व्योमादि-विषयां गोभिर् विमतिं विजघान यः ।

स तां मद्-विषयां भास्वान् कृष्णः प्रणिहनिष्यति ॥

१। वियद्-अधिकरणम्

॥ २.३.१ ॥

प्रधानादि-वादानां युक्त्याभासमयता द्वितीये पादे प्रदर्शिता । तृतीये तु सर्वेश्वरात् तत्त्वानाम् उत्पत्तिस् तेनैव तेषां विलयो, जीवानां त्व् अनुत्पत्तिर् ज्ञान-वपुषां तेषां ज्ञानाश्रयत्वं परमाणुता ज्ञान-द्वारा व्याप्तिः कर्तृत्वं ब्रह्मांशता, मत्स्याद्य्-अवताराणां साक्षाद् ईश्वरत्वम् अदृष्टादि-हेतुका जीव-वैचित्री चेत्य् अयम् अर्थ-निचयो विरोधि-वाक्य-परिहारेणोपपाद्यते । इह प्रधान-महद्-अहङ्कार-तन्-मात्रेन्द्रिय-वियद्-आदि-रूपेण सृष्टी-क्रमः सुबालादि-श्रुति-सिद्धो मुख्यः । तैत्तिरीयादि-क्रमेण वियद्-आदितस् तद्-विचारस् तु विसम्ंवाद-विनाशायेति स्पष्टम् उपरिष्टाद् भविष्यति । छान्दोग्ये—सद् एव सौम्येदम् अग्र आसीत् [छा।उ। ६.२.१] इत्य् उपक्रम्य, तद् ऐक्षत बहु स्यां प्रजायेयेति तत् तेजोऽसृजत [छा।उ। ६.२.३], तत् तेज ऐक्षत बहु स्यां प्रजायेयेति, तद्-अपोऽसृजत । ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नम् असृजन्त [तै।उ। २.१.३] इति पठ्यन्ते । अत्र तेजोऽवन्नानि प्रजातानीत्य् उक्तम् । इह भवति विमर्शः । वियत् प्रजायते न वेति संशये श्रुत्य्-अभावान् न प्रजायत इति शङ्कते ।

न वियद् अश्रुतेः ।

नित्यं वियन् न प्रजायते । कुतः ? अश्रुतेः । छान्दोग्य-गत-भूतोत्पत्ति-प्रकरणे तस्याश्रवणात् । तत्र तद् ऐक्षतेत्य् आदिना त्रयाणाम् एव तेजोऽब्-अन्नानाम् उत्पत्तिः श्रूयते, न तु वियतोऽतस् तन् नोत्पद्यत इत्य् अर्थः ॥१॥

र्प्च्- २.२.२८, ११.११.२८, ११.१५.१९।

ह्द्स्- ११.३.३

—ओ)०(ओ—

२। वियद्-उत्पत्त्य्-अधिकरणम्

॥ २.३.२ ॥

एवं प्राप्तौ निरस्यति—

अस्ति तु ॥1

तु-शब्दः शङ्कापनोदनार्थः । अस्त्य् उत्पत्तिर् वियतः । छान्दोग्ये तस्याश्रवणेऽपि तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः आकाशाद् वायुर्, वायोर् अग्निर्, अग्नेर् आपोऽद्भ्यो महती पृथिवीति [तै।उ। २.१] तैत्तिरीयके श्रवणात् ॥२॥

र्प्च्- ४.२४.६०, ८.५.२९, २.५.२५, ३.५.३२।

**ह्द्स्- **२.५.२५

॥ २.३.३ ॥

पुनः शङ्क्यते—

गौण्य-सम्भवाच् छब्दाच् च ॥2

न खलु वियद् उत्पत्तिः सम्भावयितुम् अपि शक्या जीवत्सु श्रीमत्-कण-भक्षाक्ष-चरण-चरणोपजीविषु । या तूत्पत्तिः श्रुतिभिर् उदाहृता सा किल, कुर्व् आकाशं जातम् आकाशम् इत्य् आदि-लोकोक्तिवद् गौणी भविष्यति । कुतः ? असम्भवात् । नहि निराकारस्य विभोर् वियतः सम्भवेद् उत्पत्तिः कारण-सामग्री-विरहाच् छब्दाच् च । वायुश् चान्तरीक्षं चैतद् अमृतम् इति बृहद्-आरण्यक-वाक्याच् च तस्योत्पत्तिर् नास्तीति मन्तव्यम् ॥३॥ \

**र्प्च्- —
ह्द्स्- **११.३.३

॥ २.३.४ ॥

यदि कश्चिद् ब्रूयाद् एक एव सम्भूत-शब्दोऽग्नि-प्रभृताव् अनुवर्तमानो मुख्य आकाशे पुनर् गौणः कथम् ? इति । तं प्रत्य् आह—

स्याच् चैकस्य ब्रह्म-शब्दवत् ।

यथा भृगु-वल्ल्यां तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्म [तै।उ। ३.२.१] इत्य् एकस्मिन्न् एव वाक्ये एकस्यैव ब्रह्म-शब्दस्य ब्रह्म-विज्ञान-साधने तपसि गौणत्वं विज्ञेये, ब्रह्मणि तु मुख्यत्वम् । एवं सम्भूत-शब्दस्यापि स्यात् । तस्माच् छान्दोग्याश्रवणाद् इतः क्वाचित्की वियद् उत्पत्ति-श्रुतिर् बाध्यते ॥४॥

र्प्च्-
ह्द्स्-
११.३.१४

—ओ)०(ओ—

३। प्रतिज्ञा-हान्य्-अधिकरणम्

॥ २.३.५ ॥

एवं प्राप्तौ पुनः परिहरति—

प्रतिज्ञा-हानिर् अव्यतिरेकाच् छब्देभ्यः ।

येनाश्रुतं श्रुतं भवति इत्य् आदि छान्दोग्य-श्रुत्या कृता या प्रतिज्ञा तस्या अहानिः कृत्स्नस्यार्थस्य ब्रह्माव्यातिरेकात् सम्पद्यते । व्यतिरेके तु सति सा विहीयेतैव । तद् अव्यतिरेकस् तु तद्-उपादानकत्व-निबन्धनः । तस्माद् एक-विज्ञानेन सर्व-विज्ञानं प्रतिजानन्त्या तया वियद्-उत्पत्तिर् अङ्गीकृता । तथा शब्देभ्यश् च, सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् ऐतदात्म्यम् इदं सर्वम् इत्य् आदिभ्यस् तद्-गतेभ्यः प्राक् सर्गाद् एकत्वं परत्र तादात्म्यं च निरूपयद्भ्यः सा स्वीकार्या ॥५॥

**र्प्च्-
ह्द्स्- **१.२.३०-३१

॥ २.३.६ ॥

ननु वाचकाभावात् कथम् अत्र सा वक्तुं शक्या ? तत्राह—

यावद्-विकारं तु विभागो लोकवत् ।

तु-शब्दः शङ्का-प्रहाणाय । ऐतदात्म्यम् इदं सर्वम् इत्य् अत्र यावद्-विकारं विभागो निरूपितः । प्रधान-महद्-आदयो यावन्तो विकाराः सुबालादि-श्रुत्य्-अन्तरोक्तास् तेषां सर्वेषाम् एव विभागस् तयापि बोधित इत्य् अर्थः । दृष्टान्तम् आह—लोकेति । लोके यथैते सर्वे चैत्रात्मजा इत्य् उक्त्वा तेषु केषाञ्चिद् एव चैत्राद् उत्पत्तौ कीर्तितायां तस्माद् एव सर्वेषाम् उत्पत्तिर् विदिता स्यात् तथेहाप्य् ऐतदात्म्यम् इदं सर्वम् इत्य् अनेन सर्वाणि प्रधान-महद्-आदीनि तत्त्वानि सद्-उत्पन्नान्य् उक्त्वा तेषु तेजोऽब्-अन्नानां सत उत्पत्तौ कीर्तितायां सर्वेषां तेषां तस्माद् उत्पत्तिर् विदिता भवति इति । तथा च वाचकाभावेऽप्य् आर्थिकी वियद्-उत्पत्तिर् अत्र गम्येति । विभाग उत्पत्तिः । यत् तु गौण्य-सम्भवाच् छब्दाच् चेत्य् उक्तं, तन् न अचिन्त्य-शक्तेर् उत्पादक-सामग्र्याः श्रवणात् । अमृतत्वं त्व् आपेक्षिकम् एवोत्पत्ति-विनाश-श्रवणात् । एवम् अनुमानाच् च तस्योत्पत्ति-विनाशौ निश्चिनुमः । वियद् उत्पद्यते भूतत्वात् । विनश्यति चानित्य-गुणाश्रयत्वाद् अग्निवद् इत्य् उभयत्रान्वय-दृष्टान्तः । यन् नैवं तन् नैवं यथात्मेत्य् उभयत्र व्यतिरेक-दृष्टान्तश् च । एतेन स्याच् चैकस्येत्य् अपि निरस्तम् । तस्मान् नव्यो न व्योम-जन्माभ्युपगमः ॥६॥

र्प्च्-
ह्द्स्-
६.४.३०

—ओ)०(ओ—

४। मातरिश्वाधिकरणम्

॥ २.३.७ ॥

वायौ पूर्वोक्तम् अर्थम् अतिदिशति—

एतेन मातरिश्वा व्याख्यातः ।

एतेन वियज्-जन्म-व्याख्यानेन मातरिश्वा तद्-आश्रितो वायुर् अपि कार्यतयोक्त इत्य् अर्थः । इहाप्य् एवम् अङ्गानि बोध्यानि । वायुर् नोत्पद्यते छान्दोग्येऽनुक्तेः । अस्त्य् उत्पत्तिर् आकाशाद् वायुर् इत्य् उक्तेस् तैत्तरीयके । गौण्य् उत्पत्तिर् अमृतत्व-श्रुतेः । प्रतिज्ञानुपरोधाद् ऐअदात्म्यम् इदं सर्वम् इति सर्वेषां ब्रह्म-कार्यत्वोक्तेश् च छान्दोग्येऽपि वायोर् उत्पत्तिर् बोध्येति सिद्धान्तः । अमृतत्वं त्वापेक्षिकम् इत्य् उक्तम् । योग-विभागस् तेजः-सूत्रे मातरिश्व-परामर्शार्थः ॥७॥

