विश्वं बिभर्ति निःस्वं यः कारुण्येन देवराट् ।
ममासौ परमानन्दो गोविन्दस् तनुतां रतिम् ॥*॥
१। द्यु-भ्व्-आद्य्-अधिकरणम्
॥ १.३.१ ॥
अथ तृतीये पादे विस्पष्ट-जीवादि-लिङ्गकानां केषाञ्चिद् वाक्यानां तस्मिन् ब्रह्मणि समन्वयश् चिन्त्यते । मण्डूके श्रूयते—
यस्मिन् द्यौः पृथिवी चान्तरिक्षम् ओतं मनः सह प्राणैश् च सर्वैः । तम् एवैकं जानथ आत्मानम् अन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ [म।उ। २.२.५] इति ।
तत्र संशयः । किम् इह द्यु-भ्व्-आद्य्-आयतनं प्रधानं, किं वा जीव उत ब्रह्मेति । तत्र प्रधानम् इति तावत् प्राप्तम् । सर्व-विकार-कारणत्वेन तद्-आयतनत्वोपपत्तेः । अमृत-सेतुश् च तद् एव वत्स-विवृद्धये क्षीरम् इव पुं-विमुक्तये प्रधानं प्रवर्तते इत्य् अङ्गीकारात् । आत्म-शब्दस् तु प्रीति-पदे तस्मिन्न् उपचरितः विभुत्व-योगाद् वा । जीवो वा स्यात् भोक्तृत्वेन भोग्य-प्रपञ्चायतनत्व-योगात् मनः-प्राणत्वादेस् तत्र प्रसिद्धेश् चेति प्राप्तौ पठति—
द्यु-भ्व्-आद्य्-आयतनं स्व-शब्दात् ।
ब्रह्मैव किल तद्-आयतनम् । कुतः ? स्व-शब्दात् । अमृतस्यैव सेतुर् इति तद्-असाधारण-शब्द-सत्त्वाद् इत्य् अर्थः । सिनोतेर् वर्धनार्थत्वात् सेतुर् अमृतस्य प्रापकः । सेतुर् इव सेतुर् इति वा । स यथा नद्यादिषु कूलस्योपलम्भकस् तथायं संसार-पारभूतस्य मोक्षस्येति तस्यैवायं शब्दः । श्रुतिश् चैवम् आह—तम् एव विदित्वातिमृत्युम् एति इत्य् आद्या ॥१॥
ह्द्स् : ६.१६.३५-३६।
॥ १.३.२ ॥
इतोऽपीत्य् आदि ।
मुक्तोपसृप्य-व्यपदेशात् ।
यदा पश्यः पश्यते रुक्म-वर्णम् इत्य् आदौ, निरञ्जनः परमं साम्यम् उपैति इति मुक्त-प्राप्त्यत्वेनोक्तेश् च प्राप्यत्वेनोक्तेश् च ब्रह्मैव तत् ॥२॥
ह्द्स् : ६.१६.४०।
॥ १.३.३ ॥
नानुमानम् अतच्-छब्दात् ।
स्मार्तं प्रधानम् इह न ग्राह्यम् । कुतः ? अतच्-छब्दात् अचेतन-प्रधान-वाचक-शब्दाभावात् ॥३॥
ह्द्स् : ६.१६.५१।
॥ १.३.४ ॥
प्राण-भृच् च ।
नेत्य् अनुवर्तते हेतुश् च । नाप्य् आत्म-शब्दात् प्राण-भृद्-ग्रहणाशात्र सम्भवति । अततीति-व्युत्पत्तेः सर्व-व्यापके ब्रह्मण्य् एव मुख्यत्वात् । यः सर्वविद् इत्य् आदिर् उपरितनस् तु तत्रैव वर्तते, अतो जीव-वाचक-शब्दाभावात् न तस्याप्य् अत्र ग्रहणं योग्यम् इति ॥४॥
ह्द्स् : ६.१६.५२।
॥ १.३.५ ॥
इतोऽप्य् अत्र प्राण-भृद्-ग्रहणं नेत्य् आह—
भेद-व्यपदेशाच् च ।
तम् एवैकं जानथेत्य् आदिना तस्मात् तस्य भेदोक्ते च ॥५॥
ह्द्स् : ६.१६.५७, १.१५.८।
॥ १.३.६ ॥
प्रकरणात् ।
कस्मिन् नु भगवो विज्ञाते सर्वम् इदं विज्ञातं भवति [मु।उ। १.१.३] इति ब्रह्मणः प्रकृतत्वाच् च तथा ॥६॥
ह्द्स् : ६.१६.२२।
॥ १.३.७ ॥
स्थित्य्-अदनाभ्यां च ।
द्यु-भ्व्-आद्य्-आयतनं प्रकृत्या—
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो अभिचाकशीति ॥ [मु।उ। ३.१.१] इति पठ्यते ।
तयोर् दीप्यमानस्याब्रह्मत्वं तदा स्याद् यदि द्यु-भ्व्-आद्य्-आयतनस्य पूर्वं न तत् प्रातिपादयेत् । इतरथा आकस्मिकी तद्-उक्तिर् अश्लिष्टा स्यात् । जीवोक्तिस् तु न तथा लोक-प्रसिद्धस्य तस्यानुवादात् । तस्माद् ब्रह्मैव तद् इति ।
ह्द्स् : ११.११.६।
—ओ)०(ओ—
२। भूमाधिकरणम्
॥ १.३.८ ॥
छान्दोग्ये श्री-नारदेन पृष्टः श्री-सनत्कुमारस् तं प्रति नामादीन्य् उपदिश्याह—भूमा त्व् एव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥ यत्र नान्यत् पश्यति नान्यच् छृणोति नान्यद् विजानाति स भूमा । अथ यत्रान्यत् पश्यत्य् अन्यच् छृणोत्य् अन्यद् विजानाति तद् अल्पम् [छा।उ। ७.२३.१-२४.१] इति । इह भूम-शब्देन बहुत्व-सङ्ख्यानाभिधीयते, किन्तु वैपुल्य-रूपा व्याप्तिर् एव । यत्रान्यत् पश्यति तद् अल्पम् इत्य् अल्पत्व-प्रतिद्वन्द्विकत्वोक्तेः । अल्प-शब्द-निगदित-धर्मि-प्रतिद्वन्द्वि-प्रतिपत्तेर् एव भूम-गुणवान् धर्मी स इति निर्णीयते ।
अत्र विचिकित्सा । भूमा प्राणो विष्णुर् वेति । तत्र प्राणो वा आशाया भूयान् [छा।उ। ७.१५.१] इति सन्निधानात् पुनः प्रश्नोत्तरयोर् अभावाच् च प्राणो भूमा । प्राण-शब्दो हि प्राण-सचिवं जीवम् अभिधत्ते, न वायु-विकार-मात्रम्, तरति शोकम् आत्मवित् [छा।उ। ७.१.३] इत्य् उपक्रमात्, आत्मत एवेदं सर्वम् [छा।उ। ७.२६.१] इत्य् उपसंहाराच् च । तेनान्तरालीको भूमापि स एव भवितुम् अर्हति । यत्र नान्यत् पश्यतीत्य् आदिकम् अप्य् अस्मिन् पक्षे सङ्गच्छते । सुषुप्तौ प्राण-ग्रस्तेषु इन्द्रियेषु तत्र दर्शनादि-विनिवृत्तेः । यो वै भूमा तत् सुखम् [छा।उ। ७.२३.१] इत्य् अप्य् अविरुद्धम् । तस्यां सुखम् अहम् अस्वाप्सम् इति सुख-श्रवणात् । एवं जीवात्मनि निर्णीते वाक्य-शेषोऽपि तद् अनुकूलतयैव नेय इत्य् एवं प्राप्ते ब्रवीति—
भूमा सम्प्रसादाद् अध्युपदेशात् ।
श्री-विष्णुर् एवायं भूमा, न प्राण-सचिवो जीवः । कुतः ? सम् इति । यो वै भूमा तत् सुखम् [छा।उ। ७.२३.१] इति विपुल-सुख-रूपत्व-श्रवणात् सर्वेषाम् उपर्य् उपदेशाच् च । एवम् एवैष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय [छा।उ। ८.१२.३] इति श्रौत-प्रसिद्धेः सम्प्रसादः प्राण-सचिवो जीवस् तस्माद् अधिकतया भूम-गुण-वैशिष्ट्येनाभिधानाद् इति वा ।
