१०

अथ दशमः पटलः

पुलस्त्य उवाच

करमालान्तरे माला जपमाला च कथ्यताम् ।

सनत्कुमार उवाच

शृणु वक्ष्यामि विप्रेन्द्र माला पृष्टा त्वया हि या ॥ १ ॥
अनामामध्यमारभ्य कनिष्ठादित एव च ।
तर्जनीमूलपर्यन्तं दशपर्वसु सञ्जपेत् ॥ २ ॥
तर्जनी मध्यमा चेति कनिष्ठा चापि ताः क्रमात् ।
तिस्रोऽङ्गुल्यस्त्रिपर्वाः स्युर्मध्यमा चैकपर्विका ॥ ३ ॥
पूर्वद्वयं मध्यमाया मेरुत्वेनोपकल्पयेत् ।
क्रमोत्क्रमगतैर्माला मातृकार्णैः सबिन्दुकैः ॥ ४ ॥
क्षमेककैः साष्टवर्गैरन्तर्यजनकर्मणि ।
आदिकचटतपयशला इत्येवं चाष्टवर्गाः ॥ ५ ॥
पद्मबीजादिभिर्माला बहिर्यागे शृणुष्व ताः ।
रुद्राक्ष - शङ्ख - पद्माक्ष - पुत्र - जीवक - मौक्तिकैः ॥ ६ ॥
स्फाटिकैर्मणिरत्नैश्च सौवर्णैर्विद्रुमैस्तथा ।
कुशपत्रैर्द्वादश स्युर्गृहस्थस्याऽक्षमालिका ॥ ७ ॥
अङ्गुलीगणनादेकं रेखायाऽष्टगुणं भवेत् ।
पुत्रजीवैर्दशगुणं शतशङ्खैः सहस्रकम् ॥ ८ ॥
प्रवालैर्मणिरत्नैश्च दशसाहस्रकं स्मृतम् ।
तदेव स्फटिकं प्रोक्तं मौक्तिकैर्लक्षमुच्यते ॥ ९ ॥
कुशग्रन्थ्या कोटिशतं रुद्राक्षं स्यादनन्तकम् ।
तुलसीकाष्ठघटितैर्मालाभिर्जपमालिका ॥ १० ॥
सर्वकर्माणि सर्वेषामीप्सितार्थफलप्रदा ।
अष्टोत्तरशतैर्माला पञ्चाशत्तूत्तराधिकैः ॥ ११ ॥
सप्तविंशतिभिः कार्या सर्वसाधारणे जपे ।
मोक्षार्थी पञ्चविंशत्या धनार्थी र्त्रिशता जपेत् ॥ १२ ॥
पुष्ट्यर्थी पञ्चविंशत्या पञ्चदश्याभिचारके ।
मालासङ्ग्रथनं वक्ष्ये यदुक्तं ब्रह्मणा पुरा ॥ १३ ॥
गोपुच्छसदृशी माला यद्वा सर्पाकृतिर्भवेत् ।
मुखं मुखेन संयोज्य पुच्छं पुच्छेन योजयेत् ॥ १४ ॥
सूत्रं विप्रेन्द्र कन्याभिः स्त्रीभिर्वाऽपि विनिर्मितम् ।
त्रिगुणं त्रिगुणीकृत्य तदेव त्रिगुणं तथा ॥ १५ ॥
शुक्लं रक्तं तथा कृष्णं पट्टसूत्रमथापि वा ।
शान्तिवश्याभिचारेषु तथैव मारणेऽपि च ॥ १६ ॥
शुक्लं रक्तं तथा पीतं कृष्णं वर्णेषु च क्रमात् ।
सर्वेषामेव वर्णानां रक्तं सर्वेप्सितप्रदम् ॥ १७ ॥
आश्रमेषु तथाऽप्येवं रक्तं सर्वेषु सिद्धिदम् ।
फलोपचारतः कृष्णमिष्ट्वा तन्त्रानुसारतः ॥ १८ ॥
एकैकं मातृकार्णं तु शतारं प्रजपेत् सुधीः ।
मणिमादाय सूत्रेषु ग्रथनं मध्यमाग्रतः ॥ १९ ॥
मध्यग्रन्थिं विधायेत्थं मेरुं च ग्रन्थियन्त्रितम् ।
ग्रथयित्वा पुरो मालां ततः संस्कारमारभेत् ॥ २० ॥
क्षालयेत् पञ्चगव्यैस्तु सद्योजातेन सज्जलैः ।
चन्दनागरुगन्धाद्यैर्वामदेवेन घर्षयेत् ॥ २१ ॥
धूपयेत् तामघोरेण प्रीणयेत् पुरुषेण तु ।
मन्त्रयेत् पञ्चमेनैव प्रत्येकं तु सकृत् स्कृत् ॥ २२ ॥
मेरुं सकृन्मन्त्रयेच्च मनसा च शतं शतम् ।
येन प्रतिष्ठिता माला तयैव तु मनुं जपेत् ॥ २३ ॥
अन्यमन्त्रं जपेद् विद्वान् न कार्या कार्हिचिद् बुधैः ।
सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ॥ २४ ॥
भवे भवेऽनादिभवे भजस्व मां भवोद्भवम् ।
ङेन्तान्तप्रणावाद्येन नमोऽन्तेन क्रमाज्जपेत् ॥ २५ ॥
वामदेवाय नमो ज्येष्ठाय नमः रुद्राय नमः ।
कालाय नमः कलविकरणाय नमो बलप्रमथनाय ॥ २६ ॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यश्च ।
सर्वतः सर्वेभ्यो नमस्ते रुद्ररुपेभ्यः ॥ २७ ॥
तत्पुरुषाय विद्महे महादेवाय धीमहि

