०८

अथाष्टमः पटलः

अथ प्रयोगान् वक्ष्यामि यथावदवधारय ।
लक्ष्मीप्रसूनैर्जुहुयात् श्रियमिच्छन्ननिन्दिताम् ॥ १ ॥
साज्येनाऽन्नेन जुहुयाद् आज्यान्नस्य समृद्धये ।
आरण्यैः कुसुमैर्विप्रान् जातिभिः पृथिवीपतीन् ॥ २ ॥
चम्पकैश्च सितोपेतैर्वैश्यांश्च कमलैः शुभैः ।
शूद्रांश्च वशयेन्मन्त्री त्रिमध्वक्तैर्यथाक्रमात् ॥ ३ ॥
एवं हुत्वा द्विजश्रेष्ठः सर्वान् कामानवाप्नुयात् ।
ततो भक्त्या श्यामलाङ्गं प्रसन्नं गोकुलश्रियम् ॥ ४ ॥
शिशुवेषधरं देवं किङ्किणीदाममण्डितम् ।
स्मृत्वा तं तर्पयेन्मन्त्री दुग्धबुद्ध्या शुभैर्जलैः ॥ ५ ॥
धनधान्यांशुकादीनि प्रीतस्तस्मै ददाति सः ।
मालती कुसुमैर्देवमर्चयित्वा यथाविधि ॥ ६ ॥
आयुरारोग्यमैश्वर्यं मनोऽभीष्टानि विन्दति ।
काशप्रसूनैर्जुहुयादष्टोत्तरसहस्रकम् ॥ ७ ॥
नाममात्रेण वशगास्तस्य स्युः सकला नृपाः ।
हुत्वा बिल्वफलैः पक्वैः श्रियमाप्नोत्थनिन्दिताम् ॥ ८ ॥
प्रफुल्लैररुणाम्भोजैस्तामेव लभते पुनः ।
हुत्वा ज्योतिष्मतीतैलं सहस्रं बहुसङ्ख्यया ॥ ९ ॥
सुभगो जायते सम्यक् सर्वेषां नाऽत्र संशयः ।
विधानेनाऽमुना मन्त्री महारोगात् प्रमुच्यते ॥ १० ॥
अश्वत्थसमिधैर्होमः पराहृतधनावहः ।
आज्याक्तदूर्वाहोमेन मुच्यते महतो भयात् ॥ ११ ॥
यस्य नामयुतं पुण्यं जपेदयुतसङ्ख्यया ।
स भवेद् दासवत् तस्य नात्र कार्या विचारणा ॥ १२ ॥
बहुनाऽत्र किमुक्तेन मनुना साधकोत्तमः ।
साधयेदखिलान् कामान् साक्षाद् विष्णुरिवाऽपरः ॥ १३ ॥
अपुत्रो द्वादशीं प्राप्य पूजयित्वा जगद्गुरुम् ।
देवकीसुत गोविन्द वासुदेव जगत्पते ॥ १४ ॥
देहि मे तनयं देव त्वामहं शरणं गतः ।
इति स्तुत्वा विधानेन पूजयेदावृतिगणान् ॥ १५ ॥
आदावङ्गावृतीः पूज्या दामादि तदनन्तरम् ।
दिक्षु दामसुदामौ च वसुदामश्च किङ्किणी ॥ १६ ॥
रुक्मिण्याद्यष्टमहिषीर्दलेषु पूजयेत् ततः ।
दक्षिणकरधृतकमलारसपूरितमुद्रि तान्यकराः ॥ १७ ॥
रुक्मिण्याख्या तथा सत्या नागजित्या सुनन्दा च ।
मित्तविन्धा सुलक्षणा ऋक्षजा सुशीला तथा ॥ १८ ॥
ततो यजेद् दलाग्रेषु वसुदेवं च देवकीम् ।
नन्दगोपं यशोदां च बलभद्रं सुभद्रिकाम् ॥ १९ ॥
गोपा गोप्यश्च सम्पूज्याश्चित्रमाल्यानुलेपनाः ।
यथाविधि इमाः पूज्या ब्रह्माद्यास्तदनन्तरम् ॥ २० ॥
इन्द्राद्याः पूजनीयाश्च वज्राद्यास्तदनन्तरम् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवीति च ॥ २१ ॥
वराही च तथेन्द्राणी चामुण्डा सप्तमी तथा ।