र्प्च्-
ह्द्स्-
३.२६.३५

—ओ)०(ओ—

५। असम्भवाधिकरणम्

॥ २.३.८ ॥

अथ सद् एव सौम्येदम् इत्य् आदौ सन्देहान्तरम् । सद् ब्रह्माप्य् उत्पद्यते न वेति । कारणानाम् अपि प्रधान-महद्-आदीनाम् उत्पत्त्य्-अभिधानात् सद् अप्य् उत्पद्यते तस्यापि कारणत्वाविषयाद् इत्य् एवं प्राप्तौ—

**असम्भवस् तु सतोऽनुपपत्तेः **

तु-शब्दः शङ्का-च्छेदे निश्चये वा । सतो ब्रह्मणः सम्भवः उत्पत्तिर् नैवास्ति । कुतः ? अनुपपत्तेः । हेतु-विरहिणस् तस्य तद्-अयोगाद् इत्य् अर्थः । अत एवं श्रुतिर् आह—

स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः ॥ [श्वे।उ। ६.९] इति ।

न च कारणत्वाद् उत्पत्तिमद् इत्य् अनुमातुं शक्यं श्रुत्यानुमान-बाधात् । मूल-कारणस्य स्वीकार्यत्वात् तद्-अभावेऽनवस्थापाताच् च । यन् मूल-कारणं तत् त्व् अमूलम् एव । मूले मूलाभावाद् इति । इह ब्रह्मोत्पत्ति-शङ्का-परिहारेणैवं ज्ञाप्यते । ब्रह्मैव परम-कारणत्वाद् उत्पत्ति-शून्यं तद् अन्यद् अव्यक्त-महद्-आदिकं तु सर्वम् उत्पत्तिमद् एव । खादि-जन्म-निरूपणं तूदाहरणार्थम् इति ॥८॥

र्प्च्-
ह्द्स्-

—ओ)०(ओ—

६। तेजोऽधिकरणम्

॥ २.३.९ ॥

एवं प्रासङ्गिकं समाप्य तेजो-विषयकं श्रुति-विरोधं परिहरति । तत् तेजोऽसृजत इति ब्रह्मअजत्वं तेजसः श्रुतम् । वायोर् अग्निर् इति तु वायुजत्वम् । तत्र वायोर् इति पञ्चम्या आनन्तर्यार्थत्वस्यापी सम्भवात् ब्रह्मजं तद् इति प्राप्ते—

तेजोऽतस् तथा ह्य् आह ॥

अतो मातरिश्वनः सकाशात् तेज उत्पद्यते । तथा हि श्रुतिर् आह—वायोर् अग्निर् इति । इदम् अत्र बोध्यम् । अनुवर्तमान-सम्भूत-शब्दान्वितत्वेन वायोर् इति पञ्चम्या अपादानार्थत्वम् एव मुख्यं कॢप्तत्वात् । आनन्तर्यार्थत्वं तु भाक्तं कल्प्यत्वात् । ततश् च मुख्यम् एव न्याय्यत्वाद् ग्राह्यम् । एवम् अपि वक्ष्यमाण-युक्त्या ब्रह्मजत्वं च न विरुध्यते ॥९॥

र्प्च्-
ह्द्स्-
४.२५.६३

—ओ)०(ओ—

७। अब्-अधिकरणम्

॥ २.३.१० ॥

अथापाम् उत्पत्तिम् आह । तत्र यद्य् उभयत्राप्य् अग्नेर् एव तद्-उत्पत्तिर् उक्ता तथापि विरुद्धात् तस्मात् सा न युज्येतेति कस्यचित् शङ्का स्यात् । ताम् अपनेतुं सूत्रारम्भः—

आपः ॥

अतस् तथाह्याहेत्य् अनुवर्तते । आपोऽतस् तेजस उत्पद्यन्ते । हि यतस् तथा श्रुतिर् आह । तद् अपोऽसृजतेत्य् अग्नेर् आप इति च । न हि वाचनिकेऽर्थे न्यायोऽवतरति । छान्दोग्ये तूपपादिका युक्तिर् अपि दृश्यते । तस्मात् यत्र क्व च शोचति स्वेदते वा पुरुषस् तेजस एव तद् अध्य् आपो जायन्ते इति ॥१०॥

**र्प्च्-
ह्द्स्- **३.२६.४७, ४.२५.६३

—ओ)०(ओ—

८। पृथिव्य्-अधिकरणम्

॥ २.३.११ ॥

ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नम् असृजन्त [छा।उ। ६.२.४] इति विचारान्तरम्। किम् अनेनान्न-शब्देन यवादिकं ग्राह्यं किं वा पृथिवीति । तस्मात् यत्र क्वचन वर्षति तद् एव भूयिष्ठम् अन्नं भवत्य् अद्भ्य एव तद्-अध्यन् नाद्यं जायत इति तत्रैव युक्ति-प्रदर्शनाद् रूढेश् च यवादिकम् इति प्राप्ते—

**पृथिव्य्-अधिकार-रूप-शब्दान्तरेभ्यः **

पृथिव्य् एव ग्राह्या, न तु यवादि । कुतः ? अधिकारेत्य् आदेः । तत् तेजोऽसृजत इति महा-भूतानाम् एवाधिकारात् यत् कृष्णं तद् अन्नस्येति पार्थिव-रूपत्वात् अद्भ्यः पृथिवीति श्रुत्य्-अन्तराच् चेत्य् अर्थः । एवं सति तस्माद् यत्र क्वचनेत्य् आदिकं तु हेतु-फलयोर् ऐक्य-विवक्षया सङ्गमनीयम् ॥११॥

**र्प्च्-
ह्द्स्- **३.२६.४४, ४.२५.६२

—ओ)०(ओ—

९। तद्-अभिध्यानाधिकरणम्

॥ २.३.१२ ॥

वियद्-आदि-क्रमेण तत्त्व-सृष्टि-विमर्शो विसंवाद-परिहारायैव कृतः । प्रधान-महद्-आदि-रूपेण तद्-विमर्शस् तु जन्मादि-सूत्रेणैव सिद्धः । अथ तस्मिन् विशेषं वक्तुम् आरभते । सुबालोपनिषदि पठ्यते—तद् बाहुः किं तदासीत् तस्मै सहोवाच न सन्न् आसन् न सद् असद् इति तस्मात् तमः सञ्जायते तस्माद् भूतादिर् भूतादेर् आकाशम् आकशाद् वायुर् वायोर् अग्निर् अग्नेर् आपोऽद्भ्यः पृथिवी तद्-अण्डम् अभवत् इति । इह तम-आकाशयोर् अन्तरालेऽक्षराव्यक्त-महद्-भूतादि-तन्-मात्रेन्द्रियाणि क्रमेण बोध्यानि । सन्दग्धा सर्वाणि भूतानि पृथिव्य्-अप्सु प्रलीयते । आपस् तेजसि लीयन्ते । तेजो वायौ विलीयते । वायुर् आकाशे विलीयते । आकाशम् इन्द्रियेष्व् इन्द्रियाणि तन्-मात्रेषु तन्-मात्राणि भूतादौ विलीयन्ते । तम एकीभवति परस्मिन् । परस्मात् न सन् नासन् न सद् असत् इत्य् अग्रिम-लय-वाक्यानुरोधात् । एतच् चापाततो वस्तुतस् तु भूतादि-शब्देनाहङ्कारस् त्रिविधः । तस्मात् सात्त्विकात् मनो देवताश् च । राजसाद् इन्द्रियाणि । तामसात् तु तन्-मात्र-द्वाराकाशादीनीति बहु-व्याख्यानुसारान् । श्री-गोपालोपनिषदि च—पूर्वं ह्य् एकम् एवाद्वितीयं ब्रह्मासीत् तस्माद् अव्यक्तम् अव्यक्तम् एवाक्षरं तस्माद् अक्षरात् महत् तत्त्वं महतो वै अहङ्कारस् तस्माद् एवाहङ्कारात् पञ्च तन्-मात्राणि तेभ्यो भूतानि तैर् आवृतम् अक्षरं भवति [२.५२] इति । तत्र संशयः—प्रधानाद् इति स्वानन्तर-तत्त्वाद् उपजायन्ते उत साक्षाद् एव सर्वेश्वरात् ? इति । शब्द-स्वारस्यात् स्वानन्तर-तत्त्वाद् एवेति प्राप्ते—

तद्-अभिध्यानाद् एव तु तल्-लिङ्गात् सः ॥

शङ्का-च्छेदाय तु-शब्दः । स तम आदि-शक्तिकः सर्वेश्वर एव प्रधानादीनां पृथिव्य्-अन्तानां कार्याणां साक्षाद्-धेतुः । कुतः ? तद्-अभीति । सोऽकामयत बहु स्यां प्रजायेय इत्य् आदौ तस्यैव तच्-छक्तिकस्य प्रधानादि-बहु-भवन-सङ्कल्पात् लिङ्गात् ब्रह्मैव तमः-प्रभृतीनि प्रविश्यः प्रधानादि-रूपेण तानि परिणमयति । यस्य पृथिवी शरीरम् इत्य् आदि-श्रुतेर् अन्तर्यामि-ब्राह्मणाच् च ॥१२॥

—ओ)०(ओ—

॥ २.३.१३ ॥
विपर्ययेण तु क्रमोऽत उपपद्यते च ॥

तु-शब्दोऽवधारणे ।

एतस्माज् जायते प्राणो मनः सर्वेन्द्रियाणि च । स्वं वायुर् ज्योतिर् आपश् च पृथिवी विश्वस्य धारिणी ॥

इति मुण्डक-श्रुतौ सुबाल-श्रुत्य्-आदि-दृष्टात् प्रधान-महद्-आदि-क्रमात् विपर्ययेण यः क्रमः साक्षात् सर्वेश्वरानन्तर्य-रूपः सर्वेषां प्राणादि-पृथिव्य्-अन्तानां प्रतीयते स खल्व् अतः सर्वेश्वराद् एव तत्-तद्-वस्तु-शक्तिकात् तत्-तत्-कार्योत्पत्तेर् उपपद्यते । अन्यथा शब्द-स्वारस्य-भङ्गः । सर्वेश्वरस्य सर्वोपादानत्वं सर्व-स्रष्टृत्वं तद्-विज्ञानेन सर्व-विज्ञानं व्याकुप्येत् । जडैः प्रधानादिभिस् तत्-तत्-परिणामासम्भवश् चेति च-शब्दात् । तस्मात् स एव सर्वत्र साक्षाद् धेतुर् इति ॥१३॥

