तमः साङ्ख्य-घनोदीर्णं यस्य गो-गणैः ।

तं संविद्-भूषणं कृष्ण-पूषणं समुपास्महे ॥

१। आनुमानिकाधिकरणम्

॥ १.४.१ ॥

मुक्त्य्-उपायतया जिज्ञास्यं विश्व-जन्मादि-बीजं जडाज् जीवाच् च विलक्षणम् अविचिन्त्यानन्त-शक्ति-सार्वज्ञ्यादि-कल्याण-गुण-मयं निरस्त-हेयं निरङ्कुशैश्वर्यं परं ब्रह्म परामृष्टं प्राक् । इदानीं तु कासुचिच् छाखासु दृश्यमानानां कपिल-तन्त्र-सिद्ध-प्रधान-पुमर्थक-शब्दान्वितानां वाक्यानां समन्वयस् तत्रैव चिन्त्यते । कठ-वल्ल्याम् इदम् आमनन्ति—

इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः । मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥ महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः । पुरुषान् न परं किञ्चित् सा काष्ठा सा परा गतिः ॥ [क।उ। १.३.१०-११] इति ।

तत्राव्यक्त-शब्देन स्मार्तं प्रधानं वाच्यं शरीरं वेति सन्देहे महद्-अव्यक्त-पुरुषाणां परापर-भावेन स्मृति-प्रसिद्धानां श्रुतौ यथावत् प्रत्यभिज्ञानात् स्मार्तं स्वतन्त्रं प्रधानम् इह वाच्यं शरीरं वेति प्राप्ते—

आनुमानिकम् अप्य् एकेषाम् इति चेन्, न,
शरीर-रूप-कवि-न्यस्त-गृहीतेर् दर्शयति च ॥

एकेषां कठानाम् आनुमानिकं स्मार्तं प्रधानम् अपि वाच्यं दृश्यते । न व्यक्तम् अव्यक्तम् इति व्युत्पत्त्या तद् उक्तेर् इति चेन्, न । कुतः ? शरीरेत्य् आदेः । शरीरम् एवात्र रथ-रूपक-विन्यस्तम् अव्यक्त-शब्देन गृह्यते । दर्शयति चैतत् प्राक्तनो ग्रन्थ आत्म-शरीरादीनां रथादि-रूपक-कॢप्तिम् । एतद् उक्तं भवति पूर्वत्र—

आत्मानं रथिनं विद्धि शरीरं रथम् एव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहम् एव च ॥ इन्द्रियाणि हयान्य् आहुर् विषयांस् तेषु गोचरान् । आत्मेन्द्रिय-मनो-युक्तं भोक्तेत्य् आहुर् मनीषिणः ॥ [क।उ। १.३.३-४] इत्य् अन्तेन ग्रन्थेन ।

श्री-विष्णु-पद-प्रेप्सुम् उपासकं रथित्वेन तच्-छरीरादिकं रथादित्वेन रूपयित्वा यस्यैते रथादयो वशे भवन्ति सोऽध्वनः पारं तत्-पदम् आप्नोत्य् उक्त्वाथ रथादि-रूपितानां तेषां शरीरादीनां वशीकार्यतायां गौण्य-प्राधान्यम् उच्यते इन्द्रियेभ्यः परा ह्य् अर्था [क।उ। १.३.१०] इत्य् आदिना । तत्र यानीन्द्रियाणि रथ-रूपके अश्वादि-भावेन प्रकृतानि तान्य् एवेह वाक्येऽपि गृह्यन्ते प्रायः-शब्द-तौल्यात् । यत् तु शरीरम् अवशिष्टं तत् खलु अव्यक्त-शब्देन परिशेषात् प्रकरणाच् चेति । न च स्मार्त-तत्त्व-प्रत्यभिज्ञात्रास्ति तन्-मत-विरोधात् ॥१॥

ह्द्स् : ७.३.२९,३१।

॥ १.४.२ ॥

ननु शरीरस्य व्यक्तत्वाद् अव्यक्त-शब्द-वाच्यता कथम् इत्य् आशङ्क्याह—

सूक्ष्मं तु तद्-अर्हत्वात् ॥

शङ्का-निरासाय तु-शब्दः । कारणात्मना सूक्ष्म-शरीरम् इह विवक्ष्यते । कुतः ? तद्-अर्हत्वात् । तस्य सूक्ष्म-शरीरस्य अव्यक्त-शब्द-योग्यत्वात् । तद् वेद तर्ह्य् अव्याकृतम् आसीद् इति श्रुतिर् अपीदं स्थूलावस्थं जगत् प्राग्-बीज-शक्त्य्-अवस्थं तद् योग्यं दर्शयति ॥२॥

ह्द्स् : १.३.३२।

॥ १.४.३ ॥
तद्-अधीनत्वाद् अर्थवत् ॥

परम-कारण-ब्रह्माधीनत्वाद् अर्थवत् प्रधानं स्व-कार्योत्पादन-फलवद् इत्य् अर्थः । तद्-ईक्षणेनैव प्रधानं वर्तते, न तु स्वतः जाड्यात् । श्रुतिश् च श्वेताश्वतराणां—मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् [श्वे।उ। ४.१०], अस्मान् मायी सृजते विश्वम् एतत् [श्वे।उ। ४.९], य एकोऽवर्णो बहुधा शक्ति-योगात् वर्णान् अनेकान् निहितार्थो दधाति [श्वे।उ। ४.१] इत्य् आद्या । स्मृतिश् च—

स एव भूयो निज-वीर्य-चोदितां स्व-जीव-मायां प्रकृतिं सिसृक्षतीम् । अनाम-रूपात्मनि रूप-नामनी विधित्समानोऽनुससार शास्त्र-कृत् ॥ [भा।पु। १.१०.२२] प्रधान-पुरुषौ चापि प्रविश्यात्मेच्छया हरिः । क्षोभयामास सम्प्राप्ते सर्ग-काले व्ययाव्ययौ ॥ [वि।पु। १.२.२९] मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् । हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥ [गीता ९.१०] इत्य् आद्या ।

एवम् अभ्य्पगमानन् नास्माकं साङ्ख्य-मते प्रवेशः । स्वतन्त्रम् एव प्रधानं कारणम् इति तत्राभ्युपगमात् ॥३॥

ह्द्स् : १.१०.२२।

॥ १.४.४ ॥

इतोऽपि न प्रधानम् अव्यक्त-शब्द-वाच्यम् इत्य् आह—

ज्ञेयत्वावचनाच् च ॥

गुण-पुरुषान्यता-प्रत्ययात् कैवल्यम् इति वदन्तः साङ्ख्याः प्रधानस्य ज्ञेयत्वं स्मरन्ति क्वचन विभूति-विशेष-लाभाय च, न त्व् अत्र तद् अस्ति तद् उपस्थापक-शब्दाभावात् ॥४॥

ह्द्स् : ३.२६.१०।

॥ १.४.५ ॥

वदन्तीति चेन् न प्राज्ञो हि प्रकरणात् ॥

ननु ज्ञेयत्वावचनम् अप्रसिद्धम् । यतोऽशब्दम् अपर्शम् अरूपम् अव्ययम् । तथा रसं नित्यम् अगन्धवच् च यत् । अनाद्य् अनन्तं महतः परं ध्रुवं निचाय्य तं मृत्यु-मुखात् प्रमुच्यते इति पर-वाक्यं निचाय्येति तस्य ज्ञेयत्वं वदतीति चेन्, न । कुतः ? हि यस्मात् तत्र प्राज्ञः परमात्मैवोच्यते ।

पुरुषान् न किञ्चित् सा काष्ठा सा परा गतिः । एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते ॥ इति तस्यैव प्रकृतत्वात् ॥५॥