अष्टमी स्यान्महालक्ष्मीः प्रोक्ताः स्युर्विश्वमातरः ॥ २२ ॥
इन्द्रादीन् पूजयेद् बाह्ये जातिहेतिसशक्तिकान् ।
वज्रं शक्तिं च दण्डं च खड्गं पाशं तथाऽङ्कुशम् ॥ २३ ॥
गदां शूलं च चक्रं च पद्मं तत्रैव पूजयेत् ।
नैवेद्यं विधिवद् दत्वा देवं ध्यात्वा जपेत् सुधीः ॥ २४ ॥
स्तुत्वा प्रणम्य शिरसा जलेनाऽऽत्मानमर्पयेत् ।
इतः पूर्वं पदं दत्त्वा प्राणबुद्धिपदं ततः ॥ २५ ॥
देहधर्माधिकारतो जाग्रत्स्वप्नपदान्यथ ।
सुषुप्त्यवस्थासु मनसा वाचा कर्मणा तथा ॥ २६ ॥
हस्ताभ्यां च यथा पद्भ्यामुदरेण पदं तथा ।
शिश्ना च यत् स्मृतं चैव यदुक्तं यत् कृतं तथा ॥ २७ ॥
तत् सर्वं ब्रह्मार्पणमतो भवतु वह्निसुन्दरी ।
मां मदीयं च सकलं हरये सम्यक् समर्पयेत् ॥ २८ ॥
ॐ तत्सदिति च प्रोक्तो मन्त्रः स्वात्मसमर्पणे ।
प्रत्यहं पूजयेद् देवं षोडशैरुपचारकैः ॥ २९ ॥
तदशक्तौ तु पूजा स्याद् देशोपचारिकी तथा ।
तदशक्तौ पञ्चभिस्तु पूजा स्यादुपचारकैः ॥ ३० ॥
आसनं स्वागतं चैव पाद्यादिपञ्चकं तथा ।
स्नानं वासो भूषणं च गन्धपुष्पं च धूपकम् ॥ ३१ ॥
प्रदीपं चैव नैवेद्यं पुष्पाञ्जलिरतः परम् ।
गन्धादयो नैवेद्यान्ता पूजा पञ्चोपचारिका ॥ ३२ ॥
अर्घ्याद्याः पञ्च पञ्चैव गन्धाद्या इति भेदतः ।
नमस्कृत्य षडङ्गं च पञ्चाङ्गं च विधानतः ॥ ३३ ॥
देवं विसृज्य हृदये विष्वक्सेनं समर्चयेत् ।
दण्डवत् प्रणिपत्याऽथ गण्डाभ्यां चिबुकेन च ॥ ३४ ॥
नासया च कपालेन मनसा वचसा तथा ।
साष्टाङ्गकः प्रणामः स्यात् हरेः प्रीतिप्रदायकः ॥ ३५ ॥
एतत् सर्वं मयाऽऽख्यातं क्रमेण व्युत्क्रमेण च ।
कथितं यन्न कथितं तत् सर्वं क्रमतः शृणु ॥ ३६ ॥
प्रातः कृत्यमनुप्रदाय विनतिः स्नानं स्वसन्ध्यात्मकं
सङ्कल्पान्तकभूतशूधिसकलामालामयं न्यासनम् ।
अन्तर्यागविधिर्बहिर्यजनकं शङ्खादिसंस्थापनं
पिठस्याऽर्चनमङ्गदेवयजनं प्राणप्रतिष्ठा ततः ॥ ३७ ॥
आह्वानं निजमुद्रिकाविरचनं ध्यानं प्रभोः पूजनं
वृत्याऽऽराधनधूपदीपवरनैवेद्यं जपो गुह्यतः ।
जापस्याऽर्पणवायुधारणमतः स्वात्मार्पणं संस्तुति-
र्लभ्यन्ते च विसर्जनं मुररिपोः पूजाक्रमः कीर्तितः ॥ ३८ ॥
सूत्रं चैतत् प्रकथितमनेनाऽऽराधयेदच्युतम् ।
इति नारायणेनैव सूत्रं प्रकथितं पुरा ॥ ३९ ॥
ब्रह्मणे ब्रह्मणा पूर्वं मयि स्नेहात् प्रकाशितम् ।
पुलस्त्यविधिनाऽनेन मया कृष्ण उपासितः ॥ ४० ॥
॥ इति सनत्कुमारीये पूजाविधानं नामाऽष्टमः पटलः ॥ ८ ॥