दुर्युक्तिक-द्रोणज-बाण-विक्षतं
परीक्षितं यः स्फुटम् उत्तराश्रयम् ।
सुदर्शनेन श्रुति-मौलिम् अव्यथं व्यधात्
स कृष्णः प्रभुर् अस्तु मे गतिः ॥
१। स्मृत्य्-अधिकरणम्
॥ २.१.१ ॥
प्रथमेऽध्याये निरस्त-निखिल-दोषोऽचिन्त्यानत्-शक्तिर् अपरिमित-गुण-गणः सर्वात्मापि सर्व-विलक्षणो जगन्-निमित्तोपादान-भूतः सर्वेश्वरो वेदान्त-वेद्यः समवय-निरूपणेनोक्तः । द्वितीये तु स्व-पक्षे स्मृति-तर्क-विरोध-परिहारः प्रधानादि-वादानां युक्त्य्-आभासमयत्वं सृष्ट्य्-आदि-प्रक्रियायाः प्रति वेदान्तम् ऐकविध्यं चेत्य् अयम् अर्थ-निचयो निरूप्यते । तत्रादौ श्रुति-विरोधो निरस्यते ।
तत्र संशयः—सर्व-कारण-भूते ब्रह्मणि दर्शितः समन्वयः साङ्ख्य-स्मृत्या बाध्यते न वा ? इति । तत्र सति साङ्क्य-स्मृति-निर्विषयतापत्तेर् बाधः स्यात् । स्मृतिः खलु कर्म-काण्डोदितान्य् अग्निहोत्रादि-कर्माणि यथावत् स्वीकुर्वता ऋषिं प्रसूतं कपिलं [श्वे।उ। ५.२] इत्य् आदि-श्रुताप्त-भावेन परमर्षिणा कपिलेन मोक्षेप्सुना ज्ञान-काण्डार्थोप-बृंहणाय प्रणीता । अथ त्रिविध-दुःखात्यन्त-निवृत्तिर् अत्यन्त-पुरुषार्थः । न दृष्टार्थ-सिद्धिर् निवृत्तेर् अप्य् अनुवृत्ति-दर्शनात् [साङ्ख्य-कारिका १.१-२] इत्य् आदिभिस् तत्र ह्य् अचेतनं प्रधानम् एव स्वतन्त्रं जगत्-कारणम् इत्य् आदि निरूप्यते । विमुक्त-मोक्षार्थं स्वार्थं वा प्रधानस्य [साङ्ख्य-कारिका २.१], अचेतनत्वेऽपि क्षीरवच् चेष्टितं प्रधानस्य [साङ्ख्य-कारिका ३.६०] इत्य् आदिभिः । सा च ब्रह्म-कारणता-परिग्रहे निर्विषया स्यात् । कृत्स्नायास् तस्यास् तत्त्व-प्रतिपत्ति-मात्र-विषयत्वात् । अतः परम् आप्त-कपिल-स्मृत्य्-अविरोधेन वेदान्ता व्याख्येयाः । न चैवं मन्व्-आदि-स्मृतीनां निर्विषयता । तासां धर्म-प्रतिपादन-द्वारा कर्म-काण्डोपबृंहणे सविषयत्वाद् तिय् एवं प्राप्ते ब्रूते—
स्मृत्य्-अनवकाश-दोष-प्रसङ्ग इति चेन्
नान्य-स्मृत्य्-अवकाश-दोष-प्रसङ्गात् ॥
अवकाशस्याभावोऽनवकाशः निर्विषयतेत्य् अर्थः । समन्वयानुरोधेन वेदान्तेषु साङ्ख्य-स्मृति-निर्विषयता-दोषापत्तिर् अतः श्रुति-विपरीतार्थतया ते व्याख्येया इति चेन्, न । कुतः ? अन्येत्यादेः । तथा सत्य् अन्यासां मन्व्-आदि-स्मृतीनां वेदान्तानुसारिणीनां ब्रह्मैक-कारणता-पराणां निर्विषयता महान् दोषः प्रसज्जते । तासु हि सर्वेश्वरो जगद्-उत्पत्त्य्-आदि-हेतुः प्रतिपाद्यते, न तु कापिलोक्त-प्रकारान्तरत्व-सङ्गतिः । तत्र श्रीमन्-मनुः—
आसीद् इदम् तमो-भूतम् अप्रज्ञातम् अलक्षणम् । अप्रतर्क्यम् अविज्ञेयं प्रसुप्तम् इव सर्वतः ॥ ततः स्वयम्भूर् भगवान् अव्यक्तो व्यञ्जयन्न् इदम् । महा-भूतादि वृत्तौजाः प्रादुर् आसीत् तमो-नुदः ॥ योऽसाव् अतीन्द्रिय-ग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्व-भूत-मयोऽचिन्त्यः स एव स्वयम् उद्बभौ ॥ सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यम् अवासृजत् ॥ तद् अण्डम् अभवद् धैमं सहस्रांशु-सम-प्रभम् । तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्व-लोक-पितामहः ॥ [मनु। १.५-९] इत्य्-आदि ।
श्री-पराशरः—
विष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम् । स्थिति-संयम-कर्तासौ जगतोऽस्य जगच् च सः ॥ [वि।पु। १.१.३१] यथोर्णनाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः । तया विहृत्य भूयस् तां ग्रसत्य् एवं जनार्दनः1 ॥ [भा।पु। ११.९.२१]
एवम् अन्येऽपि । न चासां स्मृतीनां कर्म-काण्डोर्थोपबृंहण एव वृत्तेः । चित्त-शोधकता चैषां दृश्यते । तम् एतं वेदानुवचनेन इत्य्-आदि-श्रुतौ । यत् तु तेषां वृष्टि-पुत्र-स्वर्गादि-फलकत्वं क्वापि क्वापि वीक्ष्यतेऽनुभाव्यते च तद् अपि शास्त्र-विश्रम्भोत्पादनेन तत्रैव च विश्रान्तम् । सर्वे वेदा यत् पदम् आमनन्ति इत्य् आदेः, नारायण-परा वेदाः इत्य् आदेश् च ।
न च साङ्ख्य-स्मृत्या वेदान्तार्थोपबृंहणं शक्यं कर्तुं, श्रुति-विरुद्धार्थ-प्रतिपादनात् । श्रुति-संवादार्थ-स्पष्टीकरणं ह्य् उपबृंहणम् । न च तस्याम् इदम् अस्ति । तस्मात् श्रुति-विरुद्धा साङ्ख्य-स्मृतिः स्व-कपोल-कल्पितानाप्तेति न तद्-व्यर्थता-दोषाद् बिभीमः । न चाप्त-व्यपाश्रय-कल्पनया तत् स्मृति-पक्ष-पातो युक्तः । तत्त्वेन व्याख्यातानां बहूनां स्मृतिषु विभिनार्थासु पक्ष-पाते सति वास्तवार्थानवस्थिति-प्रसाङ्गात् । स्मृत्योर् विप्रतिपत्तौ सत्यां श्रुति-व्यपाश्रयाद् अन्यो निर्णय-हेतुर् न भवेत् । अतः श्रुत्य्-अनुसारिण्य् एवादरणीया इति । स्मृति-बलेनाक्षेप्तॄन् स्मृति-बलेनैव निराकरिष्याम इत्य् अन्य-स्मृत्य्-अनवकाशता-दोषोपन्यासः ।
यत् तु ऋषिं प्रसूतं कपिलं यस् तम् अग्रे ज्ञानैर् बिभर्ति [श्वे।उ। ५.२] इति श्वेताश्वतर-श्रुतेर् आप्तत्वं तस्येति, तन् न । तस्या अन्य-परत्वात् श्रुत्य्-अर्थ-वैपरीत्य-वक्तृतया तद्-अभावाच् च । मनोर् आप्तत्वं तु तैत्तरीयाः पठन्ति— यद् वै किं च मनुर् अवदत् तद्-भेषजम् इति । श्री-पराशरो हि पुलस्त्य-वसिष्ठ-प्रसादाद् एव देवता-परमार्थ-धियं प्राप्तेति स्मर्यते । वेद-विरुद्धः स्मृति-प्रवर्तकः कपिलो ह्य् अग्नि-वंश-जो जीव-विशेष एव मायया विमोहितो, न तु कर्दमोद्भूतो वासुदेवः ।
कपिलो वासुदेवांशस् तत्त्वं साङ्ख्यं जगाद ह । ब्रह्मादिभ्यश् च देवेभ्यो भृग्व्-आदिभ्यस् तथैव च । तथैवासुरये सर्व-वेदार्थैर् उपबृंहितम् ॥ सर्व-वेद-विरुद्धं च कपिलोऽन्यो जगाद ह । साङ्ख्यम् आसुरयेऽन्यस्मै कुतर्क-परिबृंहितम् ॥ इति स्मरणात् ।2
तस्मात् वेद-विरुद्धतयानाप्तायाः साङ्ख्य-स्मृतेर् व्यर्थता न दोषः ॥१॥
र्प्च्: ३.२६.३-६, १०। ३.२८.४१, १०.८७.२५।
ह्द्स् : २.६.४२।
॥ २.१.२ ॥
इतरेषां चानुपलब्धेः ॥
इतरेषां च साङ्ख्य-स्मृत्य्-उक्तानाम् अर्थानां वेदेऽनुपलम्भात् तस्याः नाप्तत्वम् । ते च विभवश् चिन्मात्राः पुरुषास् तेषां बन्ध-मोक्षौ प्रकृतिर् एव करोति । तौ पुनः प्राकृताव् एव । सर्वेश्वरः पुरुष-विशेषो नास्ति । कालस् तत्त्वं न भवति । प्राणादयः पञ्च करण-वृत्ति-रूपा भवन्तीत्य् एवम् आदयस् तस्याम् एव द्रष्टव्याः ॥२॥
र्प्च्- ३.२.१४, ११.११.३, ३.२८.४४।
**ह्द्स्- **१०.८७.२५
—ओ)०(ओ—
२। योग-प्रत्युक्त्याधिकरणम्
॥ २.१.३ ॥
ननु साङ्ख्य-स्मृत्या वेदान्ता व्याख्यातुं न युक्ताः । तस्या वेदान्त-विरुद्धत्वात् । योग-स्मृत्या तु व्याख्येयास् ते । वेदान्तार्थान् आश्रित्य तस्या वर्णितत्वात् । योगः खलु श्रौतः । ताः योगम् इति मन्यन्ते स्थिराम् इन्द्रिय-धारणाम् । विद्याम् एतां योग-विधिं च कृत्स्नम् इत्य् आदिषु कठादि-श्रुतिषु योग-विषयक-बहु-लिङ्ग-लाभात् । त्र्रुन्नतं स्थाप्य समं शरीरम् इत्य् आदिष्व् आसनादि-योगाङ्गाभिधानाच् च । तेन योगेन जगद् दुःखं परिजिहीर्षुर् आप्ततमो भगवान् पतञ्जलिः स्मृतिं निबबन्ध । अथ योगानुशासनम् । योगश् चित्त-वृत्ति-निरोधः इत्य् आदिभिः । समन्वयाविरोधेन वेदान्तेषु व्याख्यातेष्व् एषा स्मृतिर् अनवकाशा स्याद् योग-प्रतिपत्ति-मात्र-विषयत्वात् । मन्व्-आदि-स्मृतीनां तु धर्मावेदनया सावकाशता भवेत् । तस्मात् योग-स्मृत्यैव न तूक्त-समन्वयानुगत्या ते व्याख्येया इत्य् एवं प्राप्ते—