र्प्च्-
ह्द्स्-
१०.४८.१८-१९।

॥ २.३.१४ ॥

आशङ्क्य परिहरति—

अन्तरा विज्ञान-मनसी क्रमेण तल्-लिङ्गाद् इति चेन् नाविशेषात् ।

विज्ञान-शब्देनात्मेन्द्रियाणि भण्यन्ते । सर्वेषां तत्त्वानां साक्षात् सर्वेशाद् उत्पत्तिर् अभिध्यान-लिङ्गाद् अवगता एतस्माद् इति श्रुत्या निश्चीयते इति न सम्भवति, तस्याः क्रम-विशेष-परत्वात् । आकाशादिषु श्रुत्य्-अन्तर-सिद्धः क्रमस् तयापि खं वायुर् इत्य् आदिना प्रतीयते । तल्-लिङ्गात् तैः सह पाठ-लिङ्गात् । भूत-प्राणयोर् अन्तराले तेनैव क्रमेण विज्ञान-मनसी च प्रजायेते इत्य् अवबुद्ध्यते । अतस् त्वया श्रुत्या सर्वेषां तत्त्वानां साक्षात् सर्वेशाद् उत्पत्तिर् निश्चेतुं न शक्येति चेन् न । कुतः ? अविशेषात् । तस्यां सर्वेषां प्राणादि-पृथिव्य्-अन्तानां साक्षात् सर्वेश-जातत्वाभिधानस्य समानत्वाद् इत्य् अर्थः । एतस्माद् इत्य् अनेन हि सर्वे प्राणादयः सम्बध्यन्ते । अयं भावः । सोऽकामयत बहु स्याम् इत्य् आदेर् एतस्मात् जायते प्राण इत्य् आदेश् च श्रवणात् । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [गीता १०.९],

तत्र तत्र स्थितो विष्णुस् तत्-तच्-छक्तिं प्रबोधयेत् । एक एव महा-शक्तिः कुरुते सर्वम् अञ्जसा ॥ इत्य् आदि स्मृतेश् च ।

सर्वाणि प्रधानादीनि साक्षात् सर्वेशोद्भवानीति मन्तव्यम् । न चैवं सुबाल-श्रुत्यादि-दृष्ट-क्रम-विरोधः । तम-आदि-शक्तिमान् प्रधानादि-कार्य-हेतुर् इति तत्र विवक्षितत्वात् । तथा चोभयं सूपपन्नम् । तद् एवं सति तत्-तेजोऽसृजतेत्य् अत्र तत् तमः प्रभृति-शक्तिकं ब्रह्म प्रधानादि-वाय्व्-अन्तं सृष्ट्वा तेजोऽसृजतेति तस्माद् वा इत्य् अत्र तत् तस्मात् तमः-प्रभृति-शक्तिकात् सम्भावित-प्रधानादिकाद् आत्मनः सर्वेशाद् आकाशः सम्भूत इति सङ्गमनीयम् ॥१४॥

र्प्च्-
ह्द्स्-
१०.७०.३८।

—ओ)०(ओ—

१०। चराचर-व्यपाश्रयाधिकरणम्

॥ २.३.१५ ॥

नन्व् एवं सर्वेश्वरो हरिर् एव चेत् सर्वात्मकस् तर्हि सर्वेषां चराचर-वाचिनां शब्दानां तद्-वाचकतापत्तिः । न च सा तेषां समस्ति चराचरेषु मुख्य-व्युत्पन्नत्वात् । स्वीकृतायां च तस्यां गौणी तेषां तस्मिन् प्रवृत्तिर् इत्य् आशङ्क्याह—

चराचर-व्यपाश्रयस् तु स्यात्
तद्-व्यपदेशोऽभाक्तस् तद्-भाव-भावितत्वात् ॥

तु-शब्दः शङ्का-निरासार्थः । चराचर-व्यपाश्रयस् तद्-व्यपदेशो जङ्गम-स्थावर-शरीर-वाचकस् तत्-तच्-छब्दो भगवत्य् अभाक्तो मुख्यः स्यात् । कुतः ? तद्-भावेति । तद्-भावस्य सर्वेषां शब्दानां भगवद्-वाचक-भावस्य शास्त्र-श्रवणादूर्ध्वं भविष्यत्त्वात् । तद्-बुद्धेर् उदेष्यत्त्वाद् इति यावत् । श्रुतिश् चैवम् आह—सोऽकामयत बहु स्यां [तै।उ। २.६], स वासुदेवो न यतोऽन्यद् अस्ति [गो।ता।उ। १।*] इत्य् आदिना । स्मृतिश् च—

कटक-मुकुट-कर्णिकादि-भेदैः कनकम् अभेदम् अपीष्यते यथैकम् । सुर-पशुम् अनुजादि-कल्पनाभिर् हरिर् अखिलाभिर् उदीर्यते तथैकः ॥ इत्य् आद्या ।

अयं भावः—शक्ति-वाचकाः शब्दाः शक्तिमति पर्यवस्यन्ति शक्तीनां तद्-आत्मकत्वाद् इति ॥१५॥ (१७)

र्प्च्- ६.४.३, १०.१४.५४, ५.१८.३१, १०.८७.२२, १.२.३१, गीता ९.१८, १०.२३.२७।

ह्द्स्- १०.८६.५६, १०.६.८, १०.१६.४३

—ओ)०(ओ—

११। आत्माधिकरणम्

॥ २.३.१६ ॥

सर्वं यस्माद् उत्पद्यते यस्य मूल-कारणत्वाद् उत्पत्तिर् नास्ति स परमात्मेतीश्वरो निरूपितः। अथ जीवं निर्णेतुम् उपक्रमते । तस्य तावद् उत्पत्तिर् निरस्यते । यतः प्रसूता जगतः प्रसूतिस् तोयेन जीवान् व्यससर्ज भूम्याम्3 इति तैत्तिरीयके । सन्-मूलाः सौम्येमाः सर्वाः प्रजा इति चान्यत्र श्रूयते । अत्र जीवस्योत्पत्तिर् अस्ति न वेति संशये चिज्-जडात्मकस्य जगतः कार्यत्वावगमात् व्यतिरेके प्रतिज्ञा-भङ्गाच् चास्तीति प्राप्ते—

नात्माश्रुतेर् नित्यत्वाच् च ताभ्यः ॥

आत्मा जीवो नैवोत्पद्यते । कुतः ? श्रुतेः ।

न जायते म्रियते वा विपश्चिन् नायं कुतश्चिन् न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ [क।उ। १.२.१८] इति काठके ।

ज्ञाज्ञौ द्वाव् अजाव् ईशानीशाव् इति श्वेताश्वतर-श्रुतौ चाजत्व-श्रवणात् । तथा ताभ्यः श्रुति-स्मृतिभ्यो नित्यत्व-प्रतीतेश् च । चेतनत्वं च-शब्दात् । तास् तु, नित्यो आनांइन्द्रिय्चेतनश् चेतनानां, अजो नित्यः शाश्वतोऽयं पुराणः इत्य् आद्याः । एवं सति जातो यज्ञदत्तो मृतश् चेइति योऽयं लौकिको व्यवहारो, यश् च जात-कर्मादि-विधिः, स तु देहाश्रित एव भवेत् । स वा अयं पुरुषो जायमानः शरीरम् अभिसम्पद्यमानः स उत्क्रामन् म्रियमानः इति बृहद्-आरण्यकात् । जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते इति छान्दोग्याच् च । कथं तर्हि श्रुति-प्रतिज्ञानुपरोधः । इत्थं जीवस्यापि कार्यत्वात् तद्-उत्पत्तिर् इति । सूक्ष्मोभय-शक्तिकं ब्रह्मैवावस्थान्तरापन्नं कार्यं नाम । इयांस् तु विशेषः । प्रधानादेर् अचेतनस्य भोग्य-जातस्य स्वरूपेणान्यथाभावो जीवस्य तु भोक्तुर् ज्ञान-सङ्कोच-विकाशात्मनेति । उभयत्रापि कार्य-हेत्वोर् ऐक्यात् सा नोपरुध्यए । श्रुतयश् चाञ्जस्य भुजीरन् तस्माज् जीवस्योत्पत्तिर् नेति ॥१६॥ (१८)

र्प्च्- ११.३.३९, ११.२२.१०, ११.२२.४५, १०.८५.२२, ११.२८.२५, ५.११.१२-१३, ११.२८.३७।

ह्द्स्- ६.१६.९।

—ओ)०(ओ—

१२। ज्ञाधिकरणम्

॥ २.३.१७ ॥

अथास्य स्वरूपं विचारयति । यो विज्ञाने तिष्ठन् इति, सुखम् अहं स्वाप्सं न किञ्चिद् अवेदिषम् इति च श्रूयते । तत्र ज्ञान-मात्र-स्वरूपो जीव उत ज्ञान-ज्ञातृ-स्वरूप इति संशये ज्ञान-मात्र-स्वरूपः सः, यो विज्ञाने तिष्ठन्न् इत्य् अत्र तथैव प्रत्ययात् । ज्ञानं तु बुद्धेर् एव धर्मस् त्वया सम्बन्धे तत्राध्यस्यते सुखम् अहम् अस्वाप्सम् इति । एवं प्राप्ते—

ज्ञोऽत एव ॥

ज्ञ एवात्मा, ज्ञान-रूपत्वे सति ज्ञातृ-स्वरूप एव । एष हि द्रष्टा स्प्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः इति षट्-प्रश्नी-श्रुतेर् एवेत्य् अर्थः । श्रुति-बलाद् एव तथा स्वीकृतम्, न तु युक्ति-बलात् । श्रुतेस् तु शब्द-मूलत्वाद् इति हि नः स्थितिः । ज्ञाता ज्ञान-स्वरूपोऽयम् इति स्मृतेश् च । न चात्मा ज्ञान-मात्र-स्वरूपः सुखम् अहं सुप्तोत्थित-परामर्शानुपपत्तेः ज्ञातृत्व-श्रुति-विरोधाच् च । तस्मात् ज्ञान-स्वरूपो ज्ञातेति ॥१७॥