ह्द्स् : ५.११.१३-१४।

॥ १.४.६ ॥

इतोऽपि प्रधानं तद् वाच्यं नेत्य् आह—

त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च ॥

च-कारः शङ्का-हानाय । यद् अस्यां कठ-वल्ल्यां त्रयाणाम् एव पितृ-प्रसाद-स्वर्गाग्न्यात्मनाम् एवं ज्ञेयत्वेनोपन्यासः प्रश्नश् च त्रयाणाम् एव तेषां वीक्ष्यते, नान्यस्य कस्यचित् पदार्थस्य । ततो नात्र प्रधानं वेद्यम् ॥६॥

ह्द्स् : ७.६.२०-२२,२४-२६।

॥ १.४.७ ॥
महद्वच् च ॥

बुद्धेर् आत्मा महान् परः इत्य् अत्र यथा बुद्धि-परत्वोक्तेर् आत्म-शब्दैकार्थाच् च महच्-छब्देन स्मार्तं महत्-तत्त्वं न गृह्यते । एवम् आत्म-परत्वोक्तेर् अव्यक्त-शब्देन प्रधानं नेत्य् अर्थः ॥७॥

ह्द्स् : ११.३.३७।

—ओ)०(ओ—

२। चमसाधिकरणम्

॥ १.४.८ ॥

अन्योऽपि सार्त-सिद्धान्तो निरस्यते । श्वेताश्वतरोपनिषदि पठ्यते—

अजाम् एकां लोहित-शुक्ल-कृष्णां बह्वीः प्रजाः सृजमानां स-रूपाः । अजो ह्य् एको जुषमाणोऽनुशेते जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ [श्वे।उ। ४.५] इति ।

किम् अत्र स्मृति-सिद्धा प्रकृतिर् अजा, किं वा ब्रह्मात्मिका वैदिकीति सन्देहे अजाम् इत्य् अकार्यत्वस्य बह्वीः प्रजाः सृजमानाम् इति स्वातन्त्र्येण सृष्टेश् च प्रत्ययात् स्मृति-सिद्धेति प्राप्ते—

चमसवद् अविशेषात् ॥

वदतीति सूत्रान् नेत्य् अनुवर्तते । नात्र स्मृति-सिद्धा सा शक्या ग्रहीतुम् । कुतः ? अविशेषात् । न जायत इति व्युत्पत्त्याजात्व-मात्र-प्रतीतेस् तस्या ग्रहणे विशेष-हेत्व्-अभावाद् इत्य् अर्थः । दृष्टान्तश् चमसवद् इति । यथा बृहद्-आरण्यके [बृ।आ।उ। २.२.३] अर्वाग्बिलश् चमसश् चम्यतेऽनेनेति व्युत्पत्त्या यज्ञीय-भक्षण-साधनत्व-मात्र-प्रतीतेर् न सोऽयं चमस-विशेष इति शक्यते ग्रहीतुम् । यौगिक-शब्देष्व् अर्थ-प्रकरणादिकं विनार्थ-विशेषानिश्चयात् तद्वत् । तस्माद् अत्र मन्त्रे स्मृति-सिद्धा प्रकृतिर् न ग्राह्या अर्थ-प्रकरणादेर् अप्य् अभावात् । नापि स्वातन्त्र्येण सृष्टेः प्रत्ययः, प्रजाः सृजमानां इति तन्-मात्र-प्रतीतेः ॥८॥

ह्द्स् : ३.२६.३-५।

॥ १.४.९ ॥

वैदिकी ब्रह्म-शक्तिस् तु ग्राह्या विशेष-हेतु-सत्वाद् इत्य् आह—

ज्योति-रूप-क्रमातु तथा ह्य् अधीयत एके ॥

तु-शब्दो निश्चये । ज्योतिर् ब्रह्म । तद् देवा ज्योतिषां ज्योतिः [बृ।आ।उ। ४.४.१६] इत्य् आदि श्रुति-प्रसिद्धेः । तद् एवोपक्रमः कारणं यस्याः सा ब्रह्म-कारणैवेयम् अजा ग्राह्या चमसवद् अन्यतोऽस्या विशेष-बोधाद् इति । तत्र यथा, इदं तच्-छिर एष ह्य् अर्वाग्बिलश् चमस ऊर्ध्वबुध्नः [बृ।आ।उ। २.२.३] इति वाक्य-शेषात् शिरो-रूपश् चमस-विशेषो निश्चितस् तथास्याम् अपि प्रथमेऽध्याये अजा-मन्त्रान्विते, चतुर्थे च शक्तेः प्रक्रमात् ब्रह्म-शक्ति-रूपो विशेष इति । अत्र पूर्वत्र, ते ध्यान-योगानुगता अपश्यन् देवात्म-शक्तिं स्व-गुणैर् निगूढाम् [श्वे।उ। १.३] इति । परत्र तु य एकोऽवर्णो बहुधा शक्ति-योगाद् इति । अथैतस्या ग्रहणे प्रमाणान्तरं च दर्शयति तथा हीति । हिर् हेतौ । यस्माद् एके शाखिनस् तथाधीयते, तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायाते [मु।उ। १.१.९] इति प्रकृतिम् ईश्वरोत्पन्नां पठन्ति । ब्रह्म-शब्द-वाच्यम् अत्र प्रधानं त्रिगुणावस्थं ग्राह्यं, मम योनिर् महद् ब्रह्म [गीता १४.३] इति स्मृतेः ॥९॥

ह्द्स् : ३.२६.३-४, १९।

॥ १.४.१० ॥

ननु कथम् अस्याः प्रकृतेर् अजात्वं, अजायाः पुनः कथं ज्योतिर्-उत्पन्नत्वम् इत्य् आशङ्क्य समाधत्ते—

कल्पनोपदेशाच् च मध्व्-आदिवद् अविरोधः ॥

च-शब्देन शङ्का निरस्यते । तद् द्वयम् अस्याः सम्भवति । कुतः ? कल्पनेति । कल्पनं सृष्टिः । यथा-पूर्वं अकल्पयत् इति प्रयोगात् । तमः शक्तिकाद् ब्रह्मणः प्रधानोत्पति-कथनाद् इत्य् अर्थः । इदम् अत्र तत्त्वम् । तमोऽभिधानातिसूक्ष्मा नित्या च परस्य शक्तिर् अस्ति । तम आसीत् तमसा गूढम् अग्रे प्रकेतं यदा तमस् तन् न द्विआ न रात्रिः [ऋ।वे। १.२९.३] इति, गौर् अनाद्य्-अन्तवती1 [चुल्लिकोपनिषद्] इत्य् आदि श्रुतेः । सा किल प्रलये तेन सहैक्यं गता, न तु तत्र विलीना तिष्ठति । पृथिव्य् अप्सु प्रलीयते इत्य् आदि श्रुत्या पृथिव्य्-आदीनां अक्षरान्तानां तमसि लय-कथनात् तमसस् तु परस्मिन्न् ऐक्य-कथनात् । तद्-ऐक्यं नामातिसौक्ष्म्याद् विभागानर्हत्वम् एव नान्यत् । इतरथा तम एकीभवतीति च्वि-प्रत्ययासामञ्जस्यात् । अथ सिसृक्षोः परस्माद् देवात् तमः-शक्तिकात् त्रिगुणावस्थम् अव्यक्तम् उत्पद्यते । महान् अव्यक्ते लीयते, अव्यक्तम् अक्षरे, अक्षरं तमसि इति श्रुतेः । तस्माद् अव्यक्तम् उत्पन्नं त्रिगुणं द्विज-सत्तम इत्य् आदि स्मृतेश् च । ततस् तु महद्-आदेः सर्गः । तेन प्रधान-कल्पनोपदेशेन कारण-रूपा कार्य-रूपा चेति व्यवस्था प्रकृति-सिद्धा । प्रधान-पुंसोर् अजयोः कारण-कार्य-भूतयोर् इति स्मृतेश् [वि।पु। १.९.३७] च । सृष्टि-काले तूद्भूत-सत्त्वादि-गुणा विभक्त-नाम-रूपा प्रधानाव्यक्तादि-शब्दिता लोहिताद्य्-आकारा ज्योतिर् उत्पन्नेति । दृष्टान्तम् आह—मध्व्-आदिवद् इति । यथादित्यः कारणावस्थायां एकीभूतः कार्यावस्थायां वस्व्-आदि-भोग्य-मधुत्वेनोदयास्त-मयत्वेन च कल्प्यमानोऽपि न विरुध्यते तद्वत् ॥१०॥