एतेन योगः प्रत्युक्तः ॥
एतेन साङ्ख्य-स्मृति-प्रत्याख्यानेन योग-स्मृतिर् अपि प्रत्याख्याता बोध्या । तस्याश् च तद्वद् वेदान्त-विरुद्धत्वात् । तादृश्या योग-स्मृत्या तेषु व्याख्यातेषु वेदानुसारि-मन्व्-आदि-स्मृतेर् निर्विषयता स्याद् अतस् तया ते न व्याख्येया इत्य् अर्थः । न च वेदान्त-विरुद्धा सा वक्तुं शक्या । तत्रापि प्रधानम् एव स्वतन्त्रं कारणम् । ईशो जीवाश् च चिति-मात्राह् सर्वे विभवः । योगाद् एव दुःख-निवृत्तिर् एव मुक्तिः । इत्य् आदि तद्-विरुद्धार्थ-प्रतिपादनात् । प्रत्यक्षादि-प्रमाणं चित्त-वृत्तिर् इत्य् आदीनां तद्-उक्तार्थानां तेष्व् अनुपलम्भाच् च । तत्र ते ह्य् अर्थास् तस्याम् एवान्वेष्टव्याः । तस्मात् वेदान्त-विरुद्धाया योग-स्मृतेर् वैयार्थ्याद् दोषान् न वित्रासः। अन्यच् च प्राग्वत् । यत् तु वेदान्त-वेद्यम् ईश्वर-जीवोपायोपेय-याथात्म्यं तद् उपर्य् उपरि व्यक्तीभविष्यद् वीक्ष्यम् । एवं सति त्रिर्-उन्नतम् इत्य् आदाव् आसनादि-योगाङ्ग-विधानं तत् कारणं साङ्ख्य-योगाधिगम्यम् इत्य् आदौ च साङ्ख्यादि-शब्दानां ज्ञानं ध्यानं च यद् दृष्टां तत् किल वैदिकाद् अन्यद् एव ग्राह्यम् । न हि प्रकृति-पुरुषान्यता-प्रत्ययेन ज्ञानेन तद्-उक्तेन योग-वर्त्मना वा मोक्षो भवेत् । तम् एव विदित्वातिमृत्युम् एति विज्ञाय प्रज्ञां कुर्वीत एतद् यो ध्यायति रसति भजति सोऽमृतो भवति इत्य् आदि-श्रुतिभ्यः । किं च, योऽंशोऽनयोर् अविरुद्धस् तत्र नो न विद्वेषः । किन्तु विरुद्धोऽंशः परिह्रीयते । यद्यप्य् एष परेश-निष्ठः, ईश्वर-प्रणिधानाद् वा, क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः इत्य् आदि सूत्र-प्रणयनात् । तथापि मोहाद् एवं जजल्पेति वदन्ति । गौतमादयोऽपि विमोहिता विरुद्धानि मतानि दधुः । तानि च प्रत्याख्यास्यति । विज्ञानां विमोहः क्वचित् सार्वज्ञाभिमान-कुपितया हरेर् मायया क्वचित् तु तस्यैच्छयैवार्थान्तर-प्रयुक्तया बोध्यः । ईश्वर-वादाभ्युपगमेन शङ्काधिक्यात् तन्-निरासार्थो ऽधिकरणातिदेशः । हिरण्यगर्भ-कृतापि योग-स्मृतिर् अनेनैव निराकृता बोध्या ॥३॥
**र्प्च्- **१०.८७.२१, ३.२८.१२।
**ह्द्स्- **१०.८७.२५, १.६.३६।
—ओ)०(ओ—
३। विलक्षणत्वाधिकरणम्
॥ २.१.४ ॥
तद् एवं साङ्ख्यादि-स्मृत्योर् वेद-विरुद्धत्वेनानप्तत्वे निर्णीते वेदेऽपि तद्-विरोधिनः केचित् साङ्ख्यादयः संशयीरन् । तत्-परिहारायेदम् आरभ्यते । तत्रैवं संशयः । वेदोऽप्य् अनाप्तो न वेति । तत्र कार्र्या यजेत वृष्टि-काम इत्य् आदि-श्रुत्य्-उक्ते कारीर्यादि-कर्मण्य् अनुतिष्ठतेऽपि फलानुपलब्धेर् अनाप्त इति प्राप्तौ—
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् ॥
नास्य वेदस्य साङ्ख्यादि-स्मृतिवद् अप्रामाण्यम् । कुतः जीव-कॢप्तत्वेन भ्रमादि-दोष-चतुष्टय-विशिष्टायाः साङ्ख्यादि-स्मृतेः सकाशात् वेदस्य नित्यतया भ्रमादि-कर्तृ-दोष-शून्यस्य वैशेष्यात् । तथात्वं नित्यत्वं चास्य शब्दाद् अवगम्यते । वाचा विरूप नित्ययेत्यादि श्रुतेः । अनादि-निधना नित्या वाग् उत्सृष्टा स्वयम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः इति स्मृतेश् च । मन्व्-आदि-स्मृतीनां तु वेद-मूलकत्वाद् एव प्रामाण्यम् । पूर्वं युक्तया नित्यत्वम् उक्तम् इह तु श्रुत्येति विशेषः ।
ननु,
तस्माद् यज्ञात् सर्व-हुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद् यजुस् तस्माद् अजायत ॥ [ऋग्-वेद १०.९०.९] इति ।
इति पुरुष-सूक्ते जन्म-श्रवणाज् जातस्य च विनाशावश्यम्भावाद् अनित्यत्वम् । मैवम् । जनि-शब्देन तत्राविर्भावोक्तेः । अत उक्तं—
स्वयम्भूर् एष भगवान् वेदो गीतस् त्वया पुरा ।
शिवाद्या ऋषि-पर्यन्ताः स्मर्तारोऽस्य न कारकाः ॥ इति ।
न च फलादर्शनाद् अप्रामाण्यम् । अधिकारिणां सर्वत्र फल-दर्शनात् । यत् तु क्वचित् तद्-अदर्शनं तत् किल कर्तुर् अयोग्यतयोपपद्येत । साङ्ख्यादि-स्मृतीनां तु वेद-विरोधाद् एवाप्रामाण्यम् ॥४॥
र्प्च्- २.६.२४-२६।
**ह्द्स्- **६.१.४०, ६.१.३१।
—ओ)०(ओ—
॥ २.१.५ ॥
स्याद् एतत् तत् तेज ऐक्षत बहु स्यां [छा।उ। ६.२.३] ता आप ऐक्षन्त बह्व्यः स्याम [छा।उ। ६.२.४] इति छान्दोग्ये । ते हेमे प्राणा अहं श्रेयसे विवदमाना ब्रह्म जग्मुः को नः विशिष्ट इति बृहद्-आरण्यके च बाधितार्थकं वाक्यं वीक्ष्यते, तादृशं चैव बन्ध्या-सुतो भाति इतिवत् अप्रमाणम् एव । एवम् एकदेशाप्रामाण्येनान्यस्याप्य् अप्रामाण्याज् जगत्-कारणत्वं ब्रह्मणः श्रूयमाणं नेति चेत् तत्राह—
अभिमानि-व्यपदेशस् तु विशेषानुगतिभ्याम् ॥
तु-शब्दः शङ्काच् छेदाय । तत्-तेज इत्य् आदि-व्यपदेशः तेज-आद्य्-अभिमानिनीनां चेतनानां देवतानाम् एव, न त्व् अचेतनानां तद्-आदीनाम् । कुतः ? विशेषेति । हन्ताहम् इमास् तिस्रो देवता [छा।उ। ६.३.२] इति । तेजोऽवन्नानां सर्वा ह वै देवता अहं श्रेयसे विवदमानास् ते देवा प्राणे निःश्रेयसं विदित्वा इति प्राणानां च तत्र तत्र देवता-शब्देन विशेषणात् । अग्निर् वाग् भूत्वा मुख प्राविशद् आदित्यश् चक्षुर् भूत्वाक्षिणी प्राविशत् इत्य् आद्यैतरेयके वाग्-आद्य्-अभिमानिततायाग्न्य्-आदीनाम् अनुप्रवेश-श्रवणाच् च । स्मृतिश् च—
पृथिव्य्-आद्य्-अभिमानिन्यो देवताः प्रथितौजसः ।
अचिन्त्याः शक्तयस् तासां दृश्यन्ते मुनिभिश् च ताः ॥ इति ।
एवं, ग्रावाणः प्लवन्तः इत्य् अत्रापि कर्म-विशेषाङ्ग-भूतानां ग्राव्णां वीर्य-वर्धनार्था स्तुतिर् इयम् । सा च श्री-राम-कृत-सेतु-बन्धादौ यथावद् एवेति न क्वाप्य् अनाप्तत्वं वेदस्य, तेन तद्-उक्तं ब्रह्मणो विश्वैक-कारणत्वं सूचितम् ॥५॥
**र्प्च्- **३.६.२-४, ३.६.१२-२१, ११.१०.८-९, ३.२८.४३।
**ह्द्स्- **३.२८.४७
—ओ)०(ओ—
॥ २.१.६ ॥
पुनर् अपि ब्रह्मोपादानताक्षेपाय तर्कम् आश्रयन् साङ्ख्याः प्रवर्तते । यद्यप्य् अयम् आत्म-याथात्म्य-निर्णये त्यक्तस् तर्कः श्रुति-विरोधात् न कुतर्कापसदस्यात्म-लाभः इत्य् उक्तेः । तथापि परं प्रति दौष्य-प्रकाशनम् एतत् । तत्रैवं संशयः । जगद् ब्रह्मोपादानकं स्यान् न वेति । किं प्राप्तं ब्रह्मोपादानकं नेति वैरूप्यात्। सर्वज्ञ-सर्वेश्वर-विशुद्ध-सुख-रूपत्यआ ब्रह्माभिमताम् । अज्ञानीश्वर-मलिन-दुःखितया प्रत्यक्षादिभिर् अवगतं जगत् । अतस् तयोर् वैरूप्यं निर्विवादम् । उपादेयं खलु उपादान-स्वरूपं दृष्टम् । यथा मृत्-सुवर्ण-तन्त्व्-आद्य्-उपादेयं घट-मुकुट-पटादि । अतो वै ब्रह्म-वैरूप्येण तद्-उपादेयत्वासम्भवात् तत्-स्वरूपम् उपादानं किञ्चिद् अन्वेषणीयम् । तच् च प्रधानम् एव । सुख-दुःख-मोहात्मकं जगत् प्रति तादृशस्य तस्यैव योग्यत्वात् । यच् चोपादेय-सारूप्य-साधनाय तथाभूतेऽप्य् उपादाने ब्रह्मणि चिज्-जडात्मिकातिसूक्ष्मा शक्ति-द्वयी प्राग् अप्य् अस्तीत्य् उच्यते । तेनापि वैरूप्यात् दुष्परिहरं सूक्ष्मात् सूक्ष्म-शक्तिकाद् उपादानात् स्थूलतरोपादेयोदय-निरूपणात् । एवम् अन्यच् च वैरूप्यं विभावनीयम् । एवं ब्रह्म-वैरूप्यात् तद्-उपादानकं जगन् नेति तर्कश् च शास्त्रस्यावस्थापेक्ष्यः तद्-अनुगृहीतस्यैव क्वचिद् विशयेऽर्थ-निश्चय-हेतुत्वाद् इति पूर्व-पक्षः । तद् इमं निरस्यति—
