१। सर्वत्र-प्रसिद्धाधिकरणम्

मनो-मयादिभिः शब्दैः स्वरूपं यस्य कीर्त्यते ।

हृदये स्फुरतु श्रीमान् ममासौ श्यामसुन्दरः ॥

॥ १.२.१ ॥

प्रथमे पादे समस्त-जगत्-कारण-भूतं पुरुषोत्तमाख्यं परं ब्रह्म जिज्ञास्यम् इत्य् उक्तम् । तत्रैवान्यत्र प्रतीतानां केषाञ्चिद् वाक्यानां ब्रह्मणि समन्वयः प्रदर्शितः । द्वितीय-तृतीययोस् तु अस्पष्ट-ब्रह्म-लिङ्गकानां तस्मिन्न् एव समन्वयः प्रदर्श्यते । छान्दोग्ये शाण्डिल्य-विद्यायाम् इदम् आमनन्ति—

सर्वं खल्व् इदं ब्रह्म तज् -जलान् इति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथाक्रतुर् अस्मिंल् लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत । मनोमयः प्राण-शरीरो भा-रूपः सत्य-सङ्कल्प आकाशात्मा सर्व-कर्मा सर्व-कामः सर्व-गन्धः सर्व-रसः सर्वम् इदम् अभ्यत्तोऽवाक्यनादरः [छा।उ। ३.१४.१-२] इत्य् आदि ।

तत्र संशयः—मनोमयत्वादिगुणैर् उपास्यो जीव उत परमात्मा ? इति । तत्र मनः-प्राणयोर् जीवोपकरणत्वात्, अप्राणो ह्य् अमनाः शुभ्रः इति परमात्मनस् तन्-निषेधात् तद्वान् जीवोऽयं स्यात् । न च सर्वं खल्व् इदं ब्रह्म इति पूर्व-निर्दिष्टं ब्रह्मात्र ग्रहीतुं शक्यं, तस्य वाक्यस्योपास्त्य् उपकरण-शान्ति-विधि-परत्वात् । शान्ति-निष्पत्तये सर्वस्य ब्रह्मात्मत्वोपदेशः । एवं जीवे निश्चिते अन्तिमो ब्रह्म-शब्दोऽप्य् एतत्-परं स्याद् इत्य् एवं प्राप्ते—

सर्वत्र-प्रसिद्धोपदेशात् ॥

स खल्व् अयं परमात्मैव, न जीवः । कुतः सर्वत्र वेदान्ते प्रसिद्धस्य जगज्-जन्मादि-हेतुता-रूपस्य तद्-एकान्त-धर्मस्यात्रापि वाक्ये तज्-जलान् इत्य् उपदेशात् । यद्यप्य् उपक्रम-वाक्ये शान्ति-विवक्षया, न तु स्व-विवक्षया ब्रह्म निर्दिष्टं तथाप्य् उपदिष्टे मनोमयत्वादिके तत्-सन्निधास्यति । क्रतुर् उपासना । मनोमयः शुद्ध-मनो-ग्राह्यः, मनसैवानुद्रष्टव्य इति श्रुत्य्-अन्तरात् । यतो वाच इत्य् आदि कृत-प्रतिषेधस् तु पामरागोचरत्वात् कार्त्स्न्यागोचरत्वाच् चेति तत्त्व-विदः । प्राण-शरीरत्वं तन्-नियन्तृत्वात् प्रेष्ठ-मूर्तित्वाद् इत्य् एके । अप्राणो ह्य् अमना इति तु तद्-अनधीन-स्थिति-ज्ञानत्वात् प्राकृत-विषयो वा । मनोवान् इत्य् अनीदवातम् इति च श्रुत्य्-अन्तरात् । अपरे तु, मनोमयः प्राण-शरीर-नेता [मु।उ। २.२.७], स एषोऽन्तर्-हृदय आकाशस् तस्मिन्न् अयं पुरुषो मनोमयोऽमृतमयो हिरण्मयः, हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुर् अमृतास् ते भवन्ति, प्राणस्य प्राण इत्य् आदिषु सर्वेषु वेदान्तेषु प्रसिद्धस्य मनोमयत्वादेर् इहाप्य् उपदेशात् परमात्मैव मनोमय इति वाचख्युः ॥१॥

ह्द्स्- २.९.३५; १.२.११; १.७.४-५; २.१०.१५-१६; ११.१२.१७।

॥ १.२.२ ॥
विवक्षित-गुणोपपत्तेश् च ॥

मनोमयः प्राण-शरीरो भा-रूपः इत्य् आदिना ये गुणा विवक्षितास् ते हि परस्मिन्न् एवोपपद्यन्ते, न तु जीवे ॥२॥