ह्द्स् : ३.२६.२०।

—ओ)०(ओ—

३। सङ्ख्योपसङ्ग्रहाधिकरणम्

॥ १.४.११ ॥

बृहद्-आरण्यके—

यस्मिन् पञ्च पञ्च-जना आकाशश् च प्रतिष्ठितः । तम् एव मन्य आत्मानञ् विद्वान् ब्रह्मामृतोऽमृतम् ॥ [बृ।आ।उ। ४.४.१७] इति श्रूयते ।

किम् अत्र कापिल-तन्त्रोक्तानि पञ्चविंशति-तत्त्वानि ज्ञेयानि, किं वा, पञ्चैव केचिद् अन्ये, इति वीक्षायां बहुव्रीहि-गर्भ-कर्मधारय-विशिष्टात् पञ्च-पञ्च-जन-शब्दात् पञ्चविंशति-पदार्थ-प्रतीतेः कापिलोक्तान्य् एव तानि ग्राह्याणि । आत्माकाशयोर् अतिरेकस् तु कथञ्चिन् निवर्तनीयः । जन-शब्दस् तत्त्व-वाचीत्य् एवं प्राप्ते—

न सङ्ख्योपसङ्ग्रहाद् अपि नाना-भावाद् अतिरेकाच् च ॥

अपि-शब्दः सम्भावनायां । सङ्ख्या-ग्रहणेनापि न तान्य् अत्र प्रतिपादयितुं शक्यन्ते । कुतः ? नानेत्य् आदि । नाना-भूतेषु तेष्व् अनुगत-धर्माभावेन पञ्चताया ग्रहीतुम् अशक्यत्वात् । आत्माकाशयोः पृथङ्-निर्देशेन सप्तविंशति-तत्त्वापत्तेश् च । न हि पञ्च-द्वय-श्रुति-मात्रेण भ्रमितव्यम् । कस् तर्हि निर्णयः ? उच्यते—पञ्चजन-शब्दोऽयं समस्तः सप्तर्षि-शब्दवत् सञ्ज्ञा-वाचकः । दिक्-सङ्ख्ये सञ्ज्ञायाम् इति पाणिनि-स्मरणात् । यथा सप्तर्षयः सप्तेत्य् एकैकोऽपि सप्तर्षि-सञ्ज्ञस् तथा पञ्चजनाः पञ्चेत्य् एकैकोऽपि पञ्चजन-सञ्ज्ञ इत्य् अर्थः । ततश् च पञ्चजन-सञ्ज्ञकाः पञ्च पदार्था इति सुष्ठु ॥११॥

ह्द्स् : ११.२२.२-४, ३.२६.१२, ३.१६.१६, ३.२६.१४-१५।

॥ १.४.१२ ॥

के ते इत्य् अपेक्षायाम् आह—

प्राणादयो वाक्य-शेषात् ॥

प्राणस्य प्राणम् उत चक्षुषश् चक्षुर् उत श्रोत्रस्य श्रोत्रम् अन्नस्यान्नं मनसो ये मनो विदुः [बृ।आ।उ। ४.४.१८] इत्य् अस्मात् प्राणादयः पञ्च ते बोध्याः ॥१२॥

ह्द्स् : ८.१.११।

॥ १.४.१३ ॥

नन्व् एतन् माध्यन्दिनानां सङ्गच्छते न तु काण्वानां तेषाम् अन्न-पाठाभावाद् इत्य् आशङ्क्य समाधत्ते—

ज्योतिषैकेषाम् असत्य् अन्ने ॥

एकेषां काण्वानां पाठे अन्ने असत्य् अपि ज्योतिषा पञ्च-सङ्ख्या सम्पद्यते । यस्मिन् पञ्च इत्य् अतः पूर्वं—तद् देवा ज्योतिषां ज्योतिर् [बृ।आ।उ। ४.४.१६] इति ज्योतिषः पठितवात् । इहोभयेषां ज्योतिर् मन्त्रे तुल्येऽपि सति ज्योतिर् ग्रहणाग्रहणम् अपेक्ष्य सत्त्वासत्त्व-निबन्धनं बोध्यम् ॥१३॥

ह्द्स् : ८.५.३,५।

—ओ)०(ओ—

४। कारणत्वाधिकरणम्

॥ १.४.१४ ॥

पुनर् अपि साङ्ख्यः शङ्कते । वेदानेषु ब्रह्मऐक-कारणं विश्वम् इति न शक्यते वक्तुं तेष्व् एक-कारणिकायाः सृष्टेर् अदर्शनात् । एकत्र तस्माद् वा एतस्माद् आत्मनः आकाशः सम्भूतः [तै।उ। २.१.३] इत्य् आदिना सृष्टिर् आत्म-हेतुका प्रदर्श्यते । असद् वा इदम् अग्र आसीत् ततो वै सद् अजायत, तद् आत्मानं स्वयम् अकुरुत [छा।उ। ६.२.१] इत्य् असद्-धेतुका च । अन्यत्र क्वचिद् आकाश-हेतुका सृष्टिः पठ्यते, अस्य लोकस्य का गतिर् इत्य् आकाश इति होवाच [छा।उ। १.९.१] इत्य् आदिना । क्वचित् प्राण-हेतुका, सर्वाणि ह वा इमानि भूतानि प्राणम् एवाभिसंविशन्ति [छा।उ। १.११.५] इत्य् आदिना । क्वचिद् असद्-धेतुका—असद् एवेदम् अग्र आसीत् । तत् सदासीत् तत् समभवत् [छा।उ। ३.१९.१] इत्य् आदिना । क्वचित् तु सद्-धेतुका—सद् एव सौम्येदम् अग्र आसीत् इति । क्वचित्—तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन् नाम-रूपाभ्याम् एव व्याक्रियत [बृ।आ।उ। १.४.७] इत्य् अव्याकृत-हेतुका च प्रोच्यते । एवम् अन्यत्रापि सानेकधा । तद् एवं तेष्व् एकस्य हेतोर् अनिरूपणात् ब्रह्मैक-हेतुकं विश्वम् इति न शक्यते निश्चेतुं, किन्तु प्रधान-हेतुकं तन् निश्चेतुं शक्यते, तद् वेदं तर्हीत्य् आदि श्रवणात् । कार्य-कारणयोः सारूप्यं खल्व् अस्मिन् पक्षे निर्बाधं वीक्ष्यते । इहात्माकाश-ब्रह्म-शब्दा विभुत्वात् असत्-सच्-छब्दौ तस्य विकाराश्रयत्वात् नित्यत्वाच् च प्राण-शब्दश् च स्वोत्पन्न-तत्त्व-रूपकत्वाद् ईक्षादयोऽपि कार्याभिमुख्यत्वाभिप्रायेण तत्रैव योज्यास् तस्मात् साङ्ख्योक्तं प्रधानम् एव विश्वैक-हेतुर् वेदान्तैर् उच्यते । इत्य् एवं प्राप्ते—