र्प्च्-
ह्द्स्-
६.१६.१०।

—ओ)०(ओ—

१३। उत्क्रान्ति-गत्य्-अधिकरणम्

॥ २.३.१८ ॥

अथास्य परिमाणं चिन्तयति । मुण्डके, एषोऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [मु।उ। ३.१.९] इति पठ्यते । इह संशयः । जीवो विभुर् अणुर् वेति । तत्र विभुर् एव जीवः । तं प्रकृत्या महान् इति श्रुतेस् तथैव वादिभिर् अभ्युपगमाच् च । अणुत्वं तु बुद्धि-गतं तत्रोपचर्यते । एवं प्राप्तौ—

उत्क्रान्ति-गत्य्-आगतीनाम् ॥

अत्राणुर् इति पदम् ऊह्यं परत्र नाणुर् इति पूर्व-पक्षत्वात् । पञ्चम्य्-अर्थे षष्ठी । परमाणुर् एवायं जीवो न विभुः । कुतः ? उत्क्रान्त्य्-आदिभ्यः ।

तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीर-देशेभ्यः [बृ।आ।उ। ४.४.२] इति । अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः । तास् ते प्रेत्याभिगच्छन्त्य् अविद्वासोऽबुधा जनाः ॥ [बृ।आ।उ। ४.४.११] इति । प्राप्यान्तं कर्मणस् तस्य यत् किं चेह करोत्य् अयम् ॥ तस्माल् लोकात् पुनर् ऐत्य् अस्मै लोकाय कर्मणः [बृ।आ।उ। ४.४.६]

इति च बृहद्-आरण्यक-श्रुत्या जीवस्योत्क्रान्त्य्-आदयो निगदिताः । न च सर्व-गतस् तस्य ताः सम्भवेयुः ।

अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास् तर्हि न शस्यतेति नियमो ध्रुव नेतरथा । [भा।पु। १०.८७.३०] इत्य् आदिका स्मृतिः ।

परेशस्य तु विभोर् अपि गत्य्-आदिकम् अचिन्त्यत्वात् न विरुद्धम् ॥१८॥

र्प्च्- ११.१६.११, १.३.३२, ३.३२.३।

ह्द्स्- ६.१६.९, ६.१६.६, ६.१६.८।

॥ २.३.१९ ॥

अत्र विभोर् अचलतोऽप्य् उत्क्रान्तिर् देहाभिमान-निवृत्ति-मात्रेण ग्राम-स्वाम्य्-अनिवृत्तिवत् कदाचित् सम्भाव्येत गत्यागती तु नाचलतः सम्भवेताम् इत्य् आह—

स्वात्मना चोत्तरयोः ॥

चोऽवधारणे उत्तरयोर् गत्य्-आगत्योः स्वात्मनैव सम्बन्धो वाच्यः कर्तृ-स्थ-क्रियात्वात् । सत्योश् च तयोर् उत्क्रान्तिर् अपि देह-प्रवेशाद् एव मन्तव्या । तेन प्रद्योतेनेत्य्-आदि श्रवणात् ।

शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥ [गीता १५.८] इत्य् आदि-स्मरणाच् च ।

यत् तूत्क्रान्त्य्-आदिकम् उपाध्य्-उत्क्रान्त्य्-आदिभिर् व्यपदिष्टम् इत्य् उच्यते तन् मन्दम् । स यदास्मात् शरीरात् समुत्क्रामति सहैवैतैः सर्वैर् उत्क्रामति इति कौषीतकी-ब्राह्मण-श्रुत-सह-शब्द-विरोधात्। स हि प्रधानाप्रधानयोः समानाम् एव क्रियां बोधयति । पुत्रेण सह पिता भुङ्क्ते इतिवत् । वायु-दृष्टान्ते ग्रहि-ग्राहयोर् असामञ्जस्याच् च । एतेन घटाकाशवद् अज्ञ-दृष्टम् अभिप्रायम् एतद् इति बाल-कोलाहलोऽपि निरस्तः ॥१९॥

**र्प्च्- **११.२२.३६, १०.८७.२६।

ह्द्स्- ११.२२.३७।

॥ २.३.२० ॥
नाणुर् अतच् छ्रुतेर् इति चेन् नेतराधिकारात् ॥

ननु नाणुर् जीवः बृहद्-आरण्यके, स वा एष महान् अज आत्मा इति तद्-विपरीतस्य महत् परिणामस्य श्रुतत्वाद् इति चेन्, न । कुतः ? इतरेति । तत्रेतरस्य परमात्मनोऽधिकारात् । यद्यपि, योऽयं विज्ञानमयः प्राणेषु इति जीवस्योपक्रमस् तथापि, यस्यानुवित्तः प्रतिबुद्ध आत्मा इति मध्ये जीवेतरं परेशम् अधिकृत्य महत्त्व-प्रतिपादनात् तस्यैव तत्त्वं न जीवस्येति ॥२०॥

र्प्च्- ४.७.४०, १०.१४.११।

ह्द्स्- ६.१६.९।

॥ २.३.२१ ॥
स्व-शब्दोन्मानाभ्यां च ॥

स्व-शब्दोऽणुत्व-वाची शब्दः श्रूयते एषोऽणुर् आत्मा [मु।उ। ३.१.९] इति । तथोन्मानं च परमाणु-तुल्यम् । वस्तु-निदर्श्य-तन्-मानत्वं जीवस्योच्यते ।

बालाग्र-शत-भागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ [श्वे।उ। ५.९] इति श्वेताश्वतरैः ।

ताभ्याम् आणुर् एव सः । आनन्त्य-शब्दो मुक्त्य्-अभिधायी । अन्तो मरणं तद्-राहित्यम् आनन्त्यम् इत्य् अर्थात् ॥२१॥

र्प्च्- —-

ह्द्स्- ११.१६.११।

॥ २.३.२२ ॥

नन्व् अणोर् एक-देश-स्थस्य सकल-देह-गतोपलब्धिर् विरुध्येतेति चेत् तत्राह—

**अविरोधश् चन्दनवत् ॥ **

एकदेशस्थस्य हरि-चन्दन-बिन्दोः सकल-देहाह्लादवद् अनुभूतस्यापि तस्य सा न विरुद्ध्यअ इत्य् अर्थः । स्मृतिश् च—

अणु-मात्रोऽप्य् अयं जीवः स्व-देहं व्याप्य तिष्ठति । यथा व्याप्य शरीराणि हरि-चन्दन-विप्रुषः ॥ इति ॥२२॥

**र्प्च्- **—-

ह्द्स्- १०.८७.३०।

॥ २.३.२३ ॥
अवस्थिति-वैशेष्याद् इति चेन् नाभ्युपगमात् हृदि हि ॥

ननु तद् बिन्दोः शरीरैक-देशोऽवस्थिति-विशेषः प्रत्यक्ष-सिद्धो न तु जीवस्य न चानुमेयोऽसौ स्वादि-दृष्टान्तेन विपरीतानुमानस्यापि सम्भवाद् अतो विषमो दृष्टान्त इति चेन्, न । कुतः ? अभीति । तद्वज् जीवस्यापि तद्-एक-देशे तद्-विशेष-स्वीकाराद् इत्य् अर्थः ।

ननु कोऽसौ देशो यत्र जीवस् तिष्ठतीति चेत् तत्राह—हृदि हीति । हृदि ह्य् एष आत्मा [प्र।उ। ३.६] इति षट्-प्रश्नी-श्रुतेर् एवेत्य् अर्थः ॥२३॥

**र्प्च्- **—-

ह्द्स्- ११.११.६, १०.८७.२८, १.८.४२।

॥ २.३.२४ ॥

सिद्धायां चाणुतायाम् इत्थम् अप्य् अविरोधः स्याद् इति मुख्यं मतम् आह—

गुणाद् वा आलोकवत् ॥

अणुर् अपि जीवश् चेतयितृत्व-लक्षणेन चिद्-गुणेन निखिल-देह-व्यापी स्यात् आलोकवत् । यथा सूर्यादिर् आलोक एक-देशस्थोऽपि प्रभया कृत्स्नं ख-गोलं व्याप्नोति तद्वत् । आह चैवं भगवान् ।

यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ [गीता १३.३३]

न च सूर्यात् विशीर्णाः परमाणवः सूर्य-प्रमेति वाच्यम् । तथा सति तस्य ह्रास-प्रसङ्गात् । पद्म-रागादि-मणयोऽपि प्रभया निज-परिसारान् रञ्जयन्तो दृष्टाः । न च तेभ्यः परमाणवश् च्यवन्ते इति शक्यं वक्तुं, अत्यन्तासम्भवात्, उन्मान-हान्यापत्तेश् च । इत्थं च गुण एव प्रभा ॥२४॥

र्प्च्- १२.५.७, ११.१०.८

ह्द्स्- १२.५.८।

॥ २.३.२५ ॥

गुणस्य गुण्य्-अतिरेके देशे वृत्तिर् उक्ता । तां दृष्टान्तेन बोधयति—

**व्यतिरेको गन्धवत् तथा हि दर्शयति **

यथा कुसुमादि-गुणस्य गन्धस्य गुण-व्यतिरेके प्रदेशे वृत्तिर् भवेद् एवं चेतयितृत्वस्य जीव-गुणस्य तत्-प्रदेशे हृद्-व्यतिरिक्ते शिरोऽङ्घ्र्य्-आदौ वृत्तिः स्यात् । तथा हि दर्शयति । प्रज्ञया शरीरं समारुह्य इति कौषीतक्य्-उपनिषत् । गन्धः खलु दूरं प्रसर्पन्न् अपि स्वाश्रयात् न भिद्यते मणि-प्रभावत् ।

उपलभ्याप्सु चेद् गन्धं केचिद् ब्रूयुर् अनैपुणाः । पृथिव्याम् एव तं विद्याद् अपो वायुं च संश्रितम् ॥ इति स्मृतेः ॥२५॥