ह्द्स् : ५.१९.४।

॥ १.२.३ ॥
अनुपपत्तेस् तु न शारीरः ॥

मनो-मयः शारीरो न भवति खद्योत-कल्पे तस्मिंस् तेषाम् असम्भवात् ॥३॥

ह्द्स् : ६.१६.४६।

॥ १.२.४ ॥
कर्म-कर्तृत्व-व्यपदेशाच् च ॥

एतम् इतः प्रेत्याभिसम्भवितास्मि इति श्रुतेर् एतम् इति प्रकृतं मनोमयं कर्मत्वेन प्राप्यत्वेन व्यपदिशति । शारीरं त्व् अभिसम्भवितास्मीति कर्तृत्वेनेति कर्तुः शारीराद् विलक्षणः कर्म-भूतो मनोमयः परेशः । अभिसम्भवतिर् मिलनार्थः सम्भूयाम्भोधिम् अभ्येति नगापगेत्य् आदि प्रयोगात् ॥४॥

ह्द्स् : ६.१६.४८,६३।

॥ १.२.५ ॥
शब्द-विशेषात् ॥

एष मे आत्मान्तर् हृदये [छा।उ। ३.१४.३] इति पठ्यन्तेन शब्देन शारीर उपासको निर्दिश्यते, मनोमयस् तूपास्यः प्रथमान्तेन । भिन्न-विभक्तिकयोः शब्दयोर् अर्थ-भेदेन भाव्यम् । तथा च शारीराद् उपासकाद् अन्यो मनोमय उपास्य इति ॥५॥

ह्द्स् : ३.९.१२, ८.५.२७।

॥ १.२.६ ॥
स्मृतेश् च ॥

ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया ॥ [गीता १८.६१]

इति स्मरणाच् च शारीरात् परस्य भेदः ॥६॥

ह्द्स् : ७.५.१४।

॥ १.२.७ ॥

ननु एष मे आत्मान्तर्-हृदयेऽणीयान् ब्रीहेर् वा यवाद् वा [छा।उ। ३.१४.३] इत्य् अल्प-स्थानत्व-श्रुतेर् अणीयस्त्वोपदेशाच् च जीव एव मनो-मयो न त्व् ईश इत्य् आशङ्का-निरासायाह—

अर्भकौकस्त्वात् तद्-व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च ॥

हेतु-युग्मान् मनोमयो नेश्वर इति न वाच्यम् । अत्रैव ज्यायान् पृथिवी ज्यायान् अन्तरिक्षात् इत्य् आदिना व्योम-वदस्य विभुत्वाभिधानात् । कथं तर्हि तद्-युग्मं सङ्गच्छते । तत्राह—निचाय्यत्वाद् एवम् इति । एवं मितत्वेनोक्तिर् निचाय्यत्वात् हृद्-उपास्यत्वात् । अयम् अत्र निष्कर्षः—विभोर् अपि परस्य यद् अणुत्वं प्रादेश-मात्रत्वादि च तत् क्वचित् भाक्तं क्वचित् तु मुख्यम् । तत्राद्यं स्मृति-स्थान-हृन्-मानस्य स्मर्यमाणे स्थानानि तस्मिन्न् उपचारात् । अन्यं तु तादृशस्यापि तस्य भक्तानुग्राहिणोऽचिन्त्य-शक्ति-योगिनस् तथा तथाभिव्यक्तेः । एकम् एव स्वरूपं भक्तेषु नाना-विधं स्फुरति—एकोऽपि सन् बहुधा योऽवभाति इति श्रवणात् । विभुत्वे सत्य् अप्य् अणुत्वादिकम् अचिन्त्य-शक्ति-योगात् ॥७॥

ह्द्स् : ८.६.८,१०।

॥ १.२.८ ॥

ननु जीववत् परमात्मनोऽपि शरीरान्तर्वर्तित्वेन तत्-सम्बन्ध-कृतः सुख-दुःखोपभोगस् तेन सह समः स्याद् इति चेत् तत्राह—

सम्भोग-प्राप्तिर् इति चेन्, न, वैशेष्यात् ॥

इह समिति सहार्थे वर्तते संवाद-शब्दवत् । सम्भोगः सह भोगस् तत्-प्राप्तिर् नेश्वरस्य। कुतः ? वैशेष्यात् । अयम् अभिप्रायः । न हि देह-सम्बन्ध-मात्रं तअद्-उपभोग-हेतुः, किन्तु कर्म-पारतन्त्र्यम् एव । तच् च न तस्यास्ति, अनश्नन्न् अन्योऽभिचाकशीति श्रवणात् । न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा [गीता ४.१४] इति स्मृतिश् चेति । कठ-वल्ल्यां पठ्यते—