अयम् अर्थः—पूर्वं नामादिकम् उपदिश्य स वा एष एवं पश्यन्न् एवं मन्वान एवं विजानन्न् अतिवादी भवति [छा।उ। ७.१५.४] इति भिन्नोपक्रमार्थकेन तु-शब्देनातिवादित्व-हेतुं प्रकृतां प्राणोपास्तिं व्यावर्त्य मुखातिवादित्व-हेतोर् विष्णोः सत्य-शब्देन पृथग्-उपक्रमात् प्राणाद् अर्थान्तरम् धिकश् च भूमेति निश्चीयते । प्राणस्यैव भूमत्वे तस्माद् ऊर्ध्वं तद्-उपदेशो न सम्भवेत् । नामादेर् आप्राणाद् ऊर्ध्वम् उपदिष्टं वाग्-आदि तस्माद् अर्थान्तरं वीक्ष्यते । एवं प्राणाद् ऊर्ध्वम् उपदिष्टो भूमापि तथा । सत्य-शब्दः खलु पर-ब्रह्मणि श्री-विष्णौ प्रसिद्धः । सत्यं ज्ञानम् अनन्तं ब्रह्म इत्य् आदौ, सत्यं परं धीमहि इत्य् आदौ च । सत्येनेति हेतौ तृतीया । सत्येन पर-ब्रह्मणा निमित्तेन योऽतिवदतीति भावः । प्राणस्य नामाद्याशावसानोपास्यापेक्षया उत्कर्षः अतद्विदोऽतिवादित्वम् । श्री-विष्णोस् तु तस्माद् अप्य् उत्कर्षात् तद्-विदस् तन्-मुख्यम् इति प्राणातिवादिनः सत्यातिवादी श्रेयान् इति विस्फुटम् । अत एव सोऽहं भगवः सत्येनातिवदानि [छा।उ। ७.१६.१] इति शिष्योऽभ्यर्थयते । गुरुर् अप्य् आह सत्यं त्व् एव विजिज्ञासितव्यम् [छा।उ। ७.१६.१] इति ।
न च पुनः प्रश्नोत्तराभावात् प्राण-विषयम् अतिवादित्वं परत्रानुकर्षणीयम् इति वाच्यं अनवबोधात् । तथा हि प्राणाद् ऊर्ध्वम् अपृच्छतोऽयम् आशयः, नामाद्य्-आशावसानेष्व् अचेतनेषूपास्येषु पूर्व-पूर्वस्माद् उत्तरोत्तरं भूयस्त्वेनोपदिश्य तत्-तद्-विदोऽतिवादित्वं गुरुणा नोक्तं प्राण-शब्दित-जीवात्म-याथात्म्य-विदस् तु तद् उक्तम् इत्य् अत्रवोपदेशस्य पराकाष्ठा इति ।
अतः पुनः प्रश्नाभावः । गुरुस् तत्र ताम् अनङ्गीकुर्वंस् तद् अभ्यधिक-श्री-विष्णु-स्वरूप-याथात्म्यावगमे सत्य् एव सेति स्वयम् एवैष त्व् इत्य् आदिभिर् उपदिशति । शिष्यश् च सर्वोत्कृष्टे श्री-विष्णौ तस्मिन्न् उपदिष्टे तद् उपासन-तद्-उपाय-तत्-स्वरूप-याथात्म्य-प्रतिपित्सया सोऽहं भगवः सत्येनातिवादानि [छा।उ। ७.१६.१] इत्य् आदिकम् अभ्यर्थयते । न चोपक्रमादि-दृष्ट आत्म-शब्दः प्राण-सचिवं जीवम् आहेति शक्यं वदितुं, तस्य परस्मिन्न् एव मुख्ये व्युत्पन्नत्वात् । आत्मतः प्राणः [छा।उ। ७.२६.१] इत्य् अग्रिम-वाक्य-विरोधाच् च । एवं सति यत्र नान्यद् इत्य् आदि वाक्य-सङ्गतिर् दर्शितापि निरस्ता । यत्र भूमन्य् अनुभूयमाने सत्य् अनुभवितुस् तद् आविष्टस्यान्यदर्शनादिकं निषिध्यते । सौषुप्तिकं सुखं स्वल्पम् इति सुषुप्तस्य प्राणिनः भूम-रूपत्वं वदन्न् उपहासास्पदम् । तस्मा श्री-विष्णुर् एव भूमा ॥८॥
ह्द्स् : १०.८७.१५।
॥ १.३.९ ॥
धर्मोपपत्तेश् च ।
अस्मिन् भूम्नि ये धर्माः पठ्यन्ते, ते पर-ब्रह्मणि श्री-विष्णाव् एवोपपद्यन्ते, नान्यत्र । यो वै भूमा तद् अमृतम् इति स्वाभाविकम् अमृतत्वम् । स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि [छा।उ। ७.२४.१] इत्य् अनन्याधारत्वम् । स एवाधत्त्वाद् इत्य् आदिना सर्वाश्रयत्वम् । आत्मतः प्राण [छा।उ। ७.२६.१] इत्य् आदिना सर्व-कारणत्वं चेत्य् आदयः ॥९॥
ह्द्स् : ६.१६.५२।
—ओ)०(ओ—
३। अक्षराधिकरणम्
॥ १.३.१० ॥
बृहद्-आरण्यके पठ्यते—कस्मिन् नु खल्व् आकाश ओतश् च प्रोतश् चेति । एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनण्व् अह्रस्वम् अदीर्घम् अलोहितम् अस्नेहम् अच्छायम् [बृ।आ।उ। ३.८.७-८] इत्य् आदि । तत्र संशयः—किम् अक्षरं, प्रधानं किं वा जीव उत ब्रह्म ? इति । तत्र त्रिष्व् अप्य् अक्षर-शब्द-प्रयोगाद् अनिर्णयः स्याद् इति प्राप्तौ—
अक्षरम् अम्बरान्त-धृतेः
अक्षरं ब्रह्मैव । कुतः ? अम्बरेति । एतस्मिन् नु खल्व् अक्षरे गार्ग्य् आकाश ओतश् च प्रोतश् चेति [बृ।आ।उ। ३.८.१२] इत्य् आकाश-पर्यन्तस्य सर्वस्य धारणात् ॥१०॥
ह्द्स् : १२.१३.१९।
॥ १.३.११ ॥
ननु सा प्रधानेऽपि स्यात्, सर्व-विकार-कारणत्वात् । जीवे च भोग्य-भूत-सर्वाचिद्-वस्त्व्-आश्रयत्वाद् इति चेत्, तत्राह—
सा च प्रशासनात् ।
साम्बरान्त-धृतिर् ब्रह्मण्य् एव । कुतः ? प्रेति । एतस्य वा अक्षरस्य प्रशासने गार्गि द्याव्-आपृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य सूर्या-चन्द्रमसौ विधृतौ तिष्ठतः [बृ।आ।उ। ३.८.९] इत्य् आदि विदितस्य प्रशासनस्य तत्रैव सम्भवाद् इत्य् अर्थः । न चेदं स्व-प्रशासनाधीनं सर्व-धारणं जडे प्रधाने बद्ध-मुक्तोभयावस्थे जीवे च समस्ति ॥११॥
ह्द्स् : ८.३.२१, ७.१२.३०-३१।
॥ १.३.१२ ॥
अन्य-भाव-व्यावृत्तेश् च ।
तद् वा एतद् अक्षरं गार्ग्य् अदृष्टं द्रष्टृ, अश्रुतं श्रोतृ [बृ।आ।उ। ३.८.११] इत्य् आदिना वाक्य-शेषेणास्याक्षरस्य ब्रह्मान्यत्व-व्यावर्तनाच् च ब्रह्मैव तत् । अत्र द्रष्टृत्वादिना जडात्मक-प्रधान-भावो व्यावर्त्यते । सर्वैर् अदृष्टस्य तस्य सर्व-द्रष्टृत्वाद्य्-उपदेशात् जीव-भावश् चेति ॥१२॥
ह्द्स् : १०.८७.२८।
—ओ)०(ओ—
४। ईक्षति-कर्माधिकरणम्
॥ १.३.१३ ॥
प्रश्नोपनिषदि—