तन्नो रुद्रः प्रचोदयात् ॥ २८ ॥  

इशानः सर्वविद्यानामीश्वरः सर्वभूतानां
ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मणि मे शिवोऽस्तु सदाशिवोऽम् ॥
२९ ॥
प्रणवाद्यो महामन्त्रः सदाशिवमिति क्रमात् ।
संस्कृत्यैवं बुधो मालां तत्प्राणांस्तत्र योजयेत् ॥ ३० ॥
मूलमन्त्रेण तां मालां पूजयेद् द्विजसत्तमः ।
गुरुं सम्पूज्य तद्धस्तात् गृह्णीयादक्षमालिकाम् ॥ ३१ ॥
न स्पृशेद् वामहस्तेन करभ्रष्टां न कारयेत् ।
अङ्गुष्ठं मोक्षदं प्रोक्तं तर्जनी शत्रुनाशिनी ॥ ३२ ॥
मध्यमा घनसिद्धिः स्यात् शान्तिकर्मण्यनामिका ।
कनिष्ठाऽऽकर्षणे ज्ञेया जपकर्मणि सिद्धिदा ॥ ३३ ॥
अङ्गुष्ठपर्वमध्यस्थं परिवर्त्त समाचरेत् ।
पुरश्चर्यां ततः कुर्यात् स्वयमेव समाहितः ॥ ३४ ॥
गुरुणा स्वानुगेनैव तद्भ्रातृपुत्रकैस्तथा ।
सर्वासु दीक्षितेनैव पुरश्चर्यां समाचरेत् ॥ ३५ ॥

पुलस्त्य उवाच

सङ्कल्पश्च पुरश्चर्याविधानं तत्र कीदृशम् ।
तत् सर्वं कृपया नाथ सङ्क्षेपेण प्रकथ्यताम् ॥ ३६ ॥