यस्या ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर् यस्योपसेचनं क इत्था वेद यत्र सः ॥ [क।उ। १.२.२५] इति ॥८॥

ह्द्स् : ८.५.२९।

२। अत्ताधिकरणम्

॥ १.२.९ ॥

अत्र कश्चिद् ओदनोपसेचन-शब्द-सूचितोऽत्ता प्रतीयते । स किम् अग्निर् उत जीवः परो वेति भवति संशयः । विशेषानिश्चयात् त्रयाणां प्रश्नोत्तर-सत्त्वाच् च किं तावत् प्राप्तं अग्निर् अत्तेति । अग्निर् अन्नाद् इति श्रुतेः प्रसिद्देश् च । जीवो वा भवेत् । अदनस्य कर्म-निमित्तत्वात् कर्मिणो जीवस्य तत् सम्भवति, न तु कर्म-शून्यस्य । एवम् अभिप्रेत्य श्रुतिर् अपि तयोर् अदनानदने दर्शयति—तयोर् अन्यः पिप्पलम् इत्य् आदिना । तस्मात् जीवोऽयम् इति प्राप्तौ—

अत्ता चराचर-ग्रहणात् ॥

पर एवात्ता । कुतः ? चराचरेत्य् आदेः । ब्रह्म-क्षत्रोपलक्षितं कृत्स्नं जगत् मृत्यूपसिक्तम् अन्नाद्यत्वेन गृहीतम्, न हि तादृशस्य तस्य अत्ता परस्माद् अन्यः सम्भवेत् । उपसेचनं खलु स्वयम् अद्यमानंसद् इतरादने निमित्तम् । मृत्यूपसिक्त-निखिल-जगद्-अत्तृत्वं नाम संहर्तृत्वम् एव । तच् च परमात्मैकान्तम् एव प्रसिद्धम् । न चानश्नन्न् इति श्रुत्या तस्य प्रतिषेधः । स्वाभाविकत्वात् । किन्तु कर्म-फलाद् अनस्यैवेति सुष्ठूक्तं परोऽत्तेति ॥९॥

ह्द्स् : १२.११.२४

॥ १.२.१० ॥
प्रकरणाच् च ॥

अणोर् अणीयान् महतो महीयान् इत्य् आदिभिर् हि पर एव प्रकृतः । अत्तासि लोकस्य चराचरस्य इति स्मृतेर् अपि चैनं समुच्चीयते ॥१०॥

ह्द्स् : ८.६.८, ६.९.३४।

—ओ)०(ओ—

३। गुहाधिकरणम्

॥ १.२.११ ॥

तत्रैव,

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे पराद् धर्षे । छायातपौ ब्रह्म-विदो वदन्ति पञ्चाग्नयो ये च त्रि-नाचिकेता ॥ [क।उ। १.३.१] इति श्रुतम् ।

तत्र कर्म-फल-भोक्तृ-जीवस्य सद्वितीयत्वम् अभिधीयते । द्वितीयश् च बुद्धिः प्राणे वा परमात्मा वेति विचिकित्सायां बुद्ध्यादेर् जीवोपकरणत्वाद् ऋत-पान-रूपः कर्म-फल-भोगः कथञ्चित् सम्भवति, न तु परमात्मनः तस्य तन्-निषेधात् । तस्माद् असौ बुद्धिः प्राणो वेति प्राप्तौ—

गुहां प्रविष्टाव् आत्मानौ हि तद्-दर्शनात् ॥

गुहां गताव् आत्मानाव् एव जीवेश-रूपौ न तु बुद्धि-जीवौ प्राण-जीवौ वा । कुतः ? तद्-दर्शनात् ।

या प्राणेन सम्भवत्य् अदितिर् देवता-मयी । गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर् व्यजायत ॥ [क।उ। २.१.७] इति । तं दुर्दर्शं गूढम् अनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्म-योगाधिगमेन देवं मत्वा धीरो हर्ष-शोकौ जहाति ॥ [क।उ। १.२.१२]

इति च क्रमेण तयोर् गुहा-प्रवेश-वीक्षणात् । हि शब्देन पुराण-प्रसिद्धिः सूच्यते । पिबन्ताव् इति छत्रि-न्यायेन प्रयोज्य-प्रयोजक-भावेन वा द्वयोः पाने कर्तृत्वं, छायातपाव् इति च ज्ञान-तारतम्येन संसारित्वासंसारित्वेन वा सङ्गमनीयम् ॥११॥