एतद् वै सत्यकाम परं चापरं च ब्रह्म यद् ओङ्कारस् तस्माद् विद्वान् एतेनैवायतने नैकतरम् अन्वेति [प्र।उ। ५.२] इति प्रकृत्य—यः पुनर् एतं त्रिमात्रेणोम् इत्य् एतेनैवाक्षरेण परं पुरुषम् अभिध्यायीत, स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस् त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिर् उन्नीयते ब्रह्म-लोकं स एतस्माज् जीव-घनात् परात्-परं पुरिशयं पुरुषम् ईक्षते [प्र।उ। ५.५] इति पठ्यते ।
तत्र संशयः—ध्यानेक्षयोर् विषयः पुरुषश् चतुर्मुखः पुरुषोत्तमो वेति । तत्रैक-मात्रं प्रणवम् उपासीनस्य मनुष्य-लोकं द्वि-मात्रम् उपासीनस्यानरीक्ष-लोकं फलं प्रोच्य त्रि-मात्रम् उपासीनस्य ब्रह्म-लोकम् आह । स च लोक-क्रमाच् चतुर्मुख-लोकः प्रत्येतव्यस् तद् गतेन वीक्षमाणस् तु स एवेति युक्तेश् चतुर्मुखः स इति प्राप्ते—
ईक्षति-कर्म व्यपदेशात् सः ।
स पुरुषोत्तम एव ईक्षति-कर्म दर्शन-विषयः । कुतः ? व्यपदेशात् ।
तम् ओङ्कारेणैवायतनेनान्वेति विद्वान् यत् तच् छान्तम् अजरम् अमृतम् अभयं परं चेति [प्र।उ। ५.७] इति ब्रह्म-धर्म-निर्देशात् ।
तद् एवं निर्णीते ब्रह्म-लोक-शब्दोऽपि निषाद-स्थपत्य्-अधिकरण-न्यायेन श्री-विष्णु-लोकस्य वाचकः सिद्धयति ॥१३॥
ह्द्स् : १०.६३.३४।
—ओ)०(ओ—
५। दहराधिकरणम्
॥ १.३.१४ ॥
छान्दोग्ये श्रूयते—
अथ यद् इदम् अस्मिन् ब्रह्म-पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्न् अन्तराकाशस् तस्मिन् यद् अन्तस् तद् अन्वेष्टव्यं तद् वाव विजिज्ञासितव्यम् इति [छा।उ। ८.१.१]
तत्र सन्देहः—किम् अयं हृदय-पुण्डरीक-स्थो दहराकाशो भूताकाशः, किं वा जीवः, उत श्री-विष्णुर् इति ? तत्र प्रसिद्धेर् भूताकाशः स्यात् । पुर-स्वामित्व-प्रत्ययत्वाच् च जीवो वेति प्राप्ते—
दहर उत्तरेभ्यः ॥
श्री-विष्णुर् एव दहरः । कुतः ? उत्तरेभ्यः वाक्य-शेष-गतेभ्यओ हेतुभ्य इत्य् अर्थः । ते च वियद् उपमत्व-सर्वाधारत्वापहत-पाप्मत्वादयो भूताकाशे जीवे च न सम्भवेयुः । श्रुतौ ब्रह्म-पुरम् उपासकस्य शरीरं तद्-अवयव-भूतं हृदय-पुण्डरीकं ब्रह्मणो वेश्म तत्र ध्येयं दहराकाश-शब्दं परं ब्रह्म तस्मिन्न् अन्वेष्टव्यम् अपहत-पाप्मत्वादि-गुण-जातम् इति व्याख्येयम् ॥१४॥
ह्द्स् : १०.८७.१८॥
॥ १.३.१५ ॥
इतोऽपि दहरः श्री-विष्णुर् एवेत्य् आह—
गति-शब्दाभ्यां तथा दृष्टं लिङ्गं च ॥
यथापि हिरण्य-निधिं निहितम् अक्षेत्रज्ञा उपर्य् उपरि सञ्चरन्तो न विन्देयुर् एवम् एवेमाः सर्वाः प्रजा अहरहर् गच्छन्त्य एतं ब्रह्म-लोकं न विन्दन्त्य् अनृतेन हि प्रत्यूढाः ॥ [छा।उ। ८.३.२]
इत्य् अत्रैनम् इति प्रकृतं दहरं निर्दिश्य तत्र प्रजानां गतिर् उक्ता गन्तव्यस्य तस्य ब्रह्म-लोक-शब्दश् चोक्तस् ताभ्यां दहरः श्री-विष्णुर् एवेति निश्चितम् । तथा हि—सता सौम्य तदा सम्पन्नो भवति इति तत्रैवान्यत्र प्राणानां परस्मिन् गमनं दृष्टं तद् एव ब्रह्म-लोक-शब्दस्य श्री-विष्णु-परत्वे लिङ्गं गमकम् । सत्य-लोक-परत्वे तु तत्र प्रत्यहं तासां सा न सम्भवेत् ॥१५॥
ह्द्स् : १०.८७.२०।
॥ १.३.१६ ॥
धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः ॥
दहरोऽस्मिन्न् अन्तराकाश इति प्रकृत्य वियद् उपमा-पूर्वकं तत्र सर्व-समानत्वम् उक्त्वात्म-शब्दं च प्रयुज्योपदिश्य चापहत-पाप्मत्वादि तम् एवानतिवृत्त-प्रकरणं निर्दिशति । अथ य आत्मा स सेतुर् विधृतिर् एषां लोकानां असम्भेदाय [छा।उ। ७.४.१] इति । तस्माद् अस्य विश्व-धृति-रूपस्य महिम्नोऽस्मिन् दहरे प्राप्तेर् अयं श्री-विष्णुर् एव । एष सेतुर् विधारण एषां लोकानां असम्भेदाय [बृ।आ।उ। ४.४.२२] इत्य् अन्यत्राप्य् एष महिमा तत्रैव दृष्टः ॥१६॥
ह्द्स् : ४.३.३०-३२।
॥ १.३.१७ ॥
प्रसिद्धेश् च ॥
को ह्य् एवान्यात् [तै।उ। २.७] इत्य् आदौ ब्रह्मण्य् आकाश-शब्दस्य ख्यातेश् च ॥१७॥
ह्द्स् : ५.१८.१३।
॥ १.३.१८ ॥
ननु,
अथ य एष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय परं ज्योतिर् उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतद् अमृतम् अभयम् एतद् ब्रह्म [छा।उ। ८.३.४]
इति दहर-वाक्यान्तराले जीवस्य परामर्शा स एव दहरः स्याद् इति चेत्, तत्राह—
इतर-परामर्शात् स इति चेन् नासम्भवात् ॥
मध्ये जीव-परामर्शाद् उपक्रमेऽपि स एवेति न शक्यं वक्तुम् । कुतः ? असम्भवात् । उपक्रम्योक्तस्य अपहत-पाप्मत्वादि-गुणाष्टकस्य जीवेऽनुपपत्तेर् इत्य् अर्थः ॥१८॥
ह्द्स् : १०.८९.१०, १०.८७.३८॥
**॥ १.३.१९ ॥
उत्तराच् चेद् आविर्भाव-स्वरूपस् तु ॥ **
शङ्का-च्छेदाय तु शब्दः । नेत्य् अनुवर्तते । प्रजापति-वाक्ये साधनाविर्भावित-स्वरूपस्योपदेशात् न तेनाविर्भूत-स्वरूपः शक्यो ग्रहीतुम् इत्य् अर्थः । धर-वाक्यार्थं तद् अष्टकं नित्याविर्भूतं तथैव प्रतीयात् । प्रजापति-वाक्क्योक्तं तत्-साधनाविर्भावितं । एवम् एवैष सम्प्रसादोऽस्माच् छरीरात् समुत्थाय [छा।उ। ८.१२.३] इत्य् आदिना तथैव प्रतीतेर् इत्य् उभयोर् महद् अन्तरम् । किं च, साधनाविर्भावित-तद्-अष्टकेऽपि जीवे असम्भाव्याः सेतुत्व-जगद्-विधारकत्वादयो गुणाः परेशत्वं दहरस्य गमयन्ति ॥१९॥
ह्द्स् : २.४.१४, २.५.१५॥
॥ १.३.२० ॥
यद्य् एवं तर्हि तद्-अन्तराले जीव-प्रस्तावः किम्-अर्थम् ? तत्राह—