सनत्कुमार उवाच

प्रणवं तत्सदिति च मासपक्षतिथावपि ।
अमुकोऽमुकगोत्रोऽहं मूलमुच्चार्य तत्परम् ॥ ३७ ॥
सिद्धिकामोऽस्य मन्त्रस्य इयत्सङ्ख्यं जपेत् ततः ।
दशांशं हवनं कुर्याद् दशांशं तर्पणं ततः ॥ ३८ ॥
दशांशं मार्जनं तस्माद् दशांशं विप्रभोजनम् ।
पुरश्चरंअमेवं हि करिष्ये प्रागुदङ्मुखः ॥ ३९ ॥
इति सङ्कल्प्य विप्रेन्द्र जपयज्ञादिकं चरेत् ।
मन्त्रं च प्रातरारम्भ्य जपेन्मध्यन्दिनावधि ॥ ४० ॥
इत्यादि विधिनाऽऽलब्य पुरश्चर्यां समाचरेत् ।
अथवाऽन्यप्रकारेण पुरश्चरणमुच्यते ॥ ४१ ॥
ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ।
नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः ॥ ४२ ॥
ग्रहणान्मोक्षपर्यन्तं जपेन्मन्त्रं समाहितः ।
दृष्ट्वा स्नात्वा तु सङ्कल्पप्य विमोक्षान्तं जपं चरेत् ॥ ४३ ॥
तावज्जपादिकं कुर्याद् ग्रहणान्ते शुचिः पुमान् ।
इति जापान्मन्त्रसिद्धिर्भवत्येव न संशयः ॥ ४४ ॥
श्राद्धादेरनुरोधेन यदि जापं त्यजेन्नरः ।
स भवेद् देवताद्रोही पितॄन् सप्त नयत्यधः ॥ ४५ ॥
मासकृत्यं प्रवक्ष्यामि सावधानोऽवधारय ।
कृष्णभक्तस्य सुद्ध्यर्थं यदुक्तं ब्रह्मणा पुरा ॥ ४६ ॥
तत्तत् सर्वं समासेन वक्ष्येऽहमञ्जसा शृणु ।
पूर्णीमाप्रतिपत्सन्धौ फल्गुन्यां फाल्गुने मुने ॥ ४७ ॥
राजोपचारैः सम्पूज्य दोलयेद् यो जनार्दनम् ।
अश्वमेधसहस्रस्य बाजपेयशतस्य च ॥ ४८ ॥
गोससहस्रप्रदानस्य फलं प्राप्नोति मानवः ।
दक्षिणाभिमुखं कृष्णं दोलमानञ्च सन्नरः ॥ ४९ ॥
दृष्ट्वाऽपराधनिचयैर्मुक्तास्ते नाऽत्र संशयः ।
दोलारूढस्य कृष्णस्य येऽग्रे कुर्वन्ति जागरम् ॥ ५० ॥
सर्वपुण्यफलावाप्तिं निमेषाल्लभते नरः ।
ततो विधिं प्रवक्ष्यामि यत्र यत्तु समाचरेत् ॥ ५१ ॥
पौर्णमास्यां महत्पूजा सङ्घी च दोलयेत् प्रभुः ।
त्रयोदशाक्षरेणैव अष्टादशाक्षरेण वा ॥ ५२ ॥
फल्गुन्यां च प्रकर्तव्या पूजा पूर्वोक्तवर्त्मना ।
उत्थाय मन्त्रं जप्तव्यमष्टाधिकसहस्रकम् ॥ ५३ ॥
सूत्रं चैतत् प्रकथितं विस्तरेण शृणुष्व मे ।
रेवत्यां तु वास्तुबलिं मण्डलं रचयेत् सुधीः ॥ ५४ ॥
दिक्षु ध्वजान् समारोप्य लोकपालसमप्रभान् ।
गोविन्दं फलकाधस्ताद् दोलारूढं जगत्पतिम् ॥ ५५ ॥
पूजयेद् विधिवद् भक्त्या मण्डले च समाहितः ।
ऋग्ययुःसामसूक्तैश्च मन्त्रैः पौराणिकस्तथा ॥ ५६ ॥
मन्त्रैरागमिकैश्चैव वैष्णवैः पूजयेद्धरिम् ।
तद्गुणोत्कीर्तनं चैव दिवारात्रिं नयेद् बुधः ॥ ५७ ॥
केशवाग्रे नृत्यगीतं यः करोति कलौ युगे ।
अपराधसहस्रैस्तैर्मुक्तः स्यान्नात्र संशयः ॥ ५८ ॥
कर्मान्तरं प्रवक्ष्यामि येन विष्णुः प्रसीदति ।
ब्रह्मणा कथितं पूर्वं प्रतिष्ठाविधिनिर्णयम् ॥ ५९ ॥
गृहस्य भगवद्विष्णोः सावधानोऽवधारय ।
तृणैस्तृणध्वजैश्चैव मन्दिरं निर्मितं शुचिः ॥ ६० ॥
विधिनाऽनेन यो दद्याद् विष्णवे मनुजोत्तमः ।
कोट्यब्दशतसङ्ख्यानि विष्णुलोके भवेद्ध्रुवम् ॥ ६१ ॥
मन्दिरं दारवं चित्रं वासुदेवाय यो ददेत् ।
युगानामयुतं तत्र निवसेत् सत्यमीरितम् ॥ ६२ ॥
इष्टकैर्विविधैश्चित्रं वासुदेवाय यो जनः ।
तत्रानुसङ्ख्यकान् कल्पान् विष्णुलोके वसेत् सदा ॥ ६३ ॥
पाषाणैर्मन्दिरं चित्रं वासुदेवाय यो नरः ।
प्रदद्यात् विधिवद् भक्त्या प्रोक्तं शतगुणं ततः ॥ ६४ ॥