कारणत्वेन चाकाशादिषु यथा-व्यपदिष्टोक्तेः

च-शब्दः शङ्का-च्छेदाय । ब्रह्मैव विश्वैक-हेतुर् इति शक्यते निश्चेतुम् । कुतः ? आकाशादिषु कारणत्वेन यथा-व्यपदिष्टोक्तेः । लक्षण-सूत्रादिषु सार्वज्ञ्य-सत्य-सङ्कल्पादि-गुणकत्वेन निर्णीतं ब्रह्म यथा-व्यपदिष्टम् उच्यते । तस्यैकस्यैव खादि-हेतुत्वेन सर्वेषु वेदान्तेष्व् अभिधानात् । यथा सत्यं ज्ञानम् अनन्तम् इत्य् आदिना सार्वज्ञ्यादि-गुणकतया निर्दिष्टं ब्रह्म तस्माद् वा एतस्माद् इत्य् आदिना कारणत्वेन विमृश्यते यथा च सद् एव सौम्येदम् इत्य् आदौ तद् ऐक्षत बहु स्याम् इति तद्-गुणकत्वेन निर्दिष्टं ब्रह्म तत्-तेजोऽसृजतेति तत्त्वेन परामृश्यते एवम् अन्यत्रापि द्रष्टव्यम् । कार्य-कारणयोः सारूप्यं तु ब्रह्म-पक्षे वक्ष्यामः । आत्माकाश-प्राण-सद्-ब्रह्म-शब्दा व्याप्ति-सन्दीप्ति-प्राणन-सत्त्व-बृहद्-गुणकत्व-योगान् मुख्यास् तथेक्षादयश् च ॥१४॥

ह्द्स् : ४.२४.६०।

॥ १.४.१५ ॥

अथासद्-व्याकृत-शब्दयोर् गतिम् आह—

समाकर्षात् ॥

सोऽकामयत इति पूर्व-सन्दर्भ-प्रकृतस्य परमात्मनः, असद् वा इत्य् अत्र आदित्यो ब्रह्म इति पूर्व-निर्दिष्टस्य ब्रह्मणः, असद् एवेदम् इत्य् अत्र च समाकर्षात् तत् तच् च वाक्यं ब्रह्म-परम् एव । प्राक् सृष्टेर् नाम-रूपाविभागात् तत्-सम्बन्धितयास्थित्वाभावाद् असच्-छब्देन तत्र ब्रह्मैवोक्तम् । अन्यथा सद् एव सौम्य इत्य् आद्य् अनन्तर-सम्भावितासत्-कारणता-प्रत्युक्तेः, आसीद् इति काल-सम्बन्धस्य च विरोधः । असन्न् एव स भवति इत्य् आदिनासद्-वादिनो विगीतत्वाच् च सूक्ष्म-शक्तिकं ब्रह्मैव तद्-अर्थः । तद् धेदं तर्हि इत्य् अत्राप्य् अव्याकृत-शब्देन तद्-अन्तराल-भूतं ब्रह्मैव बोध्यते । स एष इह प्रविष्ट इत्य् आदि पर-वाक्यतस् तस्याकर्षणात् तच्-छक्तिकं ब्रह्मैव स्व-सङ्कल्प-वशात् स्वयम् एव नाम-रूपाभ्यां व्याक्रियत इति तत्रार्थः । इतरथा वेदान्त-प्रतिष्ठितत्वं गति-सामान्यं च श्रुतं व्याकुप्येत । तस्माद् एकं ब्रह्मैव विश्व-हेतुर् इति निश्चेयम् ॥१५॥

ह्द्स् : ४.२४.६३-६४।

—ओ)०(ओ—

४। जगद्-वाचित्वाधिकरणम्

॥ १.४.१६ ॥

पुनर् अपि साङ्ख्यं निरस्यति । कौषीतकी-ब्राह्मणे बालाकिना विप्रेण ब्रह्म ते ब्रवाणीति प्रतिज्ञाय ब्रह्मतयादित्यादिषु षोडशसु पुरुषेषूक्तेषु अजातशत्रुर् नाम राजा तन् निराकृत्य स्वयम् आह—यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य चैतत् कर्म स वेदितव्य [१८] इति ।

तत्र सन्देहः—किम् अत्र प्रकृत्य्-अध्यक्षस् तन्त्रोक्तो भोक्ता वेद्यतयोपदिश्यते उत सर्वेश्वरः श्री-विष्णुर् इति । यस्य चतत् कर्मेति कर्म-सम्बन्ध-वीक्षया भोक्तृत्वावगमात् उत्तरत्रच तौ ह सुप्तं पुरुषम् आजग्मतुः [१९] इत्य् आदिना । तद् यथा श्रेष्ठैः स्वैर् भुङ्क्ते [२०] इत्य् आदिना च भोक्तुर् एव प्रतिपादनात्, सोऽयं तन्त्रोक्तो भवेत् प्राण-शब्दश् चात्र प्राण-भृत्त्वाद् उपपद्यते । तद् अयम् अर्थः—य एषां पुरुषाणां भोगोपकरण-भूतानां कर्ता कारण-भूतस् तथा तद्-धेतु-भूतं पुण्य-पाप-लक्षणं कर्म च यस्य, स वेदितव्यः प्रकृति-विविक्ततया ज्ञेय इति । तस्मात् तन्त्रोक्तो जीव एवास्मिन् प्रकरणे वेद्यः प्रतिपद्यते । ततश् च वक्तव्यतयोपक्रान्तं ब्रह्म स एव तद्-अन्येश्वरासिद्धेः । ईक्षादयोऽपि कारणं गतास् तस्मिन्न् एवोपपन्नाः तद्-अधिष्ठाता प्रकृतिर् एव विश्व-जनयित्रीत्य् एवं प्राप्तौ—

जगद्-वाचित्वात् ॥

न ह्य् अत्र तन्त्रोक्तः क्षुद्रः क्षेत्रज्ञः प्रतिपाद्यते, अपि तु वेदान्तैक-वेद्यः सर्वेश्वर एव । कुतः ? जगद् इति । एतच्-छब्द-सहचरस्य कर्म-शब्दस्य चिज्-जडात्मक-पूर्व्पूर्वाभिधायित्वाद् इत्य् अर्थः । तत्-कर्तृत्वेन तस्यैव प्राप्तेः । इदम् अत्र तत्त्वम् । क्रियत इति व्युत्पत्त्या कर्म-शब्दो जगद्-वाची । सति च तद्-वाचित्वे तच्-छब्दः सार्थकः । पुरुष-मात्र-कर्तृत्वं शङ्का-निवृत्त्य्-अर्थकत्वात् । न च तन्त्रोक्तस्य कर्तृत्वम् अस्वीकारात् न चाध्यासात् तद्-असङ्ग-श्रुति-व्याकोपात् । तस्मात् सर्वेश्वर एव तत्-कर्ता । एवं च मृषावादित्वम् अजातशत्रोर् न स्यात् । ब्रह्म ते ब्रवाणीति प्रतिज्ञाय षोडश-पुरुषान् वदतो बालाकेर् मृषैव किलेति वाक्येन मृषाभावित्वम् आपाद्य स्वयं ब्रह्म विवक्षुः स चेज् जीवं ब्रूयात् तर्हि तस्यापि तत् स्याद् इति । तद् एवं सत्य् एष वाक्यार्थः । त्वया ये पुरुषा ब्रह्मत्वेनोक्तास् तेषां यः कर्ता ते यत् कार्य-भूता भवन्तीत्य् अर्थः ।

नन्व् एतावद् एव कृत्स्नं जगद् यस्य भवति स परम-कारण-भूतः सर्वेश्वर एव वेद्य इति ॥१६॥

ह्द्स् : ४.२४.६०।

॥ १.४.१७ ॥

नन्व् अत्र जीवस्य मुख्य-प्राणस्य च लिङ्ग-दर्शनात् तद्-अन्यतरो ग्राह्य इति चेत् तत्राह—

जीव-मुख्य-प्राण-लिङ्गान् नेति चेत् तद् व्याख्यातम् ॥

इन्द्र-प्रतर्दनाख्यायिकायां तल्-लिङ्गं निर्णीतम् । तत्र किलोपक्रमोपसंहार-पर्यालोचनेन वाक्यस्य ब्रह्म-परत्वे निश्चिते जीवादि-लिङ्गम् अपि तत्-परत्वेन नीतम् । इहापि ब्रह्म ते ब्रुवानीत्य् उपक्रमात् । सर्वान् पाप्मनोऽपहत्य सर्वेषां भूतानां श्रैष्ठ्यम् आधिपत्यं, पर्येति य एवं वेद इत्य् उपसंहाराच् च तत्-परत्वेन तन् एयम् इति । न चेदं वाक्यं प्रतर्दनाख्यान-निर्णयाद् गतार्थं, यस्य चैतत् कर्म इत्य् अस्यापूर्वत्वात् ॥१७॥