दृश्यते तु ॥
तु-शब्देन शङ्का निरस्यते । पूर्वतो नेत्य् अनुवर्तते । यद् उक्तं ब्रह्म-वैरूप्यात् तद्-उपादानकां जगन् नेति तन् न विरूपाणाम् अप्य् उपादानोपादेय-भावस्य दृष्टत्वात् । यथा गुणानाम् उत्पत्तिर् विजातीयाद् द्रव्यात्, यथा कृमीणां माक्षिकात्, यथा करि-तुरगादीनां कल्प-द्रुमात् । यथा च सुवर्णादीनां चिन्तामणेर् इति । इत्थम् अभिप्रेत्यैव दृष्टान्तितम् आथर्वणिकैः—
यथोर्ण-नाभिः सृजते गृह्णते च यथा पृथिव्याम् ओषधयः सम्भवन्ति । यथा सतः पुरुषात् केश-लोभानि तथाक्षरात् सम्भवतीह विश्वम् ॥ [मु।उ। १.१.७] इति ॥६॥
र्प्च्- ११.१२.१९, १.१.१, १०.८७.२२।
**ह्द्स्- १०.८७.२६। **
—ओ)०(ओ—
४। असदित्य्-अधिकरणम्3
॥ २.१.७ ॥
ननूपादानात् विलक्षणं चेद् उपादेयं तर्ह्य् उपादाने ब्रह्मणि जगद्-उत्पत्तेः प्राग् असद् इत्य् आपद्येत । पूर्वम् ऐक्यावधारणाद् असच् चोत्पद्येत । न चैतद् इष्ट ते सत्-कार्य-वादिन इति चेत्, तत्राह
असद् इति चेन् न प्रतिषेध-मात्रत्वात् ।
नैष दोषः । कुतः ? प्रतीति । पूर्व-सूत्रे सारूप्य-नियमस्य प्रतिषेध-मात्रं विवक्षितम् । न तूपादानाद् उपादेयस्य द्रव्यान्तरत्वम् अपि । ब्रह्मैव स्व-विलक्षण-विश्वाकारेण परिणमत इत्य् अङ्गीकारात् । अयं भावः—यस्य सारूप्यस्याभावात् ब्रह्मोपादानताम् आक्षिपसि तत् किं कृत्स्नस्य ब्रह्म-धर्मस्यानुवर्तनम् अभिप्रैष्य् उत यस्य कस्यचिद् इति । नाद्यः उपादानोपादेय-भावानुपपत्तेः । न हि घटादिषु मृत्-पिण्डोपादेयेषु पिण्डत्वाद्य्-अनुवृत्तिर् अस्ति । द्वितीये तु नानिष्टापत्तिः सत्त्वादि-लक्षणस्य ब्रह्म-धर्मस्य प्रपञ्चेऽप्य् अनुवृत्तेः ।
ननु येन केनचिद् धर्मेण सारूप्यं न शक्यं मन्तुं सर्वस्य सर्व-सारूप्येण सर्वस्मात् सर्वोत्पत्ति-प्रसङ्गात् । तस्मात् येन धर्मेणोपादान-भूतं वस्तु वस्त्व्-अन्तरात् व्यावर्तते, तस्य धर्मस्योपादेयेऽनुवृत्तिः सारूप्यं, यथा तन्त्व्-आदितः सुवर्णं येन स्वभावेन व्यावर्तते तस्य कङ्कणादिके तद्-उपादेय्ऽनुवृत्तिर् दृष्टा, तथैतत् द्रष्टव्यम् इति चेन् मैवम् । माक्षिकादिभ्यः कृम्य्-आदीनाम् उत्पत्ताव् अस्य नियमस्य व्यभिचारात् । न च स्वर्ण-कङ्कणयोः सर्वथा सारूप्यम् अस्ति अवस्था-भेदात् । तथा च स्वर्ण-चिन्तामण्योर् इव वैरूप्येऽपि कङ्कण-स्वर्णयोर् इव द्रव्यैक्य-सत्त्वान् नासत्-कार्यम् इति ॥७॥
र्प्च्- ७.९.२९
ह्द्स्- १०.२.२६।**
॥ २.१.८ ॥**
युक्त्य्-अन्तरेण पुनर् आक्षिपति—
अपीतौ तद्वत् प्रसङ्गाद् असमञ्जसम् ॥
अस्य चिज्-जडात्मकस्य नाना-विधापुमर्थ-विकारास्पदस्य जगतः सूक्ष्म-शक्तिकं ब्रह्म चेद् उपादानं तदापीतौ प्रलये तस्य तद्वत् प्रसङ्गः । षष्ठ्य्-अन्ताद् इवार्थे वतिः तत्र तस्येवेति सूत्रात् । उपाद्येवदपुमर्थ-विकार-प्राप्तिः स्यात् । तदानीं तेन सह तस्यैक्यात् । अतोऽसमञ्जसम् इदम् उपनिषद्-वाक्य-वृन्दं, यत् सार्वज्ञ्य-निरवद्यत्वादि-गुणकम् उपादानं ब्रह्मेति गदति ॥८॥
**र्प्च्- **४.७.३९
**ह्द्स्- **४.७.४२।
॥ २.१.९ ॥
परिहरति—
न तु दृष्टान्त-भावात् ॥
तु-शब्दाद् आक्षेप-सम्भावनापि निरस्ता । नैव किञ्चिद् असमञ्जसम् । कुतः ? उपादेय-जगत्-सम्पर्केऽप्य् उपादानस्य ब्रह्मणः शुद्धतयाऽवस्थितौ दृष्टान्त-सत्त्वात् । यथैकस्मिंश् चित्राम्बरे नील-पीतादयो गुणाः स्व-स्व-प्रदेशेष्व् एव दृष्टाः, न तु ते व्यतिकीर्यन्ते, तथा चैकस्मिन् देहिनि बाल्यादयो देह-धर्मा देहे काणत्वादयः करण-धर्माश् च करण-गणे विज्ञायन्ते, न त्व् आत्मनि । एवम् अपुमर्थ-विकारा ब्रह्म-शक्ति-धर्माः शक्ति-गताः स्युर् न तु ब्रह्मणि शुद्धे प्रसज्जेरन् इति ॥९॥
र्प्च्- ११.६.६, ७.९.३०, ११.२.३९
**ह्द्स्- **४.७.२६।
॥ २.१.१० ॥
न केवलं निर्दोषतया ब्रह्मोपादानता स्वीकृता । प्रधनोपादानताया दुष्टत्वाद् अपीत्य् आह—
स्व-पक्षे दोषाच् च ॥
ये दोषास् त्वया साङ्ख्येनास्मत्-पक्षे सम्भावितास् ते स्व-पक्षे निज-मत एव द्रष्टव्याः, तेषाम् अन्यत्र निरस्तत्वात् । तथा हि, उपादानोपादेययोर् वैरूप्ये साङ्ख्य-पक्षेऽप्य् अस्ति, शब्दादि-शून्यात् प्रधानाच् छब्दादिमतो जगतो जनुर् अङ्गीकारात् । तस्मात् तस्य वैरूप्याद् एवास्मत्-कार्यता-प्रसङ्गः । प्रधानाविभाग-स्वीकाराद् एवापीतौ तद्वत् प्रसङ्गश् चेत्य् एवम् आदयः । जगत्-प्रवृत्ति अपि प्रधान-वादे च सम्भवति इति तत्-परीक्षायां वक्ष्यामः ॥१०॥
र्प्च्- १०.८७.२१।
ह्द्स्- १०.८७.२५।
॥ २.१.११ ॥
यत् तूक्तं तर्कानुगृहीतं शास्त्रम् अर्थ-निश्चय-हेतुर् इति तत् प्रयाह—
तर्काप्रतिष्ठानाद् अप्य्4** अन्यथानुमेयम् **
इति चेद् एवम् अप्य् अनिर्मोक्ष-प्रसङ्गः ॥
पुरुष-धी-वैविध्यात् तर्का नष्ट-प्रतिष्ठा मिथो विहन्यमाना विलोक्यन्ते । अतोऽपि तान् अनादृत्यौपनिषदी ब्रह्मोपासनता स्वीकार्या । न च लब्ध-माहात्म्यानां केषाञ्चित् तर्का प्रतिष्ठिताः । तथा-भूतानाम् अपि कपिल-कणभुग्-आदीनां मिथो-विवाद-सन्दर्शनात् ।
नन्व् अहम् अन्यथानुमास्ये यथाप्रतिष्ठा न स्यात् । न तु प्रतिष्ठितस् तर्क एव नास्तीति शक्यं वदितुं तर्काप्रतिष्ठानुरूपस्य तर्कस्य प्रतिष्ठितत्वात् । सर्व-तर्काप्रतिष्ठायां जगद्-व्यवहारोच्छेद-प्रसङ्गात् । अतीत-वर्तमान-वर्त्म-साधारण्येनानागतेऽपि वर्त्मनि सुख-दुःख-प्राप्ति-पर्हारार्था लोक-प्रवृत्ति-दृष्टेति चेत् एवम् अप्य् अनिर्मोक्ष-प्रसङ्गः । पुरुष-बुद्धि-मूल-तर्कावलम्बनस्य भवतो देशान्तर-कालान्तरज-निपुणतम-तार्किक-दूष्यत्व-सम्भावनया तर्काप्रतिष्ठान-दोषाद् अनिस्तारः स्यात् । यद्यप्य् अर्थ-विशेषे तर्कः प्रतिष्ठितस् तथापि ब्रह्मणि सोऽयं नापेक्ष्यते, अचिन्त्यत्वेन तद्-अनर्हत्वात्, श्रुति-विरोधाच् चेति त्वद्-उक्त्य्-असङ्गतेश् च । श्रुतिश् च ब्रह्मणस् तर्कागोचरताम् आह—
नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । [क।उ। १.२.९] इति कठानाम् । ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः । यदा तदैवासत्-तर्कैस् तिरोधीयेत विप्लुतम् ॥ [भा।पु। २.६.३९] इत्य् आद्या ।
तस्माच् छ्रुतिर् एव धर्म इव ब्रह्मणि प्रमाणम् । तत्-पोष-कारी तर्कस् त्व् अपेक्षत एव मन्तव्य इति श्रुतेः, पूर्वापराविरोधेन इत्य् आदि स्मृतेश् च । तस्मात् ब्रह्मोपादानकं जगद् इति ॥११॥
र्प्च्- १.८.१७, ६.४.२६, ६.९.३३; २.६.३९,
**ह्द्स्- **२.६.४१-४२।
—ओ)०(ओ—
५। शिष्टापरिग्रहाधिकरणम्
॥ २.१.१२ ॥