ह्द्स् : ८.५.२६-२७।

॥ १.२.१२ ॥
विशेषणाच् च ॥

अस्यां प्रक्रियायां जीवेशाव् एव मन्तृत्व-मन्तव्यत्वादि-भावेन विशेषतो विज्ञायेते । तं दुर्दर्शम् इति पूर्वस्मिन् ग्रन्थे मन्तृत्व-मन्तव्याभ्याम् एताव् एव विशेषितौ । इहापि वाक्ये छायातपाव् इत्य् अज्ञत्व-विज्ञत्वाभ्यां,

विज्ञान-सारथिर् यस् तु मनः प्रग्रहवान् नरः । सोऽध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम् ॥ [क।उ। १.३.९]

इति प्राप्तृत्व-प्राप्यत्वाभ्यां परत्र च ॥१२॥

ह्द्स् : ८.५.२९।

—ओ)०(ओ—

४। अन्तराधिकरणम्

॥ १.२.१३ ॥

छान्दोग्ये य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतद् अमृतम् अभयम् एतद् ब्रह्मेति तद् यद्यप्य् अस्मिन् सर्पिर् वोदकं वा सिञ्चति वर्त्मनी एव गच्छति । एतं संयद् वाम इत्य् आचक्षत एतं हि सर्वाणि वामान्य् अभिसंयन्ति [छा।उ। ४.१५.१-२] इत्य् आदि श्रूयते । तत्र संशयः—किम् अयं पुरुषः प्रतिबिम्बः किं वा देवतात्मा आहो स्वित् जीव उताहो परमात्मेति। आद्यः स्यात् अक्ष्य्-आधारत्व-दृश्यत्वयोस् तत्र सत्त्वात् । द्वितीयो वा रश्मिभिर् एषोऽस्मिन् प्रतिष्ठित [बृ।आ।उ। ५.५.२] इति बृहद्-आरण्यकात् । किं वा तृतीयः स्यात् स हि चक्षुषा रूपं पश्यंस् तत्र सन्निहितो भवति । तस्माद् एषाम् अन्यतमोऽयम् इत्य् अस्यां प्राप्तौ—

अन्तर उपपत्तेः ॥

अक्ष्य्-अन्तरः परमात्मैव । कुतः ? उपपत्तेः । आत्मत्वामृतत्व-ब्रह्मत्व-निर्लेपत्व-सम्पद्-वामत्वादीनां धर्माणां तत्रैव सिद्धेः ॥१३॥

ह्द्स् : ८.५.३६।

॥ १.२.१४ ॥
स्थानादि-व्यपदेशाच् च ॥

यश् चक्षुषि तिष्ठन् [बृ।आ।उ। ३.७.१८] इत्य् आदिना चक्षुषि स्थिति-नियमनादिकं परमात्मन एवोक्तं बृहद्-आरण्यके ॥१४॥

ह्द्स् : ५.२३.८।

॥ १.२.१५ ॥
सुख-विशिष्टाभिधानाद् एव च ॥

प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म [छा।उ। ४.१०.४] इत्य् अपरिच्छिन्न-सुख-विशिष्टं यद् ब्रह्म प्रक्रान्तं तस्यैव पुनर् अत्राप्य् अक्षि-स्थ-वाक्ये निगदाच् च प्रकृत-ग्रहणं न्याय्यम् । आन्तरालिक्य्-अग्नि-विद्या तु ब्रह्मविद्याङ्गं भवेत् । इह विशिष्टयोक्त्या ज्ञानादि-शब्दानां धर्मि-परत्वं च व्याख्यातम् ॥१५॥

ह्द्स् : ५.२३.९।

॥ १.२.१६ ॥
श्रुतोपनिषत्क-गत्य्-अभिधानाच् च ॥

उपनिषदं श्रुतवतोऽधिगत-रहस्यस्य श्रुत्य्-अन्तरे या देवयानाख्य-गतिर् उक्ता मैवेहाक्षि-पुरुष-विद उपकोशलस्योच्यते, अर्चिषम् अभिसम्भवति इत्य् आदिना । तस्माच् च तथा ॥१६॥