ह्द्स् : १.४.२८, १०.८७.५०।

॥ १.४.१८ ॥

ननु यद्यप्य् एतच् छब्दान्वितात् कर्म-शब्दात् ब्रह्मणि प्रसिद्धात् प्राण-शब्दाच् चायं सन्दर्भो ब्रह्म-परः कर्तुं शक्यस् तथापि जीव-सङ्कीर्तनाद् अतथा-भूतत्वं तस्य । न च प्रश्न-व्याख्यानाभ्यां जीवान्यद् ब्रह्मात्र शक्यं मन्तुम् । तत्रापि जीवस्यैव प्रत्ययात् । स्वापाधारादि-पृच्छया जीव एव पृष्ट इति सुप्ति-स्थानं तु नाड्यः करण-ग्रामश् च प्राण-शब्दिते जीव एवैकधा भवति, स एव च प्रतिबुध्यत इति व्याख्याने च प्रतीयते । तस्माज् जीव-परोऽयम् इति शङ्कायां पठति—

अन्यार्थस् तु जैमिनिः प्रश्न-व्याख्यानाभ्याम् अपि चैवम् एके ॥

तु-शब्दः शङ्का-च्छेदाय । इह जीव-सङ्कीर्तनम् अन्यार्थं जीवान्य-ब्रह्म-बोधार्थम् इति जैमिनिर् मन्यते । कुतः ? प्रश्नेति । प्रश्नस् तावत् प्रबुद्ध-प्राणस्य सुप्तस्य प्रतिबोधने प्राणादि-भिन्ने जीवे बोधिते पुनः, क्वैष एतद् बालाके2 पुरुषोऽशयिष्ट क्व वा एतद् अभूत् कुत एतद् आगात् [कौ।उ। ४.१८] इति जीवान्य-ब्रह्म-विषयो दृश्यते । व्याख्यानम् अपि । यदा सुप्तः स्वप्नं न कञ्चन पश्यअति तथास्मिन् प्राण एवैकधा भवति [कौ।उ। ४.१९] इत्य् आदि । एतस्माद् आत्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः [कौ।उ। ४.१९] इति च जीवान्यद् एव ब्रह्म गमयति । प्राणोऽत्र परमात्मा, तस्यैव सुषुप्त्य्-आधारत्व-प्रसिद्धेः । तत्रैव जीवादीनां लयो निष्क्रमश् च तस्मात् । नाडीनां तु सुप्ति-स्थान-गमनाय द्वार-मात्रता वक्ष्यते । जागराच् छ्रान्तो जीवो यत्र स्वपिति पुनर् अपि भोगाय यस्मान् निःसरति सोऽयं परमात्मात्र वेद्य इति । अपि चैवम् एके वाजसनेयिनोऽस्मिन्न् एव बालाक्य्-अजातशत्रु-संवादे विज्ञान-मय-शब्देन जीवम् अभिधाय ततो भिन्नं ब्रह्मामनन्ति । य एष विज्ञान-मयः पुरुषः क्वैष तदाभूत् कुत एतद् आगात् इति प्रश्ने । य एषोऽन्तर्-हृदय आकाशस् तस्मिन् शेते इति व्याख्याने च । तस्मात् सर्वेश्वर एवात्र वेद्यतयोपदिश्यत इति ॥१८॥

र्च्- —

ह्द्स् : ७.३.३१।

—ओ)०(ओ—

५। वाक्यान्वयाधिकरणम्

॥ १.४.१९ ॥

बृहद्-आरण्यके याज्ञवल्क्यो मैत्रेयीं स्व-भार्याम् उपदिशति—

न वा अरे पत्युः कामाय पतिः प्रियो भवत्य् आत्मनस् तु कामाय पतिः प्रियो भवति इत्य् आरभ्य, न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य् आत्मनस् तु कामाय सर्वं प्रियं भवत्य् आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्य् आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् [बृ।आ।उ। २.४५।, ४.५.६] इति ।

तत्र संशयः—किम् अस्मिन् वाक्ये द्रष्टव्यत्वेन तन्त्रोक्तो जीवात्मोपदिश्यते, किं वा परमात्मेति ? तत्रोपक्रमे पति-जायादि-प्रीति-संसूचनेन मध्ये एतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति न प्रेत्य सञ्ज्ञाऽस्ति [बृ।आ।उ। २.४.१२] इत्य् उत्पत्ति-विनाश-योगेन संसारि-स्वभाव-प्रतीतेर् उपसंहारे, विज्ञातारम् अरे केन विजानीयाद् [बृ।आ।उ। २.४.१४] इति विज्ञातृत्वोक्तेश् च तन्त्रोक्तः स्यात् । आत्म-विज्ञानेन सर्वं विज्ञातं तु भोग्य-जातस्य भोक्त्र्-अर्थत्वाद् औपचारिकं भवेत् । न तु अमृतत्वस्य तु नाशास्ति वित्तेनेति [बृ।आ।उ। ४.५.३] इत्य् आदिना अमृतत्व-लाभोपायोपदेशात् कथम् अस्य वाक्यस्य जीव-परत्वम् इति, तस्यैव प्रकृति-विमुक्तस्य ज्ञानेन तत्त्व-सम्भवात् । एवम् अन्यान्य् अपि ब्रह्म-लिङ्गानि कथञ्चिद् अत्रैव नेयानि । तस्माद् अत्र जीवात्मोपदिश्यते । तद्-अधिष्ठिता प्रकृतिर् विश्व-कारणम् इति प्राप्ते—

वाक्यान्वयात् ॥

अत्र परमात्मैवोपदिश्यते, न तु तन्त्रोक्तो जीवः । कुतः ? पूर्वापर-पर्यालोचनायां कृत्स्नस्य वाक्यस्य तत्रैव समन्वयात् ॥१९॥

र्च्- १०.१४.५०-५५, १०.२३.२६-२७।

ह्द्स् : ७.३.३३-३४

॥ १.४.२० ॥

तम् एतं प्रतिज्ञातं वाक्यान्वयं त्रि-मुनि-सम्मत्यापि द्रढयति—

प्रतिज्ञा-सिद्धेर् लिङ्गम् आश्मरथः ॥

आत्मनो विज्ञानेन सर्वं विदितम् इति या प्रतिज्ञा सैवास्यात्मनः परात्मत्व-सिद्धेर् लिङ्गम् इत्य् आश्मरथो मन्यते । न ह्य् आत्म-विज्ञानेन सर्व-विज्ञानम् उपदिष्टम् । अन्यत्र परम-कारण-विज्ञानात् तत् सम्भवेत् । न चैतद् औपचारिकं शक्यं वक्तुम् । आत्म-विज्ञानेन सर्व-विज्ञानं प्रतिज्ञाय ब्रह्म तं पराद् इत्य् आदिना तस्यैवात्मनो ब्रह्म-क्षत्रादि-विश्वाश्रयतायाः सर्व-रूपतायाश् चोक्तत्वात् । न हि सा सा च परस्माद् अन्यत्र सम्भवेत् । न च तस्य वा एतस्य महतो भूतस्य निःश्वसितम् इत्य् आदि दर्शित-कृत्स्न-जगत्-कारणता तद् अन्यस्मिन् कर्म-वश्ये पुंसि शक्या व्याख्यातुम् । न चानादृत्य वित्तादिकं मोक्षोपायं पृच्छतीं मैत्रेयीं स्व-पत्नीं प्रति ब्रह्मान्यं जीवं ब्रुवन्न् आप्तः । तज्-ज्ञानेन मोक्षाभावात् । तम् एव विदित्वेति ब्रह्म-ज्ञानेनैव मोक्ष-श्रवणात् । तस्माद् अयं परमात्मैवेति ॥२०॥