पुलस्त्य उवाच

केन वा विधिना नाथ प्रदद्यान्मन्दिरं बुधः
मोक्षप्रदाय कृष्णाय क्रमशः कथ्यां प्रभो ॥ ६५ ॥

सनत्कुमार उवाच

आदौ वास्तुबलिं दत्त्वा लोकेशाऽनुध्वजेषु च ।
उक्तवर्णेषु गन्धाद्यैर्मूलपारिषदान्वितान् ॥ ६६ ॥
हेतिजात्यधिपोपेतान् पूर्वादिक्क्रमतो यजेत् ।
वज्रादीन तन्त्रकुम्भेषु गन्धाद्यैस्तत्क्रमाद् यजेत् ॥ ६७ ॥
तत्तन्मण्डपतः पूर्वे यागमन्दिरमाचरेत् ।
तत्रिभागमिते क्षेत्रेऽरत्निमात्रसमुन्नताम् ॥ ६८ ॥
वेदिं कृत्वा तु तत्रैव सर्वतोभद्रमालिखेत् ।
प्रधानमन्दिरे चापि सर्वतोभद्रमण्डलम् ॥ ६९ ॥
विधाय पूजयेत् तत्र तोरणेषु समाहितः ।
जयं च विजयं चैव विघ्नेशं क्षेत्रनायकम् ॥ ७० ॥
गङ्गा च यमुनां चैव महालक्ष्मीं सरस्वतीम् ।
पूर्वदिक्क्रमतो युग्मं क्रम्शो गन्धपूर्वकैः ॥ ७१ ॥
सम्पूज्य विधिवद् भक्त्या गन्धपुष्पैश्च धूपकैः ।
ततो गृहं प्रविश्याऽथ वास्त्वीशमजमर्चयेत् ॥ ७२ ॥
पञ्चगव्याऽर्घ्यतोयाभ्यां प्रोक्षयेन्मण्डलं ततः ।
निरस्य विघ्नान् तत्रैव बद्धपद्मासनो भवेत् ॥ ७३ ॥
पूर्वोक्तेनैव विधिना भूतशुद्ध्यादिकं चरेत् ।
अर्घ्यपात्रं ततः कृत्वा मण्डले पीठमर्चयेत् ॥ ७४ ॥
प्रतिमां वासुदेवाख्यां तत्र संस्थापयेद् बुधः ।
गृत्पद्मे देवमाराध्य गन्धाद्यैर्मानसैर्यजेत् ॥ ७५ ॥
करस्थकुसुमे तेजः समानीय श्वासमार्गतः ।
मूर्तौ तस्यां ससारोप्य तत् तेजोमूलमन्त्रतः ॥ ७६ ॥
हृदये करमादाय जीवन्यासं समाचरेत् ।
मायापाशाङ्कुशाद्यन्ता यादीन् सप्तसबिन्दुकान् ॥ ७७ ॥
वियत्सत्येन्दुसंयुक्तं समस्तेऽहं समुच्चरेत् ।
तस्य प्राणा इह प्राणाः पुनर्जीव इह स्थितः ॥ ७८ ॥
पुनरुच्चार्य तस्यैव सर्वेन्द्रियाणि प्नर्वदेत् ।
तस्यापि वाङ्मनश्चक्षुःश्रोत्रघ्राणपदान्यथ ॥ ७९ ॥
प्राणा इहाऽऽगत्य सुखं चिरं तिष्ठन्तु ठद्वयम् ।
इति प्राणान् प्रतिष्ठाप्य देवमावाह्य पूर्वत् ।
करकच्छपिकां कृत्वा ततो ध्यायेदनन्यधीः ॥ ८० ॥
विष्णुं शारदकोटिचन्द्रसदृशं शङ्खं रथाङ्गं गदा -
मम्भोजन्धतं सिताब्जनिलयं कान्त्या जगन्मोहनम् ।
आबद्धाङ्गदहारकुण्डलमहामौलिं स्फुरत्कङ्कणं