ह्द्स् : २.१०.८।

॥ १.२.१७ ॥

प्रतिबिम्बादीनां त्रयाणां ग्रहणं त्व् इह न सम्भवतीत्य् आह—

अनवस्थितेर् असम्भावाच् च नेतरः ॥

तेषां चक्षुषि नित्यमेन स्थितेर् अभावाद् अमृतत्वादेर् निरुपाधिकस्य तेष्व् असम्भवाच् च नेतरेषाम् अन्यतमः कोऽप्य् अक्षिस्थः किन्तु परमात्मैव स इति ॥१७॥

ह्द्स् : ११.१६.३६।

—ओ)०(ओ—

५। अन्तर्याम्य्-अधिकरणम्

॥ १.२.१८ ॥

बृहद्-आरण्यके श्रूयते—यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयत्य् एष त आत्मान्तर्याम्य् अमृतः [बृ।आ।उ। ३.७.३] इति । अत्र पृथिव्य्-आद्य्-अन्तः-स्थो यमयिता प्रतीतः, स किं प्रधानं जीवः परो वेति संशये प्रधानम् इति तावत् प्राप्तं, तद्-अन्तः-स्थत्वादेस् तत्र सम्भवात् । कारणं हि कार्येऽनुस्यूतं तस्य नियन्तृ च भवति । प्रीति-प्रदत्वाद् आत्मत्वं तत्रोपचरितं व्याप्ति-योगाद् वा नित्यत्वाद् अमृतं च तद् इति । जीवो वा कश्चिद् योगी स स्यात् सर्वान्तः-प्रवेशनान्तर्धान-शक्तिभ्यां नियन्तृत्वादृष्टत्वादेस् तत्र योगात् । आत्मत्वामृतत्वे च तस्य मुख्ये तस्मात् प्रधान-जीवयोर् एक्तरः स इति प्राप्ते—

अन्तर्याम्य् अधिदैवादिषु तद्-धर्म-व्यपदेशात् ॥

योऽयम् अधिदैवादिषु वाक्येषु अन्तर्यामी श्रुतः, स परेश एव । कुतः? तद् इति । पृथिव्यादि-सर्वान्तःस्थत्व-तद्-अवेद्यत्व-तन्-नियन्तृत्व-विभु-विज्ञानानन्दत्वामृतत्वादीनां तद्-धर्माणाम् इहोक्तेः ॥१८॥

ह्द्स् : ११.२२.३०-३२।

॥ १.२.१९ ॥
न च स्मार्तम् अतद्-धर्माभिलापात् ॥

उक्त-हेतुभ्यः स्मार्तं प्रधानं अन्तर्यामीति न वाच्यम् । कुतः ? अतद् इति । दृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञतो विज्ञाता । नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञातैष त आत्माऽअन्तर्याम्य् अमृतोऽतोऽन्यत् स्मार्तम्1 [बृ।आ।उ। ३.७.२३] इति वाक्य-शेष-श्रीआनां द्रष्टृत्वादीनां तस्मिन्न् असम्भवात् ॥१९॥

ह्द्स् : ८.१.९,११।

॥ १.२.२० ॥
शारीरश् चोभयेऽपि हि भेदेनैवनम् अधीयते ॥

नेत्य् अनुवर्तते । उक्त-हेतुभ्यः शारीरो योगि-जीवोऽन्तर्यामीति न वाच्यम् । कुतः ? हि यस्मात् उभये काण्व-माध्यन्दिनाश् चैनम् अन्तर्यामितो भेदेनाधीयन्ते । “यो विज्ञानम् अन्तरो यमयति” इति, “य आत्मानम् अन्तरो यमयति” इति च नियम्य-नियन्तृत्व-भावेन भेदं तयोः पठन्तीत्य् अर्थः । तस्मात् स श्री-हरिर् एव । सुबालोपनिषदि तु पृथिव्य्-आदीनां अव्यक्ताक्षरामृतानां श्री-नारायणोऽन्तर्यामीति कठैः पठितम् । अन्तः-शारीरे निहितो गुहायां अज एको नित्यो यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरे सञ्चरन् यं पृथिवी न वेद [सुबालोपनिषद् ७] इत्य् आदिना ब्राह्मणेन ।

ह्द्स् : ८.१.१६।

६। अदृश्याधिकरणम्

॥ १.२.२१ ॥

अथ परा यया तद् अक्षरम् अधिगम्यते ॥ यत् तद् अदृश्यम् अग्राह्यम् अगोत्रम् अवर्णम् अचक्षुः-श्रोत्रं तद् अपाणि-पादम् । नित्यं विभुं सर्व-गतं सुसूक्ष्मं तद् अव्ययं यद् भूत-योनिं परिपश्यन्ति धीराः ॥ [मु।उ। १.१.६] इति ।