अन्यार्थश् च परामर्शः ॥
तत्र जीव-परामर्शः परमात्म-ज्ञानार्थ एव । यं प्राप्य जीवस् तद्-अष्टकवता स्वरूपेणाभिनिष्पद्यते, स एष परमात्मेति ॥२०॥
ह्द्स् : २.४.२१।
॥ १.३.२१ ॥
अल्प-श्रुतेर् इति चेत् तद् उक्तम् ॥
तत्र यत् समाधानं तत् प्राग् एवोक्तम् । निचाय्यत्वाद् एवं व्योमवच् च इत्य् अनेन विभोर् अपि प्रादेश-मात्रत्वं तन्-मात्र-स्मृति-स्थान-मानोपचारात् । स्मृति-भावापेक्षयाविचिन्त्य-महिम्नस् तस्य तथा प्राकट्याद् एव ॥२१॥
ह्द्स् : २.४.१६
॥ १.३.२२ ॥
इतश् चैतद् एवम् इत्य् आह—
अनुकृतेस् तस्य च ॥
नित्याविर्भूत-तद्-अष्टक-विशिष्टस्य दहरस्य साधनाविर्भावित-तद्-दृष्टकेन प्रजापति-वाक्योक्तेन जीवेनानुकरणात् तस्माद् इतरः सः । पूर्वम् अनृतापिहित-स्वरूपः पशात् ब्रह्मोपासनया सञ्छिन्न-पिधानस् तद् उपसम्पत्त्याविर्भावित-सुसिद्धं, पवनम् अनुहरते हनुमान् इत्य् आदिषु । दृश्यते च मुक्तस्य ब्रह्मानुकारः, निरञ्जनः परमं साम्यम् उपैति इति श्रुत्य्-अन्तरे ॥२२॥
ह्द्स् : ११.१२.१२।
॥ १.३.२३ ॥
**अपि स्मर्यते ॥ **
इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ [गीता १४.२] इति ।
मुक्तानां भगवत्-साधर्म्य-लक्षणः स स्मर्यते । तस्माद् दहरः श्री-हरिर् एव, न जीवः ॥२३॥
ह्द्स् : ११.२९.४४।
—ओ)०(ओ—
६। प्रमिताधिकरणम्
॥ १.३.२४ ॥
कठ-वल्ल्यां पठ्यते ।
अङ्गुष्ठ-मात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानं भूत-भव्यस्य न ततो विजुगुप्सते ॥ [क।उ। २.१.१२] इत्य् आदि ।
इह वीक्षा—अङ्गुष्ठ-मात्रो जीवः श्री-विष्णुर् वेति ? प्राणाधिपः सञ्चरति स्व-कर्मभिर् अङ्गुष्ठ-मात्रो रवि-तुल्य-रूपः इत्य् आदि श्वेताश्वतर-वाक्यैकार्थात् जीव इति प्राप्ते—
शब्दाद् एव प्रमितेः ॥
अङ्गुष्ठ-प्रमितः श्री-विष्णुर् एव । कुतः ? शब्दाद् एव । ईशानो भूत-भव्यस्य इति श्रुतेर् एवेत्य् अर्थः । न चेदृग् ऐश्वर्यं कर्माधीनस्य जीवस्य सम्भवेत् ॥२४॥
ह्द्स् : १.१२.८।
॥ १.३.२५ ॥
ननु विभोस् तत्-प्रमितत्वं कथं ? तत्राह—
हृद्य् अपेक्षया तु मनुष्याधिकारत्वात् ॥
तु-शब्दोऽवधारणे । अङ्गुष्ठ-मात्रे हृदि स्मर्यमाणत्वात् विभोर् अप् अङ्गुष्ठ-मात्रत्वं । हृन्-मानापेक्षया तस्मिन् मानोपचारात् स्मर्तृ-भावापेक्षया तादृशस्यापि तस्याचिन्त्य-महिम्नस् तथा हृदि प्राकट्याद् वेत्य् उदितं प्राक् ।
ननु देहि-भेदेन हृन्-मान-भेदात् तावत्त्वं तस्याशक्यं सम्पादयितुम् इति चेत्, तत्राह—मनुष्येति । शास्त्रम् अविशेषेण प्रवृत्तम् अपि मनुष्यान् अधिकरोति । तेषां सामर्थ्यादि-जुषाम् उपासकत्व-सम्भवात् । ततश् च मनुष्य-वपुषाम् ऐकविध्यात् तद्वतां तद् अविरुद्धम् । तेन करितुर् अगादि हृदाम् अङ्गुष्ठ-मात्रत्वेऽपि न विरोधः । यत् तु जीवस्याप्य् अङ्गुष्ठ-मात्रत्वम् उक्तम् । तत् किल तावति हृदि स्थितेर् एव तु तावत् स्वरूपतया बालाग्र-शत-भागेत्य् आद्य् उत्तर-वाक्येन तस्याणुत्व-विनिश्चयात् । तस्माद् इह श्री-विष्णुर् एवाङ्गुष्ठ-मात्र इति ॥२५॥
ह्द्स् : ४.९.२; १.९.४२।
—ओ)०(ओ—
७। देवताधिकरणम्
॥ १.३.२६ ॥
ब्रह्मणेऽङ्गुष्ठ-परिमित्तत्व-सिद्धये तद्-आवेदकं शास्त्रं मनुष्याधिकारम् इत्य् उक्तम्। तेन मनुष्याणाम् एव तद्-उपासकत्वम् इति समर्थितम् । इदानीं तद्-अपवादेन पराधिकरणम् इदं प्रवर्तयते । बृहद्-आरण्यके श्रूयते—तद् यो यो देवानां प्रत्यबुध्यत, स एव तद् अभवत् । तथ र्षीणां तथा मनुष्याणां [बृ।आ।उ। १.४.१०] इति । तद् देवा ज्योतिषां ज्योतिर् आयुर् होपासतेऽमृतं [बृ।आ।उ। ४.४.१६] इति च । इह संशयः—इदं ब्रह्मोपासनं मनुष्येष्व् इव देवेषु श्रूयमाणं सम्भवेन् न वेति । देहेन्द्रियाभावेन सामर्थ्याभावात् न तेषु तद्-उपासन-सम्भवः । मन्त्रात्मकाः खल्व् इन्द्रादयो देवा न तेषां देहेन्द्रियाणि सन्ति । तद्-अभावाद् एव सामर्थ्य-वैराग्यार्थित्वानि च नेत्य् एवं प्राप्ते—
तद्-उपर्य् अपि बादरायणः सम्भवात् ॥
तद् ब्रह्मोपासनं मनुष्याणाम् उपरि देवेषु च स्वीकार्यम् इति भगवान् बादरायणो नम्यते । कुतः ? उपनिषन्-मन्त्रार्थ-वादेतिहास-पुराण-लोक-परिज्ञात-विग्रह-शालिनां तेषां सामर्थ्यादि-सम्भवात् । तद्-उपासने सामर्थ्यं दिव्य-देहेन्द्रिय-योगात् निजैश्वर्य-विषयं वैराग्यं च । तद्-ऐश्वर्यस्य सावद्यत्व-विनश्वरत्वेनानुभूयमानत्वात् । स्मृतिश् च—
न केवलं द्विज-श्रेष्ठ नरके दुःख-पद्धतिः । स्वर्गेऽपि यात-भीतस्य क्षयिष्णोर् नास्ति निवृत्तिः ॥ [वि।पु। ६.५.५०]
तत एव ब्रह्म-विषयम् अर्थित्वं च । तस्य निरवद्य-नित्य-परिमितानन्दत्वेन श्रूयमाणत्वात् । विद्या-ग्रहणाय ब्रह्मचर्यम् अपि देवादीनां श्रूयते— त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुर् देवा मनुष्या असुराः [बृ।आ।उ। ५.२.१] इति बृहद्-आरण्यके । इन्द्रस्य च छान्दोग्ये—एक-शतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यम् उवास [छा।उ। ८.११.३] इति । तस्मात् सामर्थ्यादीनां सत्त्वाद् अधिकारिणे देवादय इति ॥२६॥
ह्द्स् : ४.८.२०, २२।
॥ १.३.२७ ॥
ननु देवादीनां विग्रहवत्त्वे स्वीक्रियमाणे कर्मणि विरोधः प्राप्नुयात् एकस्य परिच्छिन्नस्य बहु-यज्ञेषु युगपद्-आहूतस्य सान्निध्यानुपपत्तेर् इति चेत् तत्राह—
