद्या ।
इह पञ्ची-करणम् उक्तम् । तच् चेत्थं बोध्यम्—विभज्य द्विधा पञ्च-भूतानि देवस् तद्-अर्धानि पञ्चब्धि-भागानि कृत्वा तद्-अन्येषु मुख्येषु भागेषु तत् तन् नियुञ्जन् स पञ्चीकृतिं पश्यअति स्म । अन्नम् अशितं त्रिधा विधीयते [छा।उ। ६.५.१] इत्य् आदौ तु पृथिव्यादेर् एकैकस्य त्रेधा परिणामो वर्ण्यते, न तु त्रिवृत्-कृतिः । न चानेन जीवेनेति जीवस्य नाम-रूप-निर्मातृत्वं बोधयेद् इति वाच्यम् । आत्मना जीवेनेति सामानाधिकरण्येन जीव-शक्तिमतस् तद्-व्यापिनो ब्रह्मण एव तत्त्वाभिधानात् । एतेन विरिञ्चो वा इत्य् आदिकं व्याख्यातम् । एवं च प्रविश्योत्तम-पुरुषयोर् अकष्टता मुख्यार्थता च स्यात् । तथा च प्रवेश-व्याकरणयोर् एक-कर्तृकता च । तस्माद् ईश-कर्तृकैव तद्-व्याकृतिः । सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यद् आस्ते [तै।आ। ३.१२.१६] इति तैत्तिरीयकाच् च ॥२०॥
र्प्च्: २.५.३२-३३, २.१०.३, २.६.३०, २.५.११, २.५.२१, २.५.१४, २.६.१५, १०.८५.६, ४.७.४९, १.१०.२२, ६.४.२८।
**ह्द्स्- **३.२६.१९-२०।
॥ २.४.२१ ॥
अथ मूर्ति-शब्दितो देहः परीक्ष्यते । शरीरं पृथिवीम् अप्येति इति श्रुतेः पार्थिवो देहः अद्भ्यो हीदम् उत्पद्यते आपो वाव मांसम् अस्थि च भवन्त्य् आपः शरीरम् आप एव्दं सर्वम् इति श्रुतेर् आप्यः, स अग्नेर् देव-योन्या इत्य् आदि श्रुतेस् तैजसश् च । इह भवति संशयः—देहः पार्थिवः आप्यस् तैजसश् च स्याद् उत सर्वोऽपि त्र्य्-आत्मक इति त्रविध्य-श्रवणाद् अनिर्णयेन भाव्यम् इति प्राप्ते—
मांसादि-भौमं यथा-शब्दम् इतरयोश् च ॥
मांसाद्य् एव हेहस्य भौमं भूमेः कार्यं भवति । तथेतर्योर् जल-तेजसोश् च कृत्यम् असृग्-अस्थ्य्-आदिकं तत्रास्ति । तद् एतत् यथा शब्दम् अभ्युपेयम् । शब्दश् च, यत् कठिनं सा पृथिवी, यद् द्रवं तद् आपो, यद् उष्णं तत् तेजः इति गर्भोपनिषत् । तथा च सर्वो देहस् त्रिरूपः ॥२१॥
र्प्च्: ५.१२.५
**ह्द्स्- **३.२६.१२।
॥ २.४.२२ ॥
ननु सर्वं चेद् भूत-भौतिकं त्रि-रूपं तर्हि किं निमित्तोऽयं व्यपदेशः इदं तेज इमा आप इयं पृथिवीति तैजसम् आप्यं पार्थिवं च शरीरम् इति । तत्राह—
वैशेष्यात् तु तद्-वादस् तद्-वादः ॥
शङ्काच्छेदाय तु-शब्दः । सत्य् अपि सर्वत्र त्रैरूप्ये क्वचित् कस्यचिद् भूतस्य वैशेष्याद् आधिक्यात् तद्-वाद इत्य् अर्थः । पदाभ्यासोऽध्याय-पूर्तये ॥२२॥
र्प्च्- —-
**ह्द्स्- **३.२६.४४, ३.२६.४८
वर्धस्व कल्पाग समं समन्तात्
कुरुष्व ताप-क्षतिम् आश्रितानाम् ।
त्वद्-अङ्ग-सङ्कीर्णिकराः परास् ता
हिंस्रा लसद्-युक्ति-कुठारिकाभिः ॥
—ओ)०(ओ—
इति श्रीमद्-ब्रह्म-सूत्र-भाष्ये द्वितीयाध्यायस्य चतुर्थः पादः
॥ २.४ ॥
-
Mउण्डक Uपनिषद् ३.१.३—एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च। ↩︎
-
Rअमनुज रेअद्स् थिस् अन्द् थे नेxत् सुत्र अस् ओने ↩︎
-
Bअलदेव क़ुओतेस् थे समे वेर्से तो Gईता १३.१६, बुत् इत् इस् गिवेन् थेरे सिम्प्ल्य् अस् श्रुति। ↩︎
-
Sहन्कर हस् थिस् अस् सप्त-गत्य्-अधिकरणम् अन्द् दोएस् नोत् स्तर्त् अ नेw अधिकरन wइथ् थे नेxत् वेर्से॥ ↩︎
-
Tहिस् इस् Hअरिदस् Sहस्त्रिऽस् अधिकरन, नोत् इन् Rअमपद॥ ↩︎
-
Tहेसे समे तेxत्स् अरे क़ुओतेद् इन् Sहन्करऽस् भष्य इन् थे एxअच्त् समे सेक़ुएन्चे। Tहेय् अरे नोत् फ़ोउन्द् इन् Bऋहद्-आरण्यक अन्द् अप्पेअर् तो बे अ परफ्रसे ओफ़् सेवेरल् तेxत्स् फ़्रोम् सेवेरल् सोउर्चेस्। Sएए Pरश्न २.१२।-१३ अन्द् ३.४। ↩︎
-
Tहिस् अन्द् थे नेxत् सुत्र अरे रेअद् अस् ओने ब्य् Rअमनुज। ↩︎
-
तस्मिन् जज्ञे स्वयं ब्रह्मा सर्व-लोक-पितामहः । ↩︎