**र्प्च्- **११.१०.८, ११.१३.३१।

ह्द्स्- १०.८५.७।

—ओ)०(ओ—

१४। पृथग्-उपदेशाधिकरणम्

॥ २.३.२६ ॥

एष हि द्रष्टा इत्य्-आदौ संशयः । जीवस्य धर्म-भूतं ज्ञानम् अनित्यं नित्यं वेति । पाषाण-कल्पे जीवे मनसा संयुक्ते ज्ञानम् उत्पद्यते । सुखम् अहम् इत्य्-आदि-श्रुतेः । ज्ञानत्वं तस्य ज्ञान-सम्बन्धात् बोध्यम् । वह्नित्वम् इव वह्नि-सम्बन्धाद् अयसः । यदि ज्ञानं नित्यं तर्हि सुषुप्त्य्-आदौ तत्र स्यात् करण-व्यर्थता चेति प्राप्ते—

पृथग् उपदेशात् ॥

धर्म-भूतं ज्ञानं नित्यम् । कुतः ? पृथग् इति । एष हीत्य् आदि-वाक्यात् पृथग्-भूते, अविनाशी वा अरेऽयम् आत्मानुच्छित्ति-धर्मा [बृ।आ।उ। ४.५.१४] इत्य् आदि बृहद्-आरण्यक-वाक्ये तत्त्वेन तस्योपदेशात् । न च मनसा संयोगाद् आत्मनि ज्ञानोत्पत्तिः निरवयवयोस् तयोः संयोगासिद्धेः । भगवद्-वैमुख्येनावृतम् इदं तत्-साम्मुख्येन तस्मिन् विनष्टे सत्याविर्भवतीति स्मृतिर् आह—

यथा न क्रियते ज्योत्स्ना मल-प्रक्षालनान् मणेः । दोष-प्रहाणात् न ज्ञानम् आत्मनः क्रियते तथा ॥ यथोदपान-खननात् क्रियते न जलान्तरम् । सद् एव नीयते व्यक्तिम् असतः सम्भवः कुतः ॥ तथा हेय-गुण-ध्वंसाद् अवरोधादयो गुणाः । प्रकाश्यन्ते न उच्यन्ते नित्या एवात्मनो हि ते ॥ इति ॥२६॥

र्प्च्- ११.१३.३१

ह्द्स्- ६.१६.५७।

॥ २.३.२७ ॥

यो विज्ञाने तिष्ठन्न् इत्य् आदि श्रुतेर् गतिम् आह—

तद्-गुण-सारत्वात् तद्-व्यपदेश-प्राज्ञवत् ॥

ज्ञातुर् अपि जीवस्य ज्ञान-स्वरूपत्वेन व्यपदेशः । कुतः ? तद्-गुणेति । स ज्ञान-लक्षणो गुणः सारो यत्र तथात्वात् । सारो व्यभिचार-रहितः स्वरूपानुसन्दीति यावत् । प्राज्ञवत् यथा यः सर्वज्ञः सर्वविद् इति प्राज्ञत्वेनोक्तस्य विष्णोः सत्यं ज्ञानम् इति ज्ञान-स्वरूप-व्यपदेशस् तद्वत् । अत्र ज्ञाता ज्ञान-स्वरूपो निर्दिष्टः ॥२७॥

र्प्च्- ११.२३.४०, ११.३.३९।

ह्द्स्- ११.११.६, ११.२३.५४।

॥ २.३.२८ ॥

अथ ज्ञान-स्वरूपो ज्ञाता निर्देश्य इत्य् आह—

यावद् आत्माभावित्वाच् च न दोषस् तद्-दर्शनात् ॥

ज्ञान-स्वरूपो जीवो ज्ञातेति व्यपदेशो न दोषः, निर्दोष इत्य् अर्थः । कुतः ? यावद् इति । तथा प्रतीतेर् आत्म-समान-काल-भावित्वान् न स बाध्यत इत्य् अर्थः । आत्मा खल्व् अनाद्य्-अन्त-कालः सम्प्रतिपन्नः प्रकाश-रूपोऽपि रविः प्रकाशयितेति वीक्षणाच् च । यावद् रविर् भावी ह्य् एष व्यपदेशः, निर्भेदेऽपि वस्तुनि द्वेधा भाति, विशेषाद् इत्य् आहुः ॥२८॥

र्प्च्- १०.८५.२२, ११.१०.८

ह्द्स्- ११.११.४।

॥ २.३.२९ ॥

ननु गुण-भूतं ज्ञानं नात्मनो नित्यं सुषुप्ताव् असत्त्वाज् जागरे सामग्र्याः सम्भवाच् चेति चेत्, तत्राह—

पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्ति-योगात् ॥

तु-शब्दः शङ्का-च्छेदार्थः । नेत्य् अनुवर्तते । सुषुप्ताव् असतो ज्ञानस्य जागरे सम्भव इति न । कुतः ? अस्येति । अस्य ज्ञानस्य सुषुप्तौ सत एव जागरेऽभिव्यक्तेर् इत्य् अर्थः । दृष्टान्तः पुंस्त्वादिवत् । बाल्ये जीवात्मना सत एव पुंस्त्वादेः कैशोरे यथाभिव्यक्तिस् तद्वत् । सुषुप्तौ ज्ञान-प्रसङ्गस् तु श्रुत्यैव परिहृतः । सुषुप्तं प्रकृत्य बृहद्-आरण्यके पठ्यते—

यद् वै तन् न विजानाति विजानाति, विजानन् वै तन् न विजानाति, न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यतेऽविनाशित्वात्, न तु तद् द्वितीयम् अस्ति, ततोऽन्यद् विभक्तं यद् विजानीयात् [बृ।आ।उ। ४.३.३०] इति ।

इह तदा सद् अपि ज्ञानं विषयतया नाभ्युदेति विषयाभावाद् एवेति प्रतीयते । इतरथा सुषुप्तौ स्थितस्यापरामर्श-प्रसङ्गः स्यात् । इन्द्रिय-संयोग-रूपा कारण-सामग्री तु तद्-अभिव्यञ्जिका । असतः सम्भवे तु क्लीब् अस्यापि तद्-आपत्तिः । तस्मात् ज्ञान-स्वरूपोऽणुर् जीवो नित्य-ज्ञान-गुणकः सिद्धः ॥२९॥

**र्प्च्- **११.१३.३१।

ह्द्स्- ११.२२.३१।

—ओ)०(ओ—

१५। नित्योपलब्धि-प्रसङ्गाधिकरणम्

॥ २.३.३० ॥

अथैतत् प्रतिपक्ष-भूतान् साङ्ख्यान् दूषयति । अत्र ज्ञान-मात्रो विभुर् आत्मेति युक्त न वेति विषये सर्वत्र कार्योपलम्भात् युक्तं तत् । अणुत्वे सर्वाङ्गीण-सुख-दुःखानुपलम्भः । मध्यमत्वे त्व् अनित्यतापत्तिः । कृत-हन्य-कृताभ्यगमश् चेत्य् एवं प्राप्ते—

नित्योपलब्ध्य्-अनुपलब्धि-प्रसङ्गोऽन्यतर-नियमो वान्यथा ॥

अन्यथा ज्ञान-मात्रो विभुर् आत्मेति मते नित्यम् उपलब्ध्य्-अनुपलब्ध्योः प्रसङ्गः स्यात् । अन्यतरस्य नियमः प्रतिबन्धो वा नित्यं स्यात् । अयम् अर्थः—लोक-सिद्धोपलब्धिर् अनुपलब्धिश् चास्ति । तयोर् विभुर् आत्मा चिन्-मात्रश् चेत् कारणं, तर्हि नित्यं युगपच् च ते सर्वस्य लोकस्य प्राप्नुयाताम् । अथोपलब्धेर् एवे चेत् कारणं, तदा कस्यापि कुत्रापि अनुपलब्धिर् न स्यात् । अनुपलब्धेर् एवे चेत् तर्हि कस्यापि कुत्राप्य् उपलब्धिर् न स्याद् इति । न च करणायत्ता तयोर् व्यवस्था । आत्मनो विभुत्वेन करणैः सर्वदा संयोगात्, किं च, तन्-मते सर्वात्मनां विभुतया सर्व-शरीरैर् योगात् सर्वत्र भोग-प्राप्तिः । एतेनादृष्ट-विशेषात् भोग-व्यवस्थेति सङ्कल्प-विशेषाद् अदृष्ट-व्यवस्थेति प्रत्युक्तम् । मतान्तरेऽप्य् एतत् समं दूषणम् । अस्माकं त्व् आत्मनाम् अणुत्वेन प्रति-शरीरं भेदान् न कश्चिद् अधिक्षेपः । अणोर् अपि सर्वत्र कार्य-क्रमेणैव न युगपद् इत्य् अदोषः सर्वाङ्गीण-सुखाद्य्-उपलम्भस् तु गुणेन व्याप्तेर् इत्य् उक्तम् ॥३०॥

**र्प्च्- **१०.८७.२६।

ह्द्स्- ६.११.९।

—ओ)०(ओ—

१६। कर्त्र्-अधिकरणम्

॥ २.३.३१ ॥

इदम् इदानीं विचारयति । विज्ञानं यज्ञं तनुते, कर्माणि तनुतेऽपि च [तै।उ। २.५.१] इति तैत्तिरीयाः पठन्ति । इह सन्देहः । विज्ञान-शाब्दितो जीवः कर्ता न वेति ।

हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् ।

उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ [कठ।उ। १.२.१९]

इति कठ-श्रुत्या तस्य कर्तृत्व-प्रतिषेधान् न स कर्ता, किन्तु प्रकृतिर् एव कर्त्री ।

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कार-विमूढात्मा कर्ताहम् इति मन्यते ॥ [गीता ३.२७] कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते । पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते ॥ [गीता १३.२०] इत्य् आदि स्मृतिभ्यश् च ।

तस्मान् न जीवस्य कर्तृत्वं प्रकृति-गतं तत्त्व-विवेकात् स्वस्मिन् सोऽध्यस्यति भोक्ता तु कर्म-फलानाम् इति प्राप्ते—

कर्ता शास्त्रार्थवत्त्वात् ।

जीव एव कर्ता, न गुणाः । कुतः ? शास्त्रेति । स्वर्ग-कामो यजेतात्मानम् एव लोकम् उपासीत इत्य् आदि शास्त्रस्य चेतने कर्तरि सति सार्थक्यात् गुण-कर्तृत्वेन तद्-अनर्थक्यं स्यात् । शास्त्रं किल फल-हेतुता-बुद्धिम् उत्पाद्य कर्मसु तत्-फल-भोक्तारं पुरुषं प्रवर्तयते । न च तद्-बुद्धिर् जडानां गुणानां शक्योत्पादयितुम् ॥३१॥