उत्तरत्र,

दिव्यो ह्य् अमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्य् अजः । अप्राणो ह्य् अमनाः शुभ्रो ह्य् अक्षरात् परतः परः ॥ [मु।उ। २.१.२] इति ।

किम् अत्र वाक्य-द्वये प्रकृति-पुरुषौ क्रमेण प्रतिपाद्यो किं वा परमात्मैवेति सन्देहे द्रष्टृत्वादि-चेतन-धर्माश्रवणात्, योनि-शब्दस्योपादान-वाचित्वाच् च प्रधानम् एवाक्षरं स्यात्, परतोऽक्षरात् परस् तु पुरुषो भएत् सर्व-विकार-भूताद् अक्षरात् परत्वं क्षेत्रज्ञेऽपि युक्तेः । तस्मात् ताव् एवात्र वेद्याव् इति प्राप्ते—

अदृश्यत्वादि-गुणको धर्मोक्तेः ॥

अदृश्यत्वादि-धर्मा परमात्मैव उभयत्र वेद्यः । कुतः ? धर्मोक्तेः ।

यः सर्वज्ञः सर्व-विद् यस्य ज्ञान-मयं तपः । तस्माद् एतद् ब्रह्म नाम रूपम् अन्नं च जायाते ॥ [मु।उ। १.१.९] इति ।

दिव्यो ह्य् अमूर्तः पुरुषः इत्य् आदिना सर्वज्ञत्वादि-तद्-धर्म-कथनात् पर-विद्या-विषयत्वाच् च ॥२१॥

ह्द्स् : ८.३.३, ९-१०।

॥ १.२.२२ ॥
विशेषेण भेद-व्यपदेशाच् च नेतरौ ॥

इतरौ प्रकृति-पुरुषौ ताभ्यां न बोध्यौ । यः सर्वज्ञः इत्य् आदिना अक्षरस्य विशेषणात् । दिव्य इत्य् आदिना स्मार्तात् पुरुषात् भेदोक्तेश् च । तस्माद् उभयत्रापि सर्व-कारण-भूतः पुरुषोत्तम एव बोध्य इति ॥२२॥

ह्द्स् : ८.३.२६-२७।

॥ १.२.२३ ॥
रूपोपन्यासाच् च ॥

यदा पश्यः पश्यते रुक्म-वर्णं कर्तारम् ईशं पुरुषं ब्रह्म-योनिम् । तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति ॥ [मु।उ। ३.१.३]

इत्य् अक्षरस्य भूत-योनेर् उपनिरूपणाच् च तथा । इदं खलु परमात्मओ रूपं, न तु प्रकृतेर् न वा जीवस्य ॥२३॥

ह्द्स् : १.३.३-४।

॥ १.२.२४ ॥
प्रकरणाच् च ॥

प्रकरणेति स्पष्टम् ॥२४॥

ह्द्स् : ११.११.३।

—ओ)०(ओ—

७। वैश्वानराधिकरणम्

॥ १.२.२५ ॥

स्मृतिर् अप्य् एतद् विष्णु-परं व्याचष्टे । द्वे विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः ।

परया त्व् अक्षर-प्राप्तिः ऋग्-वेदादि-मया परा । यत् तद् अव्यक्तम् अजरम् अचिन्त्यम् अजम् अक्षयम् ॥ अनिर्देश्यम् अरूपं च पाणि-पादाद्य्-असंयुतम् । विभुं सर्व-गतं नित्यं भूत-योनिम् अकारणम् ॥ व्याप्य्-अव्याप्तं यतः सर्वं तद् वै पश्यन्ति सूरयः । तद् ब्रह्म परमं धाम तद् ध्येयं मोक्ष-काङ्क्षिणाम् ॥ श्रुति-वाक्योदितं सूक्ष्मं तद् विष्णोः परमं पदम् । तद् एतद् भगवद्-वाच्यं स्वरूपं परमात्मनः ॥ वाचको भगवच्-छब्दस् तस्याद्यस्याक्षरात्मनः । एवं निगदितार्थस्य सत्-तत्त्वं तस्य तत्त्वतः ॥ ज्ञायते येन तज् ज्ञानं परम् अन्यत् त्रयीमयम् ॥ [वि।पु। ६.५.६५-६७] इति ।