साङ्ख्य-योग-स्मृतिभ्यां तदीय-तर्कैश् च विरोधः परिहृतः । इदानीं काणभुग्-आदि-स्मृतिभिस् तदीय-तर्कैश् च स परिह्रियते । तत्र कणादादि-मतैर् ब्रह्मोपादानता बाध्यते न वेति वीक्षायां, तस्यां सत्यां तत्-स्मृतीनाम् अनवकाशतापत्तेः । सर्वत्र न्यून-परिमाणानाम् एव द्व्य्-अणुकादीनां त्र्य्-अणुकादि-महा-कार्यारम्भकत्व-दर्शनात् ब्रह्मणो विभुत्वेन तद्-अयोगाच् च बाध्यत इति प्राप्तौ—
एतेन शिष्टा परिग्रहा अपि व्याख्याता ॥
शिष्टाः परिशिष्टाः । नास्ति परिग्रहो वेद-कर्मको येषां ते अपरिग्रहाः । विशेषणयोः कर्मधारयः । एतेन वेद-विरोधि-साङ्ख्यादि-निरासेन परिशिष्टास् तद्-विरोधिनः कणभक्षाक्षपाद-प्रभृतयोऽपि निरस्ता वेदितव्याः, निराकरण-हेतोः साम्यात् । न ह्य् आरम्भ-वादेऽपि न्यून-परिणामारम्भकत्व-नियमोऽस्ति । दीर्घ-तन्त्व्-आरब्ध-द्वि-तन्तु-कपटे वियद्-उत्पन्ने शब्दे च व्यभिचारात् । कारण-वस्तु-विषयस्य तर्कस्याप्रतिष्ठानम् अशक्यं वक्तुम् इति शङ्काधिक्याद् अधिकरणातिदेशः । तत्-परिहारस् तु शुष्क-तर्कस्याप्रतिष्ठान-नियमात् । अत एवापरे बौद्धादयः परमाणून् अन्यथा वर्णयन्ति । क्षणिकानर्थात्मकान् केचित् । ज्ञान-रूपान् परे । शून्यात्मकान् अपरे । सद्-असद्-रूपांस् त्व्
अन्ये। सर्वे ह्य् एते तन्-नित्यताविरोधिन इति ॥१२॥
**र्प्च्- **३.११.१, ५.१२.९-११, ३.११.१५।
**ह्द्स्- **५.१२.९-११।
—ओ)०(ओ—
६। भोक्त्र्-आपत्त्य्-अधिकरणम्5
॥ २.१.१३ ॥
पुनर् आशङ्क्य समाधत्ते—
भोक्त्र्-आपत्तेर् अविभागश् चेत् स्याल् लोकवत् ॥
सूक्ष्म-शाक्तिकं ब्रह्मैवोपादानं तद् एव स्थूल-शाक्तिकम् उपादेयम् इति । तद् इदं युक्तं न वेति संशये इह भोक्त्रा जीवेन सह ब्रह्मण ऐक्यापत्तेर् अविभागः शक्तेः शक्तिमद्-ब्रह्म-भेदापत्तेर् द्वा सुपर्णा॥। जुष्टं यदा पश्यत्य् अन्यम् ईशम् इत्य् आदि श्रुति-सिद्ध-भेद-लोपस् ततो न युक्तम् इति चेत् तत्-परिहारः स्याल् लोकवत् । लोके यथा दण्डिनः पुरुषाभेदेऽप्य् अस्ति दण्ड-पुरुषयोः स्वरूपतो भेदस् तथा शक्तिमतो ब्रह्मणः शक्त्य्-अभेदेऽपि शक्ति-ब्रह्मणोः सोऽस्तीति न क्षतिः ॥१३॥
र्प्च्- ११.२८.२७, ३.२७.१।
ह्द्स्- ६.१६.९-११।
—ओ)०(ओ—
७। आरम्भणाधिकरणम्
॥ २.१.१४ ॥
जगतो ब्रह्म-भेदम् अङ्गीकृत्य ब्रह्मणस् तद्-उपादानत्वं निरूपितम् असद् इति चेन् नेत्य् आदिना तम् एवाक्षिप्य समाधातुम् इदानीं प्रवर्तते । तत्रोपादेयं जगद्-उपादानात् ब्रह्मणो भिन्नम् अभिन्नं वेति वीक्षायां मृत्-पिण्ड उपादानं घट उपादेयम् इति धी-भेदात् । उपादानम् उपादेयम् इति शब्द-भेदात् । मृत्-पिण्डेन घटाय प्रवर्तते घटेन तु जलम् आनयेति प्रवृत्ति-भेदात् । पिण्डाकारम् उपादानं कम्बु-ग्रीवाद्य्-आकारम् उपादेयम् इत्य् आकार-भेदात् । पूर्व-कालम् उपादानम् उत्तर-कालम् उपादेयम् इति काल-भेदाच् च भिन्नम् एवोपादानाद् उपादेयम् । इतरथा कारक-व्यापार-वैयर्थ्य-प्रसङ्गाद् उपादानम् एव चेद् उपादेयं कृतं तर्हि तद्-व्यापारेण च सतोऽप्य् उपादेयस्याभिव्यक्तये तेन भाव्यं क्षोदाक्षमत्वात् । तथा हि, कारक-व्यापारात् प्राक् सा सती असती वा । नाद्यः तद्-व्यापार-वैयर्थ्यात् नित्योपलब्धि-प्रसङ्गाच् चोपादेयस्य । ततश् च नित्यानित्य-विभागो विलुप्येत । तथाभिव्यक्तेर् अभिव्यक्त्य्-अन्तरेऽङ्गीकृतेऽनवस्था । न चान्त्यः असत्-कार्यापत्तेः । तस्माद् असत उपादेयस्योत्पत्ति-हेतुत्वे नार्थवत्त्वं व्यापारस्येत्य् असत्त्वाद् एवोपादानात् भिन्नम् उपादेयम् इति वैशेषिकादि नयात् पूर्व-पक्षे प्राप्ते परिहरति—
तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः ॥
तस्मात् जीव-प्रकृति-शक्ति-युक्तात् जगद्-उपादानात् ब्रह्मणः अनन्यद् एवोपादेयं जगत् । कुतः? आरम्भनेति । आरम्भण-शब्द आदिर् येषां तेभ्यो वाक्येभ्यः । वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्य् एव सत्यम् [छा।उ। ६.१.४], सद् एव सौम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् [छा।उ। ६.२.१], तद् ऐक्षत बहु स्यां प्रजायेय [छा।उ। ६.२.३], सन्-मूलाः सौम्येमाः प्रजाः सदायतनाः सत् प्रतिष्ठाः [छा।उ। ६.८.६], ऐतदात्म्यम् इदं सर्वम् [छा।उ। ६.८.१] इत्य् एवं-विधानि छान्दोग्ये वाक्यानि सान्तराण्य् अप्य् अत्र विवक्षितानि। तानि हि चिज्-जडात्मकस्य जगतस् तद्-युक्तात् परस्मात् ब्रह्मणोऽनन्यत्वं वदन्ति । तथा हि कृत्स्नं जगत् तादृग् ब्रह्मोपादानकम् अतो ब्रह्माभिन्नम् इति हृदि विनिश्चित्योपादान-भूत-ब्रह्म-विज्ञानेनोपादेयस्य जगतः कृत्स्नस्य विज्ञानं भवतीत्य् आचार्यः प्रतिजज्ञे । स्तब्धोऽस्युत तम् आदेशम् अप्राक्ष्यः येनाश्रुतं श्रुतं भवति इत्य् आदिना। तद्-आशयम् अविदुषा शिष्येणान्य-ज्ञानादन्य-ज्ञानम् न सम्भवतीति विमृश्य, कथं नु भगवः स आदेश इति परिपृष्टः स जगतो ब्रह्मोपादानकतां वदिष्यन् लोक-प्रतीति-सिद्धम् उपादेयस्योपादानाभेदं दर्शयति यथा सौम्यैकेन मृत्-पिण्डेनेत्य् आदिना । एकस्माद् एव मृत्-पिण्डोपादानात् जातं घटादि सर्वं तेनैव विज्ञान्तेन विज्ञानं स्यात् तस्य ततोऽनतिरेकात् । एवम् आदेशे ब्रह्मणि सर्वोपादाने विज्ञाते तद् उपादेयं कृत्स्नं जगत् विज्ञातं भवतीति तत्रार्थः ।
ननु धी-शब्दादि-भेदाद् उपादेयम् उपादानाद् अन्यत् स्याद् इति चेत् तत्राह वाचारम्भणम् इति । आरभ्यत इत्य् आरम्भणं कर्मणि ल्युट्, कृत्य-ल्युटो बहुलम् इति स्मरणात् । मृत्-पिण्डस्य कम्बु-ग्रीवादि-रूप-संस्थान-सम्बन्धे सति विकार इति नाम-धेयम् आरब्धं व्यवहर्तृभिः । किम्-अर्थं ? तत्राह—वाचेति । वाचा वाक्-पूर्वकेण व्यवहारेण हेतुना । फल-हेतुत्व-विवक्षया तृतीया । घटेन जलम् आनयेत्य् आदि वाक्-पूर्वक-व्यवहार-सिद्ध्य्-अर्थं मृद्-द्रव्यम् एव ज्ञान-संस्थान-विशेषं सत् घटादि-नाम-भाग्यवति । तस्य घटाद्यवस्यापि मृत्तिकेत्य् एव नाम-धेयं सत्यं प्रामाणिक्यम् । ततश् च घटाद्य् अपि मृद् द्रव्यम् इत्य् एव सत्यं, न तु द्रव्यान्तरम् इति । अतस् तस्यैव मृद्-द्रव्यस्य संस्थानान्तर-योग-मात्रेण धी-शब्दान्तरादि सम्भवति । यथैकस्यैव चैत्रस्यावस्था-विशेष-सम्बन्धात् बाल-युवादि-धी-शब्दान्तरादि सम्भवति मृद्-आद्य्-उपादाने तादात्म्येन सद् एव घटादि-दण्डादिना निमित्तेनाभिव्यज्यते न त्व् असद् उत्पद्यते इत्य् अभिन्नम् एव उपादेयम् उपादानात् । भेदे किलोन्मानद् वैगुण्यापत्तिः । मृत्-पिण्डस्य गुरुत्वम् एकं घटादेश् चैकम् इति तुलारोहे द्वि-गुणं तत् स्यात् । एवम् अन्यच् च । न तु शुक्ति-रूप्यादिवद् विवर्तो न च शुक्तेः सकाशात् स्वतोऽन्यत्र सिद्धं रूप्यम् इव भिन्नम् इत्य् एव-कारात् । एवम् इति शब्दानर्थक्यं कष्ट-कल्पनं च निरस्तम् । न चाभिव्यक्ति-पक्षस्य निर्मूलत्वं शक्यं वक्तुं,
कल्पान्ते काल-सृष्टेन योऽन्धेन तमसावृतम् । अभिव्यनक् जगद् इदं स्वयं-रोचिः स्वरोचिषे ॥
इत्य् आदि प्रमाण-सिद्धेः, न च सिद्ध-साधनतानवस्था वा दोषः । कारक-व्यापारात् पूर्वम् अभिव्यक्तेः, स त्वानङ्गीकारात् अभिव्यक्त्य्-अन्तरानङ्गीकाराच् च ।
