११

अथैकादश पटलः
ततो दीक्षावधिं वक्ष्ये यथावदवधारय ।
क्रियावती कलावती वर्णात्मा वेदमप्यपि ॥ १ ॥
पञ्चायतनदीक्षायां सर्वदीक्षोत्तमोत्तमा ।
पितृमातृकृतं नाम त्यक्तायुर्वर्णवर्णकान् ॥ २ ॥
संसृष्तिमन्त्रतो विद्वान् चक्रेषु गणयेत् क्रमात् ।
आषाढो निन्दितो ज्येष्ठः पौषो भाद्रपदस्तथा ॥ ३ ॥
मासेष्वनिन्दितेष्वेव दीक्षोक्ता ग्रहणे शुभा ।
पुरुषार्थसमावाप्त्यै स शिष्यो गुरुमाश्रयेत् ॥ ४ ॥
मातृतः पितृतः शुद्धः शुद्धभावो जितेन्द्रियः ।
सर्वागमानां सारज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥ ५ ॥
परोपकारनिरतः पूजाजपपरायणः ।
अमोघवचनः शान्तो वेदवेदाङ्गपारगः ॥ ६ ॥
योगमार्गानुसन्धायी देवताहृदयङ्गमः ।
इत्यादिगुणसम्पन्नो गुरुर्भवति मानवः ॥ ७ ॥
शिष्यः कुलीनः शुद्धात्मा पुरुषार्थपरायणः ।
अधीतवेदः कुशलो दूरमुक्तमनोभवः ॥ ८ ॥
हितैषी प्राणिनां नित्यमास्तिकस्त्यक्तनास्तिकः ।
स्वधर्मनिरतो नित्यं पितृमातृहिते रतः ॥ ९ ॥
वाङ्मनःकायकृतिभिर्गुरुशुश्रूषणोद्यतः ।
एभिरेव गुणैर्युक्तः शिष्यो भवति नाऽपरः ॥ १० ॥
द्वादशेषु च मासेषु यान्येव शुभदानि च ।
दिनानि तानि विप्रेन्द्र सावधानाऽवधारय ॥ ११ ॥
चैत्रे त्रयोदशी शुक्ला वैशाखैकादशी सिता ।
ज्येष्ठे च दशमी कृष्णा चाऽऽषाढे नागपञ्चमी ॥ १२ ॥
श्रावणे द्वादशी भाद्रे रोहिणीसहिताऽष्टमी ।
आश्विने च महापुण्या महाष्टम्यपयभीष्टदा ॥ १३ ॥
कार्तिके पूर्णिमा शुक्ला मार्गशीर्षे सिता तथा ।
षष्ठी चतुर्दशी पौषे माघेऽप्येकादशी सिता ॥ १४ ॥
फाल्गुने च सिता षष्ठी चेति कालविनिर्णयः ।
प्रशस्तास्तिथयः पुण्याः सिद्धिदाः श्रूयताम् बुधः ॥ १५ ॥
पञ्चमी सप्तमी षष्ठी पूर्णिमा च सिता तथा ।
त्रयोदशी तु दशमी प्रशस्ता सर्वकर्मणि ॥ १६ ॥
एकादशी सिता कृष्णा प्रशस्ता कीर्तिता बुधैः ।
अश्विनी श्रवणाऽऽर्द्रा च रेवती चोत्तरात्रयम् ॥ १७ ॥
पुण्या शतभिषा चैव दीक्षादिषु प्रकीर्तिता ।
अथ योगं प्रवक्ष्यामि साधकानां हिताय च ॥ १८ ॥
ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः ।
शिवात्मनोरभेदेन प्रतिपत्तिं परे विदुः ॥ १९ ॥
कामक्रोधौ लोभमोहौ तत्परं मदमत्सरौ ।
वदन्ति विषमानेतान् विषमं दुर्गमात्मनः ॥ २० ॥
इडया कर्षयेद् वायुं बाह्यं षोडशमात्रया ।
मध्यमा कुम्भयेद् वायुं विद्यया मात्रया शनैः ॥ २१ ॥
नाड्या पिङ्गलया चैनं रेचयेद् योगवित्तमः ।
प्राणायाममिदं प्राहुर्योगशास्त्रविशारदाः ॥ २२ ॥
भूयो भूयः समाक्रम्य अभ्यासेन समाचरेत् ।
सनत्कुमारतन्त्रं तत् सम्भूतं मुनिपुङ्गवात् ॥ २३ ॥
सनत्कुमारात् सारं च तन्त्राणां ब्रह्मभावनात् ।
यः पठेच्छुणुयाद् वाऽपि सोऽपि पुण्यवतां वरः ॥ २४ ॥
पुस्तकं लिखितं यस्य गृहे तिष्ठति नित्यशः ।
लक्ष्मीस्तस्य गृहं साक्षात् त्रिसन्ध्यं न विमुञ्चति ॥ २५ ॥
॥ इति सनत्कुमारतन्त्रे सनत्कुमारपुलस्त्यसंवादे
श्रीगोपालपूजाप्रयोगविधानं नामैकदशः पटलः ॥ ११ ॥