छान्दोग्ये—

को न आत्मा किं ब्रह्मेति [छा।उ। ५.११.१]… आत्मानम् एवेमं वैश्वानरं सम्प्रत्य् अध्येषि तम् एव नो ब्रूहीति [छा।उ। ५.११.६] इत्य् उपक्रम्य, यस् त्व् एतम् एवं प्रादेश-मात्रम् अभिविमानम् आत्मानं वैश्वानरम् उपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्व् आत्मस्व् अन्नम् अत्ति ॥ तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश् चक्षुर् विश्व-रूपः प्राणः पृथग्-वर्त्मात्मा सन्देहो बहुलो बस्तिर् एव रयिः पृथिव्य् एव पादावुर एव वेदिर्लोमानि बर्हिर् हृदयं गार्हपत्यो मनोऽन्वाहार्य-पचन आस्यम् आहवनीयः ॥ [छा।उ। ५.१८.१-२] इत्य् आदि श्रूयते ।

तत्र संशयः—किम् अयं वैश्वानरो जाठरोऽग्निः, किं वा, देवताग्निर् उत भूताग्निर्, आहो स्वित् विष्णुः? इति । अत्र चतुर्ष्व् अपि वैश्वानर-शब्दस्य साधारण्य-दर्शनाद् अनिर्णयोऽस्त्व् इति प्राप्ते—

वैश्वानर-साधारण-शब्द-विशेषात् ॥

वैश्वानरो विष्णुर् एव । कुतः ? साधारणेत्य् आदि । अयं भावः—यद्यपि स शब्दस् तत्र तत्र साद्ःआरणः, तथापि विष्णु-साधारणैर् द्यू-मूर्धादि-शब्दैर् विशेष्यमाणः सन् स्वस्य विष्ण्व्-अर्थं गमयति, तथात्म-ब्रह्म-शब्दाभ्यां उपक्रमस् तद्-विदः फल-विशेष-श्रुतिः, तद् यथेषिक-तुलम् इत्य् आदिका तस्य विष्णुत्वे लिङ्गम् । सोऽपि योगेन तत्रैव वर्तेत विश्वे नरा अस्येति। तस्माद् विष्णुर् एव सः ॥२५॥

ह्द्स् : २.२.२४, २.३.३५।

॥ १.२.२६ ॥

इतोऽपीत्य् आह—

स्मर्यमाणम् अनुमानं स्याद् इति ॥

इति-शब्दो हेत्व्-अर्थः । अहं वैश्वानरो भूत्वा प्राणिनां देहम् आश्रितः [गीता १५.१४] इति विष्णोस् तत्त्वं स्मर्यमाणम् एतस्या विद्यया विष्णु-परत्वे अनुमानं लिङ्गं भवतीति हेतोः स विष्णुर् एव ॥२६॥

ह्द्स् : ५.१९.२५, ११.१६.३८।

॥ १.२.२७ ॥

अथ जाठरं निरस्यति—

शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न,
तथादृष्ट्य्-उपदेशासम्भवात्,
पुरुष-विधम् अपि चैनम् अधीयते ॥

ननु वैश्वानरो न विष्णुर् अयम् अग्निर् वैश्वानर इति वैश्वानर-शब्दैकार्थाग्नि-शब्दात् हृदयं गार्हपत्य इत्य् आदिना हृदयादि-स्थस्य तस्य अग्नि-त्रेता-प्रकल्पनात् प्राणा इत्य् आधारत्वोक्तेः पुरुषेऽन्तः-प्रतिष्ठितं वेद [श।ब्रा। १०.६.१.११] इत्य् अन्तः-प्रतिष्ठानाच् च, किन्तु जाठराग्निर् एवायम् इति चेत्, न । कुतः ? तथेति । तथा जाठर-रूपत्वेन दृष्टेर् विष्णूपासनस्योक्तेः । तन्-मात्र-परिग्रहे द्यू-मूर्धत्वादेर् असम्भवात् ।

किं च, सो यो ह्य् एतम् एवाग्निं वैश्वानरं पुरुष-विधं पुरुषेऽन्तः-प्रतिष्ठितं वेद [श।ब्रा। १०.६.१.११] इति पुरुष-विधम् अप्य् एनम् अधीयते वाजसनेयिनः । जाठरे गृहीते तस्य पुरुषेऽन्तः-प्रतिष्ठानं स्यात्, न तु पुरुष-विधत्वं च । विष्णोस् तूभयं सम्भवेत् ॥२७॥