र्च्- १०.४१.४-५, ११.२९.३०।

ह्द्स् : १०.८७.३७।

॥ १.४.२१ ॥

ननु जीवोऽयम् आत्मा पत्य्-आदि-प्रियता-संसूचनेन संसार-प्रत्ययात् । न चात्र वाक्य-प्रतिज्ञानुपरोधार्थम् आत्मनस् तु कामायेत्य् अत्रात्म-शब्देन परमात्मानं व्याख्याय तत्राराधक-गतं सर्व-कर्तृकं सर्व-कर्मकं वा प्रीणनं विवक्षणीयम् ।

येनार्चितो हरिस् तेन तर्पितानि जगन्त्य् अपि । रज्यन्ति जन्तवस् तत्र स्थावरा जङ्गमा अपि ॥ इति स्मृतेर् इति वाच्यम् ।

तथाभावस्य तत्रावीक्षणाद् इत्य् आशङ्क्याह—

उत्क्रमिष्यत एवम्-भावाद् इत्य् औडुलोमिः ॥

उत्क्रमिष्यतः साधन-सम्पन्नस्यासन्न-परमात्म-प्राप्तेर् विदुष एवं भावात् सर्व-प्रियत्वाद् उपक्रम-गतेनात्म-शब्देन परमात्मैव बोध्य इत्य् औडुलोमिर् मन्यते । तद् अयम् अत्र वाक्यार्थः—पत्युः कामाय मत्-प्रयोजनायाहम् अस्याः प्रियः स्याम् इत्य् एवं-रूपाय पतिः प्रियो न भवति, किन्तु आत्मनः परम्नः कामाय स्वाराधक-प्रिय-प्रतिलम्भन-रूपायैवेत्य् अर्थः । काम इच्छा । तं सफलं कर्तुम् इत्य् अर्थः । क्रियार्थोपपदस्य च कर्मणि स्थानिनः [पा। २.३.१४] इति सूत्राच् चतुर्थी । भक्त्याराधितः खलु भगवान् भक्तानां सर्व-वस्तु-गतं प्रियत्वं सम्पादयति ।

अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः । मया सन्तुष्ट-मनसः सर्वाः सुख-मया दिशः ॥ [भा।पु। ११.१४.१३] इति स्मृतेः ।

अयतिविशेष् पत्युः कामाय पतिं प्रियं न करोत्य् अपि तु परमात्मनः कामायैव ।

प्राण-बुद्धि-मनः स्वात्म-दारापत्य-धनादयः । यत् सम्पर्कात् प्रिया आसंस् ततः कोऽन्यः परः प्रियः ॥ [भा।पु। ११.२३.२७] इति स्मरणात् ।

कामः सुखम् । चतुर्थी पूर्ववत् । तथा च यत्-सम्पर्कात् यत्-सङ्कल्पात् यत्-सम्बन्धाद् वा अप्रियम् अपि प्रियं भवति स श्री-हरिर् एव् प्रेष्ठो द्रष्टव्य इति ।

किं च, नायम् आत्म-शब्दो जीवार्थक इति शक्यं ग्रहीतुम्, तस्य विभौ परेशे मुख्य-व्युत्पन्नत्वात् । इतरथा आत्मा वा अरे इत्य् अनेनानन्वयापत्तिः । सत्यां च तस्यां वाक्य-भेदः । स्वीकृते च तस्मिन् पूर्व-वाक्यस्य न किञ्चित् फलं पश्यामः । द्रष्टव्यतौपयिकतया तस्योपदेशात् । न चोभयत्रापि जीवार्थकोऽस्तु, ब्रह्मैकान्त-धर्म-श्रुति-व्याकोपात् । यद्यप्य् अयं निर्गुणात्म-वादी चिति तन्-मात्रेण तद्-आत्मकत्वाद् इत्य् औडुलोमिः [वे।सू। ४.४.६] इति च वक्ष्यमाणात् । तथाप्य् अविद्या-विनिवृत्तये तादृग् आत्माभिव्यक्तये च श्री-हरिं भजत्या, ऋत्विजम् इत्य् औडुलोमिस् तस्मै हि परिक्रियते [वे।सू। ३.४.४५] इति वक्ष्यमाणात् भक्तिर् एव सर्वाभीष्ट-साधिकेति प्रसिद्धम् ॥२१॥

ह्द्स् : ११.२५.३५-३६।

॥ १.४.२२ ॥

स्याद् एतत् ।

स यथा सैन्धव-खिल्य उदके प्रास्त उदकम् एवानुविलीयेत न हास्योद्ग्रहणायैव स्याद् यतो यतस् त्वा ददीत लवणम् एवैवं वा अर इदं महद् भूतम् अनन्तम् अपारं विज्ञान-घन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति [बृ।आ।उ। २.४.१२]

इत्य् एतन् मध्यमं वाक्यं कथं प्रतिसमाधेयम् । तन्त्रोक्त-जीव-साधने निपुणतरत्वादि त्य् आशङ्क्याह—

अवस्थितेर् इति काश-कृत्स्नः ॥

उदके सैन्धव-खिल्यस्यैव विज्ञान-घन-शब्दितस्य जीवेतरस्य महतो भूतस्य परमात्मओऽवस्थितेर् उपदेशात् तन्-मध्य-गतं वाक्यं परमात्म-परम् एव । तथा च परापरात्मनोर् भेद-प्रत्ययात् न महद्-भूतम् अनन्तं वस्त्व् एव विज्ञान-घनो जीव इति काशकृत्स्नो मन्यते ।

अयम् अत्र निष्कर्षः—येनाहं नामृता स्यां किम् अहं तेन कुर्यां [बृ।आ।उ। ४.५.४] इति मोक्षोपायं पृष्टो मुनि आत्मा वा अरे द्रष्टव्यः [बृ।आ।उ। ४.५.६] इत्य् आदिना परमात्मोपासनं तद्-उपायम् उक्त्वा, आत्मनि खल्व् अरे दृष्टे [बृ।आ।उ। ४.५.६] इत्य् आदिना उपास्य-लक्षणं, स यथा दुन्दुभेः [बृ।आ।उ। ४.५.८] इत्य् आदिना उपासनोपकरणं करण-नियमनं च सामान्याद् उपदिश्य, स यथाऽऽर्द्रैधाग्नेः [बृ।आ।उ। ४.५.११] इत्य् आदिना, स यथा सर्वासाम् अपा [बृ।आ।उ। ४.५.१२] इत्य् आदिना च स-विस्तरं तद् उभयं पुनर् उक्त्वा अत्र मोक्षोपाय-प्रवृत्ति-प्रोत्साहनाय, स यथा सैन्धव [बृ।आ।उ। २.४.१२] इत्य् आदिना सदैवोपास्य-सान्निध्यम् उपपाद्य, एतेभ्य एव भूतेभ्यः समुत्थाय [बृ।आ।उ। २.४.१३] इत्य् अनुपासकस्य देहोत्पत्ति-विनाशानुकारितया संसारतो देहात्म-भ्रान्तिं प्रदर्श्य, न प्रेत्य-सञ्ज्ञास्ति [बृ।आ।उ। २.४.१३] इत्य् उपासकस्य तु परमं देह-वियोगं प्राप्य विमुक्तस्य तदानीं स्वाभाविक-स्व-ज्ञानोदयाद् भूत-सङ्घातेनैव्कीकृत्य आत्मनि देव-मनुष्यादि-धीर् नास्तीत्य् अभिधाय, यत्र हि द्वैतम् इव भवति [बृ।आ।उ। २.४.१४, ४.५.१५] इत्य् आदिना मुक्तस्यापि तस्य परमात्मानं आश्रयम् उपदिश्य, येनेदं सर्वं विजानाति तं केन विजानीयात् [बृ।आ।उ। २.४.१४, ४.५.१५] इति तस्य दुर्ज्ञेयताम् आपाद्य, विज्ञातारम् अरे केन विजानीयाद् इति प्रक्रमोक्तात् तत्-प्रसाद-रूपाद् उपासनाद् विना तं सर्वज्ञम् ईश्वरं केनोपायेन जानीयात्, न केनापीत्य् एतद् एवोपासनम् अमृतत्वोपायः परमात्माप्तिर् एवामृतत्वम् इत्य् उपसंहृतवान् । अतः परमात्मैवास्मिन् वाक्य-सन्दर्भे निरूप्यते, न तु तन्त्रोक्तः पुमान्, न च तद्-अधिष्ठिता प्रकृतिर् इति ॥२२॥