नन्व् एवम् असत्क्पर्यतापत्तिः पूर्वम् असत्यास् तस्यास् तद्-व्यापारेणोत्पाद्यमानत्वाद् इति चेन्, मैवम् । तस्याः कार्यत्वाभावात् । स्वतन्त्राभिव्यक्तिमत्त्वं किल कार्यत्वं तच् च तस्यां नास्ति । आश्रयाभिव्यक्त्यैव तत् सिद्धेः । तद्-व्यापारेण संस्थान-योग-रूपाभिव्यक्तिर् नियताभिव्यङ्ग्येति प्रकृते न किञ्चिद् अवद्यम् । यत् तु असतः कार्यस्योत्पत्तिर् इति वदन्ति, तन् मन्दं क्षोदाक्षमत्त्वात् । तथा हि, व्यापारात् प्राग् असच् चेत् कार्यं, तर्हि सर्वस्मात् सर्वम् उत्पद्येत । सर्वत्र सर्वाभाव-सौलभ्यात् । तिलेभ्यस् तैलम् इव क्षीरादिकम् अप्य् उत्पन्नं स्यात् । अकर्तृका चोत्पत्तिः कायस्यासत्वात् । न च कारण-निष्टा शक्तिर् एव कार्यं नियच्छेद् इति वाच्यम् असता सहासम्बन्धात् । किं चोत्पत्तिर् उत्पद्यते न वा आद्येऽनवस्था अन्त्येऽप्य् असत्त्वात् नित्यत्वाद् वानुत्पत्तिर् इति पक्ष-द्वयम् असाधु । सर्वदा कार्यानुपलम्भोपलम्भ-प्रसङ्गात् ।
ननु उत्पत्तेः स्वयम् उत्पत्ति-रूपत्वात् किम् उत्पत्त्य्-अन्तर-कल्पनयेति चेत् समम् एतद् अभिव्यक्तौ इति हि वक्तव्यम् ॥१४॥
र्प्च्- ६.४.२५, ७.६.१०, ७.९.१९, ७.९.४७, ८.३.३, १०.८५.४, १.५.२०, ११.५.२७, १०.१६.३७, १०.४६.३३, १०.८४.२२।
**ह्द्स्- **६.१६.२२, ७.३.२६।
॥ २.१.१५ ॥
इतश् चोपादेयम् उपादानाद् अनन्यद् इत्य् आह—
भावे चोपलब्धे ॥
घट-मुकुटाद्य्-उपादेय-भावे च मृत्-सुवर्णाद्य्-उपादानोपलब्धेः घतादेर् मृद्-आदित्वेन प्रत्यभिज्ञानाद् इत्य् अर्थः । ननु हस्त्य्-अश्वादौ कल्प-वृक्षादेः प्रत्यभिज्ञानं नास्तीति चेत्, न । तत्राप्य् उपादानस्य पृथिव्याः प्रत्यभिज्ञानात् । वह्नेर् निमित्तत्वात् धूमे तन् नास्ति । धूमोपादानं खलु वह्नि-संयुक्तम् आर्द्रेन्दनं गन्धैक्यात् विदितम् ॥१५॥
**र्प्च्- **७.९.३४, ११.२८.२०।
**ह्द्स्- **३.२१.१९, १०.८७.१५।
॥ २.१.१६ ॥
सत्वाच् चावरस्य ॥
अवर-कालिकस्योपादेयस्य प्राग् अपि तादात्म्येनोपादाने सत्त्वात् तस्माद् अनन्यत् तत् । श्रुतिश् च—सद् व सौम्येदम् अग्र आसीत् [छा।उ। ६.२.१] इत्य् आद्या । स्मृतिश् च—
ब्रीहि-बीजे यथा मूलं नालं पुत्राङ्कुरौ तथा । काण्डं कोशस् तु पुष्पं च क्षीरं तद्वच् च तण्डुलः ॥ तुषाः कणाश् च सन्तो वै यान्त्याविर्भावम् आत्मनः । प्ररोह-हेतु-सामग्रीम् आसाद्य मुनि-सत्तम ॥ तथा कर्म-स्वनेकेषु देवाद्याः समवस्थिताः । विष्णु-शक्तिं समासाद्य प्ररोहम् उपयान्ति वै ॥ [वि।पु। २.७.३७-३९] इति ।
तिलेभ्यस् तैलं सत्त्वाद् एवोपपद्यते, न तु सिकताभ्योऽसत्त्वाद् एव । उभयत्राप्य् एकम् एव सत्त्वं पारमार्थिकम् इति । उत्पत्त्य्-अन्तरम् उपादेये उपादान-तादात्म्यं पूर्वत्र प्रमाणितम् । नाशानन्तरम् उपादाने उपादेयाभेदः परत्रेति सूत्र-द्वये विवेचनम् ॥१६॥
र्प्च्- ३.२६.१९, ७.९.४६।
**ह्द्स्- **१०.८७.२६।
॥ २.१.१७ ॥
असद् व्यपदेशान् नेति चेन् न, धर्मान्तरेण वाक्य-शेषात् ॥
स्याद् एतत् असद् वा इदम् अग्र आसीत् [तै।उ। २.६.१] इति पूर्वम् असत्त्व-श्रवणाद् उपादाने उपादेयस्य सत्त्वं नास्थेयम् इति चेत्, न । यद् अयम् असद्-व्यपदेशो न भवद्-अभिमतेन तुच्छत्वेन, किन्तुधर्मान्तरेणैव सङ्गच्छते । एकस्यैव द्रव्यस्य उपादेयोपादानोभयावस्थस्य स्थौल्यं सौक्ष्म्यं चेत्य् अवस्थात्मकं धर्म-द्वयं सद्-असच्-छब्द-बोध्यम् । तत्र स्थौल्याद् धर्माद् अन्यत् सौक्ष्म्यं धर्मान्तरं तेनेति । एवं कुतः ? वाक्य-शेषात् । तदात्मानं स्वयम् अकुरुत [तै।उ। २.६.१] इति वाक्य-शेषेण सन्दिग्धार्थस्योपक्रम-वाक्यस्य तथैव व्याकर्तुम् उचितत्वात् । अन्यथासीद् अत्यात्मानम् अकुरुतेति च विरुध्येत । असतः कालेन सहासम्बन्धात् आत्माभावेन कर्तृत्वस्य वक्तुम् अशक्यत्वाच् च ॥१७॥
र्प्च्- ७.९.३०, २.७.४६।
**ह्द्स्- **१०.८७.२८।
॥ २.१.१८ ॥
असत्त्वं धर्मान्तरम् इत्य् अत्र हेतुं दर्शयति—
युक्तेः शब्दान्तराच् च ॥
मृत्-पिण्डस्य कम्बु-ग्रीवाद्य्-आकार-योगो घटोऽस्तीति व्यवहारस्य हेतुः । तद्-विरोधि-कपालाद्य्-अवस्थान्तर-योगस् तु घटो नास्तीति व्यवहारस्य । स्मृतिर् अप्य् एवम् एवाभिधत्ते—मृदि घटत्वं घटतः कपालिका कपालिकाच् चूर्ण-रजस् ततोऽणुर् इति । एतावतैव घटाद्य्-अभाव-व्यवहार-सिद्धेस् तद् अन्यः स न कल्प्यते, तत् न चोपलभ्यत इति युक्तिः । असच्-छब्दस्य पूर्वत्रोदाहृतत्वात् । ततोऽन्यः सच्-छब्दः । शब्दान्तरं सद् एव सौम्येदम् इति । एवं च युक्ति-सच्-छब्दाभ्याम् असत् सूक्ष्मम् इत्य् एवार्थः, न तु शश-विषाणादिवन् निरूपाख्यम् इति । उपमृदित-विशेषं जगत् परम-सूक्ष्मम् एव ब्रह्मणि विलीनं तदानीं सौक्ष्म्याद् असद् इत्य् उच्यते । तस्माद् उत्पत्तेः प्राग् अप्य् उपादान-वपुषा सत्त्वात् तद्-अभिन्नम् एवोपादेयम् इति सिद्धम् । यच् च नासद् उत्पद्यते असम्भवात्, नापि सत्-कारक-व्यापार-वैयर्थ्यात्, किन्तु अनिर्वाच्यम् एवेत्य् आह—तन् मन्दं सद् असद् विलक्षणताया दुरुपपादनत्वात् ॥१८॥
र्प्च्- १०.८७.२५, १२.८.४३, ११.१२.१८।
**ह्द्स्- **१०.८७.३७।
॥ २.१.१९ ॥
अथ सत्-कार्य-वादे दृष्टान्तान् उदाहरति—
पटवच् च ॥
पटो यथा सूत्रात्मना पूर्वं सन्न् एव प्राप्तव्यतिषङ्ग-विशेषेभ्यः सूत्रेभ्योऽभिव्यज्यते । तथा सूक्ष्म-शक्तिमद् ब्रह्मात्मना पूर्वं सन्न् एव प्रपञ्चः सिसृक्षोस् तस्माद् इति । बट-बीज-दृष्टान्त-सङ्ग्रहाय च शब्दः ॥१९॥
र्प्च्- ११.१२.१९, १०.१५.३६, ६.३.१२।
ह्द्स्- ६.३.१२, १०.१५.३५।
॥ २.१.२० ॥
यथा च प्राणादिः ॥
यथा प्राणापानादिः प्राणायामेन संयमितस् तद् अपि मुख्य-प्राण-मात्रतया सन्न् एव प्रवृत्ति-काले हृदयादि-स्थानानि मुख्ये भजति सति तस्मात् एव मुख्यात् स्वावस्थयाभिव्यज्यते, तथा प्रपञ्चोऽप्य् अमृदित-विशेषोऽपीतौ सूक्ष्म-शक्तिमति ब्रह्मणि तद्-आत्मना सन्न् एव सृष्टि-काले तस्मिन् सिसृक्षौ सति तस्मात् एव प्रधान-महद्-आदि-रूपः प्रादुर्भवति । उक्त-समुच्चयार्थश् च-शब्दः । असत्-कार्य-वादे तु दृष्टान्तो नास्ति । न हि बन्ध्या-पुत्रः क्वचिद् उत्पद्यमानो दृश्यते, वियत्-पुष्पं वा । तस्मात् एकम् एव जीव-प्रकृति-शक्तिमत् ब्रह्म जगद्-उपादानं, तद्-आत्मकम् उपादेयं चेति सिद्धम् । एवं कार्यावस्थत्वेऽप्य् अविचिन्त्यत्व-धर्म-योगाद् अप्रच्युत-पूर्वावस्थं चावतिष्ठते ।
ओं नमो वासुदेवाय तस्मै भगवते सदा । व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोऽखिलस्य यः ॥ [वि।पु। १.१९.७८] इत्य् आदि स्मृतेः ॥२०॥
र्प्च्- ५.११.१४।
**ह्द्स्- **१०.८७.२९, १०.४६.४३।
—ओ)०(ओ—
८। इतर-व्यपदेशाधिकरणम्
॥ २.१.२१ ॥
प्रकृतिश् च प्रतिज्ञेत्य् अस्मिन्न् अधिकरणे जगद् उपादानत्वं जगन् निमित्तत्वं ब्रह्मणो निरूपितम् । तत्राद्यम् उपक्षिप्तान् दोषान् परिहृत्य दृढीकृतं दृश्यते त्व् इत्य् आदिभिः । अथान्तिमं वाक्यान्तरात् प्रतीतम् अपि जीव-कर्तृत्व-पक्षं सण्दूष्य दृढीक्रियते । तथा हि कर्तारम् ईशम् इत्य् आदि श्रुतेर् ईश्वरो जगत्-कर्त्रेत्य् एके । जीवाद् भवन्ति भूतानीत्य् आदि श्रुतेर् अदृष्ट-योजज् जीवस् तत्-कर्तेति त्व् इतरे । तथेश्वरस्य तत्-कर्तृत्वेन् पूर्णतादि-विरोधापत्तेर् जीवस्यैव तद् इति वदन्ति । द्विविध-वाक्योपलम्भाद् अनिर्मयो वा स्याद् इत्य् एवं प्राप्ते—