**र्प्च्- **११.३.६-१३, ११.१०.१६, २२, २६-२७; गीता १८.१४-१५।

ह्द्स्- ६.१६.१०।

॥ २.३.३२ ॥

वास्तवम् एव कर्तृत्वं जीवस्येत्य् आह—

विहारोपदेशात् ।

स तत्र पर्येति जक्षन् क्रीडन् रममाण [छा।उ। ८.१२.३] इत्य् आदिना मुक्तस्यापि क्रीडाभिधानाद् इत्य् अर्थः । अतः कर्तृत्वम् अत्र न दुःखावहं, किन्तु गुण-सम्बन्धम् एव, तस्य स्वरूप-ग्लानि-करत्वात् ॥३२॥

र्प्च्: ११.१०.२३-२५

**ह्द्स्- **६.१६.११।

॥ २.३.३३ ॥
उपादानात् ।

स यथा महाराज इत्य् उपक्रम्य, एवम् एवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथा-कामं परिवर्तत [बृ।आ।उ। २.१.१८] इति श्रुतौ, गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् [गीता १५.७] इति स्मृतौ च जीव-कर्तृकस्य प्राणोपादानस्याभिधानात् लोकाकर्षक-मणेर् इव चेतनस्यैव जीवस्य कर्तृत्वं बोध्यम् । अन्य-ग्रहणादौ प्राणादि करणं, प्राण-ग्रहणादौ तु नान्यद् अस्तीति तस्यैव तत् ॥३३॥

र्प्च्- —-

ह्द्स्- ११.१३.३२।

॥ २.३.३४ ॥

युक्त्य्-अन्तरं चाह—

**व्यपदेशाच् चक्रियायां न चेन् निर्देश-विपर्ययः **

विज्ञानं यज्ञम् [तैत्त्।उ। २.५] इत्य् आदिना वैदिक्यां लौकिक्यां च क्रियायां मुख्यत्वेन व्यपदेशात् जीवः कर्ता । अथ चेत् विज्ञान-शब्देन जीवो नाभिधीयते, किन्तु बुद्धिर् एव, तर्हि निर्देश-विपर्ययः स्यात् । विज्ञानम् इति प्रथमान्त-कर्तृ-निर्देशस्य विज्ञानेनेति तृतीयान्त-करण-निर्देशो भवेत् । बुद्धेः करणत्वात् । न चात्र तथास्ति । किं च, बुद्धेः कर्तृत्वे तस्याः करणम् अन्यत् कल्प्यं सर्वस्य करणस्यैव कर्मसु प्रवृत्ति-दर्शनात् । ततश् च नाम-मात्रेण विसंवादः, करणाभिन्नस्य कर्तृत्व-स्वीकारात् ।

ननु जीव-कर्तृत्वे हितस्यैव, न तु अहितस्य सृष्टिः स्यात्, स्वतन्त्रस्य कर्तृत्वात् । मैवम् । हितम् एव सिसृक्षोर् अपि सहकारि-कर्म-वैचित्र्येण क्वचिद् अहितस्याप्य् आपातात् । तस्मात् जीव एव कर्ता । एवं सति क्वचिद् अकर्तृत्व-वचनम् अस्वातन्त्र्यात् । कर्तृत्वे क्लेश-सम्बन्ध-दर्शनात् न तत्र श्रुतेस् तात्पर्यम् इत्य् आदिक-सृष्टायस् तु दर्श-पौर्णमासादिष्व् अप्य् अतात्पर्यापत्त्यादिभिर् निरसनीयाः ॥३४॥

र्प्च्- ११.२८.२१।

ह्द्स्- २.३.३८

॥ २.३.३५ ॥

अथ प्रकृति-कर्तृत्वादे दोषान् दर्शयति—

उपलब्धिवद् अनियमः ॥

आत्मनो विभुत्वाद् उपलब्धेर् अनियमो दर्शितः प्राक् । तथा प्रकृतेर् अपि विभुत्वेन सर्व-पुरुष-साधारण्यात् कर्मणोऽप्य् अनियमः स्यात् सर्वं कर्म सर्वस्य भोगाय, यथा स्यात् नैव वा स्यात् । न चासन्निधिकृता व्यवस्था, विभूनाम् आत्मनां सर्वत्र सान्निध्यात् ॥३५॥

**र्प्च् : **११.३.६-७।

ह्द्स्: १०.८७.३१

॥ २.३.३६ ॥
शक्ति-विपर्ययात् ॥

प्रकृतेः कर्तृत्वे पुरुष-निष्ठाया भोक्तृत्व-शक्तेर् विपर्ययात् प्रकृति-गामितापत्तेः पुरुषोऽस्ति भोक्तृ-भावात् [साङ्ख्य-कारिका, २७] इत्य् अभिमत-हानिर् इति शेषः । कर्तुर् अन्यस्य भोक्तृत्वासम्भवात् तच् छक्तिर् अपि प्रकृति-गता मन्तव्या ॥३६॥

र्प्च्- ११.३.६-७, ११.१०.१६, ११.१०.२२, ११.१०.२६-२७, १०.८७.२०।

ह्द्स्- ११.१३.२७।

॥ २.३.३७ ॥
समाध्य्-अभावाच् च ॥

मोक्ष-साधनस्य समाधेर् अप्य् अभावाच् च दुष्टः प्रकृति-कर्तृत्व-वादः । प्रकृतेर् अन्योऽहम् अस्मीत्य् एवं-विधः खलु समाधिः । स च न सम्भवति स्वस्य स्वान्यत्वाभावात् जाड्याच् च । तस्माज् जीव एव कर्ता सिद्धः ॥३७॥

र्प्च्- ३.२७.२०-२२

**ह्द्स्- **११.१६.३३।

॥ २.३.३८ ॥

अथ तस्य कर्तृत्वं करण-योगेन स्व-शक्त्या चास्तीति दृष्टान्तेन बोधयति—

यथा च तक्षोभयथा ।

तक्षा यथा तक्षणे वास्यादिना कर्ता वास्यादि-धारणे तु स्व-शक्त्यैवेत्य् उभयथापि कर्ता भवेद् एवं जीवोऽप्य् अन्य-ग्रहणादौ प्राणादिना कर्ता । प्राणादि-ग्रहणे तु स्व-शक्त्यैवेत्य् अर्थः । इत्थं प्राकृत-देहादिना यत् कर्तृत्वं तत् किल शुद्धाद् एव पुरुषात् प्रवृत्तम् ऐप् गुण-वृत्ति-प्राचुर्यात् तद्-धेतुकम् इत्य् उपचर्यते । कारणं गुण-सङ्गोऽस्य सद्-असद्-योनि-जन्मसु इति तत्रैवोक्तेः । एतेन गुण-कर्तृत्व-वचांसि व्याख्यातानि । मौढ्याद्य्-उक्तिस् तु पञ्चापेक्षेऽपि स्वैकापेक्ष-मननात् । न चैषाम् अपात-विभातोऽर्थः शक्यो नेतुं तत्रत्य-मोक्ष-सादनोक्ति-विरोधात् । नायं हन्ति न हन्यते इत्य् आदि वाक्यं तु हन्ति फलम् एव च्छेदं प्रतिषेधेति नित्यस्यात्मनस् तद्-अयोगात् । न तु कर्तृत्वम् अपि, तस्य पूर्वं सिद्धेः । एवं च भागवतानां यद् इहामुत्र च तद्-अर्चनादि-कर्तृत्वं तन् निर्गुणम् एव पूर्वत्र गुणान् विमर्द्य चिच्-छक्ति-वृत्तेर् भक्तेः प्राधान्यात् परत्र कैवल्यात् । एतद् अभिप्रेत्योक्तं श्री-भगवता—

सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥ [भा।पु। ११.२५.२६]

भोक्तृत्वं तु शुद्धस्य पुंसः । पुरुषः सुख-दुःखानां भोक्तृत्वे हेतुर् उच्यते [गीता १३.२०] इत्य् आदि स्मृतेः । गुण-सङ्गेनापि भवतस् तस्य संवेदन-रूपत्वात् चिद्-रूप-पुं-प्राधान्यं न तु गुण-प्राधान्यं तत्त्वेन तद्-विरोधित्वात् । स्वरूप-संवेदन-सुखादौ तु सुसिद्धं तत् । स्वस्मै स्वयं प्रकाशत्वाद् इति । तस्मात् तद् उभयं जीवस्यैव मन्तव्यम्। एष हि द्रष्टा स्प्रष्टा श्रोता इत्य् आदि श्रुतेश् च । तक्ष-दृष्टान्तेन कर्तृत्वं सातत्यं च निरस्तम् ॥३८॥

र्प्च्- ११.१०.४, ३.२७.२०-२२।

ह्द्स्- ३.२६.८।

॥ २.३.३९ ॥

अथ तत्रैव विमर्शान्तरम् । इदं जीवस्य कर्तृत्वं स्वायत्तं परायत्तं वेति संशये, स्वर्ग-कामो यजेत, तस्माद् ब्राह्मणः सुरां न पिबेत् पापम्नोत्संसृज इत्य् आदि विधि-निषेध-शास्तार्थवत्त्वात् स्वायत्तं तत् । स्व-बुद्ध्या प्रवर्तितुं निवर्तितुं च शक्तो हि नियोज्यो दृश्यते । तत्राह—

परात् तु तच्-छ्रुतेः ।

तु-शब्दः शङ्काच् छेदार्थः । तत्-कर्तृत्वं जीवस्य परात् परेशाद् अपि हेतोः प्रवर्तने । कुतः ? तच्-छ्रुतेः । अन्तः-प्रविष्टः शास्ता जनानां [तै।आ। ३.१.१०], य आत्मनि तिष्ठन् आत्मानम् अन्तरो यमयति [बृ।आ।उ। ३.७.२२], एष एव साधु कर्म कारयति [कौ।उ। ३.९] इत्य् आदौ तथा श्रवणात् ॥३९॥

र्प्च्- ८.३.१३-१४, ५.११.१३, ४.९.६, ८.५.१८,

ह्द्स्- ३.२६.५-७।

॥ २.३.४० ॥

स्याद् एतत् । परेशायत्ते कर्तृत्वे विधि-निषेध-शास्त्र-वैयर्थ्यं स्यात् । स्व-धिया प्रवृत्ति-निवृत्ति-शक्तस्य शास्त्राविनियोज्यत्वाद् इति चेत् तत्राह—