विरोध-कर्मणीति चेन् नानेक-प्रतिपत्तेर् दर्शनात् ॥
तत्-स्वीकारेऽपि न तत्र विरोधः । कुतः ? अनेकेति । शक्तिमतां सौभर्यादीनां कार्य-व्यूह-प्राप्ति-दर्शनाद् इत्य् अर्थः ॥२७॥
ह्द्स् : ७.८.४२, ३.२२.४४, ३.२३.४७।
॥ १.३.२८ ॥
ननूक्त-हेतोर् देवता-विग्रह-वादिनां कर्मणि विरोधो मा भूत्, वेद-शब्दे तु स स्यात्। तद्-उत्पत्तेः पूर्वत्र तद्-विनाशात् परत्र च तद्-वाचके तस्मिन् बन्ध्यात्मजाति-शब्दवद् अप्रामाण्य-लक्षणे विरोधः । औत्पत्तिकस् तु शब्देनार्थस्य सम्बन्ध इति शब्द-तद्-अर्थ-तत्-सम्बन्धानां यत्-पूर्व-तन्त्रेण नित्यत्वम् उक्तं तच् च विरुद्धं स्याद् इति चेत्, तत्राह—
शब्द इति चेन् नातः प्रभावात् प्रत्यक्षानुमानाभ्याम् ॥
वेद-शब्देऽपि नोक्त-लक्षणे विरोधः । कुतः ? अतः प्रभवात् । नित्य-तत्-तद्-आकृति-वाचकात् तत्-तद्-वेद-शब्दात् तत्-तद्-वाच्य-नित्याकृत्य्-अनुस्मृत्या तत्-तद्-विग्रहाणाम् उत्पत्तेर् इत्य् अर्थः । आकृतयो नित्याः सर्व-व्यक्तिभ्यः पूर्वं स्थितेः । विश्वकर्मणः स्व-शास्त्रे याः प्रोक्ताः चित्रकर्म-प्रसिद्धये यमं दण्ड-पाणिं लिखन्ति वरुणं तु पाश-हस्तम् इति । देवादि-वाचका वेद-शब्दा गवादि-शब्दवत् स्वभावाद् एवाकृतिषु सङ्केतिताः सन्ति । न तु चैत्रादि-शब्दवत् व्यक्ति-मात्रेषु । तथा च नित्याकृति-वाचित्वाद् वेद-शब्दानां तद्वन् नाप्रामाण्यं, नापि पूर्व-तन्त्र-विरोध इति । इदं कुतः ? प्रत्यक्षेति श्रुति-स्मृतिभ्याम् इत्य् अर्थः । श्रुतिस् तावत् शब्द-पूर्वां सृष्टिम् आह—एत इति ह वै प्रजापतिर् देवान्, असृजतासृग्रम् इति मनुष्यान्, इन्दव इति पितॄंस्, तिरः पवित्रम् इति ग्रहान्, आशव इति स्तोत्रं, विश्वानीति मन्त्रम्, अभिसौभगेत्य् अन्याः प्रजाः [पञ्चविंशति-ब्राह्मण ६.९.१३.२२, ६.१२.१.३] इति1 । स्मृतिश् च—
नाम-रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेद-शब्देभ्य एवादौ देवादीनां चकार सः ॥ [वि।पु। १.५.६३]
इत्य् आद्या ॥२८॥
ह्द्स् : २.१०.३६, २.५.१६, २.१०.३७।
**॥ १.३.२९ ॥
अत एव च नित्यत्वम् ॥ **
अतो नित्याकृति-वाचित्वात् कर्तुः स्मरणाच् च नित्यत्वं वेदस्य सिद्धम् । काठकादि-सञ्ज्ञा तु तत्-तद्-उच्चरितत्वेनैव बोध्या ॥२९॥
ह्द्स् : ८.७.२५, २६, २९।
॥ १.३.३० ॥
स्याद् एतत् । वेद-शब्द-स्मृत्याकृत्य्-अनुस्मृता देवादि-विग्रह-सृष्टिर् या विधातुः श्राव्यते सा किल नैमित्तिक-प्रलयान्ते स्यात् प्राकृतिक-प्रलये तु प्राकृतिकाद् इतरस्य सर्वस्य विनाशोक्तेस् तस्य तादृशी सृष्टिः कथं स्यात् कथं वा वेदस्य नित्यत्वम् इति चेत्, तत्राह—
**समान-नाम-रूपत्वाच् चावृत्ताव् अप्य् अविरोधो दर्शनात् स्मृतेश् च ॥ **
शङ्का-च्छेदाय च-शब्दः । आवृत्तौ महा-प्रलयात् परस्याम् आदि-सृष्टाव् अपि वेद-शब्दे न विरोधः । कुतः ? समानेति । पूर्वोक्त-तुल्य-नाम-रूप-संस्थानत्वाद् इत्य् अर्थः । महा-प्रलये वेदास् तद् वाच्यास् तत्-तद्-आकृतयश् च नित्याः पदार्थाः स-शक्तिके श्री-हराव् एकीभावम् आपन्नास् तिष्ठन्ति । अथ तस्मिन् सिसृक्षौ सति ततोऽभिव्यज्यन्ते । तैर् वेद-शब्दैस् तत्-तद्-आकृति-पर्यालोचन-पूर्विका तत्-तद्-व्यक्ति-सृष्टिः श्री-हरेश् चतुर्मुखस्य च स्यात् । घटादि-शब्दैः पूर्व-घटाद्य्-आकृति-विमर्शिनः कुलालस्य पूर्व-सद्र्शी घटादि-सृष्टिर् यथेत्य् उत्तर-सृष्टानां पूर्व-सृष्टेस् तौल्यम् । एवं च नैमित्तिक-प्रलयान्तवत् महा-प्रलयान्तेऽपि तादृक् सृष्टिर् भवेद् एवेति ।
इदं कुतोऽवगतं ? तत्राह—दर्शनाद् इति । दर्शनं तावत्—आत्मा वा इदम् एक एवाग्र आसीन् नान्यत् किञ्चन मिषत् । स ईक्षत लोकान् नु सृजै [] इति, यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै [श्वे।उ। ६.१८], सूर्याचन्द्रमसौ धाता यथा-पूर्वम् अकल्पयत् [ऋ।वे। १०.१९०.३] इत्य् आदि ।
स्मृतिश् च—
न्यग्रोधः सुमहान् अल्पे यथा बीजे व्यवस्थितः । संयमे विश्वम् अखिलं बीज-भूते तथा त्वयि ॥ [वि।पु। १.१३.६६] इति । नारायणः परो देवस् तस्माज् जातश् चतुर्मुखः ॥ इति । तेने ब्रह्म हृदा य आदिकवये [भा।पु। १.१.१] इति चैवम् आद्या ।
अयम् अत्र निष्कर्षः । सर्वेश्वरो भगवान् महा-प्रलयान्ते यथा-पूर्वं विश्वं विचिन्तयन् बहु स्याम् इति सङ्कल्प्य सूक्ष्मात्मना स्वस्मिन् विलीनं भोक्तृ-भोग्य-समुदायं विभज्य महद्-आदि-ब्रह्म-पर्यन्तम् अण्डं पूर्ववन् निर्माय वेदांश् च पूर्वानुपूर्विकान् आविर्भाव्य मनसैव तान् ब्रह्माणम् अध्याप्य च पूर्ववद् देवादि-रूप-विश्व-सृष्टौ तं विनियुङ्क्ते, स्वयं च तद् अन्तर्नियमयन्न् अवतिष्ठते । सोऽपि तद्-अनुग्रह-लब्ध-सार्वज्ञ्य-वीर्यो वेदैस् तत्-तद्-आकृतीर् विमृश्य पूर्वदेवादि-तुल्यांस् तान् सृजतीति । तद् एवम् इन्द्रादि-शब्दात्मनो वेदस्येन्द्राद्य्-अर्थाकृतेश् च सदातनत्वात् तयो सम्बन्धेऽपि तथात्वं सिद्धम् इति शब्देऽपि न कोऽपि विरोधः । तथा च देवादीनां सामर्थ्यादि-सम्भवात् तेषाम् अपि ब्रह्मोपासनाधिकारः सिद्धः। देवाद्य्-अधिकारेऽपि नाङ्गुष्ठ-मात्र-श्रुतिर् विरुद्धा । तद्-अङ्गुष्ठ-प्रतिमत्वेन तत्-सिद्धेः ॥३०॥