इतर-व्यपदेशाद् धिताकरणादि-दोष-प्रसक्तिः ॥
इतरेषां केषाञ्चित् यो जीव-कर्तृत्व-व्यपदेश इतरस्य वा जीवस्य यो जगत्-कर्तृत्व-व्यपदेशः परैः कैश्चित् स्वीकृतस् तस्मात् इतर-व्यपदेशिनां विदुषां तत्-कर्तरि जीवे हिताकरणादीनां दोषाणां प्रसक्तिः स्यात् । हिताकरणम् अहित-करणं श्रमादिकं च दूषणं प्राप्नुयात् । न हि कश्चित् स्वाधीनो धीमान् स्वस्य बन्धनागारं निर्मिमाणः कौशेय-कीटवत् तत्र प्रविशेत् । न वा स्वयं स्वच्छः सन्नत्यनच्छं वपुर् अपेयात् । न च केनचित् जीवेन साध्यम् इदं प्रधान-महद्-अहं-वियत्-पवनादि-कार्यम् । तच्-चिन्तयापि श्रमानुभवात् । तस्मात् दुष्टो जीव-कर्तृत्व-वादः ईश्वरस्य तु तत्-कर्तुः पूर्णतादि-विरोधः परिहरिष्यते ॥२१॥
**र्प्च्- **७.९.३९, ३.२६.६-७।
**ह्द्स्- **११.४.२-४।
—ओ)०(ओ—
९। अधिकाधिकरणम्
॥ २.१.२२ ॥
ननु ब्रह्मणोऽपि कार्याभिध्यान-तद्-अनुप्रवेशादि-श्रवणात् श्रम-हिताकरणादि-प्राप्तिः ? तत्राह—
अधिकं तु भेद-निर्देशात् ॥
शङ्का-च्छेदाय तु-शब्दः । जीवाद् अधिकं ब्रह्म उरु-शक्तिकत्वात् तस्मात् अत्युत्कृष्टम् । तत् कुतः ? शास्त्रेषु तथैव भेद-निर्देशात् । मुण्डकादौ—
समाने वृक्षे पुरुषो निमग्नोऽ न्ईशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्य् अन्यम् ईशम् अस्य महिमानम् इति वीत-शोकः ॥** **[मु।उ। ३.१.२]
इति शोक-मोह-ग्रस्तात् जीवान् परमात्मनोऽखण्डितैश्वर्यादित्वेन भेदो निर्दिश्यते । स्मृतिषु च—
द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः । यो लोक-त्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ [गीता १५.१६-१७] इति । प्रधान-पुरुष-व्यक्त-कालानां परमं हि यत् । पश्यन्ति सूरयः शुद्धं तद् विष्णोः परमं पदम् ॥ [वि।पु। १.२.१६] विष्णोः स्वरूपात् परतो हि तेऽन्ये रूपं प्रधानं पुरुषश् च विप्र । तस्यैव तेन्ऽन्येन धृते वियुक्ते रूपान्तरं तद् द्विज काल-सञ्ज्ञम् ॥ [वि।पु। १.२.२४] इति ।
एतद् ईशनम् ईशस्य प्रकृति-स्थोऽपि तद्-गुणैः । न युज्यते सदात्म-स्थैर् यथा बुद्धिस् तद्-आश्रया ॥ [भा।पु। १.११.३९] इति च ।
एवम् आद्यासु तथैवासौ निर्दिष्टः । सम्भोग-प्राप्तिर् इत्य् आदिना प्राग् अप्य् एतद् अभिहितम् । तथा चाविचिन्त्योरु-शक्तिर् ईश्वरः स्व-सङ्कल्प-मात्रात् जगत् सृष्ट्वा तस्मिन् प्रविश्य विक्रीडति, जीर्णं च तत् संहरत्य् ऊर्णनाभिवद् इति, न पूर्वोक्त-दोष-गन्धः ।
ननु घटाकाशात् महाकाशस्येवैतज् जीवाद् ईश्वरस्याधिक्यम् इति चेत्, न । तद्वत् तस्य परिच्छेद-विषयत्वास्वीकारात् । न च जल-चन्द्रात् वियच्-चन्द्रस्येव तस्मात् तस्य तद् विभोर् निरूपस्य तस्य तद्वत् प्रतिबिम्बासम्भवात् । न च राज-पुत्रस्येवाप्त-दास-भ्रमस्यैकस्य ब्रह्मणो भ्रमात् जीवस्योत्कर्षापकर्षे सार्वज्ञ्य-श्रुति-विरोधात् ॥२२॥
र्प्च्- ५.११.१२-१४, १.३.३६, ११.११.६-७, ६.४.१९, ११.११.१-४, ११.२८.१६, ११.२४.७, १२.४.३१-३२, ३.२७.११-१२, ११.३.४१, ११.२८.३५, ११.५.२०, ११.२.३४, ११.१०.३०, _मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः । बन्धये विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ _(ब्रह्म-बिन्दूपनिषत् २), १२.५.६, ४.२९.७६।
ह्द्स्- ११.६.१५, ११.६.१७, १.११.३८।
॥ २.१.२३ ॥
अश्मादिवच् च तद्-अनुपपत्तिः ॥
चेतनस्यापि जीवस्याश्मकाष्ठ-लोष्ट्रवद् अस्वातन्त्र्यात् स्वतः कर्तृत्वानुपपत्तिः । अन्तः प्रविष्टः शास्ता जनानाम् [तै।आ। ३.११.१०] इत्य् आदि श्रुतेः । ईश्वरः सर्व-भूतानां [गीता १८.६१] इत्य् आदि स्मृतेश् च ॥२३॥
**र्प्च्- **६.४.१८, ७.३.२७।
ह्द्स्- १०.८७.३०।
॥ २.१.२४ ॥
उपसंहार-दर्शनान् नेति चेन् न क्षीरवद् धि ॥
ननु नाशादिवद् अकर्तृत्वं जीवस्य तस्यैव कार्योपसंहार-दर्शनात् । स हि यत् कार्यम् आरभते तत् समापयतीति दृष्टम् । न चायं भ्रमः बाधकाभावात् । नन्व् अस्तु जीवः कर्ता स चेशाधीन इति चेत्, न । ईश्वरः खल्व् अनुपलभ्यमानोऽपि कल्प्यः स च प्रेरक इत् गौरवात् । तस्मात् जीवस्यैव कर्म-द्वारकं कर्तृत्वं, न त्व् ईशस्येति चेत्, न । कुतः ? क्षीरवद् धि । हि यतः जीवे कार्योपसंहारः क्षीरवत् प्रवर्तते । तृत्यान्तात् वतिः । तेन तुल्य-क्रिया एत् वतिः इति सूत्रात् । यथा,
गवि दृश्यमानम् अपि क्षीरं प्राणाद् एव जायते । अन्नं रसादि-रूपेण प्राणः परिणमयत्य् असौ ॥ इति स्मृतेः,
तथा जीवे दृश्यमाणोऽपि सोऽस्वातन्त्र्यात् परेशाद् एवेत्य् अर्थः । वक्ष्यति चैवं—परात् तु तत् श्रुतेः [वे।सू। २.३.३९] इति ॥२४॥
**र्प्च्- **१०.८५.४, १.१०.२४, १.५.६।
ह्द्स्- १०.१६.४२।
॥ २.१.२५ ॥
न चानुपलब्धि-विरोध इत्य् आह—
देवादिवद् इति लोके ॥
षष्ठ्य्-अन्तादि वार्थे वतिः । अदृश्यमाणस्यापीन्द्रादेर् लोके वर्णनादि-कर्तृत्व-सिद्धेः । तथा चानुपलभ्यमानोऽपीश्वरो विश्व-कर्तेति ॥२५॥
**र्प्च्- **३.२३.११-१५, ९.६.३९-४०।
ह्द्स्- १०.२.२८।
॥ २.१.२६ ॥
जीव-कर्तृत्व-पक्षे दोषान्तरम् आह—
कृत्स्न-प्रसक्तिर् निरवयव-शब्द-व्याकोपो वा ॥
जीव-कर्तृत्वादिना जीव-स्वरूपस्य निरंशत्वात् कृत्स्नस्य तस्य सर्वस्मिन् कार्ये प्रसक्तिर् वाच्या । न च सा शक्या वक्तुम् अगुल्यादिना तृणोत्तोलनादौ तद्-अननुभवात् । कृत्स्नेन स्वरूपेण प्रवृत्तिः खलु कृत्स्न-सामर्थ्यापेक्षां करोति । सा यथा गुरुतर-दृषद्-उत्थापने स्यात् न तथा त्र्णोत्थापने सामर्थ्यांशानुभवात् । न च स्वरूपांशस्य तत्र प्रसक्तिर् वाच्या । जीव-स्वरूपस्य निरंशत्वात् । स्वीकृते त्व् अंशे निरंशत्व-श्रुति-व्याकोपः, एषोऽणुर् आत्मा इत्य् आदि वाक्य-बाध इत्य् अर्थः । जीवान् भवन्ति भूतानि इत्य् आदि वाक्यं तु ब्रह्म-परमेवेत्य् उक्तं प्राक् । तस्मात् मन्दो जीव-कर्तृत्व-पक्षः ॥२६॥
र्प्च्- —-
ह्द्स्- ६.१६.८-९, ६.१६.२४।
—ओ)०(ओ—
१०। शब्द-मूलाधिकरणम्
॥ २.१.२७ ॥
अथैतौ दोषौ ब्रह्म-कर्तृत्व-पक्षे स्यातां न वेति वीक्षायां सर्वेषु कार्येषु कृत्स्नेन स्वरूपेण चेत् प्रवर्तते, तर्हि तृणोदञ्चनादौ कृत्स्नस्य प्रसक्तिर् न च सा सम्भवेद् अंशेन तत् सिद्धेः । क्वचिद् अंशेन चेत् प्रवर्तते, तर्हि निष्कलं निष्क्रियम् इत्य् आदि-श्रुति-व्याकोपापत्तिर् अतः स्याताम् इति प्राप्ते—
श्रुतेस् तु शब्द-मूलत्वात् ॥