ह्द्स् : ११.१६.३६; २.६.१३-१६।

॥ १.२.२८ ॥

अथ देवताग्नि-भूताग्नी निराकरोति—

अत एव न देवता भूतं च ॥

ननु देवताग्नेर् ऐश्वर्य-वशेन द्यू-लोकाद्य्-अङ्गत्व-सम्भवाद् एव निर्देशस् तथा भूताग्नेश् च । यो भानुना पृथिवीं द्यामुतेमाम् आततान रोदसी अन्तरिक्षम् [ऋ।वे। १०.८८.३] इत्य् आदि मन्त्र-वर्णाद् इति चेत्, न । कुतः ? अत एव । एभ्य उक्तेभ्य एव हेतुभ्यो देवताग्निर् भूताग्निश् च न स इत्य् अर्थः । मन्त्र-वर्णस् तु प्रशंसा-वचनम् ॥२८॥

ह्द्स् : २.१.३९।

॥ १.२.२९ ॥

वैश्वानर-शब्दवद् अग्नि-शब्दस्यापि साक्षात् तत्-परत्वं इति जैमिनि-मतेन दर्श्यते—

साक्षाद् अप्य् अविरोधं जैमिनिः ॥

विश्व-नेतृत्वेन गुणेन विश्वे नरा अस्येति सर्व-कारणत्वादिना वा यथा वैश्वानर-शब्दस् तथात्र नयनादि-गुण-योगेनाग्नि-शब्दश् च साक्षाद् एव विष्णु-वाचक इत्य् अविरोधम् अत्र जैमिनिर् मन्यते गुण-विशेषस्योपजीव्यत्वात् ॥२९॥

ह्द्स् : २.५.६।

॥ १.२.३० ॥

ननु कथम् अत्र प्रादेश-मात्रोक्तिरपरिच्छिन्नस्य? तत्राह—

अभिव्यक्तेर् इत्य् आश्मरथ्यः ॥

तद्-दृष्टि-विशिष्टानां उपासकानां तथाभिव्यक्तो विभातो भवति विष्णुर् इत्य् आश्मरथ्यो मन्यते ॥३०॥

ह्द्स् : ३.९.११।

॥ १.२.३१ ॥
अनुस्मृतेर् इति बादरिः ॥

प्रादेश-मात्र-हृत्-पद्म-प्रतिष्ठितेन मनसायम् अनुस्मर्यते, अतः प्रदेश-मात्र उच्यते इति बादरिर् मन्यते ॥३१॥

ह्द्स् : २.२.८।

॥ १.२.३२ ॥
सम्पत्तेर् इति जैमिनिस् तथा हि दर्शयति ॥

विभोर् अपि तस्य यत्-प्रादेश-मात्रत्वं तत् किल सम्पत्तेर् अविचिन्त्य-शक्ति-रूपाद् ऐश्वर्याद् एव न त्व् औपाधिकम् इति जैमिनिर् मन्यत एव । कुतः ? तत्राह—तथेति । हि यतस् तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् [गो।ता।उ। १.३३], एकोऽपि सन् बहुधा योऽवभाति [गो।ता।उ। १.१९] इत्य् आद्या श्रीइस् तथाविचिन्त्य-शक्तिकत्वेनेशे विरुद्ध-धर्म-समावेशं बोधयतीत्य् अर्थः । ते च धर्मा ज्ञानत्वेऽपि मूर्तत्वम् एकत्वेऽपि बहुत्वम् इत्य् आदयः । उपरि चैतद् बहुलीभविष्यति । विभुत्वे सत्य् एव मध्यमत्वम् इति न किञ्चिद् अवद्यम् ॥३२॥

ह्द्स् : ३.९.३।

॥ १.२.३३ ॥
आमनन्ति चैनम् अस्मिन् ॥

एवम् अचिन्त्य-शक्ति-योगं धर्मम् आथर्वणिका अस्मिन् परमात्मनि आमनन्ति । अपाणि-पादोऽहम् अचिन्त्य-शक्तिः [कैवल्योपनिषद् २१] इति । आत्मेश्वरोऽतर्क्य-सहस्र-शक्तिः इति स्मृतिश् च शब्दात् । न चात्र मिथो मतानां विरोधः ।

व्यास-चित्त-स्थिताकाशाद् अविच्छिन्नानि कानिचित् । अन्ये व्यवहरन्त्य् एतद् उरीकृत्य गृहाद् इव ॥ इत्य् आदि स्मृतेः ॥३३॥

ह्द्स् : ३.३३.८।

॥ इति श्री-ब्रह्म-सूत्र-भाष्ये प्रथमाध्यायस्य द्वितीयः पादः ॥

॥ १.२ ॥

—ओ)०(ओ—

(१.३)


  1. _अन्यद् आर्तम् _इन् अल्ल् ओथेर् रेअदिन्ग्स्। ↩︎