०७

अथ सप्तमः पटलः

क्रमात् पूजाविधिं वक्ष्ये यथावदवधारय ।
नारदोऽस्य ऋषिः प्रोक्तो गायत्रीच्छन्द ईरितम् ॥ १ ॥
देवता कथितः कृष्णः सर्वकामफलप्रदः ।
चतुष्करणवेदाद्धि नेत्रयुग्माक्षरैः क्रमात् ॥ २ ॥
पञ्चाङ्गानि मनोः कुर्यात् मन्त्रविन्नेत्रवर्जितम् ।
अन्येषामपि मन्त्राणां ऋष्याद्याः पूर्वदेवताः ॥ ३ ॥
अङ्गानि कामबीजेन सनेत्रं दीर्घयुक्तकैः ।
दशाक्षरे विराट् छन्द आचक्राद्यैश्च पञ्चकम् ॥ ४ ॥
पूर्वप्रोक्तानि कर्माणि न्यासादीनि विधानतः ।
कुर्याच्छुद्धमतिर्धीमान् ध्यानमेवं जगत्पतेः ॥ ५ ॥
स्मरेद् वृन्दावने रम्ये मोहयन्तमनारतम् ।
गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः ॥ ६ ॥
आत्मनो वदनाम्भोजे प्रेरिताक्षिमधुव्रताः ।
पिडिताः कामबाणेन चिरमाश्लेषणोत्सुकाः ॥ ७ ॥
मुक्ताहारलसत्पीनतुङ्गस्तनभरानताः ।
स्रस्तधम्मिल्लवसना मदस्खलितभूषणा ॥ ८ ॥
दन्तपङ्क्तिप्रभोद्भासिस्पन्दमालाधराञ्चिताः ।
विलोकयन्तीर्विविधैर्विभ्रमैर्भावगर्वितैः ॥ ९ ॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुनादनपरं दिव्याङ्गभूषं भजे ॥ १० ॥
एवं ध्यात्वा जपेल्लक्षं पञ्च चाऽष्टादशाक्षरम् ।
अन्येषां लक्षमेकं च दशलक्षं दशार्णकम् ॥ ११ ॥
पूर्वसेवां पुरा कुर्यात् पूर्वोक्तविधिना स्मृतः ।
बालगोपालमन्त्राणां ध्यानं शृणु यथाविधि ॥ १२ ॥
नवीननीरदश्यामं पक्वबिम्बाधरं विभुम् ।
नवनीतं पायसं च धारयन्तं करद्वये ॥ १३ ॥
होमश्चैव तथा कार्यो जपस्यैव दशांशतः ।
सर्पिषा नवनीतेन दध्ना वा पायसेन वा ॥ १४ ॥
मल्लिका - मालती - पुष्पैः शुक्लपद्मेन चैव हि ।
तर्पणं तद्दशांशेन विशुद्धेन जलेन वा ॥ १५ ॥
गन्धपुष्पाक्षतैर्युक्तमभिषेकं च मस्तके ।
ब्राह्मणान् भोजयेच्चैव दशांशक्रमयोगतः ॥ १६ ॥
यद् यदङ्गं भवेद् भङ्गं तत्सङ्ख्याद्विगुणो जपः ।
होमाशक्तौ जपः प्रोक्तो होमसङ्ख्याचतुर्गुणः ॥ १७ ॥
विप्राणां क्षत्रियाणां च रससङ्ख्यागुणः स्मृतः ।
वैश्यानां वसुसङ्ख्याकमेषां स्त्रीणामयं विधिः ॥ १८ ॥
यं वर्णमाश्रितः शूद्रः स च तस्य विधिं चरेत् ।
वैश्याश्रितस्य शूद्रस्य दशसङ्ख्यागुणः स्मृतः ॥ १९ ॥
होमार्थोऽयं विधिः प्रोक्तस्तर्पणेऽपि निबोधत ।
तर्पणे द्विगुणं प्रोक्तं शक्तौ च सर्वसाधनम् ॥ २० ॥
॥ इति सनत्कुमारीये जपहोमादिनिर्णयः सप्तमः पटलः ॥ ७ ॥