शङ्का-च्छेदाय तु-शब्दः । उपसंहार-सूत्रान् नेत्य् अनुवर्तते । ब्रह्म-कर्तृत्व-पक्षे लोक-दृष्टा दोषा न स्युः । कुतः ? श्रुतेः । अलौकिकम् अचिन्त्यं ज्ञानात्मकम् अपि मूर्तं ज्ञानवच् चैकम् एव बहुधावभातं च, निरंशम् अपि सांशं च, मितम् अप्य् अमितं च, सर्व-कर्तृ निर्विकारं च ब्रह्म इति श्रवणाद् एवेत्य् अर्थः । तथा हि—बृहच् च तद्-दिव्यम् अचिन्त्य-रूपम् इति मुण्डके अलौकिकत्वादि श्रुतम् । तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् [गो।ता।उ। १.३३], बर्हापीडाभिरामाय रामयाकुण्ठ-मेधसे [गो।ता।उ। १.३६], एकोऽपि सन् बहुधा यो विभाति [गो।ता।उ। १.१९] इति गोपालोपनिषदि ज्ञानात्मकत्वाद् इति । अमात्रोऽनन्त-मात्रश् च द्वैतस्योपशमः शिवः इति माण्डूक्योपनिषदि निरंशत्वेऽपि सांशत्वम् । आसीनो दूरं व्रजति शयानो याति सर्वतः [क।उ। १.२.२१] इति काठके मितत्वेऽप्य् अमितत्वं च । द्याव्-आभूमी जनयन् देव एकः [श्वे।उ। ३.३], एष देवो विश्व-कर्मा महात्मा [श्वे।उ। ४.१७], स विश्व-कृद् विश्व-विद् आत्म-योनिर् [श्वे।उ। ६.१६], निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् [श्वे।उ। ६.१९] इति श्वेताश्वतर-श्रुतौ सर्व-कर्तृत्वेऽपि निर्विकारत्वं चेत्य् एतत् सर्वं श्रुत्य्-अनुसारेणैव स्वीकार्यं, न तु केवलया युक्त्या प्रतिविधेयम् इति ।
ननु श्रुत्यापि बाधितार्थकं कथं बोधनीयम् ? तत्राह—शब्देति । अविचिन्त्यार्थस्य शब्दैक-प्रमाणत्वाद् इत्य् अर्थः । तादृशे मणि-मन्त्रादौ दृष्टं ह्य् एतत् प्रकृते कैमुत्यम् आपादयति । इदम् अत्र निष्कृष्टम् । प्रत्यक्षानुमान-शब्दाः प्रमाणानि भवन्ति । प्रत्यक्षं तावत् व्यभिचारि दृष्टं माया-मुण्डावलोके चैत्रस्येदं मुण्डम् इत्य् आदौ । वृष्ट्या तत्-काल-निर्वापित-वह्नौ चिरम् अधिक-द्वित्वर-धूमे पर्वते वह्निमान् धूमाद् इत्य् अनुमानं च । आप्त-वाक्य-लक्षणः शब्दस् तु न क्वापि व्यभिचरति हिमालये हिमं, रत्नालये रत्नम् इत्य् आदिः । स हि तद्-अनुग्राही तन्-निरपेक्षस् तद्-अवगम्ये साधकतमश् च । दृष्ट-चर-माया-मुण्डस्य पुंसो भ्रान्त्या सत्येऽप्य् अविश्वस्ते तद् एवेदम् इत्य् आकाश-वाण्य्-आदौ । “अरे शीतार्ताः पान्था मास्मिन् वह्निं सम्भावयत दृष्टम् अस्माभिः स इदानीं वृष्ट्यैव निर्वाणः । किन्त्व् अमुष्मिन् धूमोद्गारिणि गिरौ स दृश्यते” इत्य् आदौ च तद्-उभयानुग्राहिता । मणि-कण्ठस् त्वम् असीत्य् आदौ तन्-निरपेक्षता, तद्-अवगम्ये ग्रह-चेष्टादौ साधकतमता चेति शब्दस्य सर्वतः श्रैष्ठ्ये स्थिते ब्रह्म-बोधकस् तु श्रुति-शब्द एव । नावेदविन् मनुते तं बृहन्तम् इत्य् आदि श्रवणात् । स्वतः-सिद्धत्वेन निर्दोषत्वाच् चेति ॥२७॥
र्प्च्- २.६.१७-१८, १.८.१५, ६.९.३१, ६.९.३३, १०.८७.२४।
ह्द्स्- ३.१२.४७, २.५.१५ (नारायण-परो वेदः), २.१०.३६, ६.१६.५१
॥ २.१.२८ ॥
उक्तम् अर्थं दृष्टान्तेन ग्राहयति—
आत्मनि चैवं विचित्राश् च हि ॥
यथा कल्प-द्रुम-चिन्तामण्य्-आदेर् ईश्वर-विभूति-भूतस्याचिन्त्य-शक्ति-मात्र-सिद्धा हस्त्य्-अश्वादयो विचित्राः सृष्टयो भवन्तीति शब्दात् प्रतीत्य श्रद्धीयते एवम् आत्मनश् च सर्वेश्वरस्य विष्णोर् देव-नर-तिर्यग्-आदयस् तास् तथाभूता भवेयुर् इति तस्माद् एव श्रद्धेयम् । अचिन्त्य-वस्तु-स्वभावस्य तद्-एक-गम्यत्वात् तत्र यथा कृत्स्नेन स्वरूपेण सृज्यन्ते स्वरूपांशेन वा व्यवस्थया वेति युक्तेर् नावकाशस् तथा प्रकृतेऽपीति । तस्मात् यथा-श्रुतम् एव स्वीकार्यम् । सप्तम्य्-अन्त-निर्देशः कार्याधारत्व-विवक्षया । दार्ष्टान्तिके कैमुत्य-द्योतनाय परश् च शब्दः । हि-शब्देन पुराणादि-प्रसिद्धिः सूच्यते । तस्मात् ब्रह्म-कर्तृत्व-पक्षः श्रेयान् ॥२८॥
र्प्च्- ६.४.२६-२७, ८.३.९,
ह्द्स्- ४.९.१६।
॥ २.१.२९ ॥
स एव उपादेय इत्य् आह—
स्व-पक्षे दोषाच् च ॥
स्वस्य तव जीव-कर्तृत्वादिनः पक्षे कृत्स्न-प्रसक्त्य्-आदेर् दोषस्य सत्त्वात् ब्रह्म-कर्तृत्व-पक्षे तस्य निरस्तत्वात् ॥२९॥
र्प्च्- —-
ह्द्स्- ६.४.३०।
—ओ)०(ओ—
११। सर्वोपेताधिकरणम्
॥ २.१.३० ॥
अथ विधान्तरैर् आशङ्क्य समादधति आवैषम्याधिकरणम् । ब्रह्मणः कर्तृत्वं युज्यते न वेति संशये सत्यं ज्ञानम् अनन्तं ब्रह्म, सद् एव सोम्येदम् अग्र आसीत् आत्मा वा इदम् [छा।उ। ६.२.२] इत्य् आदिषु शक्त्य्-अश्रवणात् न युज्यते । शक्तिमान् एव हि तक्षादिर् विचित्र-कार्याय क्षमो वीक्ष्यते नाशक्तिमान् इति प्राप्ते—
सर्वोपेता च तद्-दर्शनात् ॥
च-शब्दोऽवधारणे । सर्वासां शक्तीनाम् उपेता प्राप्तासाव् आत्मा । तृच् प्रत्ययः । सर्व-शक्ति-विशिष्ट एव परमात्मा । कुतः ? तद्-दर्शनात् । देवात्म-शक्तिं स्व-गुणैर् निगूढां [श्वे।उ। १.३], य एकोऽवर्णो बहुधा शक्ति-योगात् [श्वे।उ। ४.१], परास्य शक्तिर् विविधैव श्रूयते [श्वे।उ। ६.८] इत्य् आदि श्रुतिषु तथा-दर्शनात् । विष्णु-शक्तिः परा प्रोक्ता इत्य् आदिका स्मृतिस् तूक्ता । अचिन्त्याश् चैताः । अपाणि-पादोऽहम् अचिन्त्य-शक्तिः, आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिः इत्य् आदि स्मृतिभ्यः । तथा चाविचिन्त्य-शक्ति-योगात् ब्रह्मणः कर्तृत्वं युज्यत एवेति । सत्यम् इत्य् आदिषु स्वरूपं परामृष्टम् । देवात्मेत्य् आदिषु तु तस्य शक्तय इति । तस्माद् शक्तिमद् एव ब्रह्म-स्वरूपम् । अत एव तत्र तत्र सोऽकामयत इत्य् आदिना तद् ऐक्षत इत्य् आदिना च तस्यैव सङ्कल्पादयो निरूपिताः । उभयेषां वाक्यानां प्रामाण्येऽविशेषः श्रुतित्वाविशेषात् ॥३०॥
र्प्च्- १०.१६.३६, ११.३.३८, ६.४.२३।
ह्द्स्- ३.३३.३, ३.२.२१, २.४.१०।
—ओ)०(ओ—
१२। विकरणत्वाधिकरणम्
॥ २.१.३१ ॥
पुनर् आशङ्क्य समाधत्ते । कर्तृत्वं ब्रह्मणो न सम्भवत्य् अनिन्द्रियत्वात् । शक्तिमन्तोऽपि देवादयः सेन्द्रिया एव तत्-तत्-कार्य-क्षमा विज्ञायन्ते । ब्रह्म त्व् अनिन्द्रियं कथं विश्व-कार्याय क्षमं स्यात् ? श्रुतिश् च श्वेताश्वतरैः पठिता तस्येन्द्रिय-शून्यत्वम् आह—
अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तम् आहुर् अग्र्यं पुरुषं महान्तम् ॥ [श्वे।उ। ३.१९ ॥ इति ।
एवं प्राप्ते ब्रवीति—
विकरणत्वान् नेति चेत् तद् उक्तम् ॥
अनिन्द्रियत्वात् ब्रह्मणः कर्तृत्वं नेति यद् उच्यते तद् उक्तम् उत्तरत्र स्वाभाविक-पर-शक्तिकतां दर्शयन्त्या श्रुत्यैव तत् समाहितम् इत्य् अर्थः । तथा हि तैर् एव पठ्यते—
तम् ईश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद् विदाम देवं भुवनेशम् ईड्यम् ॥ न तस्य कार्यं करणं च विद्यते न तत्-समश् चाभ्यधिकश् च दृश्यते । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च ॥ न तस्य कश्चित् पतिर् अस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः ॥ [श्वे।उ। ६.७-९ ॥ इति ।
अपाणीत्य् आदिना पाण्य्-आदि-वर्जितोऽप्य् असौ महा-पुरुषो ग्रहणादि-कार्य-भाग् भवतीत्य् उक्तं प्राक् । तत्र सन्दिहानान् प्रति पुनर् आह तम् इति । पुरुष-मात्र-नियन्तृत्वात् महा-पुरुषत्वं सिद्धम् । कार्यं प्राकृतं करणं च शब्दाद् वपुस् तस्य नास्ति । पर-शक्ति-मयं तु तत् तद् अस्त्य् एव । सा च शक्तिः स्वाभाविकी स्वरूपानुबन्धिन्य् एतेनास्य ज्ञान-बल-क्रिया च तथा । ईदृश-गुण-विरहान् न कोऽपि तस्य समः । अधिकस् तु नास्त्य् एवेत्य् आह न तस्य कश्चिद् इति । तथा च प्राकृत-करण-विरहेऽपि स्वरूपानुबन्धि-करणमत्त्वाद् अनुपपन्नं न वृत्तीनां नियमः प्रतिषिध्यते ।