ह्द्स् : १०.८७.३१

—ओ)०(ओ—

६। प्रकृत्य्-अधिकरणम्

॥ १.४.२३ ॥

एवं निरीश्वरं प्रधान-वादं निरस्य सेश्वरं तम् इदानीं निरस्यन् विश्व-कारणता-वादि-वाक्यानि परस्मिन् ब्रह्मणि प्रवर्तयति । तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूतः, यतो वा इमानि भूतानि जायन्ते [तै।उ। ३.१], सद् एव सौम्येदम् अग्र आसीद् एकम् एवाद्वितीयम् [छा।उ। ६.२.१], तद् ऐक्षत बहु स्यां प्रजायेय, स ऐक्षत लोकान् नु सृजा इत्य् आदीनि वचांसि श्रूयन्ते । किम् एषु निमित्तम् एव ब्रह्म मन्तव्यं किं वा निमित्तोपादान-रूपं तद् इति वीक्षायां पूर्व-पक्षो दृश्यते । तथा हि यद्यप्य् उपनिषदस् तस्माद् वा एतस्माद् इत्य् आदिभिर् वाक्यैर् जगत्-कारणतया परं ब्रह्माहुस् तथापि तासु निमित्त-मात्रता तस्य मन्तव्या । तद् ऐक्षत, स ऐक्षत इत्य् आदिषु वीक्षण-पूर्वक-सृष्टि-वर्णनात् तत्-पूर्वक-स्रष्टारः खलु कुलालादयो घटादि-निमित्तान्य् एव दृश्यन्ते जगद्-उपादानं तु प्रकृतिर् एव स्यात् उपादानोपादेययोस् तयोः साधर्म्य-दर्शनात् । न च निमित्तम् एवोपादानम् इति शक्यं वक्तुम् । लोके जडस्य मृद्-आदेर् घटाद्य्-उपादानत्वं चेतनस्य तु कुलालादेर् घटादि-निमित्तत्वम् इति तयोर् भेद-नियमात् । तथानेक-कारक-सिद्धं च कार्यं वीक्ष्यते । तद् एव लोक-सिद्धं भावम् उपेक्ष्य तस्यैकस्यैव तद् उभयत्वं वक्तुं न ताः क्षमन्ते । अनो निर्विकारेण ब्रह्मणा अधिष्ठिता विकारिणी प्रकृतिर् एव विकृतस्य विश्वस्य जगत उपादानं ब्रह्म तु निमित्तम् एव केवलम् । न चैतद् यौक्तिकम् ।

विकार-जननीम् अज्ञाम् अष्ट-रूपाम् अजां ध्रुवाम् । ध्यायतेऽध्यासिता तेन तन्यते प्रेरिता पुनः ॥ सूयते पुरुषार्थाच् च तेनैवाधिष्ठिता जगत् । गौर् अनाद्य्-अन्तवती सा जनित्री भूत-भाविनी । सितासिता च रक्ता च सर्व-काम-दुघा विभोः । पिबन्त्य् एनाम् अविषमाम् अविज्ञाताः कुमारकाः । एकस् तु पिबते देवः स्वच्छन्दोऽत्र वशानुगाम् । ध्यान-क्रियाभ्यां भगवान् भुङ्क्तेऽसौ प्रसभं विभुः । सर्व-साधारणीं दोग्ध्रीं पीयमानां तु जज्वभिः । चतुर्विंशति-सङ्ख्याकम् अव्यक्तं व्यक्तम् उच्यते ॥ इति चुल्लिकोपनिषदि श्रवणात्।

स्मृतिश् चैवम् आह—

यथा सन्निधि-मात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः ॥ [वि।पु। १.२.३०] सन्निधानाद् यथाकाश-कालाद्याः कारणं तरोः । तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥ [वि।पु। २.७.३७] निमित्त-मात्रम् एवासौ सृष्टानां सर्ग-कर्मणि । प्रधान-कारणी-भूता यतो वै सृज्य-शक्तयः ॥ [वि।पु। १.४.५१] इत्य् आद्याः ।

एवं सिद्धौ क्वचिद् ब्रह्मोपादानताभासि वचांसि कथय्चिद् अन्यथैव नेयानीति । एवं प्राप्ते—

प्रकृतिश् च प्रतिज्ञा-दृष्टान्तानुरोधात् ॥

ब्रह्मैव जगतः प्रकृतिर् उपादानम् । कुतः ? प्रतिज्ञेत्य् आदेः । श्रौतयोः प्रतिज्ञा-दृष्टान्तयोर् आनुगुण्याद् इत्य् अर्थः । श्वेतकेतो यन् नु सौम्येदं महामना अनूचान-मानी स्तब्धोऽस्युत तम् आदेशम् अप्राक्षीर् येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातम् [छा।उ। ६.१.३] इति विज्ञानेन सर्व-विज्ञान-विषया प्रतिज्ञा श्रूयते छान्दोग्ये । सा किलादेशस्य उपादानत्वे सति सम्भवेत् कार्यस्य तद्-अव्यतिरेकात् । निमित्तात् तस्याव्यतिरेकस् तु न कुलाल-घटयोर् व्यतिरेकात् । दृष्टान्तेऽपि, यथा सोम्यैकेन मृत्-पिण्डेन सर्वं मृन्-मयं विज्ञातं स्यात् [छा।उ। ६.१.४] इत्य् आदेर् उपादान-विज्ञानात् कार्य-विज्ञान-विषयस् तत्रैव श्रुतः । स च निमित्त-मात्रताभ्युपगमे न सम्भवेत् । न हि कुलाले विज्ञाते घटो विज्ञायते। तद्-अनुरोधात् विश्वस्योपादानं च शब्दान् निमित्तं च ब्रह्मैवेति ॥२३॥

ह्द्स् : १०.२.२८

॥ १.४.२४ ॥
अभिध्योपदेशाच् च ॥

च-शब्दोऽनुक्त-समुच्चयार्थः । सोऽकामयत बहु स्यां प्रजायेयेति, स तपोऽतप्यत तपस् तप्त्वा इदं सर्वम् असृजत् । यद् इदं किञ्चन तत् सृष्ट्वा तद् एवानुप्राविशत् । तद् अनुप्रविश्य सच् च त्यच् चाभवत् [तै।उ। २.५.१] इति तैत्तिरीयके परमात्मन एव चिज्-जडात्मना बहु-भवन-सङ्कल्पोपदेशात् तदात्मक-बहु-स्रष्टृत्वोपदेशाच् च स एवोभय-रूपः ॥२४॥

ह्द्स् : ७.३.२६

॥ १.४.२५ ॥
साक्षाच् चोभयाम्नातात् ॥

अवधृतौ च शब्दः । किं स्विद् वनं क उ स वृक्ष आसीत् यतो द्यावापृथिवी निष्टतक्षुः, मनीषिणो मनसा पृच्छतैतत् यद् अध्यतिष्ठद् भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीत् यतो द्यावापृथिवी निष्टतक्षुः मनीषिणो मनसा प्रब्रवीमि वो ब्रह्माद्यतिष्ठत् भुवनानि धारयन् इति तत्रैव साक्षाद् उभय-रूपत्व-कथनाद् एव तस्य तथात्वम् । इह हि यतो वृक्षाद् उपादान-भूताद् द्यावापृथिवी-शब्दोपलक्षितं जगद्-ईश्वरो निष्टतक्षुर् निर्मितवान् । वचन-व्यत्ययश् छान्दसः । स वृक्षः कस् तद्-आधार-भूतं वनं च किं, भुवनानि धारयन् स यद् अध्यतिष्ठत् तत् किम् इति लोकानुसारिणि प्रश्ने अलौकिक-वस्तुत्वात् स च तत् तच् च ब्रह्मैवेत्य् उक्त-मतस् तद् एवोभय-रूपम् इति ॥२५॥