ह्द्स् : २.९.३८-३९।
॥ १.३.३१ ॥
अथ यासु विद्यासु देवा एवोपास्यास् तासु तेषाम् अधिकारः स्यान् न वेति विचार्यते । छान्दोग्ये—असौ वा आदित्यो देवमधु तस्य द्यौर् एव तिरश्चीनं वंश [छा।उ। ३.१.१] इत्य् आदिना सूर्यस्य देव-मधुत्वं प्रतिपाद्यते । रश्मीनां छिद्रत्वं च तत्र वसुय्-रुद्रादित्य-मरुत्-साध्याः पञ्च देव-गणाः स्व-मुख्येन मुखेनामृतं दृष्ट्वैव तृप्यन्तीत्य् आदि चोच्यते । सूर्यस्य मधुत्वं च ऋग्-आदि-प्रोक्त-कर्म-निष्पाद्यस्य रश्मि-द्वारा प्राप्तस्य रसस्याश्रयतया व्यपदिश्यन्ते । एवम् अन्यन् नाप्य् अन्यद् एवोपासना च ग्राह्या । तत्र तावत् पर-मतम् आह—
मध्व्-आदिष्व् असम्भवाद् अनधिकारं जैमिनिः ॥
जैमिनिर् देवानां मध्व्-आदिषु विद्यास्व् अनधिकारं मन्यते । कुतः ? असम्भवात् । न हि स्वयम् उपास्यः सन्न् उपासको भवितुम् अर्हति एकस्मिन्न् उभयासम्भवात् । वसुत्वादि-प्राप्तेर् मधु-विद्या-फलस्य सिद्धत्वेनार्थित्वासम्भवाच् च ॥३१॥
ह्द्स् : ११.६.३३।
॥ १.३.३२ ॥
ज्योतिषि भावाच् च ॥
तद् देवा ज्योतिषां ज्योतिर् इत्य् आदि श्रुतेर् ज्योतिषि परस्मिन् ब्रह्मणि तेषाम् उपासकतया भावाच् च न तास्व् अधिकारः । ब्रह्मोपासनस्य देव-मनुष्य-साधारण्येऽपि विशिष्य देवानां तत्-कथनं तेषाम् इतरोपासन-निवृत्तिं द्योतयति ॥३२॥
ह्द्स् : १०.१४.२३। १०.६३.३४।
—ओ)०(ओ—
८। भावाधिकरणम्
॥ १.३.३३ ॥
एवं प्राप्ते ब्रवीति—
भावं तु बादरायणोऽस्ति हि ॥
तु शङ्का-च्छेदार्थम् । तास्व् अपि मध्व्-आदि-पूपासनासु भावं देवाधिकारस्य भगवान् बादरायणो मन्यते । हि यस्माद् आदित्य-वस्व्-आदीनाम् अपि सतां स्वावस्थ-ब्रह्मोपासनया स्वभावाप्ति-पूर्वक-ब्रह्म-लिप्सा सम्भवोऽस्ति । कार्य-कारणोभयावस्थ-ब्रह्मोपासनस्यात्रावगमात् । इदानीम् आदित्य-वस्व्-आदयः सन्तः स्वावस्थ-ब्रह्मोपासीनाः कल्पान्तरेऽप्य् आदित्यादयो भूत्वा आदित्याद्य्-अन्तर्यामि-कारण-भूतं ब्रह्मोपास्य मुक्ताः सन्तस् तद् भविष्यन्तीति भावः । न चादित्यादि-शब्दानां ब्रह्म-पर्यन्तत्वे मानाभावः । य एतम् एवं ब्रह्मौपनिषदं वेद इत्य् उपसंहारस्य मानत्वात् । न च विद्या-फलस्य वसुत्वादि-प्राप्तेः सिद्धत्वाद् अर्थित्वासम्भवः । लोके पुत्रिणाम् एव सतां जन्मान्तरे पुत्र-लिप्सा-दर्शनात् । एवं च ब्रह्मण एवोपास्यत्वात् तद् देवा ज्योतिषां ज्योतिर् इत्य् अपि सूपपन्नम् । प्रजापतिर् अकामयत प्रजायेयेति स एतद् अग्निहोत्रं मिथुनम् अपश्यत् । तद्-उदिते सूर्येऽजुहोत् इति। देवा वै सत्रम् आसत इत्य् आदि श्रुत्य्-अन्तर-सिद्धः कर्माधिकारश् च तेषां न विरुद्द्यते । लोक-सङ्ग्रहार्थया भगवद्-आज्ञया तत्-करणात् ।
ननु मधु-विद्यादि-शालिनाम् अनेक-कल्प-पर्यन्तं विलम्बं सहिष्णूनां कथं मुमुक्षुत्वं ब्रह्म-लोकान्त-सुख-वैतृष्ण्ये तत्त्वात् ? सत्यम् । तद्-बोधक-शास्त्राद् अदृष्ट-वैचित्र्यस्य नियामकत्वाच् च तादृशाः केचिद् अधिकारिणः सम्भवन्तीति स्वीकार्यम् । इदम् अधिकरणं पूर्वार्थे कैमुत्य-द्योतनाय ॥३३॥
ह्द्स् : १०.६३.४३-४४।
—ओ)०(ओ—
९। अपशूद्राधिकरणम्
॥ १.३.३४ ॥
मनुष्याणां देवादीनां च सामर्थ्यादि-योगाद् ब्रह्मोपासनायाम् अधिकारः प्रोक्तः। सा च वेदान्त-पाठाद् ऋते न सम्भवति । औपनिषदः पुरुषः इत्य् आदि-श्रुतिर् इति स्थितम् । तत्-प्रसङ्गाद् इदम् आरभ्यते ।
छान्दोग्ये जानश्रुतिर् हि पौत्रायण [छा।उ। ४.१.१] इत्य् आदिर् आख्यायिका श्रूयते । तत्र हंसोक्ति-श्रवणानन्तरं सयुग्वानो रैङ्कस्य सन्निधि-गतेन जानुश्रुतिना गो-निष्क-रथान् दर्शयित्वा देवतां पृष्टो रैङ्क आह—अहह हारेत्वा शूद्र तवैव सह गोभिर् अस्त्व् [छा।उ। ४.२.३] इति तं शूद्र-शब्देन सम्बोध्य पुनर् अप्य् आहृत-गो-नोष्क-रथ-कन्योपहारं आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा [छा।उ। ४.२.५] इत्य् उक्त्वा संवर्ग-विद्याम् उपदिष्टवान् इति वर्ण्यते । इह भवति संशयः । वेद-विद्यायां शूद्रोऽधिक्रियते न वेति । तत्र मनुष्याधिकारोक्तिर् अविशेषात् सामर्थ्यादि-सत्त्वात् शूद्रेति श्रौत-लिङ्गात् पुराणादिषु विदुरादीनां ब्रह्मवित्त्व-दर्शनाच् च सोऽधिक्रियते इति प्राप्तौ ।
शुग् अस्य तद्-अनादर-श्रवणात् तदाद्रवणात् सूच्यते हि ॥
नेत्य् अनुवर्तते । तस्यां शूद्रो नाधिक्रियते । कुतः ? हि यस्माद् अस्य पौत्रायणस्य जानश्रुतेर् अब्रह्मज्ञस्य कम् व् अरे एनम् एतत् सन्तं सयुग्वानम् इव रैङ्कम् आत्थ [छा।उ। ४.१.३] इति हंसोक्तानादर-वाक्य-श्रवणात् तदा ब्रह्मज्ञं रैङ्कं प्रत्याद्रवणात् शुक् सञ्जातेति सूच्यते अस्याम् आख्यायिकायाम् । तथा च शोक-योगाद् एवाशुद्रेऽपि तस्मिन् शूद्रेति सम्बोधनं स्व-सार्वज्ञ्य-विज्ञापनयैव न तु चतुर्थ-
वर्णत्वाद् इति ॥३४॥
ह्द्स् : १.४.२५।
—ओ)०(ओ—
॥ १.३.३५ ॥
एवं शूद्रत्व-लिङ्गे निरस्ते कोऽयम् इति जिज्ञासायां क्षत्रियत्वम् अस्य वक्तुं सूत्रयति—
क्षत्रियत्वावगतेश् चोत्तरत्र चैत्ररथेन लिङ्गात् ॥
