अथ षष्ठः पटलः
कृष्णाय पदमाभाष्य गोविन्दाय ततः परम् ।
गोपीजनपदस्याऽन्ते वल्लभाय द्विठावधिः ॥ १ ॥
कामबीजादिराख्यातो मनुरष्टादशाक्षरः ।
अष्टादशार्णसंयुक्त उक्तो मन्त्रो यथाविधि ॥ २ ॥
शक्तिश्रीपूर्वकोऽष्टादशार्णो विंशतिवर्णकः ।
स्मरः कृष्णाय ठद्वन्द्वं षड्वर्णो मनुरीरितः ॥ ३ ॥
प्रणवं हृदयं कृष्णं डेऽन्तमुक्त्वा ततः परम् ।
तादृशं देवकीपुत्रं हुँफट् - स्वाहासमन्वितम् ॥ ४ ॥
षोडशाक्षरमन्त्रोऽयं गोविन्दस्य समीरितः ।
श्रीमन्मुकुन्दचरणं यदेति शरणं ततः ॥ ५ ॥
अहं प्रसन्न इत्युक्तो मौकुन्दोऽष्टादशाक्षरः ।
पञ्चान्तको धरासंस्थो मनुर्बिन्दुविभूषितः ॥ ६ ॥
पिण्डबीजमिदं प्रोक्तं सर्वसिद्धिप्रदायकम् ।
पिण्डं रतिपतेर्बीजं नमो भगवते ततः ॥ ७ ॥
नन्दपुत्राय बालादिवपुषे श्यामलाय च ।
गोपीजनपदस्यान्ते वल्लभाय द्विठावधिः ॥ ८ ॥
अनुष्टुब् मन्त्र आख्यातो गोपालस्य जगत्पतेः ।
गोपालायाऽग्निजायान्तः षडक्षर उदाहृतः ॥ ९ ॥
कृष्णगोविन्दकौ डेन्तौ सप्तवर्णो मनुर्मतः ।
श्रीशक्तिमाराः कृष्णाय मारः सप्ताक्षरः परः ॥ १० ॥
क्लीं ग्लौं श्रीं श्यामलाङ्गाय नतिः स्याद् दशवर्णकः ।
चक्री वामनसर्गौ च मनुरेकाक्षरः स्मृतः ॥ ११ ॥
काममिन्द्रश्च माया च लवलाञ्छितमस्तकः ।
एकवर्णो मनुः प्रोक्तः काममन्त्रः पुरोदितः ॥ १२ ॥
एतत् सर्वं हृषीकेशं चतुर्थ्यन्तं नमःपदम् ।
अष्टवर्णो मनुः प्रोक्तः सर्वेषां हृदयस्थितः ॥ १३ ॥
वाग्भवं कामबीजं च कृष्णाय सुरसुन्दरी ।
गोविन्दं ङेयुतं चैव रमाबीजमनन्तरम् ॥ १४ ॥
दशाक्षरं ततः पश्चात् स्वबीजं तदनन्तरम् ।
द्वाविंशत्यक्षरो मन्त्रः सर्वसिद्धिप्रदायकः ॥ १५ ॥
कामं मायां च लक्ष्मीं च दशार्णं च ततः परम् ।
त्रयोदशार्णमन्त्रोऽयं प्रोक्तः सर्वसमृद्धिदः ॥ १६ ॥
कामं लक्ष्मीं च मायां च जयकृष्णपदद्वयम् ।
मायां लक्ष्मीं तथा कामं जयं देहि पदद्वयम् ॥ १७ ॥
चतुर्विंशत्यक्षरात्मा स्वाहान्तो मनुरीरितः ।
कामं पिण्डं तथा लक्ष्मीं गोपालाय ततः परम् ॥ १८ ॥
लक्ष्मीं पिण्डं तथा कामं गोविन्दाय पदं तथा ।
कामपिण्डं तथा लक्ष्मीं स्वाहान्तः प्रणवादिकः ॥ १९ ॥
॥ इति सनत्कुमारीये षष्ठः पटलः ॥ ६ ॥