श्रीवत्साङ्कमुदारकौस्तुभधरं वन्दे मुनीन्द्रैः स्तुतम् ॥ ८१ ॥
इति ध्यात्वा जपेन्मन्त्रं राजोपचारवत् सुधीः ।
तारोहृद्भगवान् डेन्तो वासुदेवाय तत्परम् ॥ ८२ ॥
सर्वेषु विष्णुमन्त्रेषु प्रधानमनुरीरितः ।
मनुनाऽनेन तत्सर्वानासनादीन् प्रदापयेत् ॥ ८३ ॥
आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
मधुपर्काऽऽचमनंस्नानं वसनाऽऽभरणानि च ॥ ८४ ॥
गन्धपुष्पधूपदीपनैवेद्याचमनं तथा ।
प्रदक्षिणं नमस्कारो विसर्गश्चैव षोडश ॥ ८५ ॥
छायामण्डलमागत्य मण्डले पूर्ववद्धरिम् ।
अभ्यर्च्य जुहुयाद् वन्हौ संस्कृते पूर्ववर्त्मना ॥ ८६ ॥
शतमष्टोत्तरं हुत्वा मनुनाऽनेन वैष्णवः ।
पुनर्यजेद् देवताग्रे ततः पारिषदान् यजेत् ॥ ८७ ॥
प्रथमाऽऽवृत्तिरङ्गैः स्याद् वासुदेवादिभिः परा ।
शान्त्यादिशक्तिसहितैः परा द्वादशमूर्तिभिः ॥ ८८ ॥
चतुर्थी सुरनाथाद्यैर्वज्राद्यैः पञ्चमी मता ।
एवं सम्पूजितो विष्णुः प्रसीदत्येव सत्वरम् ॥ ८९ ॥
तारेण हृदयं प्रोक्तं नमसा शिर ईरितम् ।
चतुर्वर्णैः शिखा प्रोक्ता पञ्चार्णैः कवचं मतम् ॥ ९० ॥
समस्तेन भवेदस्त्रमङ्गकल्पनमीरितम् ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चाऽनिरुद्धकः ॥ ९१ ॥
शङ्खचक्रगदाम्भोजधरा एते चतुर्भुजाः ।
ततश्च मन्दिरं दद्यान्मनुनाऽनेन मानवः ॥ ९२ ॥
पुण्यात्मा वैष्णवश्रेष्ठः स देवो न तु मानवः ।
कृत्वैवं कृतकृत्यः स्यात् सत्यं सत्यं न संशयः ॥ ९३ ॥
ऋग्यजुःसामसूक्तैश्च स्मार्तैः पौराणिकैरपि ।
मन्त्रैरागमिकैश्चैव वैष्णवैः कीर्तयेद्धाम् ॥ ९४ ॥
दर्पणं चामरं छत्रं व्यञ्जनं च पृथक् पृथक् ।
दत्त्वा च मनुनाऽनेन प्राणायामं ततश्चरेत् ॥ ९५ ॥
शतमष्टोत्तरं जप्त्वा पूर्णां दद्यात् ततः परम् ।
गायत्र्या मूलमन्त्रेण स्वाहान्तेन द्विजोत्तमः ॥ ९६ ॥
पूर्णागुतिं ततः कृत्वा विसर्जनमतः परम् ।
ऋत्विग्भ्यो दक्षिणां दत्त्वा भोजयेच्च द्विजोत्तमान् ॥ ९७ ॥
एवं कृत्वा तु पुण्यात्मा साक्षान्नारायणो भवेत् ।
गृहादीनां च दानेषु ब्राह्मःअः क्षत्रीयस्तथा ।
वैश्यश्च पादजश्चैव सर्वेऽप्यत्राऽधिकारिणः ॥ ९८ ॥
॥ इति सनत्कुमारीये मालानिर्णयो नाम दशमः पटलः ॥ १० ॥