अस्य जानश्रुतेः क्षत्रियत्वम् अवगम्यते श्रद्धादेयो बहुदायी [छा।उ। ४.१.१] इत्य् अनेक-दानादि-समधिगत-जनपदाधिपत्यात् क्षत्तारम् उवाचेति क्षत्तुः प्रेषणात् रैङ्काय गो-निष्क-रथ-कन्यादि-दानाच् च । न ह्य् एतानि क्षत्रियाद् अन्यस्य सम्भवन्ति। राज-धर्मत्वाद् उपक्रमाख्यायिकायां क्षत्रियत्वम् अवगतम् । अथोपसंहाराख्यायिकायां तद् अवगम्यत इत्य् आह उत्तरत्रैतत् संवर्ग-विद्या-वाक्य-शेषे सङ्कीर्तितेन चैत्ररथेनाभिप्रतारित-सञ्ज्ञेन क्षत्रियत्वं विज्ञायते । वाक्य-शेषस् तथाह—अथ शौनकं कापेयम् अभिप्रतारिणं च काक्षसेनिं परिविश्यमानौ ब्रह्मचारी बिभिक्षे [छा।उ। ४.३.५] इत्य् आदि ।
नन्व् अभिप्रतारिणश् चैत्ररथत्वं क्षत्रियत्वं च नास्मिन् प्रकरणे प्रतीयते इति चेत् तत्राह लिङ्गाद् इति । अथ शौनकम् इत्य् आदिना साहचर्याल् लिङ्गाद् अभिप्रतारिणः कापेय-सम्बन्धः प्रतीतः । अन्यत्र चैतेन चैत्ररथं कापेया अयाजयन्न् इति कापेय-सम्बन्धिनश् चैत्ररथं श्रूयते । तस्मात् चैत्ररथिर् नाम क्षत्र-पतिर् अजायत [] इति चैत्ररथस्य क्षत्रियत्वं चेति । तद् एवं तस्य तत् तच् च सिद्धम् । तथा च संवर्ग-विद्योपासकौ कापेयाभिप्रतारिणौ वा ब्राह्मण-क्षत्रियौ निर्दिष्टाव् अतस् तस्याम् एव विद्यायां गुरु-शिष्य-भावेनान्वितौ रैङ्क-जानश्रुती च तथा स्याताम् इति तस्य क्षत्रियत्वम् । ततश् च वेदे शूद्रौ नाधिकारीत्य् अर्थो युक्त्या साधितः ॥३५॥
ह्द्स् : ४.१६.१६-१८।
—ओ)०(ओ—
॥ १.३.३६ ॥
तद् एवं श्रुत्य्-आद्य्-अनुग्रहेण दर्शयति—
संस्कार-परामर्शात् तद्-अभावाभिलापाच् च ॥
श्रुत्य्-अन्तरे अष्ट-वर्षं ब्राह्मणम् उपनयीत तम् अध्यापयेद् एकादशे क्षत्रियं द्वादशे वैश्यम् इत्य् अध्यापनाय संस्कार-विमर्शनात् तत्र ब्राह्मणानां एवाधिकारः । नाग्निर् न यज्ञो न क्रिया न संस्कारो न व्रतानि शूद्रस्य इति संस्काराभाव-कथनाच् च शूद्रस्य नाधिकारः । त्रवर्णिक-बाह्यस्य संस्काराविधानात् संस्कार-सापेक्षे वेद-पाठे तस्य न सः ॥३६॥
ह्द्स् : ७.२१.१३, ७.११.१४-१५, ७.११.२१.२४।
॥ १.३.३७ ॥
संस्काराभावं द्रढयति—
**तद्-अभाव-निर्धारणे च प्रवृत्तेः **
छान्दोग्ये एव नाहम् एतद् वेद भो यद्-गोत्रोऽहम् अस्मि [छा।उ। ४.४.४] इति सत्य-वचसा जाबालस्य शूद्रत्वाभावे निर्धारिते सति, नैतद् अब्राह्मणो विवक्तुम् अर्हति समिधं सोम्याहरोप त्वा नेष्ये न सत्याद् अगाः [छा।उ। ४.४.५] इति गौतमस्य गुरोस् तत् संस्कारादौ प्रवृत्तेश् च ब्राह्मण-पदोपलक्षित-त्रैवर्णिकत्वम् एव संस्कार-प्रयोजकम् अवगम्यते, अतो न शूद्रोऽधिकारी ॥३७॥
ह्द्स् : १.४.२५।
—ओ)०(ओ—
॥ १.३.३८ ॥
श्रवणाध्ययनार्थ-प्रतिषेधात् स्मृतेश् च ॥
पद्यु ह वा एतच् छ्मशानं यच् छूद्र-समीप नाधेतव्यम् । तस्माच् छूद्रो बहु-पशुर् अयज्ञीय2 इति शूद्रस्य वेद-श्रवण-प्रतिषेधान् न स तत्राधिकारी । अनुपशृण्वन्तोऽध्ययन-तद्-अर्थ-ज्ञान-तद्-अनुष्ठानानि न सम्भवन्तीत्य् अतस् तान्य् अपि प्रतिषिद्धानि ।
नाग्निर् न यज्ञः शूद्रस्य तथैवाध्ययनं कुतः । केवलैव तु शुश्रूषा त्रिवर्णानां विधीयते ॥
वेदाक्षर-विचारेण शूद्रः पतति तत्-क्षणाद् इत्य्-आदि-स्मृतेश् च । तथा विदुरादीनां तु सिद्ध-प्रज्ञत्वान् न किञ्चिच् चोद्यम् । शूद्रादीनां मोक्षस् तु पुराणादि-श्रवणज-ज्ञानात् सम्भविष्यति । फले तु तारतम्यं भावि ॥ ३८ ॥
ह्द्स् : ३.६.२९-३३।
—ओ)०(ओ—
१०। कम्पनाधिकरणम्
॥ १.३.३९ ॥
एवं प्रासङ्गिकं समाप्य प्रकृतं समन्वयं चिन्तयति—कठ-वल्ल्यां पठ्यते—
यद् इदं किं च जगत् सर्वं प्राण एजति निःसृतम् । महद् भयं वज्रम् उद्यतं य एतद् विदुर् अमृतास् ते भवन्ति ॥ [क।उ। २.३.२] इति ।
किम् अत्र वज्रम् अशनिर् ब्रह्म वेति संशये भव-हेतुतया कम्पकारित्वात् तज्-ज्ञानेन मोक्षस्य च वाचनिकत्वाद् अशनिर् वज्र-शब्दाद् अवगम्यते । प्राणत्वं चास्य रक्षकत्वात् । न च प्रकरणाद् ब्रह्मार्थतया शक्या कर्तुम् उद्यतं वज्रम् इति श्रुत्या तस्य बाधाद् इत्य् एवं प्राप्ते—
कम्पनात् ॥
वज्रादि-सहितस्य कृत्स्नस्य जगतः कम्पकत्वाद् वज्रम् अत्र ब्रह्मैव ।
चक्रं चङ्क्रमणाद् एष वर्जनाद् वज्रम् उच्यते । खण्डनात् खड्ग एवैव हेति-नामा हरिः स्वयम् ॥ [ब्र।वै।पु।]
इति स्मरणाच् च । अयं भावः—प्राण-शब्दितत्वं भय-हेतुत्वं च परमात्मनः श्रुति-प्रसिद्धम् । तत् तच् चात्र वज्र-शब्दितस्य कीर्त्यमानं सद् अस्य परमात्मत्वं गमयतीति ॥३९॥
ह्द्स् : ६.१०.१३; ६.१२.३, ६.८.३२, ६.१२.१०, ६.१२.८।
॥ १.३.४० ॥
ज्योतिर्-दर्शनात् ॥3
न यत्र सूर्यो भाति न चन्द्र-तारके इत्य् आदिकम् इतः प्राक् श्रुतम् । भयाद् अस्याग्निस् तपति इत्य् आदिकं परत्र । तत्रोभयत्रापि ब्रह्मैकान्तस्य ज्योतिषस् तेजसो दर्शनाद् अन्तरालेऽपि ब्रह्मैव वज्र-शब्दाद् अवधारणीयम् ॥४०॥
ह्द्स् : ६.११.२०, १०.३.२४॥
—ओ)०(ओ—
११। अर्थान्तराधिकरणम्
॥ १.३.४१ ॥
आकाशो ह वै नाम-रूपयोर् निर्वहिता ते यद् अन्तरा तद् ब्रह्म तद् अमृत्ं स आत्मा [छा।उ। ८.१४.१] इति श्रुतं छान्दोग्ये ।
तत्राकाश-शब्देन संसार-बन्धाद् विनिर्मुक्तो जीवात्मोच्यते परमात्मा वेति सन्देहे । अश्व इव रोमाणि विधूय पापम् इत्य् आदिना पूर्व-मुक्तस्य प्रकृअतत्वात् ते यद् अन्तरेति नाम-रूप-विमुक्तस्याभिधानात् तस्यापि भूत-पूर्व-गत्या तन्-निर्वोढृत्व-सम्भवाद् असङ्कुचित-प्रकाश-शब्दस्यापि तत्रोपपत्तेश् च विमुक्तात्मेह प्रतिपाद्यते । तद् ब्रह्म तद् अमृतम् इति तद्-अवस्था विमृष्टेति प्राप्ते—