ह्द्स् : ७.३.२४

॥ १.४.२६ ॥
आत्म-कृतेः परिणामात् ॥

सोऽकामयत [तै।उ। २.५.१] इति सृष्टि-कामत्वेन प्रकृतः परमात्मैव तदात्मानं स्वयम् अकुरुतेति सृष्टेः कर्तृ-भूतः कर्म-भूतश् च श्रूयते, अतस् तस्यैव तद्-उभय-रूपत्वम् ।

ननु कथम् एकस्यैव पूर्व-सिद्धस्य कर्तृतया स्थितस्य क्रियमाणत्वं, तत्राह—परिणामाद् इति । कूटस्थत्वाद्य्-अविरोधि-परिणाम-विशेष-सम्भवाद् अविरुद्धं तस्य तत् । इदम् अत्र तत्त्वं—

परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [श्वे।उ। ६.८] इति श्रुतेस् त्रिशक्ति ब्रह्म । विष्णु-शक्तिः परा प्रोक्ता क्षेत्र-ज्ञाख्या तथापरा । अविद्या-कर्म-सञ्ज्ञान्या तृतीया शक्तिर् इष्यते ॥ [वि।पु। ६.७.६१] इति स्मृतेश् च ।

तस्य निमित्तत्वम् उपादानत्वं चाभिधीयते । तत्राद्यं पराख्य-शक्तिमद्-रूपेण, द्वितीयं तु तद्-अन्य-शक्ति-द्वय-द्वारैव । स-विशेषणे विधि-निषेधौ विशेषणम् उपसङ्क्रामत इति न्यायात् । य एकोऽवर्णो बहुधा शक्ति-योगात् [श्वे।उ। ४.१] इत्य् आदि श्रवणाच् च ।

एवं च निमित्तं कूटस्थम् उपादानं तु परिणामीति सूक्ष्म-प्रकृतिकं कर्तृ स्थूल-प्रकृतिकं कर्म इत्य् एकस्यैव तद्-उभयत्वं सिद्धम्, मृत्-पिण्डादि-दृष्टान्त-श्रवणात् । परिणामाद् इति सूत्राक्षराच् च भ्रान्त्य्-अध्यास-पर्यायोऽतात्त्विकान्यथा-भावात्मा विवर्तः परिहृतः । न च शुक्त्य्-आदि-वद् ब्रह्मण्य् अध्यासः सम्भवति, तद्वत् तस्य पुरो-निहितत्वाभावात् । न चाकाशवत् तत्र सः, तद्वत् तस्य गम्यत्वाभावात् । किं चान्यथा-भावोऽन्यथा-भानम् एव । तच् च नावृत्तिम् अन्तरेण सम्भवेत् । आवृत्तिस् तु ब्रह्मेतरत्वाद् विवर्तान्तः पतेद् इत्य् अनवस्थैव । एवम् अपि क्वचित् तद्-उक्तिर् विरागायैवेति तत्त्व-विदः । इतरथा तन्-मात्र-भूतादीनां न्यूनतातिरेको वा श्रूयते भ्रान्तेर् अनियत-रूपत्वात् । नियत-स्वभावानां वस्तूनां भाव-विनिमयश् च दृश्यते । तस्मात् तात्त्विकान्यथा-भावात्मा परिणाम एव शास्त्रीयः ॥२६॥

ह्द्स् : ७.३.३३

॥ १.४.२७ ॥
योनिश् च हि गीयते ॥

यद् भूत-योनिं परिपश्यन्ति धीराः [मु।उ। १.२.६], कर्तारम् ईशं पुरुषं ब्रह्म-योनिं [मु।उ। ३.१.३] इत्य् आदि श्रुतौ योनिम् इति कर्तारं पुरुषम् इति च गीयते हि यस्माद् अतो ब्रह्मैवोभयम् । योनि-शब्दस् तूपादान-वाची । पृथिवी योनिर् ओषधि-वनस्पतीनाम् इत्य् आदि प्रयोगात् । यत् खलु निमित्तोपादानयोर् लोक-वेदाभ्यां भेद इति यच् च लोके कार्यस्यानेक-सिद्धत्व-नियमाद् एकस्माद् एव तस्मात् तद्-वक्तुं न ताः क्षमा इत्य् उक्तं तद् अनेनैव प्रत्युक्तम् ॥२७॥

ह्द्स् : १०.२.२६

७। सर्व-व्याक्याताधिकरणम्
॥ १.४.२८ ॥

अथ दर्शितः समन्वयो भज्येत न वेति विशङ्कां विहन्तुम् अधिकरणम् आरभते । श्वेताश्वतरोपनिषद्-आदौ श्रूयते—क्षरं प्रधानम् अमृताक्षरं हरः [श्वे।उ। १.१०],

एको हि रुद्रो न द्वितीयाय तस्थुर् [श्वे।उ। ३.२], यो देवानां प्रभवश् चोद्भवश् च विश्वाधिपो रुद्रः शिवो महर्षिः [श्वे।उ। ३.४], यदा तमस् तन् न दिवा न रात्रिर् न सन् न चासच् छिव एव केवलः [श्वे।उ। ४.१८] इति ।

प्रधानाद् इदम् उत्पन्नं प्रधानम् अधिगच्छति । प्रधाने लयम् अभ्येति न ह्य् अन्यत् कारणं मतम् ॥ इति । जीवाद् भवन्ति भूतानि जीवे तिष्ठन्त्य् अचञ्चलाः । जीवे च लयम् इच्छन्ति न जीवात् कारणं परम् ॥ इति चैवम् आदि ।

तत्र संशयः—किम् एते हरादि-शब्दाः शितिकण्ठादेर् वाचका उत पर-ब्रह्मण एवेति । प्रसिद्धेः शितिकण्ठादेर् एवेति प्राप्ते—

एतेन सर्वे व्याख्याता व्याख्याताः ॥

एतेनोक्त-प्रकारक-समन्वय-चिन्तनेन सर्वे हरादयः शब्दा व्याख्याता ब्रह्म-परतया नीताः, तस्य सर्वनामत्वात् ।

नामानि विश्वानि न सन्ति लोके यदाविरासीत् पुरुसस्य सर्वम् । नामानि सर्वानि यम् आविशन्ति तं वै विष्णुं परमम् उदाहरन्ति ॥ इति भाल्लवेय-श्रुतिः ।

वैशम्पायनोऽप्य् एतान् श्री-कृष्णाह्वयान् सस्मार—श्री-नारायणादीनि नामानि विनान्यानि रुद्रादिभ्यो हरिर् दत्तवान् इत्य् अन्यत्र स्मर्यते । किन्त्व् अयम् अत्र नियमः । यत्रान्य-वाचकत्वेऽप्य् आविरोधस् तत्रान्यद् अमुख्यतयोच्यते । यत्र तु विरोधस् तत्र श्री-विष्णुर् एवेति । पदाभ्यासोऽध्याय-समाप्ति-द्योतनाय ॥२८॥

ह्द्स् : ६.४.२८

सर्वे वेदाः पर्यवस्यन्ति यस्मिन्

सत्यानन्ताचिन्त्य-शक्तौ परेशे ।

विश्वोत्पत्ति-स्थेम-भङ्गादि-लीले

नित्यं तस्मिन्न् अस्तु कृष्णे मतिर् नः ॥

॥ इति श्री-ब्रह्म-सूत्र-भाष्ये प्रथमाध्ययस्य चतुर्थ-पादः ॥

॥ समाप्तोऽयं प्रथमोऽध्यायः ॥

(२.१)


  1. Vअसुऽस् एदितिओन् हस् _अनादवती _(“वोइचेलेस्स्”)। ↩︎

  2. वा लोके ↩︎