सर्वतः पाणि-पादं तत् सर्वतोऽक्षि-शिरो-मुखम् । सर्वतः श्रुतिमल् लोके सर्वम् आवृत्य तिष्ठति ॥ [श्वे।उ। ३.१६ ॥ इति तैर् एव पठितत्वात् ।
अङ्गानि यस्य सकलेन्द्रिय-वृत्तिमन्ति इति स्मरणाच् च । दृष्टं चेत्थं वन्य-भोजनावसरे । एतत्-पक्षे तस्य न किञ्चित् कार्यं साध्यम् अस्ति पूर्णत्वात् । अतः करुणं विधानं च न समानम् अन्यत् ॥३१॥
र्प्च्- १०.१३.६, १०.४३.१४, १०.५०.३४, १०.५०.४१, १०.३३.३, १०.८०.८।
ह्द्स्- १०.८७.२८।
—ओ)०(ओ—
॥ २.१.३२ ॥
सृष्टौ ब्रह्मणः प्रवृत्तिर् उपयुक्ता न वेति विषये पूर्व-पक्षम् आह—
न प्रयोजनवत्वात् ॥
पूर्वतो नेत्य् अनुवर्तते । निषेधार्थकेन न शब्देन समासात् नात्र न लोपः । प्रवृत्तिर् नोपयुज्यते । कुतः ? तस्य पूर्णस्य प्रयोजनाभावात् । स्वार्था परार्था च प्रवृत्तिर् लोके दृष्टा । तत्र नाद्या सम्भवति पूर्ण-कामत्व-श्रुति-विरोधात् । नाप्य् अन्त्या समर्थो हि परानुग्रहाय प्रवर्तते न तु जन्म-मरणादि-विविध-यातना-समर्पणाय । ऋते प्रयोजनात् प्रवृत्तौ त्व् अप्रेक्ष्य-कारितापत्तिस् ततः सर्वज्ञ-श्रुति-व्याकोपः । तस्मान् नोपयुक्ता प्रवृत्तिर् इति ॥३२॥
र्प्च्- —-
ह्द्स्- ६.१७.२२।
—ओ)०(ओ—
१३। लीला-कैवल्याधिकरणम्
॥ २.१.३३ ॥
एवं प्राप्ते समाधत्ते—
**लोकवत् तु लीला-कैवल्यम् ॥ **
शङ्का-च्छेदाय तु-शब्दः । परिपूर्णस्यापि विचित्र-सृष्टौ प्रवृत्तिर् लीलैव केवला न तु स्व-फलानुसन्धि-पूर्विका । अत्र दृष्टान्तो लोकेति । षष्ठ्य्-अन्तात् वतिः । लोकस्य सुखोन्मत्तस्य यथा सुखोद्रेकात् फल-निरपेक्षा नृत्यादि-लीला दृश्यते तथेश्वरस्य । तस्मात् स्वरूपानन्द-स्वाभाविक्येन लीला । देवस्यैव स्वभावोऽयम् आत्म-कामस्य का स्पृहा इति मण्डूक-श्रुतेः ।
सृष्ट्य्-आदिकं हरिर् नैव प्रयोजनम् अपेक्ष्य तु । कुरुते केवलानन्दाद् यथा मत्तस्य नर्तनम् ॥ पूर्णानन्दस्य तस्येह प्रयोजन-मतिः कुतः ।
मुक्ता अव्याप्त-कामाः स्युः किम् उतास्य् अखिलात्मनः ॥ इति स्मरणात् ।
न चात्र दृष्टान्तेनासार्वज्ञ्यं प्रसक्तम् । विना फलानुसन्धिम् आनन्दोद्रेकेण लीलायत इत्य् एतावत् स्वीकारात् । उच्छ्वास-प्रश्वास-दृष्टान्तेऽपि सुषुप्त्य्-आदौ तद्-आपत्तेः । राज-दृष्टान्तस् तु तत्-तत्-क्रीडा-सम्भूतस्य सुखस्य फलत्वान् नोपात्तः ॥३३॥
र्प्च्- ८.२२.२०, ११.२९.७, १०.२.३९, १.९.२९, ६.९.३९, ३.७.२-३, ३.७.९, ३.५.२४, ११.३.३, ३.७.१४, २.१०.४४।
**ह्द्स्- **३.७.२-३, १०.१४.२१।
—ओ)०(ओ—
१४। वैषम्य-नैर्घृण्याधिकरणम्
॥ २.१.३४ ॥
पुनर् आशङ्क्य परिहरति । ब्रह्म-कर्तृत्व-वादोऽसमञ्जसः समञ्जसो वेति वीक्षायां सुख-दुःख-भाजो देव-मनुष्यादीन् सृजति ब्रह्मणि वैषम्याद्यापत्तेर् असमञ्जसः । ततश् च निर्दोषतावादि-श्रुत्य्-उपरोधापत्तिर् इति प्राप्ते –
वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ॥
ब्रह्मणि कर्तरि वैषम्यं नैर्घृण्यं च दोषो न । कुतः ? सापेक्षत्वात् । स्रष्टुः कर्मापेक्षित्वात् । प्रमाणम् आह तथा हीति । एष एव साधु-कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष एवासाधु कर्म कारयति तं यम् अधो निनीयते ॥ इति बृहद्-आरण्यक-श्रुतिः । क्षेत्रज्ञानां देवादि-भाव-प्राप्तिम् ईश्वर-निमित्तां दर्शयन्ती मध्ये कर्म परामृत्शतीत्य् अर्थः ॥३४॥
र्प्च्- १०.४६.२८, ८.२३.६, १०.३८.२१, १०.७२.६।
**ह्द्स्- **१०.२४.१३, १०.२४.१७।
—ओ)०(ओ—
१५। न कर्माविभागाधिकरणम्
॥ २.१.३५ ॥
न कर्माविभागाद् इति चेन् नानादित्वात् ॥
ननु कर्मणा वैषम्यादि-परिहारो न स्यात् । कुतः ? कर्माविभागात् । सद् एव सौम्येदम् इत्य् आदिषु प्राक् सृष्टेर् ब्रह्म-विभक्तस्य कर्मणोऽप्रत्टेर् इति चेत्, न । कुतः ? कर्मणः क्षेत्रज्ञानां च ब्रह्म-वदनादित्व-स्वीकारात् । पूर्व-पूर्व-कर्मानुसारेणोत्तरोत्तर-कर्मणि प्रवर्तनात् न किञ्चिद् दूषणम् । स्मृतिश् च—
पुण्य-पापादिकं विष्णुः कारयेत् पूर्व-कर्मणा । अनादित्वात् कर्मणश् च न विरोधः कथञ्चन ॥ इति ।
कर्मणोऽनादित्वेनानवस्था तु न दोषः प्रामानिकत्वात् । न च कर्म-सापेक्षत्वेनेश्वरस्यास्वातन्त्र्यम् । द्रव्यं कर्म च कालश् चेत्य् आदिना कर्मादि-सत्तायास् तद्-अधीनत्व-स्मरणात् । न च घट्ट-कुड्यां प्रभातम् इति वाच्यम् । अनादि-जीव-स्वभावानुसारेण हि कर्म कारयति स्वभावम् अन्यथा-कर्तुं समर्थोऽपि कस्यापि न करोतीत्य् अविषमो भण्यते ॥३५॥
र्प्च्- ३.२६.१९, ३.५.२३, ३.९.४२।
ह्द्स्- २.५.१७-१८, २.५.२०-२१।
—ओ)०(ओ—
१६। भक्त-पक्ष-पाताधिकरणम्
॥ २.१.३६ ॥
वैषम्यादिकं ब्रह्मणि परिहृतम् । भक्त-पक्षपात-रूपं तद् इदानीं तस्मिन्न् अङ्गीकरोति। भक्त-संरक्षणं तद्-वासना-निवारणी च परस्मिन् वैषम्यं न वेति विषये तद्-रक्षणादेर् अपि कर्म-सापेक्षत्वात् न स्याद् इति प्राप्ते—
उपपद्यते चाभ्युपलभ्यते च ॥
भक्त-वत्सलस्यास्य प्रभोस् तत्-पक्षपातो वैषम्यम् एव तद् उपपद्यते सिध्यति । तद्-रक्षणादेः स्वरूप-शक्ति-वृत्ति-भूत-भक्ति-सापेक्षत्वात् । न च निर्दोषता-वादि-वाक्य-व्याकोपः । तद्-रूपस्य वैषम्यस्य गुणत्वेन स्तूयमानत्वात् । गुण-वृन्दम् अञ्जनम् इदम् इत्य् अपि श्रुतिर् आह । यद् विना सर्वे गुणा जनेभ्योऽरोचमानाः प्रवर्तका न स्युः । उपलभ्यते चैतत् श्रुतिषु च । यम् एवैष वृणुते तेन लभ्यस् तस्यैव आत्मा विवृणुते तनुं स्वाम् [क।उ। १.२.२२] इत्य् आद्याः श्रुतयः । प्रियो हि ज्ञानिनोऽत्यर्थम् अहं स च मम प्रियः [गीता ७.१४],
समोऽहं सर्व-भूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥** ** अपि** **चेत् सुदुराचारो भजते माम् अनन्य-भाक् । साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥ क्षिप्रं भवति धर्मात्मा शश्वच्-छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ [गीता ९.२९-३१]
इत्य् आद्याः स्मृतयश् च ॥३६॥
र्प्च्- ३.६.३, २.१०.१२, २.५.१४।
ह्द्स्- ९.४.६३-६४, ९.४.६६, ९.४.६८।
—ओ)०(ओ—
१७। सर्व-धर्मोपपत्त्य्-अधिकरणम्
॥ २.१.३७ ॥
सर्व-धर्मोपपत्तेश् च ॥
अविचिन्त्य-स्वरूपे सर्वेश्वरे सर्वेषां विरुद्दानाम् अविरुद्दानां च धर्माणाम् उपपत्तेः सिद्धेश् च भक्त-पक्ष-पातोऽपि गुणः सुज्ञैर् आस्थेय एव । यथा ज्ञानात्मको ज्ञानवान् । स्यामश् चैवम् अविषमो भक्त-प्रेयान् इत्य् आदयो मिथो विरुद्धाः क्षान्त्य्-आर्जवादयो ऽविरुद्धाश् च परस्मिन्न् एव सन्ति । स्मृतिश् च—
ऐश्वर्य-योगात् भगवान् विरुद्धार्थोऽभिधीयते । तथापि दोषाः परमे नैवाहार्याः कथञ्चन ॥ गुणा विरुद्धा अप्य् एते समाहार्याः समन्ततः ॥ [कू।पु।] इति ।
तथा चाविषमोऽपि हरिर् भक्त-सुहृद् इति सिद्धम् ॥३७॥
र्प्च्- ८.२३.६, १०.३८.२१, १०.४६.२८, १०.७२.६, १२.८.४३, १०.१६.३९, १०.१६.३६।
ह्द्स्- ८.१७.९, १०.१६.३३-३४।
॥ इति श्रीमद्-ब्रह्म-सूत्र-भाष्ये द्वितीयाध्यायस्य प्रथमः पादः ॥
॥ २.१ ॥
—ओ)०(ओ—
(२.२)