आकाशोऽर्थान्तरत्वादि-व्यपदेशात् ॥
इहाकाशः पर्मात्मैव न मुक्त-जीवः । कुतः ? अर्थान्तरेति । अयम् अर्थः—नाम-रूप-निर्वोढृत्वं किल मुक्तावस्थाज् जीवाद् अन्यम् आकाशं साधयति । बद्धावस्थं तं खलु कर्म-वशात् नाम-रूपे भजतः । स्वयं तु तन् निर्वोढृत्वे न शक्तः । मुक्ताश्रयस्य तु तस्य तत्र जगद् व्यापार वर्ज्यम् इति वक्ष्यमाणात् परमात्मनस् तु जगन् निर्मितिषु क्षम्स्य श्रुत्यैव तद् उक्तम् । अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि इत्य् आदिना । तस्मात् परमात्मैवेह बोध्यः । आदि-शब्दात् निरुपाधिक-बृहत्त्वादि-रूपं ब्रह्मत्वादि । यत् तु पूर्वं मुक्तः प्रकृत इत्य् उक्तं तन् न ब्रह्म-लोकम् इति परमात्मनः प्रकृतत्वात् आकाश-शब्दश् च व्यापकत्वाद् असङ्गत्वाच् च परमात्मनि प्रयुक्तः प्रसिद्धश् च तत्रैवेति ॥४१॥
ह्द्स् : ६.१६.२१,२३।
॥ १.३.४२ ॥
स्याद् एतत् मुक्ताद् अपि जीवाद् अर्थान्तरं ब्रह्मेति नोपयुक्तं क्षोदाक्षमत्वात् । तथा हि बृहद्-आरण्यके, कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्य् अन्तर्-ज्योतिः पुरुषः । पुरुषः स समानः सन्न् उभौ लोकाव् अनुसञ्चरति [बृ।आ।उ। ४.३.७] इत्य् आदिना बद्धावस्थं जीवम् उपक्रम्य, स वा अयम् आत्मा ब्रह्म विज्ञान-मयः [बृ।आ।उ। ४.४.५] इत्य् आदिना तस्यैव ब्रह्मत्वं परामृश्यते । परत्र्याप्य् अथाकामयमान [बृ।आ।उ। ४.४.६] इत्य् आदिना मुक्तावस्थेति विमृश्य, ब्रह्मैव सन् ब्रह्माप्य् एति [बृ।आ।उ। ४.४.६] इति तस्य तथात्वं निश्चीयते । तथान्तेऽप्य् अभयं वै ब्रह्म भवति य एवं वेद [बृ।आ।उ। ४.४.२५] इति फलोक्तिश् च ।
तद् एवं सति यः क्वचिज् जीव-ब्रह्मणोर् भेद-व्यपदेशः स खलु घटाकाश-महाकाशवद् उपाधि-कृतः स्यात् तद्-विगमे परिच्छिन्नस्य जीवस्य महत्त्वं घट-नाशे घटाकाशस्येव । विश्व-कृत्त्वादि च तस्यिअवेश्वरत्वात् तस्मात् नार्थान्तरं मुक्त-जीवाद् ब्रह्मेत्य् आक्षिप्तौ पठति—
सुषुप्त्य्-उत्क्रान्त्योर् भेदेन ॥
व्यपदेशाद् इत्य् अनुवर्तते । तस्मिन् वाक्य-सन्दर्भे मुक्त-जीवो ब्रह्मैवेति न सम्भवति । कुतः ? सुषुप्ताव् उत्क्रान्तौ च जीवाद् भेदेन ब्रह्मणो व्यपदेशात् । सुषुप्तौ तावत् प्राज्ञेनाऽऽत्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नाऽऽन्तरं [बृ।आ।उ। ४.३.२१] इति । उत्क्रान्तौ च, प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जन् याति [बृ।आ।उ। ४.३.३५] इति । उत्सर्जन् हिक्क-शब्दं कुर्वन् । न च स्वपत उत्क्रामतो वा अकिञ्चिज्-ज्ञस्य तदैव प्राज्ञेन स्वेनैव परिष्वङ्गान्वरोहौ सम्भवेताम् । न च जीवान्तरेण तस्यापि सार्वज्ञ्याभावात् ॥४२॥
ह्द्स् : ११.३.३९-४०।
॥ १.३.४३ ॥
ननु नैतावत्भीष्ट-सिद्धिर् औपाधिक-भेदाभ्युपगमाद् इति चेत्, तत्राह—
पत्य्-आदि-शब्देभ्यः ॥
तत्रैवोत्तरत्र पत्य्-आदयः शब्दाः पठ्यन्ते । स वा अयम् आत्मा…सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वम् इदं प्रशास्ति यद् इदं किञ्च [बृ।आ।उ। ५.६.१] स न साधुना कर्मणा भूयान् नो एवासाधुना कनीयान् एष सर्वेश्वर एष भूताधिपतिर् एष लोकेश्वरः लोक-पाल एष सेतुर् विधरण एषां लोकानाम् असम्भेदाय [बृ।आ।उ। ४.४.२२]4 इत्य् आदिना । तेभ्यो मुक्त-जीवाद् अन्यत् ब्रह्मेति विज्ञायते । न हि सर्वाधिपत्यं सर्व-प्रशासनादिकं वा मुक्त-जीवस्य शक्यं वक्तुम्, जगद्-व्यापार-वर्जम् [वे।सू। ४.४.१७] इति प्रतिषेधात् । अन्तः-प्रविष्टः शास्ता जनानाम् इति तैत्तरीयके [?] ब्रह्मण एव तच्-छ्रवणात् । न चौपाधिकत्वं भेदस्य तस्य मुक्ताव् अपि श्रवणात् । अंशाधिकरणे तु तथात्वं परिहरिष्यामः । अयम् आत्मा ब्रह्म [बृ।आ।उ। ४.४.५] इत्य् अत्र जीवस्य तद् उक्तिस् तद्-गुणांश-योगात् । ब्रह्मैव सन्न् इत्य् अत्र तु आविर्भावित-गुणाष्टकेन ब्रह्म-सदृशः सन्न् इत्य् एवार्थः । परमं साम्यम् उपैति [मु।उ। ३.२.३] इत्य् आदि श्रवणात् ब्रह्म-भावोत्तर-भावित्वाच् च ब्रह्माप्ययस्येति पूर्वम् अभाषि । तद् एवं बद्ध-मुक्तोभयावस्थाज् जीवात् ब्रह्मणो भेद-सिद्धो नाम-रूप-निर्वोढाकाशो न मुक्त-जीवः, किन्तु परमात्मैवेति सिद्धम् । नेतरोऽनुपपत्तेर् भेद-व्यपदेशाच् चेत्य् अत्र यत् शङ्का-निदानं तद् इहैवोक्तम् इति पुनर्-उक्तिर् मुक्ति-कालिक-भेदाभ्यासात् न दोष इत्य् अपरे ॥४३॥
ह्द्स् : ७.३.२९,३१।
॥ इति ब्रह्म-सूत्र-भाष्ये प्रथमाध्ययस्य तृतीयः पादः ॥
॥ १.३ ॥
(१.४)
-
द्रष्टव्यम् एते असृग्रम् इन्दवस् तिरः पवित्रम् आशवः विश्वान्य् अभिसौभगा [ऋ।वे। ९.६२.२४.१] इति । ↩︎
-
Tहिस् लिने इस् फ़्रोम् अन् उन्नमेद् सोउर्चे, क़ुओतेद् इन् Śअङ्करऽस् Śअरीरक-भाष्य। I चोउल्द्न्ऽत् फ़िन्द् थे सोउर्चेस् ओफ़् अन्य् ओफ़् थे ओथेर् क़ुओतेस्। ↩︎
-
Tरेअतेद् ब्य् Sहन्कर अस् अ सेपरते अधिकरन। ↩︎
-
A नुम्बेर् ओफ़् दिफ़्फ़ेरेन्चेस् फ़्रोम् थे अच्चेप्तेद् _Bऋहद्-आरण्यक _रेअदिन्ग्। ↩︎