कृत-प्रयत्नापेक्षस् तु विहित-प्रतिषिद्धावैयर्थ्यादिभ्यः ॥

तु-शब्दाच् छङ्का निरस्यते । जीवेन कृतं धर्माधर्म-लक्षणं प्रयत्नम् अपेक्ष्य परेशस् तं कारयत्य् अतो नोक्त-दोषावतारः । धर्माधर्म-वैषम्याद् एव विषमाणि फलानि पर्जन्यवन् निमित्त-मात्रः सन्न् अर्पयति । यथा साधारण-स्व-बीजोत्पन्नस्य तरु-लतादेः पर्ज्यन्यः साधारणो हेतुः । न ह्य् असति वारिदे तस्य रस-पुष्पादि-वैषम्यं सम्भवेत् । नाप्य् असति बीजे । तद् एवं तत्-कर्मापेक्षः शुभाशुभान्य् अर्पयतीति श्लिष्टम् । तथा च, कर्तापि पर-प्रेरितः करोतीति कर्तृत्वं जीवस्य न निवार्यते । एवं कुतस् तत्राह विहितेति । आदिना निग्रहानुग्रह-वैषम्यादि-परिहारोपपत्ति-ग्रहः । एवं हि विध्य्-आदि-शास्त्रस्य वैयर्थ्यं न स्यात् । यदि विधौ निषेधे च परेश एव काष्ठ-लोष्ट्र-तुल्यं जीवं नियुञ्ज्यात् तर्हि तस्य वाक्यस्य प्रामाण्यं हीयेत कृतिमतो नियोज्यत्वात् । उन्निनीषया साधु-कर्मणि प्रवर्तनम् अनुग्रहः । अधो निनीषया असाधु-कर्मणि प्रवर्तनं तु निग्रहः । तौ चैतौ जीवस्य तथात्वेनोपपद्येते, वैषम्यादि-दोष-परिहारश् च न स्यात् । तस्माज् जीवः प्रयोज्य-कर्ता परेशस् तु हेतु-कर्ता तद्-अनुमतिम् अन्तरासौ कर्तुं न शक्नोतीति सर्वम् अवदातम् ॥४०॥

**र्प्च्- **११.१०.४।

**ह्द्स्- **११.१२.२२-२३

—ओ)०(ओ—

१७। अंशाधिकरणम्

॥ २.३.४१ ॥

पूर्वार्थ-स्थेम्ने जीवस्य ब्रह्मांशत्वम् उच्यते । द्वा सुपर्णा [मु।उ। ३.१.१] इत्य् आदीनि वाक्यानि श्रूयन्ते । तत्रैक ईशो द्वितीयस् तु जीव इति प्रतीयन्ते । इह संशयः किम् ईश एव मायया परिच्छिन्नो जीवः। किं वा, रवेर् अंशुर् इव तद्-भिन्नस् तत्-सम्बन्धापेक्षी तस्यांश इति । किं प्राप्तं मायया परिच्छिन्न ईश एव जीव इति ?

घट-संवृतम् आकाशं नियमाने घटे यथा ।

घटो नीयते नाकाशं तद्वज् जीवो नभोपमः ॥4 इत्य् अथर्वा-श्रुतेः ।

एवं च तत्त्वम् अस्यादि वाक्यान्य् अनुगृहीतानि स्युः । एवं प्राप्ते—

अंशो नाना-व्यपदेशाद् अन्यथा चापि
दास-कितवादित्वम् अधीयत एके॥

परस्यांशो जीवः अंशुर् इवांशुमतः तद्-भिन्नस् तद्-अनुयायी तत्-सम्बन्धापेक्षीत्य् अर्थः । कुतः ? नानेति । उद्भवः सम्भवो दिव्यो देव एको नारायणो माता पिता भ्राता निवासः शरणं सुहृद् गतिर् नारायणः [सुबा।उ। ६] इति सुबाल-श्रुतौ, गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् [गीता ९.१८] इत्य् आदि स्मृतौ च स्रष्ट्र्-सृज्यत्व-नियन्तृ-नियम्यत्वाधाराधेयत्व-स्वामि-दासत्व-सखा-सखित्व-प्राप्य-प्राप्तृत्वादि-रूप-नाना-सम्बन्ध-व्यपदेशात् । अन्यथा अन्यया च विधया तद्-व्याप्यतयैनं जीवं तद्-आत्मकम् एके आथर्वणिका अप्य् अधीयन्ते—ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाः इत्य् आदिना । न ह्य् एते व्यपदेशाः स्वरूपाभेदे सम्भवेयुः । न हि स्वयं स्वस्य सृज्यादिर् व्याप्यो वा । न वा चैतन्य-घनस्य दासादि-भावः । तथा सति वैराग्योपदेश-व्याकोपात् । न चेशस्य मायया परिच्छेदः, तस्य तद्-अविषयत्वात् । न च टङ्क-च्छिन्न-पाषाण-खण्डवत् तच्-छिन्नस् तत्-खण्डो जीवः अच्छेद्यत्व-शास्त्र-व्याकोपात् विकाराद्य्-आपत्तेश् च । तस्मात् तत् सृज्यत्वादि-सम्बन्धवांस् तद्-भिन्नो जीवस् तद्-उपसर्जनत्वात् तद्-अंश उच्यते । तत्त्वं च तस्य तच्-छक्तित्वात् सिद्धम् । तच् च विष्णु-शक्तिर् इत्य् आदौ, क्षेत्रज्ञाख्या तथापरा [वि।पु। ६.७.६१] इति स्मृतेः । चन्द्र-मण्डलस्य शतांशः शुक्र-मण्डलम् इत्य् आदौ दृष्टं चैतत् । एक-वस्त्व् एक-देशत्वम् अंशत्वम् इत्य् अपि न तद् अतिक्रामति । ब्रह्म खलु शक्तिमद् एकं वस्तु ब्रह्म-शक्तिर् जीवो ब्रह्मैक-देशत्वात् ब्रह्मांशो भवतीति तद्-उपसृष्टत्वं सुघटम् । घटेत्य् आदि-वाक्यं तूपाधि-हानौ तयोः सायुज्यं ब्रुवन् सङ्गतम् । तत्त्वम् असीत्य् एतद् अपि परस्य पूर्वायत्त-वृत्तिकत्वादि बोधयति पूर्वोक्त-श्रुत्य्-आदिभ्यो न त्व् अन्यत् । तस्मात् ईशात् जीवस्यास्ति भेदः । स च नियन्तृत्व-नियम्यत्व-विभुत्वाणुत्वादि-धर्म-कृतत्वेन प्रत्यक्ष-गोचरत्वान् नान्यथा-सिद्धेः ॥४१॥ (४३)

**र्प्च् **:११.११.४, ४.२४.६१, ८.६.१५।

**ह्द्स् **: ११.११.४

॥ २.३.४२ ॥

अथ वाचनिकम् आह—

मन्त्र-वर्णात् ॥5

पादोऽस्य विश्वा भूतानि [ऋ।वे। १०.९०.३] इति मन्त्र-वर्णोऽपि जीवस्य ब्रह्मांशत्वम् आह । अंश-पाद-शब्दौ तु ह्य् अनर्थान्तर-वाचकौ । इह सर्वा भूतानीति बहुत्वे श्रौते सूत्रे अंश-शब्दो जात्य्-अभिप्रायेणैक-वचनान्तो बोध्यः । एवम् अन्यत्रापि ॥४२॥ (४४)

**र्प्च्, ह्द्स् **: २.६.१९।

॥ २.३.४३ ॥
अपि स्मर्यते ॥

ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता १५.७] इति श्री-भगवता इह सनातनत्वोक्त्या जीवस्यौपाधिकत्वं निरस्तम् । तस्मात् तत्-सम्बन्धापेक्षी जीवस् तद्-अंश इति । तत्-कर्तृत्वादिकम् अपि तद् आयत्तम् । स्मृतिश् च जीव-स्वरूपं विशिष्याह—

ज्ञानाश्रयो ज्ञान-गुणश् चेतनः प्रकृतेः परः । न जातो निर्विकारश् च एकरूपः स्वरूप-भाक् ॥ अणुर् नित्यो व्याप्ति-शीलश् चिद्-आनन्दात्मकस् तथा । अहम् अर्थोऽव्ययः क्षेत्री भिन्न-रूपः सनातनः ॥ अदाह्योऽच्छेद्य अक्लेद्य अशोष्योऽक्षर एव च । एवम् आधि-गुणैर् युक्तः शेष-भूतः परस्य वै ॥ म-कारेणोच्यते जीवः क्षेत्र-ज्ञः परवान् सदा । दास-भूतो हरेर् एव नान्यस्यैव कदाचन ॥ इति ।6

एवम् आदीत्य् आदि-पदात् कर्तृत्व-भोक्तृत्व-स्वस्मै-स्वयं-प्रकाशत्वानि बोध्यानि । प्रकाशः खलु गुण-द्रव्य-भेदेन द्विभेदः । प्रथमः स्वाश्रयस्य स्फूर्तिः । द्वितीयस् तु स्व-पर-स्फूर्ति-हेतुर् वस्तु-विशेषः । स चात्मैव । दीपश् चक्षुः प्रकाशयन् स्वरूप-स्फूर्तिं च स्वयम् एव करोति, न तु घटादि-प्रकाशवत् तद्-आदि-सापेक्षः । तस्माद् यं स्वयं प्रकाशः । तथापि स्वं प्रति न प्रकाशते स्वस्मिन् जाड्यात् । आत्मा तु स्वयं परं च प्रकाशयन् स्वं प्रति प्रकाशते । अतः स्वस्मै स्वयं प्रकाशः यद् असौ चिद्-रूप इति ॥४३॥ (४५)

र्प्च्: ११.११.४, १०.८७.१६, १२.४.३१।

ह्द्स् : १२.४.३२, ११.११.४

—ओ)०(ओ—

१८। मत्स्याद्य्-अधिकरणम्

॥ २.३.४४ ॥

प्रसङ्गाद् इदं विचिन्त्यते—एको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन् बहुधा योऽवभाति [गो।ता।उ। १.१९] इति गोपाल-तापिन्यां पठ्यते । स्मृतौ च एकानेक-स्वरूपाय [वि।पु। १.२.३] इत्य् आदि । अत्रांशि-रूपेणैव्कोऽंश-कला-रूपेण तु बहुधेत्य् अर्थः प्रतीयते । तत्र जीवांशान् मत्स्याद्य्-अंशस्य विशेषोऽस्ति न वेति संशये अंशत्वाविशेषात् नास्तीति प्राप्ते—

प्रकाशादिवन् नैवं परः ॥

अंश-शब्दितत्वेऽपि परो मत्स्यादिर् न एवं जीववन् न भवति । तत्र दृष्टान्तम् आह प्रकाशेति । यथा तेजोऽंशो रविः खद्योतश् च तेजः-शब्दितत्वेऽपि नैकरूप्य-भाक् । यथा जलांशः सुधा-मद्यादिश् च जल-शब्दितत्वेऽपि न साम्यं लभते, तद्वत् ॥४४॥

**र्प्च्- **३.२८.४१, ८.३.२२-२३, १०.१४.९, ६.९.३९।

ह्द्स्- १.७.४-५।

॥ २.३.४५ ॥
स्मरन्ति च ॥

स्वांशाश् चाथ विभिन्नांश इति द्वेधांश इष्यते । अंशिनो यत् तु सामर्थ्यं यत् स्वरूपं यथा स्थितिः ॥ तद् एव नाणु-मात्रोऽपि भेदः स्वांशांशिनोः क्वचित् । विभिन्नांशोऽल्प-शक्तिः स्यात् किञ्चित् सामर्थ्य-मात्र-युक् ॥7 इति ।

सर्वे सर्व-गुणैः पूर्णाः सर्व-दोष-विवर्जिताः इति च ।

अयं भावः—एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् [भा।पु। १.३.२८] इत्य् आदौ कृष्णाख्यस्य वस्तुनः स्वयं-रूपस्य ये मत्स्यादयोऽंशाः स्मृताः, न ते जीववत् ततो भिद्यन्ते, तस्यैव वैदूर्यादिवत् तत्-तद्-भावाविष्कारात् । सर्व-शक्ति-व्यक्त्य्-अव्यक्ति-सव्यपेक्षो हि तत्-तद्-व्यपदेशः । यः कृष्णः कृत्स्न-षाड्गुण्य-व्यञ्जकोऽंशी, स एवाकृत्स्न-तद्-व्यञ्जको द्व्य्-एक-व्यञ्जको वांशः कला चेत्य् उच्यते । यथैकः कृत्स्न-षट्-शास्त्र-प्रवक्ता सर्वविद् उच्यते, स एव क्वचिद् अकृत्स्न-तद्-वक्ता द्व्य्-एक-शास्त्र-वक्ता च सर्ववित्-कल्पोऽल्पज्ञश् चेति । पुरुष-बोधिन्य्-आदि-श्रुता राधाद्याः पूर्णाः शक्तयो दशमादि-स्मृता गुणाश् च सर्वातिशयि-प्रेम-पूर्ण-परिकरत्व-द्रुहिणादि-विद्वत्तम-विस्मापक-वंश-माधुर्य-स्व-पर्यन्त-सर्व-विस्मापक-रूप-माधुर्य-निरतिशय-कारुण्यादयो यशोदा-स्तनन्धये कृष्ण एव नित्याविर्भूताः सन्ति, न तु मत्स्यादित्वे सतीति तस्यैव तत्-तद्-भावाविष्कारान् न मत्स्यादेर् जीववत् तत्त्वान्तरत्वं, किन्तु तद्-आत्मकत्वम् एवेति ॥४५॥

र्प्च्- १०.१०.३४।

ह्द्स्- १.३.२८।

॥ २.३.४६ ॥

युक्त्य्-अन्तरेण विशेषं दर्शयति—

**अनुज्ञा-परिहारौ देह-सम्बन्धात् ज्योतिर्-आदिवत् **

सत्य् अपि ब्रह्मांशत्वेऽनाद्य्-अविद्या-विजृम्भितान् देह-सम्बन्धात् जीव-रूपस्यांशस्य परेश-कृताव् अनुज्ञा-परिहारौ श्रूयते, नैवं मत्स्यादि-रूपस्य, किन्तु देह-सम्बन्ध-राहित्यं साक्षात् परेशत्वं च तस्य श्रूयते, अतो महान् विशेषः । अनुज्ञानुमतिः साध्वसाधु-कर्म-प्रेरणेति यावत् । एष एव साधु-कर्म कारयति [कौ।उ। २.९] इत्य् आदि श्रुतिः । परिहारश् च ततो निवृत्तिर् मोक्ष इति यावत् । तम् एव विदित्वा [श्वे।उ। ३.८] इत्य् आदि श्रुतेः । तत्र दृष्टान्तम् आह—ज्योतिर् इति । ज्योतिश् चक्षुस् तस्य यथा सूर्यांशस्यापि देह-सम्बन्धात् नाना-विधत्वं तद्-अनुग्राह्यत्वं तत्-प्रवृत्ति-निवृत्ती च तद्-धेतुके एव, नैवं स्वस्थस्य सूर्यांशस्यापि, तत्-प्रकाशस्य तस्य सूर्यात्मकत्वात्, तद्वत् ॥४६॥

र्प्च्- १०.५४.४५, ११.२८.१४, ११.२८.५।

ह्द्स्- ६.१६.५७-५८

॥ २.३.४७ ॥
असन्ततेश् चाव्यतिकरः ॥

जीवस्यासन्ततेर् अपूर्णत्वाद् अव्यतिकरः । पूर्णेन मत्स्यादिना साम्यं नेत्य् अर्थः । बालाग्र-शत-भागस्य [श्वे।उ। ५.९] इत्य् आद्या श्रुतिर् जीवस्यापूर्तिम् आह । पूर्णम् अदः पूर्णम् इदम् इत्य् आद्या तु मत्स्यादेः पूर्तिम् ॥४७॥

र्प्च्- ११.२८.१७, १०.८७.३८।

ह्द्स्- १.७.४-६।

॥ २.३.४८ ॥

हेतुं दूषयति—

आभास एव च ॥

अंश-शब्दितत्वाविशेषाद् इति यो हेतुर् मत्स्याद्य्-अंशस्य जीवांशेन साम्यं बोधयितुम् उपन्यस्तः, स त्व् आभास एव सत्-प्रतिपक्षाख्यो हेत्व्-आभास एव । वैषम्य-साधकस्य पूर्त्यादेर् हेत्व्-अन्तरस्य सत्त्वात् । च-कारो दृष्टान्त-सूचनाय । न हि द्रव्यत्वेन पृथिवी-नभसोः साम्य-पारम्यं साधनीयम् । न वा पदार्थत्वेन भावाभावयोस् तत् । तथा च मत्स्यादाव् असर्व-व्यञ्जकत्वं जीवे तु तद्-उपसर्जनत्वम् अंशत्वम् इति ॥४८॥

र्प्च्- १०.१.४३।

ह्द्स्- ६.१६.४६, १०.७०.५।

—ओ)०(ओ—

१९। अदृष्टानियमाधिकरणम्

॥ २.३.४९ ॥

एवं प्रासङ्गिकं समाप्य प्रकृतं चिन्तयति—

नित्योऽनित्यानां चेतनश् चेतनानां एको बहूनां यो विदधाति कामान् । [क।उ। २.२.१३]

इत्य् आदीनि वाक्यानि काठकादिषु श्रूयन्ते । तत्र नित्य-चेतनतया प्रतीता बहवो जीवाः साम्य-भाजो न वेइ सन्देहे विशेषाप्रतीतेः साम्य-भाज इति प्राप्ते—

अदृष्टानियमात् ॥

मण्डूक-प्लुत्या नेत्य् अनुवर्तते । नैव ते साम्य-भाजः । कुतः ? स्वरूप-साम्येऽपि तद्-अदृष्टानाम् अनियमात् नाना-विधत्वात् । अदृष्टं त्व् अनादि ॥४९॥

र्प्च्- ३.२७.१-२, ३.२८.४३।

ह्द्स्- १०.६.३०।

॥ २.३.५० ॥

नन्व् इच्छा-द्वेषादिभिर् वैषम्यं स्यान् नेत्य् आह—

अभिसन्ध्यादिष्व् अपि चैवम् ॥

तेष्व् अपि वैचित्र्य-हेतुतयाङ्गीकृतेष्व् एवं हेत्व्-अन्तरापेक्षापत्तेस् तेऽप्य् अदृष्टाद् एवेत्य् अर्थः । च-कारः प्रतिक्षण-वैचित्रीं समुच्चिनोति ॥५०॥

र्प्च्- ११.२८.३१, ५.१४.५, ११.१३.३६, ११.१३.२५, ६.१.४७-४८।

ह्द्स्- १०.२४.१६।

॥ २.३.५१ ॥

ननु स्वर्ग-भूम्य्-आदि-प्रदेश-वैशेष्यात् वैचित्र्यं स्यान् नेत्य् आह—

**प्रदेशाद् इति चेन् नान्तर्भावात् **

तत्-प्राप्तेर् अप्य् अदृष्टापेक्षत्वेनादृष्टान्तर्भावात् प्रदेशाद् एकदेश-स्थितानाम् अपि वैचित्री-दर्शनाच् च ॥५१॥

र्प्च्- ६.१.४१, ६.१६.३, ४.२९.२४-२६, १०.२९.९।

ह्द्स्- १०.२३.९।

॥ इति श्रीमद्-ब्रह्म-सूत्र-भाष्ये द्वितीयाध्यायस्य तृतीयः पादः ॥

॥ २.३ ॥

—ओ)०(ओ—

(२.४)


  1. Rअमनुज ↩︎

  2. Sहन्कर रेअद्स् थिस् अस् त्wओ सुत्रस्। ↩︎

  3. Nआरायणोपनिषद् १। ↩︎

  4. Bरह्म-बिन्दु-उपनिषद् १३। ↩︎

  5. मन्त्र-वर्णाच् च । ↩︎

  6. Qउओतेद् इन् Pअरमात्म-सन्दर्भ १९, अत्त्रिबुतेद् तो Pअद्म-पुराण। ↩︎

  7. Fरोम् थे Mअहावराह-पुराण (अच्चोर्दिन्ग् तो S।C। Vअसु)। ↩︎